हिन्दीभाषा

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
मानकहिन्दीभाषाः
मानक हिन्दी
Word Hindi in Devanagari.svg
देवनागरीलिपियते हिन्दी शब्दः
विस्तारः  भारतम्
मारिशस, दक्षिणअफ्रीकाः, संयुक्तराज्य अमरीकाः, कनाडा, नेपालः
स्थानीय वक्तारः
भाषाकुटुम्बः
हिन्दयुरोपियः भाषापरिवारम्
  • हिन्दइरानिय शाखाः
    • हिन्दआर्यनः
      • केन्द्रीयक्षेत्रेय शाखा:
        • पश्चिमेयहिन्दी
          • खरीबोलीः
            • हिन्दुस्तानीभाषाः
              • मानकहिन्दीभाषाः
लिपिः देवनागरी
आधिकारिकस्थितिः
व्यावहारिकभाषा  भारतम्
नियन्त्रणम् केन्द्रीयहिन्दी आयुक्तः (भारतः)[१]
भाषा कोड्
ISO 639-1 hi
ISO 639-2 hin
ISO 639-3 hin
Linguist List hin-hin
Linguasphere 59-AAF-qf

हिन्दीभाषा सांविधानिकरूपेण भारतस्य प्रथमा राजभाषा विद्यते । भारते अत्यधिकैः जनैः भाष्यमाणा अवगम्यमाना च भाषा विद्यते । विश्वे अधिकं भाषमाणायाः चीनीभाषायाः अनन्तरं स्थानं हिन्दीभाषायाः । उत्तरभारते अस्याः उपयोगः अधिकः । भारते अन्येषु देशेषु च विद्यमानाः हिन्दीभाषाभाषिणः ६० कोट्यधिकाः सन्ति । एते हिन्दीभाषया सम्भाषन्ते, पठन्ति, लिखन्ति च । फिजी, मारिशस्, गयाना, सूरीनाम् इत्येतेषु देशेषु अधिकाः, नेपालदेशे केचन च हिन्दीभाषया सम्भाषन्ते । हिन्दीभाषा राष्ट्रभाषा, राजभाषा, सम्पर्कभाषा, जनभाषा इत्यादीनि सोपानानि आरुह्य विश्वभाषास्थानस्य अलङ्करणे अग्रेसरा वर्तते । भाषाविकासक्षेत्रे कृतपरिश्रमवतां भाषाविज्ञानिनां भविष्यवाणी हिन्दीभाषाप्रेमिणां सन्तोषदायिका अस्ति । ते वदन्ति यत् विश्वस्तरे अन्ताराष्ट्रियमहत्त्वम् आप्नुवत्सु भाषासु हिन्दी प्रमुखा अस्ति इति ।

शब्दानां व्युत्पत्तिः[सम्पादयतु]

हिन्दीशब्दस्य मूलं संस्कृतस्य सिन्धुशब्दः इति मन्यते । 'सिन्धु'इत्येषः शब्दः सिन्धुनदीं सिन्धुनदीं परितः विद्यमानां भूमिं च निर्दिशति । अयं सिन्धुशब्दः इरानीयानां मुखे 'हिन्दु' इति जातम् । ततः हिन्दी, हिन्द इति जातम् । अग्रे इरानीयाः भारतस्य बहु भागं यदा आक्रान्तवन्तः तदा 'हिन्द्'शब्देन पूर्णं भारतं निर्देष्टुम् आरब्धवन्तः । इरानीभाषायाः 'ईक'प्रत्ययस्य योजनेन 'हिन्दीक' (हिन्दस्य) इति जातम् । यूनानीशब्दस्य 'इन्दिका'शब्दस्य आङ्ग्लशब्दः 'इण्डिया'इति जातम् ।

हिन्दीभाषा उर्दुभाषा च[सम्पादयतु]

भाषाकोविदाः हिन्दी उर्दूभाषा च समाना इति मन्यन्ते । हिन्दीभाषा देवनागरीलिप्या लिख्यते । अस्याः शब्दाः अधिकतया संस्कृतशब्दाः एव । उर्दूभाषा फारसीलिप्या लिख्यते । फारसि-अरबीभाषयोः प्रभावः अस्याः उपरि अधिकतया विद्यते । व्याकरणदृष्ट्या हिन्दी-उर्दुभाषयोः शतप्रतिशतं समानता विद्यते । उर्दूभाषायाः केचन विशेषध्वनयः अरबी-फारसीसम्बद्धाः । अतः उर्दुभाषा हिन्दीभाषायाः काचित् विशेषशैली इति चिन्तयितुं शक्या ।

परिवारः[सम्पादयतु]

हिन्दीभाषा हिन्द-युरोपीयभाषापरिवारे अन्तर्भवति । इयं हिन्द्-इरानीशाखायाः हिन्द्-आर्य-उपशाखायां वर्गीकृता अस्ति । हिन्द-आर्यभाषाः संस्कृतभाषोत्पन्नाः सन्ति । उर्दू, कश्मीरी, बंगाली, उड़िया, पंजाबी, रोमानी, मराठी नेपाली इत्यादयः भाषाः हिन्द-आर्यभाषाः सन्ति ।

निर्माणकालः[सम्पादयतु]

अपभ्रंशस्य समाप्तेः अनन्तरम् आधुनिकभाषाणां जन्मकालः 'सङ्क्रान्तिकालः'इति निर्देष्टुं शक्यः । हिन्दीभाषायाः स्वरूपं शौरसेनी-अर्धमागधीभाषयोः अपभ्रंशात् विकसितमस्ति । १० शतके अस्याः भाषायाः स्वतन्त्रास्तित्वं दृश्यते ।

अपभ्रंशस्य सम्बन्धे 'देशी'शब्दस्य प्रयोगः आधिक्येन श्रूयते । वस्तुतः 'देशी'शब्दः देशीशब्दं देशीभाषां च निर्दिशति । प्रश्नः अस्ति - देशीयशब्दः कस्याः भाषायाः ? इति । भरतमुनिः नाट्यशास्त्रे ये शब्दाः संस्कृतस्य तत्समो वा तद्भवो वा न विद्यन्ते तान् देशीशब्देन निर्दिशति । 'देशी'शब्दाः जनैः भाषितभाषायां रूढिगताः भवन्ति । ते सामान्यतः अपभ्रंशाः एव भवन्ति । जनभाषा व्याकरणनियमान् न अनुसरन्ति अपि तु व्याकरणमेव जनभाषाप्रवृत्तेः विश्लेषणं करोति । प्राकृतव्याकरणं संस्कृतस्य अनुसरणम् अकरोत् । संस्कृतं प्रकृतिः मन्यते । अतः ये शब्दाः तस्य नियमानुसारं न भवेयुः ते सर्वे देशीशब्दाः इति निर्दिश्यन्ते ।

इतिहासः[सम्पादयतु]

हिन्दीसाहित्यस्य इतिहासः अत्यन्तं विस्तृतः प्राचीनश्च विद्यते । अयं कालः त्रिधा विभक्तुं शक्या ।

आरम्भकालः[सम्पादयतु]

भारते हिन्दीभाषी क्षेत्रम्
हिन्दी देश.

तुलना[सम्पादयतु]

इयं भाषा संस्कृतभाषायाः साक्षात् पुत्री । अध: कानिचलहिन्दीवाक्यानि, तेषां प्रचलितं संस्कृतस्यरूपञ्च प्रदत्तम्‌ ।

  • नहीं, मिलता नहीं. / न हि, न प्राप्यते।
  • मित्र से मिल. / मित्रेण मिल।
  • कितना मूल्य हुआ? / कियत् मूल्यम् अभवत् ?
  • खरीदनें में बहुत रुपये लगेंगे। / क्रयणार्थं बहूनि रुप्यकाणि आवश्यकानि।
  • तुम सफाई पर ध्यान नहीं देते. / त्वं स्वच्छताया: विषये ध्यानं न ददासि।
  • मैं चिन्तित हूं. / अहं चिन्तितः अस्मि।
  • क्षण में सब करता हूं./ क्षणाभ्यन्तरे सर्वं करोमि।
  • मैं आज गीता पढता हूं. / अहं अद्य गीतां पठामि।
  • यौवन में मकडी सुन्दरी. / यौवने मर्कटी सुन्दरी।
  • ग्राम में कृषक बसते हैं. / ग्रामे कृषका: वसन्ति।
  • काल की कुटिल गति. / कालस्य कुटिला गतिः।
  • आशा दुःख का कारण है/ आशा दु:खस्य कारणम्‌।
  • मूल नष्ट हो जाने पर न तो फल, न पुष्प होते हैं/ नष्टे मूले नैव फलं न च पुष्पम्‌।
हिन्दी
Spoken भारतम्
वक्तार: 80 कोटीः
सूचीयतेस्थानम् 2
भाषाकुटुम्बः हिन्दयुरोपीयः भाषापरिवारम्

 भारतीयभाषा
  हिन्‍दी

राजकीय पद्यतीः
राजभाषाः भारतम्
नियन्त्रणम् केन्द्रीय हिन्दी आयुक्त
भाषाकूटाणां
ISO 639-1 hi
ISO 639-2 hin
SIL HND

लेखका:[सम्पादयतु]

बाह्यगवाक्षा:[सम्पादयतु]

  1. Central Hindi Directorate regulates the use of Devanagari script and Hindi spelling in India. Source: Central Hindi Directorate: Introduction
"https://sa.wikipedia.org/w/index.php?title=हिन्दीभाषा&oldid=360167" इत्यस्माद् पुनः प्राप्तिः