केन्द्रीयहिन्द-आर्यभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नेविगेशन पर जाएँ खोज पर जाएँ
केन्द्रीयहिन्द-आर्य
हिन्दीभाषाः
भौगोलिकविस्तारः दक्षिणजम्बुद्वीपः
भाषायाः श्रेणीकरणम् हिन्द-यूरोपीय
उपश्रेण्यः
पाश्चात्यहिन्दी
पूर्वहिन्दी
Hindi Indoarisch.png

केन्द्रीयहिन्द-आर्यभाषाः (हिन्दी: केन्द्रीय हिन्द्-आर्य भाषाएँ) अथवा हिन्दीभाषाः (हिन्दी: हिन्दी भाषाएँ) सम्पूर्णे उत्तर-मध्यभारतयोः च भाष्यमाणानां सम्बन्धितभाषाविविधानां समूहः सन्ति । एताः भाषाप्रकाराः हिन्द-आर्यभाषाकुटुम्बस्य केन्द्रभागं भवन्ति, स्वयं हिन्द-यूरोपीयभाषाकुटुम्बस्य भागः । ते ऐतिहासिकरूपेण मध्यप्राकृतेभ्यः अवतरन्तीं उपभाषानिरन्तरं निर्मान्ति । हिन्दीमेखलायां स्थिते मध्यक्षेत्रे हिन्दुस्थानीभाषायाः देहलवी (देहली/दिल्ली) उपभाषा ('खड़ीबोली' इति उच्यमाणानाम् अनेकानाम् एकम्) उत्तरभारतस्य लोकभाषा यत् आधुनिकमानकहिन्दी-आधुनिकमानक-उर्दू-भाषयोः आधारः अस्ति । हिन्द-आर्यभाषाकुटुम्बस्य विषये अस्य भाषासमूहस्य सुसङ्गतिः प्रयुक्तस्य वर्गीकरणस्य उपरि निर्भरं भवति; अत्र केवलं पूर्वीय-पाश्चात्य-हिन्द्यो वर्णनं भविष्यति ।

भाषाः[सम्पादयतु]

यदि मुख्यहिन्दीभाषायाः उपभाषाशास्त्रस्य अन्तः एकः सहमतिः मन्तव्यः स्यात् तर्हि तस्य उपभाषासमुच्चयद्वये विभक्तुं शक्यते इति - पाश्चात्य-पूर्वहिन्दी च । पाश्चात्यहिन्द्याः विकासः शौरसेनीप्राकृतस्य अपभ्रंसरूपात् अभवत्, पूर्वहिन्द्याः अर्धमागधीप्राकृतात्

पाश्चात्यहिन्दीभाषाः; उपरितः घटिकायाः दिशि — हिन्दुस्थानी, कन्नौजी, बुन्देली, ब्रज, हरियाणवी ।
पूर्वहिन्दीभाषाः व्यक्तिगतरूपेण न दर्शिताः । ये उत्तरे अवधी, हिन्दुस्थानी-कन्नौजी-योः पूर्वदिशि; केन्द्रे बघेली, बुन्देलीतः पूर्वदिशि, छत्तीसगढी आग्नेयदिशि च ।
  1. पाश्चात्यहिन्दी
  2. पूर्वहिन्दी

अस्मिन् विश्लेषणे बिहारी, राजस्थानी, पहाडी इत्यादीनि सांस्कृतिककारणात् कदाचित् हिन्दीभाषायाः कृते स्वीकृताः भाषाभेदाः बहिष्कृताः सन्ति । भोजपुरी बिहारीभाषाणाम् अन्तर्गतं वर्गीकृतम् अस्ति यद्यपि एषा चिरकालात् हिन्दीभाषा इति मन्यते ।

रोमानी, डोमरी, लोमावरेन्, सेब्-सेलियर् च (अथवा न्यूनतया तेषां पूर्वजाः) केन्द्रीयाञ्चलस्य भाषाः प्रतीयन्ते ये मध्यपूर्वं यूरोपदेशं च प्रवासं कृतवन्तः ५००–१००० ई. यावत् त्रयः विशिष्टतरङ्गाः । पर्या मध्यजम्बुद्वीपस्य केन्द्रीयाञ्चलभाषा अस्ति ।

पाश्चात्यहिन्द्याम् एथ्नोलॉग् सन्सी-बघेली-चमारी (मिथ्याभाषा)-भय-गोवारी (पृथक्भाषा नास्ति)-घेरा-भाषाः योजयति ।

अहिन्दीसांस्कृतिकप्रदेशेषु उपयोगः[सम्पादयतु]

  • उर्दू पाकिस्थानस्य राजभाषा अस्ति । यद्यपि केवलं जनसङ्ख्यायाः ७% मूलभाषा अस्ति तथापि साक्षरजनानां मध्ये द्वितीयभाषारूपेण सा प्रायः सार्वत्रिका अस्ति ।
  • बाम्बे हिन्दी ("बॉम्बे बात") मुम्बईनगरस्य (बॉम्बे) उपभाषा अस्ति; हिन्दुस्थानीभाषा आधारितं किन्तु मराठीभाषया बहु-प्रभावितम् । तकनीकीदृष्ट्या एषा एका मिश्रितभाषा (पिजिन्) अस्ति, अर्थात् न च कस्यापि जनस्य मूलभाषा न च शिक्षितैः उच्चैः सामाजिकस्तरैः औपचारिकपरिवेशेषु प्रयुक्ता । परन्तु हिन्दी-चलच्चित्रोद्योगस्य (बॉलीवुड्) चलच्चित्रेषु प्रायः अस्य प्रयोगः भवति यतोहि मुम्बई-नगरं बालीवुड्-चलच्चित्रोद्योगस्य आधारः अस्ति ।
  • दक्खिनी
  • अण्डमानमिश्रहिन्दी
  • अरुणाचली हिन्दी
  • हफलोङ्ग हिन्दी
  • फिजीहिन्दी
  • कैरेबीयहिन्दुस्थानी
  • मारिषीय हिन्दी
  • दक्षिण-अफ्रिकी हिन्दी

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]