मुख्यपृष्ठम्
जाले तव स्वागतम् अस्ति।
एषः कश्चन मुक्तः ज्ञानकोशः,
यस्मिन् कोऽपि सम्पादनं कर्तुं शक्नोति।
संस्कृते १२,४९१ लेखाः सन्ति।

केनोपनिषत् प्राचीनासु दशसु उपनिषत्सु अन्यतमा। अस्यां ३४ मन्त्राः विद्यन्ते। अस्याः उपनिषदः प्रमुखः विषयः भवति ब्रह्मविद्या। परब्रह्मस्वरूपः परमात्मा इन्द्रियातीतः, सः एव सर्वप्रेरकः इत्ययं विषयः समीचीनतया वर्णितः वर्तते। ब्रह्मज्ञानिनः लक्षणानि कानि इत्येतं विषयं मनोरञ्जकरीत्या विरोधाभासयुक्तैः वचनैः वर्णितवन्तः सन्ति। कापि देवता न स्वतन्त्रा, सर्वाः देवताः परब्रह्मणा प्रेरिताः इत्ययं सिद्धान्तः अत्र प्रदर्शितः अस्ति। 'एकं सद्विप्रा बहुधा वदन्ति' इत्यस्य वा 'एकमेवाद्वितीयम्' इत्यस्य श्रुतिवाक्यस्य मनोहरं व्याख्यानरूपं वर्तते केनोपनिषत्। परमसत्यम् एकमेव विद्यते, तच्च अतीन्द्रियं विद्यते इत्येतत् तत्त्वद्वयमेव अत्र कविभिः चर्चितः प्रमुखः विषयः। (अधिकवाचनाय »)

अष्टाङ्गयोगः अर्थात् योगस्य अष्टानाम् अङ्गानां समूहः। पातञ्जलयोगसूत्रे उ्ल्लेखः वर्तते यत्, यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोsष्टाङ्गानि।।२.२९।। इति। अनेन सूत्रेण एव राजयोगनामकस्य अध्यायस्य आरम्भः भवति। एतानि अष्टाङ्गानि एव राजयोगत्वेन पतञ्जलिमूनिना प्रोक्तानि। अतः एतस्य राजयोगस्य नामान्तरम् एव ‘अष्टाङ्गयोगः’ इति। पतञ्जलिमुनिः अष्टाङ्गयोगस्य भागद्वयम् अकरोत्। बहिरङ्गः, अन्तरङ्गश्चेति। (अधिकवाचनाय »)
- केरळराज्यस्य संस्कृत-विश्वविद्यालये पूर्वकुलपतेः त्यागपत्रस्य अनन्तरम् अयोग्यरूपेण स्वीकृताः सञ्चिकाः नूतनकुलपतिना निरस्ताः इति केरलकौमुदी-वृत्तपत्रस्य keralakaumudi.com जालपुटे प्रकाशितं वर्तते।
- कामेश्वरसिंह-दरभङ्गा-संस्कृत-विश्वविद्यालये बिहार-दिवसस्य उपलक्ष्ये एका विशेष-सङ्गोष्ठी आयोजिता यस्यां कुलपतिना विकसित-बिहार-राज्यस्य सङ्कल्पना प्रस्तुता इति लाईव-हिन्दुस्तान-वृत्तपत्रस्य livehindustan.com जालपुटे विज्ञापितम्।
- हरियाणाराज्यस्य कैथल-नगरे स्थितेन महर्षिवाल्मीकि-संस्कृत-विश्वविद्यालयेन शास्त्री-तृतीय-सत्रस्य आचार्य-प्रथम-सत्रस्य च परीक्षापरिणामाः घोषिताः इति तेषाम् अधिकृत-जालपुटे mvsu.ac.in इत्यत्र द्रष्टुं शक्यते।
- वाराणस्यां स्थितस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदाय नूतना नियुक्ति-विज्ञप्तिः प्रकाशिता इति विश्वविद्यालयस्य ssvv.ac.in जालपुटे उद्घोषितम्।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ अनुत्तमाः जनाः जीवने धनमात्रम् इच्छन्ति। धनसम्पादनम् एव तेषां जीवनस्य लक्ष्यं भवति। एतादृशं जीवनं कदापि श्लाघ्यं न भवति। मध्यमजनाः धनं मानं च इच्छन्ति। धनेन सह मानम् अपि एते इच्छन्ति इत्यतः एतेषां जीवनं निन्द्यं न भवति चेदपि अतिप्रशस्तं तु न। महापुरुषाः सदापि मानम् एव इच्छन्ति। ते धनं तृणसमानं भावयन्ति। मानम् एव धनं भावयन्ति। मानधनानाम् एतेषां जीवनम् एव उत्कृष्टम्। |