उत्तरप्रदेशराज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
उत्तरप्रदेशराज्यम्
वैविध्यमयः प्रदेशः
राज्यम्
गङ्गा
Coat of arms of उत्तरप्रदेशराज्यम्
Coat of arms
भारतभूपटे उत्तरप्रदेशः
भारतभूपटे उत्तरप्रदेशः
उत्तरप्रदेशस्य भूपटम्
उत्तरप्रदेशस्य भूपटम्
Coordinates (लखनौ): २६°५१′उत्तरदिक् ८०°५५′पूर्वदिक् / 26.85°उत्तरदिक् 80.91°पूर्वदिक् / २६.८५; ८०.९१निर्देशाङ्कः : २६°५१′उत्तरदिक् ८०°५५′पूर्वदिक् / 26.85°उत्तरदिक् 80.91°पूर्वदिक् / २६.८५; ८०.९१
देशः  भारतम्
प्रदेशः औध्, बाघेल्खण्ड्, ब्राज्, दोब्, बण्डेल्खण्ड्, पूर्वाञ्चल्, रोहिल्खण्ड्, भारत-गङ्गाप्रदेशः
स्थापनम् आधुनिकम्: १८०५
राजधानी लखनौ
Government
 • Body भारतसर्वकारः, उत्तरप्रदेशस्य सर्वकारः
 • राज्यपालः बन्वारि लाल् जोशी
 • उत्तरप्रदेशमुख्यमन्त्री अखिलेश् यादव्
 • १४ लोकसभाक्षेत्राणि ८०
 • उच्चन्यायालयः अलहाबद्-उच्चन्यायालयः
Area
 • Total
Area rank पञ्चमम्
Population (२०११)
 • Rank प्रथमम्
 • Density
Time zone भारतीयकालगणना (UTC+०५:३०)
Vehicle registration उ प्र ०१-XX
साक्षरता ६९.७२%
७९.२४% (पुरुषाः)
५९.२६% (महिलाः)
प्रान्तीयभाषा हिन्दीभाषा
उर्दु
Website upgov.nic.in

उत्तरप्रदेश: भारतस्‍य उत्तर भागे स्‍थितं किञ्चन राज्यम् । प्रायः १९० मिलियन् जनसंख्या विद्यते अस्मिन् राज्ये । भारतदेशेषु विद्यमानेषु राज्येषु अस्मिन्नेव राज्ये अधिकाः जनाः सन्ति । उत्तरप्रदेशे सुफलाभूमिः अधिकतया दृश्यते । उत्तरप्रदेशस्य उत्तर-पश्चिमे हिमाचलप्रदेशः अस्ति । पश्चिमे हरियाणा, देहली, राजस्थानम् च भवन्ति । दक्षिणे मध्यप्रदेशः, छत्तीसगढ, झारखण्डश्च सन्ति । दक्षिण-पूर्वे तथा पूर्वे बिहारराज्यम् अस्ति । उत्तरप्रदेशस्य राजधानी लखनौ अस्ति । अस्य राज्यस्य उच्चन्यायालयः अलहाबाद् नगरे अस्ति । वाराणस्यादि क्षेत्राणाम्, आग्रादी ऐतिहासिकस्थलानाम् आश्रितं राज्यं भवति एतत् । कानपुरं, गोरखपुरं, मेरठ, आग्रा, अलिगढ, बरेली, अलहाबाद्, गाझियाबाद्,नोयिडाच अत्रत्य बृहत् नगराणि भवन्ति । हैन्दवानां पवित्रतमक्षेत्राणि अस्मिन् राज्ये राराजन्ते ।

अन्तर्विषयाः

राज्यविकासः[सम्पादयतु]

नवदशशतकात् अस्य प्रदेशस्य विषये विविधानि विवरणानि लभ्यन्ते । अन्यानि नामानि अपि अस्य राज्यस्य सन्ति। १८३३ तमे संवत्सरे बङ्गालप्रान्त्यस्य ब्रिटिषसर्वकारः विभक्तः अभवत् । एकस्मिन् भागे आग्रानगरं केन्द्रम् अभवत् । १८३६ तमे संवत्सरे आग्राप्रदेशस्य उत्तरपश्चिमप्रदेशः इति नामकरणं कृतवन्तः । अयं प्रदेशः ब्रिटिषसर्वकारस्य राज्यपालस्य शासने आसीत् । १८७७ तमे संवत्सरे ब्रिटिषसर्वकारस्य आग्रा तथा अवध इत्येतयोः प्रान्तयोः शासनम् आसीत् । १९०२ तमे संवत्सरे उभयोः प्रदेशयोः मिलित्वा शासनम् आसीत् । उभयोः "संयुक्तसंस्थानमिति व्यवहारः" आसीत् । १९५० तमे संवत्सरे संयुक्तसंस्थानस्य नाम एव उत्तरप्रदेशः इति कृतवन्तः । १९९९ तमे हिमाचलप्रदेशराज्यं तथा उत्तराखण्डराज्यम् इतः पृथक् कृतवन्तः।

जनसंख्याविचारः[सम्पादयतु]

भारते अधिकाः जनाः अस्मिन्नेव राज्ये सन्ति । अस्य राज्यस्य जनसंख्या जुलैमासे १ दिनाङ्के २००८तमे संवत्सरे १९० मिलियन् आसीत् । ८०% जनाः हिन्दवः अस्मिन् राज्ये सन्ति । १८% जनाः मुसल्मानाः सन्ति । एतान् विहाय सिक्खाः, बौद्धाः, क्रैस्ताः, जैनाः च अस्मिन् राज्ये सन्ति ।

सामाजिकस्वरूपम्[सम्पादयतु]

उत्तरप्रदेशे जनसंख्या जात्युपजात्याधारेण विभक्ता अस्ति। श्रृतिस्मृत्यनुसारं हिन्दुसमाजस्य चत्वारः वर्णाश्रमधर्माः सन्ति । ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्रः इति चत्वारः धर्माः । अस्य राज्यस्य ब्राह्मणेषु भार्गव-भट्ट-गङ्गापुत्र-गौर-जोशि-कन्यकुब्ज-मैथिली-नागरेत्यादयाः भवन्ति । सलल्द्विपिय, संध्या, सर्युपरीन्, श्रीमलि, त्यागि रजपूताः इत्यादयाः क्षत्रियेषु भवन्ति । एते जनाः व्यापाराश्रिताः भवन्ति । तेषु मुख्याः अग्रहारि, अग्रवाल्, बार्नवाल्, घाटे, बनिय, हल्वायि, जैस्वाल्, कल्वार्, केसर्वानि, महेश्वरी, माथुर्, ओमार्, ओस्वाल्, पर्वार्, पट्वा, रस्तोगि, सद् तथा तेलि व्यापाराश्रिताः जनाः। कृष्याश्रिताः वैश्याः अहिर्, गडेरिया, गौर्वा, गुज्जर्, जट्, कच्चि, कंबोज्, कोयिरि, कुर्मि, मुराव्, मालि, रावे तथा रोर् जनाः भवन्ति । शूद्रजातिषु बरहै, बर्वार्, बेल्दार्, दागि, धोबि, दुसध्, जोगि, कहर्, केवट्, नायि तथा थाथेरा जनाः भवन्ति । उत्तरप्रदेशस्य बहिर्भागे वनवासिनः निवसन्ति । अगारिया, बैगा, भार्, भोक्सा, बिन्द, चेरू, गोण्ड्, कोल् तथा कोर्वा जनाः भवन्ति । भारतसार्वकारस्य साहाय्येन विना वनवासिपञ्चगणाः जीवनं कुर्वन्ति । ते थारजनाः, भोक्साजनाः, भूटियाजनाः, जौनस्वरिजनाः तथा राजिजनाः भवन्ति । अन्येभ्यः देशेभ्यः आगताः सय्यद, सिध्दिकि, शेख, शेखजादा, मुघल तथा पठाण यवनाः सन्ति ।

राजनीतिः[सम्पादयतु]

राज्ये ४०३ विधानसभायाः निर्वाचनस्थानानि सन्ति । १९९१ तमे संवत्सरे भारतीयजनतापक्षः बहुमतं प्राप्तवान् आसीत् । २००७ तमे संवत्सरे निर्वाचने बहुजनसमाजपक्षः बहुमतं प्राप्य शासनं करोति स्म । मायावती अस्य पक्षस्य मुख्या आसीत् । सा एव मुख्यमन्त्रिणी अपि असीत् । गतयोः दशकयोः सम्मिश्रसर्वकारः एव शासनम् करोति ।

राजनीतिनायकाः[सम्पादयतु]

एतस्मात् राज्यात् बहवः नायकाः आगताः सन्ति । भारतस्य १४ प्रधानमन्त्रिषु ८ जनाः उत्तरप्रदेशस्यैव भवन्ति । ते जवाहरलालनेहरुः,लालबहादुरशास्त्री, इन्दिरा गान्धिः, चौधरि चरणसिंह, विश्वनाथप्रतापसिंहः, चन्द्रशेखरः, अटलबिहारीवाजपेयीच भवन्ति । यद्यपि अटलबिहारीवाजपेयीमहोदयस्य जन्मभूमिः [[मध्यप्रदेशः|मध्यप्रदेशस्य ग्वालियर्स्ति, किन्तु निर्वाचनस्थलं उत्तरप्रदेशः अस्ति । नेहरु-गान्धीकुटुम्बस्य सध्यकालीनाः सदस्याः उत्तरप्रदेशेषु निर्वाचनस्थलेषु एव स्पर्धार्थिनः भवन्ति । सोनिया गान्धी बरेली निर्वाचनप्रदेशात् सर्वदा स्पर्धार्थिनी भवति । अमेठी, सुल्तानपुरं निर्वाचनस्थले राहुलगान्धी स्पर्धार्थी भवति। अन्ये उत्तरप्रदेशस्य नायकाः नाम मेनकागान्धी, वरुणगान्धी, डा.मुरलिमनोहरजोशी, एस.पि.नायक, मुलायमसिंहयादवः, मायावती, राजनाथसिंहः, कल्याणसिंहः, अजितसिंहः, नारायणदत्ततिवारी, मुख्तार अब्बास नख्वि च ।

शिक्षणम्[सम्पादयतु]

उत्तरप्रदेशे साम्प्रदायिकाध्ययनस्य सम्प्रदायः एव आसीत्। वेदकालात् वेदसंस्कृतयोः अध्ययनम् अनुस्यूततया प्रचलितम् अस्ति । संस्कृताधारितशिक्षणेन सह पालीभाषायाः अध्ययनं प्रचलति। ब्रिटिषशासनात् पूर्वम् उत्तरप्रदेशः हिन्दूनां, बौद्धानां, यवनानाम्, अध्ययनस्य श्रेष्ठं केन्द्रम् आसीत् । केम्ब्रिड्जविश्वविद्यालयसदृशम्, अलिगढमुस्लिंविश्वविद्यालयः अस्मिन् उत्तरप्रदेशे विराजते। १८७५ तमे संवत्सरे सर् "सैद अहमदखान्" द्वारा विश्वविद्यालयः स्थापितः अस्ति । गच्छता कालेन अस्य विद्यालयस्य नाम “मोहमद आङ्ग्लो-ओरियण्टल् कलाशाला”(कालेज्) इति परिवर्तितवन्तः। १९२० तमे संवत्सरे एनं विश्वविद्यालयं “केन्द्रीयविश्वविद्यालयः” इति भारतसर्वकारः उद्घोषितवान् । बनारसहिन्दूविश्वविद्यालयः भारते वाराणस्याम् अस्ति । अयं विश्वविद्यालयः “केन्द्रीयविश्वविद्यालयः” भवति । एनं विश्वविद्यालयम् ऐरिषवंशीया ब्रिटिषमहिला “एनिबेसेण्ट” स्थापितवती । १ अक्टोबर १९१७ तमे संवत्सरे ’केन्द्रियहिन्दुकलाशालां विश्वविद्यालयरूपेण स्वीकृतवन्तः । विश्वविद्यालयाय नृपाणाम् आश्रयः आसीत् । १,३५० चतुरस्रपरिमितम् अस्य विश्वविद्यालयस्य विस्तारः अस्ति। अस्मिन् विश्वविद्यालये अवासार्थं विद्यमानानि गृहाणि बृहत् गृहाणि भवन्ति । एशियाखण्डे प्रथमस्थानाङ्कितविश्वविद्यालयत्वेन गणितम् अस्ति । १२८ अपेक्षया अधिकाः विभागाः अस्मिन् विश्वविद्यालये सन्ति । विज्ञान-भाषाध्ययन- तन्त्रज्ञान-वैद्यकीयादयः विभागाः विश्वे प्रसिद्धाः भवन्ति । १५,००० अधिकाः छात्राः अस्मिन् विश्वविद्यालये अध्ययननिरताः सन्ति । १९६० तमे संवत्सरे “कानपुरे” “भारतीय तन्त्रज्ञानसंस्थां”(IIT) भारतसार्वकारेण संस्थापिता । एषा संस्था विश्वे सुप्रसिद्धा अस्ति ।

आर्थिकव्यवस्था[सम्पादयतु]

भारतीय आर्थिकव्यवस्थायां भारतीयराज्येषु उत्तरप्रदेशस्य द्वितीयं स्थानम् अस्ति । व्यवसायाश्रितमं राज्यम् इदम् । १९९१ तमे संवत्सरे ७३% प्रतिशतं जनाः व्यावसायम् आश्रितवन्तः आसन् । राज्यस्य कानिचन मुख्यनि औद्योगिकनगराणि अधोनिर्धिष्ठानि भवन्ति । “कानपुरम्”- भारते प्रधानं पादरक्षाणाम् उत्पादनं केन्द्रं भवति । “नोयिडा” तथा लखनौ नगरे भारतस्य प्रमुख सूचनातन्त्रज्ञानस्य केन्द्राणि सन्ति । “मेरठ”- नगरे क्रीडासम्बद्धानां वस्तूनाम्, आयुधानाम्, आभरणानां प्रसिद्धानि उत्पादककेन्द्राणि सन्ति । “मिर्जापुरम्” तथा “भदोही” नगरे वस्त्रकटाणां, कार्पासस्य तन्तूनाम् उत्पादककेन्द्राणि सन्ति । “मोरादाबाद्” नगरे धातुना निर्मितानि साम्प्रदायिकवस्तूनि लभ्यन्ते। वस्तूनाम् उत्पादककेन्द्राणि प्रसिद्धानि सन्ति। “अलिगढ” ताम्रकांस्यलोहादीनां द्वाराणां कवचानाम् उत्पादककेन्द्राणि प्रसिद्धानि सन्ति।

प्रवासोद्यमः[सम्पादयतु]

उत्तरप्रदेशः देशविदेशीयानां यात्रिकाणाम् आकर्षणं केन्द्रं भवति। २००३ तमे संवत्सरे ७१ मिलियन् देशीययात्रिकाः, तेषु विदेशतः २५% प्रतिशतं यात्रिकाश्च आगताः। अस्मिन् राज्ये ताजमहल्, आग्रादुर्गं, फतेहपुरसीकरी इत्यादीनि विश्वप्रसिद्धानि प्रेक्षणीयस्थानानि सन्ति। आग्रानगरे एतानि स्थानानि विद्यन्ते।

प्राचीननगरम् आग्रा[सम्पादयतु]

आग्रानगरं सा.श.१५०१ समये सिकन्दरलोधी इत्यस्य प्रशासनकाले भारतस्य राजधानी आसीत् । मोगलवंशीयानां बाबरहुमायून् इत्यादीनां प्रशासनकाले आग्राप्रदेशे अनेके भवनविशेषाः निर्मिताः । अक्बरः आग्रातः फतेपुरसिक्रिपर्यन्तं सा.श.१५७० तः २५८५ पर्यन्तं प्रशासनं कृतवान् । अनन्तर शाहजहानः तेजोमहालयः इति प्रसिद्धं शिवालयं परिवर्त्य ताजमहल् इति स्मारकसौधं कृतवान् । औरङ्गजेबः राजधान्याः देहलीनगरं प्रति स्थानन्तरितवान् । आग्रादुर्गम् अनेकैः प्रशासकैः निर्मितम् अस्ति । अक्बरः जहाङ्गीरः शाहजहानः औरङ्गजेबः च एतत् दुर्गं निर्मितवन्तः सन्ति । अत्र दरबारभवनं , शीषमहल्, राज्ञीवासः , प्रार्थनामन्दिरम् इत्यादीनी दर्शनीयानि सन्ति । आग्रातः १० कि.मी. दूरे दयालबाग् स्थले राधास्वामीमन्दिरं सुन्दरम् अस्ति । शिल्पकलादृष्ट्या अतीवभव्यम् अमोघं चास्ति । आग्रातः उत्तरभागे १० कि.मी. दूरे सिकन्दरस्थले अकबरस्य मृतस्मारकम् अस्ति । अत्र हिन्दुयवनशैल्या निर्मितानि गोपुराणि प्रतिकोणं सन्ति । त्रिस्तरीयाणि गोपुराणि अतीव सुन्दराणि सन्ति ।

ताजमहल्[सम्पादयतु]

आधुनिकयुगस्य सप्तसु कौतुकेषु अन्यतमं वर्तते ताजभवनम् । आग्रायां यमुनानद्याः तीरे स्थितम् इदं भवनं यवनचक्रवर्तिना शाहजहानेन प्रियायाः पत्न्याः मुम्ताजमहलायाः संस्मरणाय निर्मितम् । इदम् अपूर्वं भवनं १६३१-१६४८ अवधौ अमृतशिलया निर्मितम् । इयं शिल्पकला पर्शियन्-ओटोमन्- यवन- भारतीयशौलीभिः युक्ता अस्ति । ताजभवनस्य विन्यासः उस्तादहमदलहौरिणा कृतः इति श्रूयते । अस्य भवनस्य श्वेतामृतशिलया निर्मिताः शिखरगोलार्धाः एव लोके सुविख्याताः । वस्तुतः तु भवनम् एतत् अस्ति रचनासमुच्चययुक्तम् । ताजमहल् न केवलं भारते अपि च विश्वे एव प्रसिद्धं दर्शनीयं भव्यं भवनम् अस्ति । फ्रान्सदेशस्य ऐफेल् गोपुरमिव आस्ट्रेलिया देशस्य अपेराहौस् इव विस्मयकारि स्थलमस्ति । यमुनानद्याः दक्षिणभागे स्थितं विशालं भव्यम् अमृतशिलानिर्मितं वास्तुशिल्पमेतत् । अस्य दैर्घ्यं २७०० पादमितं, वैशाल्यं च २००० पादमितम् अस्ति । उत्तरदक्षिणतः आयताकारे विशालावरणे एतत् निर्मितम् अस्ति ।

ताजमहल् स्वरूपम्[सम्पादयतु]

परितः प्रावारकम् अस्ति । दक्षिणदिशि महाद्वारम् अस्ति । उत्तरभागे ताजमन्दिरमस्ति । महाद्वारतः १८०० पादमितदीर्घम् उद्यानम् । मध्ये नालाः तत्र तत्र जलोत्सांसि सन्ति । ७५ पादमितम् चौकाकारकं सरोवरम् अस्ति। दूरतः वीक्षणसमये ३१३ पादमिते प्राङ्गणे १४० पादमितोन्नतं मन्दिरं सुन्दरतया द्रृश्यते । चौकाकारे शिल्पे चतुर्षु कोणेषु १४० पादमितोन्नताः त्रिस्तरीयाः वृत्तच्छदाः (मिनरेट्स्) सन्ति । मध्ये उन्नते प्राङ्गणे १८६ पादमिते चौकाकारे स्थले मुख्यं ताजमन्दिरम् अस्ति । केषुचिद्विभागेषु शिल्पानि सन्ति । अर्धगोलाकारके छदे (Tomb) भित्तिषु लताशिल्पानि विराजन्ते । पवित्रस्य कुरान् ग्रन्थस्य भागाः अत्र शिल्पेषु उत्कीर्णाः सन्ति । यथा यथा उपरि गम्यते तथा तथा अक्षराणां गात्रं बृहत् भवति ।

वैशिष्ट्यम्[सम्पादयतु]

ताजमहल् भवनं ये पश्यन्ति तेषा मनसि एतत् अलौकिकं भवन इति भावना भवति । अतीवाकर्षकं सुन्दरं काव्यमिव सर्वजनप्रियं भवन एतत् । मोगलचक्रवर्तिः शाहजहानः स्वप्रियपत्न्याः मुमताज़वर्यायाः स्मरणार्थं एतस्य निर्माणं कारितवान् । क्रिस्ताब्दे १६३११६५२ पर्यन्तस्य कालावसरे निर्मित एतत् कलास्थानं विश्वे अद्भुत स्थानेष्वन्यतम इति परिगण्यते । वर्णनातीतमेतत् चन्द्रिकाया अत्यन्तं मोहकं भवति । “यावत् एतस्य साक्षात् दर्शनं न क्रियते तावत् तस्य वर्णनम् अपूर्णम् एव तिष्ठति । अस्य अद्भुत सौन्दर्यं साक्षादेव द्रष्टव्यम् ” इति फर्ग्युसन् महोदयः उक्तवान् अस्ति । भवने बहिर्भागे उपयुक्ताः अमृतशिलाः सम्यक् घर्षयित्वा मसृणतायुक्ताः कृताः सन्ति । सूर्यप्रकाशे किरणानि सर्वत्र प्रतिफलन्ति । पुरतः निर्मले सरोवरजले ताजमहल् प्रतिबिम्बः द्रृष्टुं शक्नुमः । ताजमहल् दर्शनाय ग्रीष्मकाले प्रातः ७.३० वादनतः , शीतकाले ८ वादनतः प्रवेशावकाशः अस्ति । साधारण समये अल्प शुल्क । ४.०० वादनानन्तरं शुल्कं महार्घं भवति। शुक्रवासरे दर्शनं निश्शुल्कम् भवति । सोमवासरे अत्र विरामः भवति ।

विमानमार्गः[सम्पादयतु]

देहली खजुराहो वाराणसी इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति ।

धूमशकटमार्गः[सम्पादयतु]

देहलीचेन्नै मार्गे आग्रा प्रमुखनिस्थानमस्ति । कोलकातातः आगतवतां टुण्डला निस्थानं समीपे भवति । ततः ३५ कि.मी वाहनमार्गेण गन्तव्यम् । आग्राकण्टोन्मेण्ट् मुख्य निस्थानमस्ति ।

भूमार्गः[सम्पादयतु]

मुख्यवाहननिस्थानं पोर्टवाहननिस्थानमस्ति । ईदगावाहननिस्थानतः नगरवाहनसम्पर्कः अस्ति । देहलीतः २०० कि.मी. । ग्वालियर्तः ११९ कि.मी. । लखनौतः ३६९ कि.मी । मुम्बयीतः ३२० कि.मी । जयपूरतः १३० कि.मी । भरतपूर तः ६० कि.मी । मथुरातः ५८ कि.मी. । देहलीतः एकदिनप्रवासव्यवस्था अस्ति । एषः भवनसमुच्चयः ६० ‘बिघा’ विशालयुक्तः अस्ति । अयः प्रदेशः दक्षिणतः उत्तरदिशि नद्यभिमुखं प्रसृतः, निम्नभूमिं प्रति गच्छन्त्यः वीथिकाः इव च अस्ति । द्वितीये आलिन्दे किञ्चन चतुरस्रोद्यानम् अस्ति , यत् उभयतः पटमण्डपाः वर्तन्ते । विविधाकारकैः जलनालैः अयं प्रदेशः चतुर्धा विभक्तः अस्ति । एते चत्वारः प्रदेशाः ‘चारबाग्’ नाम्ना ख्याताः सन्ति । मुख्यशिखरगोलार्धं वस्तुतः चतुरस्त्राकारयुतम् अस्ति, यस्य कोणानि निम्नताकारेण कर्तितानि दृश्यन्ते । प्रार्थनाङ्गणानि इतः अयुक्तानि सन्ति । तानि मुख्यशिखराणां कोणाभिमुखानि वर्तन्ते । रक्तवर्णशिलया निर्मितं पश्चिमदिशि विद्यमानं प्रार्थनामन्दिरं स्वीयवर्णात् अत्रत्यं सौन्दर्यं परिवर्धयति । ताजभवनस्य् अन्तः, बहिः, ऊर्ध्वभागे, परितः विद्यमाने अमृतशिलाजानिकासु च दृश्यमानाः कलाकृतयः अत्यद्भुताः सन्ति । १९८३ तमे वर्षे युनेस्कोसंस्थया ताजभवनं जागतिकपारम्परिकस्थलत्वेन घोषितम् । संस्थया उल्लिखितम् अस्ति यत् भारते यवनकलायाः आभरणम् इव स्थिता जागतिकपरम्परायां सर्वजनैः कीर्तिता काचित् श्रेष्ठा कलाकृतिः एषा इति । ताजभवनं प्रातः ६ वादनतः रात्रौ ७ वादन- पर्यन्तं सार्वजनिकानां दर्शनाय उद्घाटितं भवति । शुक्रवासरे भवनं पिहितं भवति । पूर्णिमादिने , ततः पूर्वं दिनद्वयं, तदनन्तरं दिनद्वयं च रात्रिकाले दर्शनाय उद्घाटितं भवति तत् । रमझान्मासे रात्रिदर्शनं न भवति । १९८३ तमे वर्षे विश्वपरम्परास्थानानां सूच्यां ताजमहल् योजितम् अस्ति ।

आग्रादुर्गम्[सम्पादयतु]

आग्रादुर्गं मोगलवंशीयानां शासकानां वैभवस्य प्रतीकम् अस्ति । इदम् उत्तरप्रदेशे विद्यते । तेषां शासनस्य उत्तुङ्गस्थितौ चक्रवर्ती शाहजहानः १६३८-१६४८ वर्षयोः मध्ये दुर्गम् एतत् निर्मितवान् । दुर्गं परितः रक्षणदृष्ट्या महाप्राकारद्वयं श्वेतशिलया निर्मितम् अस्ति । बाह्यप्राकारः ७० पादमितः, अपरः च ३० पादमितः । तयोः मध्ये खाते मकराः भवन्ति, खातप्राकारयोः मध्ये विद्यमाने स्थले व्याघ्राः भवन्ति स्म । 'दीवान्-इ-आम्'नामके सभागृहे चक्रवर्ती जनसन्दर्शनं करोति स्म । कृष्णशिलया निर्मिते सिंहासने सः उपविशति स्म । विशिष्टानां जनानां मेलनाय 'दीवान्-ई-खास'नामकं सभागारम् आसीत्, यत्र श्वेतशिलासनं भवति स्म । मल्लिकासौधे आधिक्येन शाहजहानस्य प्रिया पत्नी मुमताज वसति स्म, या च चतुर्दशपुत्रान् प्रसूय दिवङ्गता । तदनन्तरवर्षेषु शाहजहानः अत्रैव बन्दीकृतः । स्वस्य अन्तिमेषु दिनेषु ततः एव यमुनातीरस्थं ताजभवनं पश्यन् सः कालं यापितवान् ।

फतेहपुरसीकरी[सम्पादयतु]

फतेहपुरसीकरी इत्यस्य विजयशिखरमित्यर्थः । अक्बरचक्रवर्ती गुजरातविजयानन्तरं क्रिस्ताब्दस्य १५७०तः १५८६वर्षाभ्यन्तरे एतत् निर्मितवान् । तस्मिन् समये अक्बरस्य पुंसन्तानं नासीत् । सः अत्र आगत्य शेख् सलीं चिस्थी नामानं योगिनं दृष्टवान् । सः अक्बरमहोदयस्य पुत्राः भवन्तीति भविष्यं कथितवान् । ततः अक्बरस्य एकः पुत्रः सञ्जातः । तस्य सलीम् इति नामकरणं कृतम् । एषः एव अग्रे जहाङ्गीरः इति प्रसिद्धः अभवत् । अक्बरचक्रवर्ती राजधानीम् अत्र आनीतवान् । इतः एव प्रशासनम् अकरोत् । सर्वधर्मसमन्वयसाधकं दीन् इलाही धर्मं प्रतिष्ठापितवान् । अस्मिन् नगरे शाही दर्वाजा , बुलन्ददर्वाजा इत्यादिविशिष्टानि शिल्पानि निर्मितानि । शाही दर्वाजा दुर्गस्य महाद्वारमस्ति । बुलान्द दर्वाजा (मसज़िद्) प्रार्थनामन्दिरद्वारम् अस्ति । अत्र सप्तद्वाराणि सन्ति । ५४ मीटर् उन्नतद्वारमेतदस्ति । एशियाखण्डे एव अत्युन्नतद्वारमस्ति (Gate of Victory) । अस्मिन् महाद्वारे शासननि सन्ति । सोपानैः उपरि गन्तव्यं भवति । शासनेषु प्रापञ्चिकविषयाः निरूपिताः सन्ति । प्रार्थनामन्दिरे शेख् चिस्थी स्मारकम् अस्ति । अत्र लक्षजनाः प्रार्थनां कर्तुं शक्नुवन्ति । फतेहपुरसीकरी स्थाने जोधाबायीराजगृहं , बीरबल् भवनं , पञ्चमहल् , दिवानि खास् , दिवानि आं, हीरन् महल् , नौबतखान् , सुन्दर महल् इत्यादीनि स्थानानि आकर्षकाणि सन्ति । फतेहपुरसीकरी तु क्रि.श. १६तमशतके मोघलचक्रवर्ती अक्बरेण निर्मिता राजधानी । एतत् आग्रानगरस्य समीपे अस्ति । साम्प्रदयिकराजधानीत्वेन अस्य स्थानस्य उपयोगं कृतवान् अतः दुर्गादिभिः रक्षणं नास्ति । अक्बरस्य व्यक्तित्वेन आदर्शैः च प्रभावितम् एतन्नगरं विशिष्टविन्यासयुक्तम् अस्ति । अक्बरः धार्मिकसहिष्णुः धर्मसमन्वये विश्वस्तः आसीत् । अयं विविधमतधर्माणां चिन्तनयुक्तं दीन् इलाही इति मतमपि आरब्धवान् । एषः हैन्दवैः सह राजनैतिकं वैयक्तिकं च बान्धव्यं रक्षितवान् । अक्बरः अस्य नगरस्य विन्यासकर्ता । अतः तस्य आदर्शान् अस्मिन् नगरे दृष्टुं शक्नुमः। नगरस्य विन्यासक्रमे विशाले स्थले भवनानि निर्मीय वैशाल्यभावं प्रकटयितुं प्रज्ञापूर्वकं यत्नः कृतः दृश्यते । गुजरातस्य पश्चिमबङ्गालस्य च विन्यासाः अनेकेषु भवनेषु अन्तर्भाविताह् सन्ति । अस्य मुख्यकारणं तु अक्बरः कुशलान् कर्मकरान् भारतस्य विविधभागतः आनीय भवननिर्माणे योजितवान् आसीत् । हैन्दवानां महम्मदीयानां क्रैस्तानां च शैल्याः मिश्रणमपि अत्र दृश्यते । भवननिर्माणास्य मूलसामग्री रक्तशिला ।

धार्मिकालयाः जात्यतीतभवनानि च[सम्पादयतु]
  • नौबत् खान - मुख्यानाम् आगमनम् उद्घोषयित्ं प्रवेशद्वारस्य पार्श्वे एव एतत् भवनं भवति ।
  • दिवान् ए आम् - एतत् मोघलनिर्माणेषु सर्वत्र भवति । सामान्यजनानां चक्रवर्तिसन्दर्शनस्थानम् ।
  • दिवान् ए खास् - एतदपि विशिष्टं मोघलभवनम् । गण्यातिगण्यान् राजा अत्र सन्दर्शयति स्म । अत्र स्तम्भकेन्द्रं परितः असन्दाः भवन्ति । मध्ये अकबरः सिंहासने उपविशति स्म ।
  • बीरबलस्य गृहम् - एतत् अकबरस्य सचिवस्य बीरबलस्य गृहम् । अत्र निर्मितानि अट्टानि, छायार्थं भूसमान्तरेण निर्मिताः छदयः अस्य विशेषाः ।
  • जोधाबायीप्रासादः - अक्बरस्य पट्टमहिष्याः जोधायाः निलयः । कस्यचित् प्राङ्गणं परितः निर्मिते अस्मिन् गुजरातीशैल्याः प्रभावः अस्ति ।
  • पञ्चमहल् - पञ्चाट्टानां भवनम् ।
  • बुलन्द दर्वाजा - जमायवनदेवालयस्य प्रवेशद्वारेषु अन्यतमम् । बहिः विशालयुतं द्वारम् अन्ततो गत्वा मानवप्रमाणं प्राप्नोति ।
  • जामायवनमन्दिरम् - भारतीयविन्यासस्य यवनदेवालयः ।
  • अनेकवर्षाणां श्रमः फतेपुरसीकरीनगरनिर्माणे व्ययितः किन्तु बहुकालम् एतत् नोपयुक्तम् । प्रायः अस्य कारणम् अत्र जलाभावः आसीत् ।
वाहनमार्गः[सम्पादयतु]

आग्राजयपुरमार्गे ४० कि.मी. दूरे अस्ति ।

विमानमार्गः[सम्पादयतु]

आग्राविमानस्थानमस्ति । अनन्तरं वाहनमार्गः ।

धूमशकटमार्गः[सम्पादयतु]

देहलीतः चेन्नैमार्गे आग्रा निस्थानम् अस्ति । देहलीतः आग्रापर्यन्तं ताजएक्सप्रेस् धूमशकटस्थानमस्ति । वसत्याः कृते अत्र अनेकानि उपाहारवसतिगृहाणि सन्ति । सप्तम्बरमासतः एप्रिलपर्यन्तं दर्शनाय उत्तमकालः ।

लखनौनगरम्[सम्पादयतु]

प्राचीननगरमेतत् औध् नवाब वंशीयानां राजधानी आसीत् । अत्र नगरे अनेकानि वास्तुशिल्पानि अपूर्वाणि सन्ति । बारां इमाम्बट (१७८४) स्थले उन्नतानि गोपुराणि सन्ति । अनेन विशिष्ट भवनेन उपरिष्टात् लक्नौ नगर दर्शन कर्तुं शक्यते । महम्मद अलिषह क्रिस्ताब्दे १८३७ वर्षे स्वसमाधिं निर्मितवान् । ताजमहल् सद्रृशमेतत् अत्रानेका- नि गोपुराणि कलशानि सन्ति । ६७ मीटर् उन्नत घटीयन्त्र गोपुरमस्ति । पुरतः चित्रकला सङ्ग्रहालये औधनवाब महोदयानाम थाव चित्राणा सङ्ग्रहः अस्ति । लक्नौ समीपे गोमती नदीतीरे लक्ष्मणतिला , कैसट्बाग् आर्कलाणिकल् म्यूसिय बनारसीबाग् स्टेट् म्यूसिय , मृगालय इत्यादि दर्शनीयानि स्थाननि सन्ति ।

तीर्थक्षेत्राणि[सम्पादयतु]

अस्मिन् राज्ये पवित्रतमक्षेत्राणि सन्ति। गङ्गा,यमुना नद्योः तटे एतानि क्षेत्राणि विराजन्ते। तानि वाराणसी, अयोध्या, मथुरा, अलाहाबाद् इत्यादीनि प्रसिद्धानि पुण्यतमानि भवन्ति।

मथुरानगरम्[सम्पादयतु]

मथुरा भारतस्य उत्तरप्रदेशे काचित् नगरी अस्ति । भगवतः कृष्णस्य जन्म अत्र अभवत् ।मथुरा देहलीतः १३४ कि.मी. । आग्रातः ५७ कि.मी. दूरे अस्ति । श्रीकृष्णस्य जन्मस्थानम् इति पुराणद्वारा ज्ञायते । अत्र अनेके देवालयाः मुस्लिंजनानाम् आक्रमणेन विनष्टाः आसन् । केचन पुननिर्मिताः सन्ति । श्रीकृष्णस्य मथुरानाथमन्दिरम् अतीव सुन्दरम् अस्ति । चित्रकला सङ्ग्रहालयः इव अस्ति । गर्भगृहे श्रीकृष्णमूर्तिं परितः रजतगावः निर्मिताः सन्ति। केशवमन्दिरसमीपे भागवतमन्दिरमिति सभाभवनम् अस्ति । एतत् प्रार्थनामन्दिरम् इत्यपि प्रसिद्धमस्ति । केशवमन्दिरस्य आवरणे क्रिस्ताब्दे १६६१ तमे वर्षे निर्मितं जातिमस्जिद् इति मुस्लिं प्रार्थनामन्दिरमस्ति । चतुस्तरीयभवनम् एतत् यमुनानदीतीरे अस्ति । समीपे कलासङ्ग्रहालये मूर्तिशिल्पानि नाणकानि बुद्धस्य लोहविग्रहाः च सन्ति । मथुरातः १०कि.मी. दूरे वृन्दावनम् अस्ति । अत्रैव श्रीकृष्णः बाल्ये वेणुवादनं विविधलीलाः च प्रदर्शितवान् । अत्र चैतन्यमहाप्रभुः भक्तेः महिमानं प्रदर्शितवान् । मीरा-गोपीनाथ- मदनमोहन-राधारमण-बिर्लामन्दिराणि अपूर्वाणि सन्ति ।

मथुरास्नानघट्टस्य वर्णचित्रम् (१८८३)

प्रयागः-त्रिवेणीसङ्गमः[सम्पादयतु]

वाराणसीतः १३५ कि.मी. दूरे गङ्गायमुनासरस्वतीनां सङ्गमस्थानं त्रिवेणीसङ्गमः इति ख्यातः अस्ति । सरस्वतीनदी अत्र गुप्तगामिनी अस्ति । प्रयागः इति अस्य पूर्वनाम आसीत् । ब्रह्मा एव अत्र यागं कृतवान् इति पुराणेषु उल्लिखितम् । अकबरस्य काले प्रयागस्य अलाहाबाद् इति नाम आगतम् । अत्र सङ्गमे स्नानं पवित्रम् इति भारतीयाः भावयन्ति । द्वादशवर्षेषु एकवारम् अत्र कुम्बमेला इति महान् उत्सवः प्रचलति । अत्र अक्बरः बृहत् भित्तीनां स्तम्भानां त्रयाणां महाद्वाराणां गोपुराणां च निर्माणं कारितवान् । दुर्गात् यमुनानदीवीक्षणम् अधिकानन्ददं भवति । भारतस्य स्वातन्त्र्यान्दोलने प्रमुखमस्थलम् आनन्दभवनम् आसीत् । अलाहाबादनगरे स्थितमेतत् इदानीं राष्ट्रियस्मारकमस्ति । दुर्गस्य महाद्वारस्य पुरतः अशोकस्तम्भः स्थापितः अस्ति ।

अयोध्या श्रीरामजन्मभूमिः[सम्पादयतु]

[[रामायणम्|रामायणकालात् पूर्वम् अपि प्रसिद्धं स्थलमेतत् । एतत् स्थानं सूर्यवंशीयराजानां राजधानी आसीत् । लखनौतः १३८ कि.मी. दूरे फैजा्बाद्तः १० कि.मी. दूरे च अस्ति । पुण्यक्षेत्रेऽस्मिन् अनेके देवालयाः सन्ति । रामायणस्य अनेके दृश्यानि अत्र उत्कीर्णानि । कैकेयीभवनं , रत्नसिंहासनं , आनन्दभवनं कोपभवनं, वसिष्ठकुण्डः कनकभवनं सरयूनदीतीर इत्यादि दर्शनीयानि । कदाचित् बौद्धानां केन्द्रमप्यासीत् ।

वाराणसी[सम्पादयतु]

काशी बनारस् वारणासी इत्यादि नामभिः प्रसिद्धं काशीपत्तनं पुराणकालादपि अपूर्वं स्थानम् अस्ति । भारतीयानां पवित्रतमं यात्रास्थलम् । वरुणा-असिनद्योः मध्यभागे अस्ति । बनारस् इति राजा प्रशासनं कृतवान् । अतः बनारस् इति नाम आगतम् अस्ति । काशीनगरे विशालाक्षीमन्दिरं विश्वनाथमन्दिरं च गङ्गातीरे स्तः । हनूमान् घाट् मणिकर्णिकाघाट्, पञ्चगङ्गाघाट्, दशाश्वमेधघाट् तुलसीमानसमन्दिरं सङ्कटविमोचनमन्दिरं व्यासकाशी बिर्लाभवनम् इत्यादीनि दर्शनीयानि स्थानानि सन्ति । तुलसीमानसमन्दिरं राजाश्मभिः निर्मितम् । भित्तिसु श्रीतुलसीदासस्य जीवनघटनाः चित्रिताः सन्ति । बिर्लामन्दिरे शिवमन्दिरं मध्ये, दक्षिणे शिवपार्वत्योः मन्दिरं वामभागे श्रीलक्ष्मीनारायणमन्दिरं च सन्ति । काशीविश्वविद्यालयेऽपि विश्वनाथमन्दिरं (बृहत्शिवलिङ्गम्) आकर्षणीयमस्ति ।

सारनाथबौद्धकेन्द्रम्[सम्पादयतु]

वाराणसीतः दश किलोमीटरदूरे बौद्धनां प्राचीनकेन्द्रम् अस्ति । गौतमबुद्धः स्वप्रथमोपदेशम् अत्रैव कृतवान् । बुद्धत्वप्राप्तेः पश्चान् वाराणसीम् आगत्य सारानाथे वासं कृतवान् । सा.श.६४० समये अत्र २५०० पूजाकर्तारः, अशोकस्तम्भः, १००मीटरोन्नतः स्तूपः च आसन्। मोघलवंशीयानां प्रशासनकाले अनेके स्मारकाः नष्टाः अभवन् । अत्र अशोक निर्मितः धमेकास्तूपः अर्ध गोलाकारः ९३ पादोन्नतः च आसीत् । धर्मराणिस्तूप समीपे अशोकः ध्यानासक्तः आसीत् । मुख्यमन्दिरस्य पूरतः स्तम्भः निर्मितः आसीत् । सारानाथस्य पुराशेषवस्तुसङ्ग्रहालये मौर्यकुशानगुप्तंवंशीयानां कालिकाः मूर्तयः सन्ति । सारनाथे लब्धं गौतमबुद्धस्य मूर्तिरपि अत्रास्ति । गणेशसरस्वतीविष्णूनां मूर्तयः अपि अत्र सन्ति । आधुनिककालेऽपि सारानाथक्षेत्रम् एकं दर्शनीयं क्षेत्रमस्ति ।


अन्‍यनगराणि[सम्पादयतु]

मण्डलानि[सम्पादयतु]

उत्तरप्रदेशस्य ७५ मण्डलानि सन्ति।

       
विभागाः

वीथिका[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]

Other
"https://sa.wikipedia.org/w/index.php?title=उत्तरप्रदेशराज्यम्&oldid=398045" इत्यस्माद् पुनः प्राप्तिः