सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शास्त्रीयलेखाः

आकाशमानचित्रम्

ज्योतिषशास्त्रम् यथा शिखा मयूराणां नागानां मणयो यथा। तद्वद्वेदाङ्गशास्त्राणां ज्योतिषं मूर्ध्नि संस्थितम् ॥ इदं कालविज्ञापकं शास्त्रम्। मुहूर्त्तं शोधयित्वा क्रियमाणा यज्ञादिक्रियाविशेषाः फलाय कल्पन्ते, नान्यथा, तन्मुहूर्त्तज्ञानञ्च ज्यौतिषायत्तमतोऽस्य ज्यौतिषशास्रस्य वेदाङ्गत्वं स्वीकृतम्। उक्तञ्चायमर्थ आर्चज्योतिषे, यथा –

वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः।
तस्मादिदं कालविधानशास्त्रं यो ज्यौतिषं वेद स वेद यज्ञान् ॥ (आर्चज्यौतिषम् ३६)

चतुर्णामपि वेदानां पृथक् पृथक् ज्यौतिषशास्त्रमासीत्, तेषु सामवेदस्य ज्यौतिषशास्त्रं नोपलभ्यते, त्रयाणामितरेषां वेदानां ज्यौतिषाण्यवाप्यन्ते। (अधिकवाचनाय »)



आधुनिकलेखः

भारतस्य राष्ट्रपतिः

भारतस्य राष्ट्रपतिः भारतस्य प्रप्रथमः नागरिकः। राष्ट्रपतिपदं भारतगणराज्यस्य सर्वोत्कृष्टं, सम्मानितं च पदमस्ति। भारतीयशस्त्रसेनानां (भूसेना-नौसेना-वायुसेनानां) प्रमुखः सेनापतिरपि राष्ट्रपतिः एव। देहल्यां स्थिते राष्ट्रपतिभवने राष्ट्रपतिपदारूढस्य निवासः भवति। तस्य राष्ट्रपतिभवनस्य अपरे नामनी 'वायस् रीगल हाऊस्', 'रायसीना हिल' इति। एकस्याः व्यक्तेः राष्ट्रपतित्वेन अधिकाधिकं द्विवारमेव चयनं भवितुम् अर्हति। एतावत् पर्यन्तं प्रप्रथमः राष्ट्रपतिः डा. राजेन्द्र प्रसाद एव वारद्वयं राष्ट्रपतित्वेन कार्यम् अकरोत्। (अधिकवाचनाय »)




ज्ञायते किं भवता?

जम्बूद्वीपस्थस्य भारतवर्षस्य भारतस्य पर्वताः कति ? ते के ?

सप्त कुलपर्वता: । ते च -
  1. महेन्द्रः
  2. मलयः
  3. सह्यः
  4. हिमालयः
  5. रैवतकः
  6. विन्ध्यः
  7. अरावली



वार्ताः

संस्कृतवार्ताः
संस्कृतविकिपीडिया
  • उत्तराखण्ड-राज्ये संस्कृत-आयोगस्य स्थापना

​22 जुलाई 2026 तमे दिनाङ्के उत्तराखण्ड-राज्य-सर्वकारेण संस्कृत-भाषायाः प्रवर्धनाय 'संस्कृत-आयोगः' इति स्थापयितुं निर्णयः कृतः। अस्य आयोगस्य उद्देश्यं संस्कृत-शिक्षणस्य, अनुसन्धानस्य, प्राचीन-पाण्डुलिपीनां डिजिटल-करणस्य, भारतीय-ज्ञान-परम्परायाः तथा च एआई-क्षेत्रे संस्कृतस्य उपयोगस्य वर्धनम् अस्ति। मुख्यमन्त्रिणा पुष्कर-सिंह-धामिना 10 अगस्त 2026 पर्यन्तं विदूषां परामर्शः आहूतः।

​* प्रधानमन्त्रिणा एक्स-मञ्चे संस्कृत-सुभाषितं प्रेषितम्

​21 जुलाई 2026 तमे दिनाङ्के भारतस्य प्रधानमन्त्रिणा नरेन्द्र-मोदिना एक्स-मञ्चे एकं संस्कृत-सुभाषितं प्रकाशितम्। अत्र तेन एकाग्रतायाः सङ्कल्प-शक्तेः च महत्त्वं प्रतिपादितम्। "एकाग्रताथ सङ्कल्पः स्नायुवद् वर्द्धनक्षमौ। नित्याभ्यासप्रयोगाभ्यामधिकाधिकमृध्यतः॥" इति श्लोकम् उद्धृत्य तेन स्पष्टं कृतं यत् निरन्तराभ्यासेन एव मनुष्यस्य सङ्कल्प-शक्तिः वर्धते।

​* अस्ट्रेलियादेशस्य एडिलेड-नगरे पैसिफिक-संस्कृत-सम्मेलनम्

​20 जुलाई 2026 तमे दिनाङ्के अस्ट्रेलियादेशस्य एडिलेड-नगरे बीएपीएस श्रीसहजानन्दस्वामिमन्दिरे पञ्चदिवसीयं पैसिफिक-संस्कृत-सम्मेलनम् आयोजितम्। अस्मिन् सम्मेलने अस्ट्रेलिया-न्यूजीलैंड-देशाभ्यां सार्धत्रिशताधिकैः प्रतिनिधिभिः सहभागिता कृता, येषु 292 छात्राः आसन्। अत्र बीएपीएस सहजानन्दस्वामि-अनुसन्धान-संस्थानेन प्रचालितानाम् अन्तर्जालीय-संस्कृत-पाठ्यक्रमाणां महत्त्वं प्रदर्शितम् अस्ति। अनेन सम्मेलनेन संस्कृत-भाषायाः प्रसारः सञ्जातः।

अद्यतनं सुभाषितम्

अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः।
तस्यापि सर्वभूतेभ्यो न भयं विद्यते क्वचित् ॥

विष्णुपुराणम् ३/९/३१

मुनिः सर्वदा सर्वेषां विषये उत्तमम् एव चिन्तयन् अभयप्रदानं कुर्वन् सञ्चरति। तस्य अन्यस्मात् कस्मात् अपि भयं न भवति। यत् भावयति तत् भवति। वयम् अन्येषां विषये यथा भावयामः यथा व्ययहरामः तथैव ते अपि अस्माकं विषये भावयन्ति व्यवहरन्ति च।


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्