ऐर्लेण्ड् गणराज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(आयर्लैंड इत्यस्मात् पुनर्निर्दिष्टम्)

फलकम्:ज्ञानसन्दूक देश

ऐर्लेण्ड्देशस्य भौतिकलक्षणानि

युरोपखण्डे वायव्यदिशि विद्यमानः कश्चन द्वीपः ऐर्लेण्ड् । युरोपे विद्यमानः तृतीयः बृहत्तमः द्वीपः अयम् । भूमौ विद्यमानेषु बृहत्तमेषु द्वीपेषु विंशतितमः अस्ति । अस्य देशस्य पूर्वदिशि ग्रेट् ब्रिटन्नामकः महान् द्वीपः विद्यते । एतयोः द्वीपयोः मध्ये ऐरिश्-समुद्रः विद्यते ।

अस्य द्विपस्य पादोनपरिमितः भागः स्वतन्त्रेण विद्यते । अस्य नाम रिपब्लिक् आफ् ऐर्लेण्ड् (Republic of Ireland) इति । अवशिष्टः भागः इङ्ग्लेण्ड्देशस्य अधिकारे अस्ति । अस्य नाम उत्तर-ऐर्लेण्ड् (Northern Ireland) इति । १९२३-१९९० वर्षपर्यन्तम् एतयोः द्वयोः द्वीपयोः मध्ये स्वातन्त्र्यविषये कोलाहलाः सञ्जाताः । १९२३ तमात् वर्षतः प्राक् अयं द्वीपः इङ्ग्लेण्ड्-देशस्य स्वाधीने आसीत् । प्रायः ६०० वर्षाणि ते शासनं कृतवन्तः। अस्माकं भाग्यवशात् १९९० तमस्य वर्षस्य अनन्तरं शान्तिप्रक्रियया कोलहलस्य अन्त्यं जातम् ।

प्रायः देशेस्मिन् ६४लक्षपरिमिता जनसङ्ख्या वर्तते । ४६ लक्षजनाः स्वतन्त्र-ऐर्लन्देशे निवसन्ति । अन्ये १८ लक्षजनाः उत्तर-ऐर्लन्देशे निवसन्ति । एतावत् ऐर्लन्देशस्य संक्षेप परिचयः।

भौगोलिकपरिचयः[सम्पादयतु]

स्थानम् - उत्तरयुरोप् अथवा पश्चिमयुरोप्

क्षेत्रविस्तारः - ८१,६३८.१ चतुरस्रकिलोमीटर्मितम्

क्षेत्रस्तरः - २०

समुद्रतीरप्रदेशः - २,७९७ चतुरस्रकिलोमीटर्मितम्

उन्नतः पर्वतः - १,०४१ मीटर्मितम् नाम क्यारण्टूल् (Carrauntoohil)

राजधानी - डब्लिन्

ऐर्लेण्ड्देशे १२ शतके विद्यमानस्य प्रासादस्य अवशेषः

इतिहासः[सम्पादयतु]

न्यूग्रेञ्ज् (Newgrange) नाम पुरातनभवनम् । इदं तु कण्टि मीथ् (County Meath) नामके प्रदेशे अस्ति । क्रि पू ३,२०० मध्ये इदं पर्वतं निर्माणं कृतवन्तः। अस्य पर्वतस्य अन्तः वर्षे एकवारं सूर्यरश्मीनाम् अन्तःप्रवेशो भवति । तदपि शैत्यकाले डिसेम्बेर्मासस्य २१ तमे दिनाङ्के केवलम् तासां रश्मीनां प्रवेशो भवति। ताः रश्मयः अन्तःप्रदेशं सम्पूर्णं प्रज्वालयन्ति ।

बुक् आफ् केल्स् (Book of Kells) नाम पुरातनपुस्तकं विद्यते। अस्य ग्रन्थस्य कर्ता नास्ति । परन्तु बहवः साधवः इदं पुस्तकं रचितवन्तः । एषः ग्रन्थः प्रायः ६-९ शतमानयोः मध्ये रचितः स्यात् । इदं पुस्तकं बैबेल् सम्बद्धं विद्यते पुनश्च अभिरक्षितार्थाः सन्ति ।

बाह्यशृङ्खला[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ऐर्लेण्ड्_गणराज्यम्&oldid=409124" इत्यस्माद् प्रतिप्राप्तम्