आशा भोंसले

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
आशा भोंसले
Asha Bhosle - still 47160 crop.jpg
व्यैक्तिकतथ्यानि
जन्मनाम आशा मङ्गेशकर
ख्यातनाम आशा दीदी
मूलतः भारतीया
वृत्तिः गायिका





आशा भोंसले इति अनुपमां भारतीयगायिकां प्रन्तीयभेदेन आषा, आशा भोसले, आशा भोस्ले, इत्यादिभिः नामभिः अभिजानाति ।[१] (हिन्दी: आशा भोसले) अस्याः जन्म क्रि.श.१९३३तमवर्षस्य सेप्टम्बर् मासस्य अष्टमे दिने अजयत । एषा भारतीयबहुभाषाणां ख्याता गायिका अस्ति । मूलभूतरूपेण एषा हिन्दीभाषायाः चलच्चित्रस्य निपथ्यगायिका इति सुप्रसिद्धा अस्ति ।[२][३][४] अस्य वृत्तिजीवनं क्रि.श.१९४२तमे वर्षे आरब्धम्। तस्याः वृत्तेः एव षष्ट्यब्दम् अभवत् । सामान्यतः १००० हिन्दीचलच्चित्रस्य नेपथ्यगानानि गीतवती । अपि च अनेकानि गीतगुच्छार्थं गीतवती । भरते अन्यदेशेषु च अस्याः अगणिताः गानगोष्ट्यः अभवन् ।[५][६] आशा भोंस्ले अन्यायाः भारतीयनेपथ्यगयिकायाः लता मङ्गेश्कर इत्यस्याः सहोदरी अस्तु । इयम् अस्याः सुमधुरकण्ठस्य कारणेन प्रसिद्धा अभवत् ।[२][७][८] लतायाः गानेषु चलच्चित्रसङीतम्, गाज़ल्, भजनानि, साम्प्रदायिकभारतीयशास्त्रीयसङ्गीतम्, जानपादगीतानि, कव्वाली, रवीन्द्रगीतानि, नझ्रल्गीतानि, पाप्गीतानि, च गानं भवति । एषा अस्सामीभाषा, हिन्दीभाषा उर्दूभाषा, तेलुगुभाषा, मराठीभाषा, बङ्गालीभाषा, गुजरातीभाषा, पञ्जाबीभाषा, तमिळुभाषा, आङ्ग्लभाषा, रष्यन्भाषा, छेक्भाषा, नेपाळीभाषा, मलैभाषा, मलयाळंभाषा, इत्यादिषु १८भाषासु गीतानि गीतवती ।[९] क्रि.श.२००६तमे वर्षे आशा भोंसले अहं सामान्यतः १२०००गीतानि गीतवती इति स्वयम् अवदत् ।[१०] नैकानि अन्यमूलानि अपि एतत् वचनम् एव प्रमाणीकुर्वन्ति ।[९][११] प्रपञ्चस्य उन्नताभिलेखप्रमाणितम् अन्ताराष्ट्रियसंस्था वर्ड्स् रेकार्ड् अक्यादमी । क्रि.श.२००९तमवर्षः सेप्टेम्बर् मासे आशा भोंसले एव प्रपञ्चे एव अत्यधिकगीतानां गायिका (गानमुद्रणम्) इति उदघोषयत् ।[१२]

जीवनेतिहासः[सम्पादयतु]

आशा भोंसले मुम्बैप्रान्तस्य नाम अद्यतनस्य महाराष्ट्रराज्यस्य साङ्ग्लीनगरात् बहिः गोर् इति लघुग्रामः अजायत । एषा दीननाथ मङ्गेश्कर् इति सङ्गीतविदुषः पुत्री । एषः रङ्गभूमेः कलावित् । तत्र शास्त्रीयगायकत्वेन सेवां कृतवान् । अस्य कुटुम्बः पूर्वं पुण्यपत्तने (पुणेनगरे) आसीत् । कालक्रमेण कोल्हापुरं गत्वा क्रमेण मुम्बै आगतः । एषा अस्याः सहोदरी लता मङ्गेष्कर् च कुटुम्बनिर्वहणे पितुः सहाय्यं कर्तुं चलच्चित्रार्थं नटनं गीतगनं कर्तुं आरब्धवत्यौ । आशायाः प्रथमचलच्चित्रं यत्र अस्याः गानम् (चला चला नव् बला) अस्ति तत् माझा बल् (क्रि.श.१९४२) इति मराठी चलच्चित्रम् । अस्य गीतस्य रचयिता दत्त दव्जेकर् कृतवान् । सावन् आयाः इति चलच्चित्रे सावन् आया इति गीतगानेन अस्याः हिन्दिभाषाचलच्चित्रं प्रवेशः अभवत् ।[१३] एषा आशा स्वस्य १६तमे वयसि ३१वर्षस्य गणपत् राव् भोसले इत्यनेन सह प्रधाव्य तेन परिणीता अभवत् । गणपदरावः तु अस्याः सहोदर्याः लतायाः वैयक्तिककार्यदर्शी आसीत् । अतः विवाहः विफलः आभवत् । श्वशुरगृहे अस्याः नितराम् अवमानिता अभवत् । विवाहस्य कतिपयवर्षानन्तरं भोंसले आशा क्रि.श.१९६०तमे वर्षे शङ्काभावेन गणपतिरावेन गृहात् बहिष्कृता ।[१४] तस्मिन् काले तस्याः उदरे तयोः तृतीयपुत्रः उदरे पुत्रु हस्तयोः आसन् । सा स्वस्याः कुटुम्बनिर्वहणार्थं चलच्चित्रार्थं नेपथ्यगानम् अनुवर्तितवती । तस्मिन् समये गीता दत्, शंषाद् बेगम् लता मङ्गेष्कर् इत्यादयः बृहत्परियोजनायाः चलच्चित्रार्थं गायन्ति स्म । तदा एतैः त्यक्तगीतानि आशा भोंसले स्वीकरोति स्म । अपि च ब्याण्ड् गर्ल्स्, व्याम्प्स् गोष्टिषु गायति स्म अथवा द्वितीयस्तरस्य चलच्चित्रस्य कृते अपि गायाति स्म । क्रि.श.१९५०तमे काले अन्यनेपथ्यगायकानाम् अपेक्षया अधिकगीतानि गीतावती । अस्याः आरम्भिकगीतानां स्वरसंयोजनम् ए.आर्.खुरेशी, सज्जद् हुसेन्, गुलाम् महम्मद इत्यादयः कृतवन्तः । एतेषु अधिकानि गीतानि यशसि विफलानि प्राप्नुवन् ।[१३] सजद् हुस्सेन् इत्यनेन स्वरसंयोजितस्य दिलिपकुमारेण नटितस्य सङ्ग्दिल् (क्रि.श.१९५२तमे वर्षे) चलच्चित्रार्थम् आशा गानं गीतवती यत् जनप्रशंसाम् आप्नोत् । अस्य परिणामरूपेण क्रि.श.१९५२तमे वर्षे बिमल् राय् भोंसले इत्यस्य निदेशनस्य परिणीता इति चलच्चित्रत्रे गातुम् अवकाशं प्राप्तवती । तदनन्तरं बूट् पालिष् (क्रि.श.१९५४) चलच्चित्रार्थं मोहम्मद रफी महोदयेन सह नन्ने मुन्ने बच्चे गीतवती । एतत् गीतम् अस्याः अनुपमां कीर्तिं आनयत् । क्रि.श.१९५६तमे वर्षे ओ. पि. नैयरः सङ्गीतनिदेशितस्य सि.ऐ.डि. चलच्चित्रस्य नेपथ्यगानस्य अवकाशं प्राप्तवती । अस्याः वृत्तिजीवने एषः सदवसरः महत्तरं परिवर्तनम् आनयत् । क्रि.श. १९५७तमे वर्षे बि.आर्.चोपड महोदयस्य नया दौर् इति चलच्चित्रार्थं साहिर् लुधियान्वी इत्यनेन रचितं माङ्ग् के साथ तुम्हारा इति गीतं स्वीयस्वरसंयोजनेन रफी महोदयेन सह गीतवती । एषा आशा स्वस्य वृत्तिजीवने कृता प्रथमा महोपलब्धिः । अनेन सह साथी हात् बदाना, उदेन् जब् झल्वें तेरी, इत्यादीनि गीतानि तस्यः प्रसिद्धिं आनयन् । जनप्रियाभिनेत्रीणां कृते इदं प्रथमतया गीतानि गीतवती । चलच्चित्रस्य निर्मापकः बि.आर्.चोपडा महोदयः दौर् चित्रस्य यशः स्मरन् अग्रिमचलच्चित्रस्य गीतगानार्थम् अवकाशं प्रकल्पितवान् । अग्रे आशा भोंसले तस्य वक्त् , गुम्राह् , हम्राज़् , आद्मि और् इन्सान् , डूण्ड् इत्यादीनां चलच्चित्राणां गीतानि गीत्वा प्रसिद्धिम् आपन्ना । आषायाः नायरस्य च संश्रयः अनेकेषां मधुरगानानां लोकार्पणस्य हेतुः अभवत् । कालक्रमेण अस्मिन् वर्णरञ्जितक्षेत्रे स्वपादौ प्रत्यस्थापयत् । किन्तु कालान्तरेण क्रि.श. १९७०तमे वर्षे वृत्तिक्षेत्रे उभावपि परस्परं विमुखौ अभवताम् । क्रि.श.१९६६तमे वर्षे आर्.डि.बर्मन् इत्यस्य सङ्गीतनिदेशनस्य प्रथमयशस्वि "तीसरी मञ्झिल् " चलच्चित्रे आशायाः कार्यं जनप्रियम् अभवत् । अस्य सहभागित्वेन क्रि.श.१९७०तमदशके अनेकानि जनप्रियगीतानि चलच्चित्रक्षेत्राय अर्पितानि । [१५] कालक्रमेण हेलन् इत्यस्याः नृत्याङ्गनायाः नर्तनार्थं आशा चलच्चित्रगीतानि विविधानां स्वरसंयोजकानां मार्गदर्शने गीतवती । एतेयोः संसर्गितायाः कानिचन गीतानि "पिया तू..(कारावान् चित्रस्य)", ओ हसीना झुल्फोवाली..(तीसरी मंझिल्), "ये मेरा दिल् (डान्) " इत्यादीनि । क्रि.श. १९८०तमे वर्षे उन्मादगायिका(पाप् क्रूनर्) इति स्थिरं गुरुत्वं प्राप्तवती ख्यातया अभिनेत्र्या नटितस्य 'उम्रावो जान् 'इति चलच्चित्रस्य "दिल् चीज़् क्या है", "इन् आकों कि मस्ती के", "ये क्या जग है दोस्तो " "जुस्त् जु जिस्कि थी" इत्यादीनि गीतानि अस्य प्रसिद्धिम् अवरधयत् । गझल् गानं तस्य राष्ट्रियपुरस्कारम् आनयत् । क्रि.श. १९९५तमे वर्षे ६२वर्षवयसः आशा भोंसले रङ्गीला इति चलच्चित्रे उर्मिळा माटोण्डकर् इत्यस्याः कृते नेपथ्यगानं कृतवाती । तत्र "तनहा तन्हा ", "रङ्ग् रङ्ग् रङ्गीलरे " इत्यादीनां विशेषलक्षणयुक्तानां गीतानां गायनेन अस्य कीर्तिशिखरम् इतोऽपि अवर्धत । क्रि.श.२००५तमे वर्षे स्वस्य ७५वर्षे वयसि अस्यः कण्ठमधुर्येण आगतानि "चन्द्रमुखी " इति तमिळुभाषायाः चलच्चित्रस्य गीतानि, खातस्य अभिनेतुः सल्मान् खानस्य "लक्कि " चलच्चित्रस्य गीतानि अत्यधिकतया विक्रीतानि ।

गानस्य सङ्गीतनिदेशकाः[सम्पादयतु]

  • ओ.पि.नय्यर् - अशायाः ओङ्कार प्रसाद नायर् (नय्यर्) इत्यनेन सङ्गीतनिदेशकेन सह साहचर्यं तु बालिवुड् (भारतस्य हिन्दिभाषाचलच्चित्रजगतः इदं नाम) जगति प्रसिद्धः । अयं कश्चित् महान् स्वसंयोजकः आशायाः प्रतिभां संलक्ष्य अवकाशं प्रकल्पितवान् । क्रि.श.१९५२तमे वर्षे चम् चमा चम् गानस्य ध्वनिमुद्रणावसरे ओ.पि.नय्यरः प्रथवमारम् आशायाः सन्दृष्टवान् ।[१६] क्रि.श.१९५४तमे वर्षे प्रथमावकाशम् आशा नय्यरस्य "माङ्गु" इति चलच्चित्रे प्राप्तवती । तदनन्तरं क्रि.श.१९५६तमे वर्षे पुनः अस्य "सि.ऐ.डि. " चित्रस्य गीतानि गीत्वा वृत्तिजीवने नवं परावर्त्नं प्राप्तवती । अस्य "नया दौर् " इत्यस्मिन् चलच्चित्रानन्तरम् एतयोः युग्मं बहुविश्रुतम् अभवत् । क्रि.श.१९५९तमवर्षे ओ.पि.नय्यरेण सह सभावं वृत्तिपरतया च आत्मानं क्षेत्रे अनुस्थापितवती ।
  • खय्याम् - आशायाः प्रतिभाम् अभिज्ञातवन् अन्येकः अयं सङ्गीतनिदेशकः खय्याम् । सः क्रि.श.१९४८तमे वर्षे स्वस्य "बिवि " इति चलच्चित्रे अवकाशं कल्पितवान् । क्रि.श.१९५०तमदशके तस्य "दर्द ", "फिर् सुबह होगी ", "उम्रावो जान् " चलच्चित्रेषु अवकाशं दत्वा अस्याः प्रतिभां सम्मानितवान् ।
  • रविः- चलच्चित्रगानानां स्वरसंयोजकः रविः, आशा मम अतिप्रियगिकासु अन्यतमा इति वदति स्म । क्रि.श.१९५०तमे वर्षे अस्य "वचन्" इति सर्वप्रथमे चलच्चित्रे आशा गीतवती । "चन्दमाम दूर् के" चलच्चित्रस्य मधुरगीतम् एकेन एव दिनेन भारतस्य युवमातॄणां प्रियम् अभवत् । "घराना", "गृहस्ती", "काजल्", "फूल् औप् पत्थर्" इत्यादिषु चलच्चित्रेषु भजनानि गातुं रविः अवकाशं दत्तवान् । तदानीन्तने काले अन्ये ख्याताः स्वरसंयोजकाः एतां निम्नस्तरस्य गीतानि गातु आह्वयन्ति स्म । आशा भोंस्ले रविः च अनेकानि गीतध्वनिमुद्रणानि कृतवन्तौ । तेषु प्रसिद्धेन गायकेन किशोरकुरारेण सह गीतं "कथ् माने बिल्ली " "तोरा मन् दर्पण्" अतिप्रसिद्धनि अभवन् । अनेन सह कृतनानि चलच्चित्राणि एवं भवति । वख्त, चौदवी का चान्द्, गुम्राह्, बहु बेटी, चैना टौन्, आद्मी और् इन्सान्, डूण्ड्. अम्राज्, काजल् इत्यदीनि ।[१३]
  • सचिन् देव बर्मन् - अयं बालिवुड् जगतः प्रख्यातेषु स्वरसंयोजकेषु अन्यतमः । एतस्य प्रिया गायिका लता मङ्गेश्कर् किन्तु तया सह केनचित् कारणेन विरसः उप्तन्नः ।[१७] तस्मिन् काले एस्.डि.बर्मन् महोदयः गीतानि गातुं आशाम् आहूतवान् । अनयोः युग्मम् अनेकानि मधुरगीतानि लोकाय आर्पयत् । यथा.. काला पानि, काला बाज़ान्, इन्सान् जाग् उठा, लाजवन्ति, सुजाता, तीन् देवियाँ, इत्यादीनि चलच्चित्राणि । क्रि.श.१९६२ वर्षे किशोर् कुमारेण, महम्मद रफिना, सहा गीतानि चलच्चित्रगानानि प्रसिद्धानि अभवन् । क्रि.श.१९६२तमे वर्षे बिमल् राय् इत्यस्य बान्दनि चित्रस्य "अब् के बरस्.. " गीतम् एताम् आशां नेपथ्यागायिकाम् अकरोत् । क्रि.श.१९६७तमे वर्षे तनुजा इत्यभिनेत्र्याः अभिनयस्य ज्युवेल् थीफ् चित्रस्य "रात् अकेली है" गानं जनान् उन्मत्तान् अकरोत् ।
  • राहुल् देव् बर्मन् - अर्.डि.बर्मन् इत्येव खातः (ए.के.ए.पञ्चम) क्रि.श.१९६६तमे काले प्रसिद्धः चलच्चित्रसङ्गीतज्ञः । पुत्रद्वयस्य मातुः आशायाः सन्दर्शनम् अनेन सह अभवत् । एतयोः युग्मेन "तीसरी मंज़िल् " इति यशस्वि चलच्चित्रम् अभवत् । क्याबरे, राक्, डिस्को, गझल्, भारतीयशास्त्रीयसङ्गीतम् इत्यादीनि गीतानि कृतवन्तौ । क्रि.श.१९७०तमे वर्षे एतेयोः पाश्चिमात्यशैल्याः गीतानि क्रान्तिमेव अकुर्वन् । क्रि.श.१९७१तमे वर्षे हेलन् अभिनीतस्य कारवान् "पिया तू अब् तो आजा ", हरे राम हरे कृष्णा चित्रस्य "दम् मारो दम् ", क्रि.श.१९७२तमे वर्षे लोकार्पितस्य अप्ना देश् इति चित्रस्य " दुनिया में.. क्रि.श.१९७३तमे वर्षे लोकार्पितस्य यादों की बारात् इति चित्रस्य " चुरा लिया है..इत्यादीनि गीतासि प्रचण्डं याशः प्राप्नुवन् । क्रि.श.१९८०तमे दशके पञ्चमस्य आशायाः च सहयोगेन कानिचन चलच्चित्रसङ्गीतानि प्रसिद्धानि अभवन् । तानि यथा इज़ाज़त् चित्रस्य "मेराकुच् सामान्," "खालि हात् शाम् आयी है", "खत्रा खत्रा", सागर् चित्रस्य ओ "मारिया" ख्यातानि अभवन् । तत्रापि अस्याः " मेरा कुच् सामान् " गानस्य राष्ट्रियपुरस्कारः अपि प्राप्तवती । वृत्तिसम्बन्धः प्रीत्या परिवर्तितः बूत्वा तम् अनुरागेण बब्स् इति आव्ययन्ती क्रि.श. १९८०तमे वर्षे तमेव पतिरूपेण प्राप्तवती । आर्.डि.बर्मन् महोदयः कानिचन बङ्गाळिगीतानि अपि गायितवान् ।
  • इळयराजः - दक्षिणभारतीयचलच्चित्रस्वरसंयोजकेषु अग्रगण्यः इळयराजः क्रि.श. १९८०तमे वर्षे स्वस्य गीतानि गातुम् आशां प्रार्थयत् । इदं प्रथमतया तमिळुभाषायाः "मून्द्रं पिरायि " इति चलच्चित्रे गीतवती । अस्य चित्रस्य हिन्दीभाषान्तरे अपि एषा गीतानि गीतवती । क्रि.श. १९९०तमवर्षपर्यन्तम् एतयोः युग्मं यशस्विकार्यणि अकरोत् । क्रि.श.१९८७तमे वर्षे लोकार्पितस्य "एङ्ग ऊरु पाटुक्कारन् "इति चित्रस्य शेन्बगामे इति गीतम्, क्रि.श. २०००तमे वर्षे लोकार्पिते कमलहासन् अभिनयस्य इळयराजस्य सङ्गीते "हे राम्" इति चित्रस्य शीर्षिकागीतम्, " जन्मों कि ज्वाला " इति हिन्दीचलच्चित्रे गझल् गायकेनहरिहरन् महोदयेन सह गीतं गानं च प्रसिधानि अभवन् ।
  • ए.आर्.रेहमान् - एषः क्रि.श. १९९४तमे वर्षे स्वस्य स्वरसंयोजनस्य रङ्गीला चलच्चित्रे गातुम् आशायै अवकाशं दत्तवान् । अस्य प्रसिद्धानि गीतानि यथा.. " रङ्गीला रे ", "तन्हा तन्हा "इत्यादीनि । अस्य एव स्वरसंयोजनस्य "तक्षक् " चलच्चित्र्स्य "मुझे रङ्ग् दे ", "लगान्" इति चलच्चित्रस्य उदितनारायणेन सह गीतं "राधा कैसे न जले ", "ताल " चित्रस्य " कही आग् लगे ", "दौड् " चलच्चित्रस्य के.जे.येसुदासेन सह गीतं "ओ भंवरे " क्रि.श.१९९९तमे वर्षे लोकार्पितस्य " इरुवर् " इति तमिळुभाषा चित्रस्य "वेनिल्ला वेनिल्ला " गीतं, क्रि.श.२००४तमे वर्षे आगतस्य " मीनक्षी " तमिळुभाषाचित्रस्य " दु्वान् दुवान् " गीतं च सुप्रसिद्धानि अभवन् ।[१३]
  • जयदेवः - एस्.डि.बर्मन् इति सङ्गीतज्ञस्य सहायकः अयं जयदेवः स्वतन्त्रः भूत्वा स्वरसंयोजनम् आरब्धवान् । तदा एषः आशायै अपि गातुम् आहूतवान् । क्रि.श.१९६१तमे वर्षे "हम् दोनो ", क्रि.श.१९६२तमे वर्षे "मुजे जीने दो ", क्रि.श.१९७१तमे वर्षे "दो बून्द पानी " इत्यादिषु जयदेवस्य चलच्चित्रेषु गीतानि गीतवती । क्रि.श.१९७१तमे वर्षे एतत् युग्मं नकेवलं चलच्चित्रगीतानि अपि च भक्तिगीतानि गझल् गीतानि अपि अकरोत् । जीवनस्य सङ्कटकाले सहयमाचरितवान् जयदेवः इति तस्य विषये आशायः महादरः आसीत् । तस्य मरणानन्तरं तेन कृतार्धकार्यं सम्पूरयन्ती "सुराञ्जली " इति गीतगुच्छं लोकार्पितवती ।
  • शङ्कर् जै किशन् - अयं बालिवुड् स्वरसंयोजकः अल्पकालम् अनया आशया सह कर्यम् अकरोत् । क्रि.श.१९६८तमे वर्षे अस्य सङ्गीतसंयोजने "शिकार् " इति चलच्चित्रार्थम् आशा गीतानि गीतवती । अस्मिन् " परदे में रहने दो" इति गीरार्थं द्वितीयवारं फिल्मफेर् पुरस्कारं प्राप्तवती । अन्दाज़् इति चलच्चित्रे ज़िन्दगि एक सफर है सुहाना इति गीतं विशिष्टशैल्या गीतवती प्रसिद्धं चाभवत् । क्रि.श.१९७०तमे वर्षे राजकपूरस्य निर्माणस्य अभिनयस्य च मेरा नाम जोकर् इति चलच्चित्रे गनस्य अवकाशः प्राप्तः ।
  • अनु मलिक् - क्रि.श.१९८४तमे वर्षे सोनि महिवाल् इति अस्य प्रथमचलच्चित्रे एव आशा अवकाशं प्राप्तवती । अस्य स्वरसंयोजकस्य संयोजनेन फिल् हाल् इति चलच्चित्रस्य शीर्षिकागीतं, बाज़िगर् चित्र्स्य किताबे बहुत सी... गीतं, या दिन् इति चित्रे जब् दिल् मिले गीतम् च अनया गीतानि सार्वकालिकमधुराणि अभवन् । क्रि.श. १९५०- ६०तमवर्षाणां मध्ये अनुमलिकस्य पितुः संयोजने अपि गीतवती ।[१८]

व्यक्तिगतजीवनम्[सम्पादयतु]

भोंसले आशायाः गृहं मुम्बै महानगरस्य दक्षिणभगए पेद्दर् इति मार्गे प्रभातकुञ्ज् इति गृहस्तोमे अस्ति । तस्याः त्रीणि अपत्यानि पञ्च पौत्राः सन्ति । ज्येष्ठः पुत्रः हेमन्त भोंसले विमानस्य चालकत्वेन कार्यं कृतवान् । सङ्गीतनिदेशकः अपि भूत्वा कानिचनदिनानि कार्यं कृतवन् । अस्य अनुजा आशायाः पुत्री वर्षा इति नमान्विता दि सण्डे अब्सर्वर्, रेडीप् इति पत्रिकयोः लेखिका रूपेण कार्यं कृतवती । आशायाः कनीयः पुत्रः आनन्द भोंसले चलच्चित्रस्य निर्देशनं शिक्षितवान् । मातुः कार्यदर्शित्वेन सहाय्यम् आचरति । पौत्रः चैतन्यः सङ्गीतक्षेत्रे एव परिश्रमं कुर्वन् अस्ति । इयं पाकनिपुणा अपि अस्ति । भर्तुः भोजनार्थं स्वयं पचति । बालिवुड् प्रमुखाः तस्याः कडायि घोस्ट् अपि च बिर्यानि सर्वदा इच्छन्ति । गोवा शैल्याः पाया करि, सूपः च बालिवुड् ख्यातस्य कपूर् कुटुम्बे जनप्रियपाकः आसीत् । कदाचित् एषा... यदि अहं सङ्गीतस्वरसाम्राज्ञी न अभविष्यत् तदा पाकज्ञा भवामि स्म इति कस्मिंश्चित् दूरदर्शनसन्दर्शने अवदत् । आशा यशस्विनी होटेल् उद्यमिनी अपि अस्ति । अस्याः नाम्नि एव दुबै कुवैत् च देशयोः भोजनालयाः सन्ति ।

[१९] पेशस्विनी श्वेतशाटिकाः आशायै अधिकं रोचते । वज्राभरणानि अपि अस्याः अतीव प्रियाणी । एषा अनुकरणकलावती अपि अस्ति । नूर् जहाँ, लतामङ्गेश्कर् गुलाम् अलि इत्यादीनां कण्ठस्य नुकरणमपि करोति । सद्यः काले गानं होटेल् उद्यमः अपि च आत्मकथनलेखने मग्ना अस्ति । [२०]

प्रशस्तिपुरस्काराः[सम्पादयतु]

  • फिलं फेर् प्रशस्तयः - आश भोंसले १८वारम् अत्युत्तमगायिका इति फिल्म् फेर् पुरस्कारार्थं नामनिदेशनं सप्तवारं पुरस्कारं च प्राप्तवती ।[२१] एषा स्वस्य प्रथमां प्रशस्तिं क्रि.श.१९६७तमे वर्षे प्राप्तवती । क्रि.श.१९७९तमे वर्षे स्वस्य सहोदर्या लतया स्पर्धितवती । अपि च लतायाः नाम न निदिष्टं भवेत् इति सूचितवती । क्रि.श.१९९७तमे वर्षे "रङ्गीला " चलच्चित्रस्य गानार्थं विशेषा प्रशास्तिः प्राप्ता । क्रि.श.२००१तमे वर्षे आजीवोपलब्धेः कृते फिल्मफेर् प्रशस्तिं प्राप्तवती ।
  • फिल्म् फेर् प्रशस्तिभूषितानि गीतानि चित्राणि च ।

प्राप्तिवर्षः गानम् चलच्चित्रम्

  • क्रि.श.१९६७: "गरीबों कि सुनो " (दस् लाख्)
  • क्रि.श.१९६९: "परदे में रहने दो " (शिकार्)
  • क्रि.श.१९७२: "पिया तू अब् तो आजा" (कारवान्)
  • क्रि.श.१९७३: "दम् मारो दम्" (हरे राम हरे कृष्णा)
  • क्रि.श.१९७४: "होने लगी है रात्" (नैना)
  • क्रि.श.१९७५: "चैन् से हम को कभी " (प्राण जाये पर् वचन् न जाये )
  • क्रि.श.१९७९: "ये मेरा दिल् " (डान्)
  • अन्यप्रशस्तयः ।
  • क्रि.श.१९८७: नैण्टिगेल् आफ् एषिया प्रशस्तिः । यु.के स्थितया इण्डो पाक् असोसियेषन् संस्थया ।[२१]
  • क्रि.श.१९८९: लता मङ्गेश्कर् प्रशस्तिः । (मध्यप्रदेशस्यसर्वकारेण[२१]
  • क्रि.श.१९९७: स्क्रीन् विडियोकान् प्रशस्तिः ।('जानं समाझा करो ' गीतगुच्छार्थम् ।)[२१]
  • क्रि.श.१९९७: एम्.टी.वी. प्रशस्तिः। (जानं समाझा करो " गीतगुच्छार्थम् ।).[२१]
  • क्रि.श.१९९७: चानल् वि.प्रशस्तिः (जानं समाझा करो " गीतगुच्छार्थम् ।).[२१]
  • क्रि.श.१९९७: दयावति मोदि प्रशस्तिः[२२]
  • क्रि.श.१९९९: लता मङ्गेश्कर् प्रशस्तिः ।(महाराष्ट्रस्यसर्वकारेण
  • क्रि.श.२०००: सिङ्गर् अफ् दि मिलेनियम् (दुबै)
  • क्रि.श.२०००: झी गोल्ड् बालिवुड् अवार्ड्(तक्षक् चित्रस्यमुझे रङ्ग् दे गीतार्थम्)
  • क्रि.श.२००१: एम्.टी.वी. प्रशस्तिः।( कम्बक्त् इष्क् चित्रार्थम्)
  • क्रि.श.२००२: बिबिसि आजीवनोपलब्धिः (यु के प्रधानमन्त्री टोनि ब्लेर् इत्यस्मात् स्वाकृतम् ।).
  • क्रि.श.२००२: अत्युत्तमा नेपथ्यगायिका इति झी सिने पुरस्कारः (लगान् चित्रस्य राधा कैसे न जले गानार्थम्)
  • क्रि.श.२००२: झी सिनि विशेषपुरस्कारः ।
  • क्रि.श.२००२: स्क्रीन् विडियोकान् प्रशस्तिः (लगान् चित्रस्य राधा कैसे न जले गानार्थम्)
  • क्रि.श.२००२: स्यान्सूय् मूवी प्रशस्तिः (लगान् चित्रस्य राधा कैसे न जले गानार्थम्)
  • क्रि.श.२००३: भारतीयचलच्चित्रक्षेत्राय दत्तयोगदार्थं स्वरालयः येसुदासप्रशस्तिः[२१]
  • क्रि.श.२००३: फेडरेशन् आफ् इण्दियन् चेम्बर् आफ् कामर्स् एण्ड् इण्डस्ट्री तः लिविंग् लेज़ेण्ड् प्रशस्तिः[२३]
  • क्रि.श.२००५: एम्.टी.वी इम्मीस् , आज् जाने कि जिद् न करोगानार्थम् अत्युत्तमगायिकाप्रशस्तिः ।[२४]
  • क्रि.श.२००५: सङ्गीतस्य अत्यन्तं सम्पन्नजनः।[२५]
  • सम्माननानि ।
  • १९९७तमे वर्षे उस्ताद् अलि अब्कर् खान् इत्यनेन सह " लिगेसि " इति गीतगुच्छे गानार्थम् आशायः ग्र्यामी प्रशास्तिं प्राप्तवती । भारतदेशस्य प्रथमा गायिका अभवत् या एतां प्रशस्तिभाजनम् ।
  • महाराष्ट्रराज्यस्य सप्तदशमी राज्यप्रशस्तिः प्राप्ता ।
  • भारतीयचलच्चित्रजगते प्रदत्तम् अनुपमं योदानं परिगणय्य क्रि.श. २०००तमे वर्षे दादा साहेब फल्के प्रशस्तिः आशायै दता ।[२१]
  • अमरावती जलगांव विश्वविद्यालययोः डक्टरेट् उपधिना भूषिता आशा भोंसले ।
  • कलायाम् अत्यधिकोपलब्ध्यर्थे "दि फ्रीडी मर्क्युरी प्रशस्तिः " प्रदत्ता ।
  • बर्मिङ्ग् ह्याम् फिल्म् फेस्टिवल् क्रि.श. २००२तमे वर्षे अस्याः विशेषा गानगोष्ठी अभवत् ।
  • भारतस्य सर्वकारेण पद्मविभूषणप्रशस्तिः प्रदत्ता ।[३]
  • गतेषु ५०वर्षेषु से एन् एन् वाहिन्याः श्रेष्ठेषु २०गायकेषु अन्यतमा । [४][५] [६]
चलच्चित्रस्य राष्ट्रियप्रशस्तयः ।
  • क्रि.श.१९८१: दिल् चीज़् क्या है (उम्रावो जान् )
  • क्रि.श.१९८६: मेरा कुच् सामान् (इज़ाझत् )
  • गौरवपुरस्कारः
  • क्रि.श.१९९८ - विशेषा प्रशस्तिः(रङ्गीला)
  • क्रि.श.२००८ - फिलं फेर् आजीवोपलब्धिपुरस्कारः ।

उल्लेखाः[सम्पादयतु]

  1. एन्टी उत्तरभारतस्य साम्प्रदायानुग्णम् जनाः एताम् आशाजी इति व्यवहरन्ति ।
  2. २.० २.१ Gulzar; Nihalani, Govind; Chatterji, Saibal (2003). Encyclopaedia of Hindi Cinema. Popular Prakashan. pp. 532–533. ISBN 8179910660. 
  3. Gangadhar, v. (18 May 2001). "Only the best preferred". The Hindu. Retrieved 22 July 2009. 
  4. Arnold, Alison (2000). The Garland Encyclopedia of World Music. Taylor & Francis. pp. 420–421. ISBN 0824049462. 
  5. "IMDB entry". IMDB. Retrieved 28 March 2009. 
  6. "An evergreen voice". The Hindu. 26 September 2003. Retrieved 12 August 2010. 
  7. V.L (7 June 2008). "Chords & Notes". The Hindu. Retrieved 11 August 2010. 
  8. विश्वसङ्गीतम् : ल्याटिन् नार्त् अमेरिका, केरेबियन् भाराम्, एषिया फेसिपिक्, सिमन् ब्राटन् मार्क्स् एलिङ्ग्ट्न्, रिचर्ड् ट्रिलो रचनम् । क्रि.श.२०००
  9. ९.० ९.१ दि इण्टर् न्याषनल् व्यूस् व्हूस् व्हु क्रि.श. २००४, युरोपा प्रकाशनम्, रौट् लेज़् ।
  10. (Jyothi Venkatesh. "Asha Bhosle: Sa Re Ga Ma…". Vashi2Panvel.com. Retrieved 3 May 2006. "I would like to state humbly that I am the only singer who has sung the maximum number of songs – 12,000. If you sing one song a day, you can humanly sing 365 songs a year and 3650 songs in ten years. In around 60 years of my career I could sing 12,000 songs because there were times I had sung even four songs a day." 
  11. Raju Bharatan (23 August 2006). "How fair were they to Mohammed Rafi?: Page 7". Rediff.com. Retrieved 28 April 2007. "Asha Bhosle it is, in fact, who occupies pride of place --- she is all set to complete 13,000 songs. And that must rate as the highest in Indian cinema -- Guinness or no Guinness." 
  12. "Most Recorded Artist-world record set by Asha Bhonsle". 3 September 2009. Retrieved 4 January 2010. 
  13. १३.० १३.१ १३.२ १३.३ "Asha, 70 years, 70 landmarks". 8 September 2003. Retrieved 11 November 2006. 
  14. "Only Asha: Asha Bhosle". 
  15. Malani, Gaurav (8 September 2008). "Asha Unplugged over the years". Indiatimes. Retrieved 22 July 2009. 
  16. "Asha Bhosle was the best person I ever met, An interview with O.P. Nayyar". Indya.com. Retrieved 11 November 2005. 
  17. Khubchandani, Lata (2003). Gulzar, Govind Nihalani, Saibal Chatterjee. ed. Encyclopaedia of Hindi Cinema. Popular Prakashan. pp. 486–487. ISBN 8179910660. 
  18. "Articles on Asha Bhosle — A voice for all seasons: Taken from Girija Rajendran's article for the Hindu". Retrieved 3 May 2006. 
  19. "Yet Another 'First' National Chain Planned". Menu magazine. Archived from the original on 23 October 2005. Retrieved 11 November 2005. 
  20. Chhibber, Kavita. "Kavita Chhibber's interview with Asha Bhosle". Archived from the original on 27 December 2005. Retrieved 3 May 2006. 
  21. २१.० २१.१ २१.२ २१.३ २१.४ २१.५ २१.६ २१.७ भोंसले प्रशस्तयः Asha-Bhosle.com. अक्टोबर् क्रि.श.२००७तमे दिने पुनःसम्पादितम् ।
  22. [१].portal.unesco.org.
  23. भयानि विराल् । [२]. redhotcurry.com.
  24. २००५ जिताः
  25. इतिहासः :मोस्ट् स्पेशलिस्ट् पीपल् इन् म्यूज़िक्

विशेषाध्ययनम्[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=आशा_भोंसले&oldid=266292" इत्यस्माद् पुनः प्राप्तिः