दादरा नगरहवेली च

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
दादरा नागरहवेली च

दादरा एवं नगर हवेली
દાદરા અને નગર હવેલી
केन्द्रशासितप्रदेशः
देशः भारतम्
राज्यम् दादरा नागरहवेली च
Established 1961-08-11
राजधानी सिलवासा
Government
 • Administrator Shri B.S. Bhalla, IAS
Area
 • Total ४८७ km
Area rank 4th
Population
 • Total ३,४२,८५३
 • Rank 33rd
 • Density ७००/km
भाषाः
 • अधिकृताः हिन्दी, गुजराती, आङ्ग्लभाषा
Time zone UTC+5:30 (IST)
ISO 3166 code IN-DN
मण्डलानि
HDI increase
0.618 (2005)
HDI Category high
Website dnh.nic.in

दादर नागर हवेली च भारतस्य कश्चन केन्द्रशासितप्रदेशः अस्ति। एषः पश्चिमतटे गुजरातराज्यस्य समीपे भवति। क्रिस्ताब्दस्य १९५४ पर्यन्तम् एषः प्रदेशः पोर्तुगालदेशीयानां प्रशासने आसीत् । इदानीं भारतसर्वकाराधीनः अस्ति । अस्य विस्तारः ४९१ चतुरस्र कि.मी । सम्पूर्णप्रदेशः एव सुन्दरम् उद्यानमिवास्ति । उत्तमवाहनमार्गः अस्ति । मार्गपाश्वेः सुन्दरवृक्षाणां पङ्क्तिः अस्ति । मृगाः वने स्वतन्त्रतया विहरन्ति । हिरवावन् वाटिकाः अतीवाकर्षकाः सन्ति । लघु निर्झराः जलपाताः जलप्रवहणस्य मधुरध्वनिः एतेषां मध्ये मनोविहारः सुकरः अत्र । अत्र जनानां कालयापनम् अतीव आनन्ददायकम् इष्टं च भवति । वनगङ्गासरोरवस्य पार्श्वे सूर्यास्तोदयानां सुन्दरं दृश्यं प्रेक्षणीयं भवति । नौकाविहाराय अत्र उत्तमः अवसरः अस्ति । अत्र हरिद्वनानि उद्यानानि विहारस्थानानि अपूर्वाणि कल्मशरहितानि सन्ति । वनधारावाटिकायां हरित्तृणभूमौः गमनम् अतीव हर्षाय भवति । धामनगङ्गानदी, वनविहारस्य सानुप्रदेशः, विविधाः वाटिकाः मनोविनोदाय उत्तमानि सन्ति । वासाय उत्तमवसतिगृहाणि सन्त्ति । सिलवासा अस्य प्रदेशस्य राजधानी अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=दादरा_नगरहवेली_च&oldid=387183" इत्यस्माद् प्रतिप्राप्तम्