प्रकृतिं स्वामवष्टभ्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(९.८ प्रकृतिं स्वामवं.... इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः[सम्पादयतु]

गीतोपदेशः
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य अष्टमः(८) श्लोकः ।

पदच्छेदः[सम्पादयतु]

प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेः वशात् ॥ ८ ॥

अन्वयः[सम्पादयतु]

स्वां प्रकृतिम् अवष्टभ्य प्रकृतेः वशात् अवशम् इमं कृत्स्नं भूतग्रामं पुनः पुनः विसृजामि ।

शब्दार्थः[सम्पादयतु]

स्वाम् = स्वकीयाम्
प्रकृतिम् = शक्तिम्
अवष्टभ्य = अवलम्ब्य
प्रकृतेः वशात् = स्वभाववशात्
अवशम् = कर्मपरतन्त्रम्
इमम् = अमुम्
कृत्स्नम् = सर्वम्
भूतग्रामम् = भूतसमुदायम्
पुनः पुनः = भूयो भूयः
विसृजामि = उत्पादयामि ।

अर्थः[सम्पादयतु]

यावन्ति भूतानि कल्पक्षये प्रकृतौ लीनानि सन्ति कल्पादौ तु तामेव प्रकृतिम् अधिाय तान्येव सर्वाणि भूतानि पुनः सृजामि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]