असमराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
असमराज्यम्
—  राज्यम्  —

Seal
भारते असमराज्यम्
असमराज्यस्य मानचित्रम्
Coordinates (दिसपुर): 26°08′N 91°46′E / 26.14°N 91.77°E / 26.14; 91.77Coordinates: 26°08′N 91°46′E / 26.14°N 91.77°E / 26.14; 91.77
राष्ट्रम्  भारतम्
उद्घोषणम् सा.श.१९४७तमवर्षस्य अगष्टमासस्य १५तमदिनम् ।
राजधानी दिसपुरम्
मण्डलम् २७
सर्वकारः
 • राज्यपालः जानकीवल्लभः पट्नायिक्
 • मुख्यमन्त्री तरुणः गोगी
विस्तीर्णम्
 • सम्पूर्णम्  किमी ( वर्ग मी)
विस्तीर्णतास्तरः १६तमः
जनसङ्ख्या (२०११)
 • सम्पूर्णम्
 • श्रेणी १४तमः
भारतीय कालगणनम् (UTC+05:30)
साक्षरतापरिमाणम् ७३.१८% (१५तमः)
भाषाः अस्सामि, कर्बि, बोडो, बेङ्गाली
जालस्थानम् http://assam.gov.in

असमराज्यम् (Assam) ईशान्य भारते विद्यमानं किञ्चन राज्यम् । भारतस्य सीमाप्रदेशे विद्यमानं राज्यम् अस्ति । राज्यस्य विस्तीर्णं ७८,४६६ चदर कि. मि. अस्ति । अस्य राज्यस्य उत्तरे अरुणाचलप्रदेशः, पूर्वे नागाल्याण्ड तथा मणिपुर, दक्षिणे मिजोरमा तथा मेघालयः, पश्चिमे बाङ्ग्लादेशश्च भवन्ति । अस्य राज्यस्य राजधानि "दिसपुर"।


अन्तर्विषयाः

भौगोलिकम्[सम्पादयतु]

असम-राज्यं पूर्वोत्तरराज्यानां प्रवेशद्वारं मन्यते । इदं पर्वतीयक्षेत्रम् अस्ति । अतः असम-राज्यस्य वातावरणं मनोहरं भवति । ग्रीष्मकाले असमराज्यस्य अधिकतमं तापमानं २५ तः ३० डिग्री मात्रात्मकं, शीतर्तौ न्यूनतमं तापमानं ६ डिग्री मात्रात्मकं भवति । इदं राज्यं भूटान-देशस्य, बाङ्ग्लादेशस्य च अन्ताराष्ट्रियसीमयोः समीपे स्थितम् अस्ति । अस्मिन् राज्ये अधिकतमानि पर्वतीयस्थलानि सन्ति । असम-राज्यस्य उत्तरदिशि भूटान-देशः, अरुणाचलप्रदेशराज्यं च अस्ति । पूर्वदिशि मणिपुर-राज्यं, नागालैण्ड्-राज्यम्, अरुणाचलप्रदेश-राज्यं, दक्षिणदिशि मेघालय-राज्यं, मिजोरम-राज्यं, त्रिपुरा-राज्यं च अस्ति ।

भूकम्पः, आपूरणम् असम-राज्यस्य मुख्ये भौगोलिकसमस्ये स्तः । आपूरणेन प्रतिवर्षं प्रायः ८ तः १० कोटि रूप्यकाणां सम्पत्तीनां हानिः जायते । ई. स. १९६६ तमस्य वर्षस्य आपूरणेन १६००० किलोमीटर्मितं क्षेत्रं जलप्लावितम् अभवत् । असम-राज्ये शैलस्तराणां सञ्चलनेन भूकम्पस्य सम्भावनायाः आधिक्यं भवति । ई. स. १८९७ तमस्य वर्षस्य भूकम्पः असम-राज्यस्य बृहत्तमः भूकम्पः मन्यते । तस्मिन् भूकम्पे भूस्खलनेन, मार्गावरोधेन च महती हानिः जाता । प्रायः १०५५० जनाः मृताः आसन् ।

भूमिः[सम्पादयतु]

काँप्, लेटेराइट् च अस्य राज्यस्य प्रमुखे मृत्तिके स्तः । ते पर्वतीयक्षेत्रेषु, स्थलभागेषु च प्राप्येते । काँप-मृत्तिका नदीनाम् आपूरणक्षेत्रे प्राप्यते । आपूरणविहीनेषु स्थानेषु अम्लीयमृत्तिकाः भवन्ति । इयं मृत्तिका इक्षुदण्डं, फलं, व्रीहीं च उत्पादयितुम् उपयुक्ता भवति । पर्वतीयक्षेत्रस्य लेटेराइट्-मृत्तिका अनुर्वरा भवति । अस्मिन् राज्ये चायस्य कृषिः सर्वाधिकी भवति । प्रायः असम-राज्यं वनाच्छादितम् अस्ति ।

भौगोलिकविभजनम्[सम्पादयतु]

असम-राज्यं त्रिषु भागेषु विभक्तम् अस्ति । १ ब्रह्मपुत्रानद्याः क्षेत्रं, २ मिकिर, उत्तरीकछार इत्येतयोः पर्वतीयक्षेत्रम् , ३ कछार इत्यस्य स्थलम् ।

ब्रह्मपुत्रा-नद्याः क्षेत्रम्[सम्पादयतु]

इदं क्षेत्रम् असम-राज्यस्य उत्तरभागे स्थितम् अस्ति । इदं क्षेत्रं प्रायः ब्रह्मपुत्रा-नद्याः जलेन प्रभावितम् अस्ति । ब्रह्मपुत्रा-नदी अस्य क्षेत्रस्य मध्ये प्रवहति । तेन अस्य क्षेत्रस्य भागद्वयं भवति । अस्य क्षेत्रस्य उत्तरभागः हिमालयात् आगताभिः नदीभिः ध्वस्तः जातः । दक्षिणभागः अल्पविस्तृतः अस्ति ।

मिकिर, उत्तरीकछार इत्येतयोः पर्वतीयक्षेत्रम्[सम्पादयतु]

मिकिर, उत्तरीकछार इत्येतयोः पर्वतीयक्षेत्रं भूम्याकृतिदृष्ट्या अव्यवस्थितः प्रदेशः अस्ति । असम-घाटी इत्यस्य दक्षिणदिशि स्थितम् अस्ति इदं क्षेत्रम् । अस्य क्षेत्रस्य उत्तरभागः अपेक्षया अधिकः उपह्वरः अस्ति ।

कछार इत्यस्य स्थलं, सूरमा घाटी वा[सम्पादयतु]

कछार इत्यस्य स्थलं शणीरावसादैः (Alluvial) निर्मितं समतलं क्षेत्रम् अस्ति । इदं क्षेत्रम् असम-राज्यस्य दक्षिणभागे स्थितम् अस्ति । वास्तविकरूपेण इदं क्षेत्रं बङ्गाल डेल्टा इत्यस्य पूर्वभागः एव कथ्यते ।

नद्यः[सम्पादयतु]

ब्रह्मपुत्रा-नदी असम-राज्यस्य मुख्या नदी वर्तते । सा पूर्वपश्चिमदिशि प्रवहन्ती बाङ्ग्लादेशं प्रविशति । अस्याः नद्याः विभिन्नाः शाखाः सन्ति । अतः नदीस्थितद्वीपानाम् अपि निर्माणं भवति । माजुली इत्ययं द्वीपः विश्वस्य बृहत्तमः नदीस्थितद्वीपः वर्तते । अयं द्वीपः ९२९ चतुरस्रवर्गकिलोमीटर्मितं विस्तृतः अस्ति । ब्रह्मपुत्राः नद्याः पञ्चत्रिंशत् (३५) सहायकनद्यः सन्ति । सुवंसिरि, भरेली, धनसिरी, पगलडिया, मानस, संकाश इत्यादयः नद्यः दक्षिणदिशः ब्रह्मपुत्रा-नद्यां सम्मिलन्ति । लोहित, नवदिहिङ्ग, बूढी दिहिङ्ग, दिसाङ्ग, कपिली, दिगारू इत्यादयः नद्यः उत्तरदिशः ब्रह्मपुत्रा-नद्यां सम्मिलन्ति । सुवंसिरी इत्यादयः नद्यः अपि हिमालयात् उत्तरतः प्रवहन्ति । यत्र पर्वतीयक्षेत्राणि भवन्ति, तत्र एतासां नदीनां जलप्रपाताः अपि भवन्ति । दक्षिणदिशि सूरमा-नदी अपि अस्ति । सा नदी स्वस्याः सहायकनदिभिः सह कछार-क्षेत्रे प्रवहति ।

इतिहासः[सम्पादयतु]

प्राचीनभारतीयग्रन्थेषु अस्य प्रदेशस्य नाम “प्रागज्योतिषपुर” इति आसीत् । पूराणानाम् आधारेण “कामरूप” अस्य राज्यस्य राजधानी असीत् इति ज्ञायते । महाभारतस्य कालादारभ्य भास्करवर्मस्य शासनकालपर्यन्तम् एकस्य वंशस्यैव शासनम् आसीदिति । अभिलेखेषु उल्लेखाः दृश्यन्ते ।

  • सा.श. १८२६ तमे संवत्सरे युद्धसमाप्तेरनन्तरं ब्रिटिष् सार्वकारस्य शासनम् आसीत् ।
  • सा.श. १८३२ तमे संवत्सरे कछार प्रदेशस्य मेलनम् ।
  • सा.श. १८३५ तमे संवत्सरे तियाप्रदेशस्य मेलनम् ।
  • सा.श. १८७४ तमे संवत्सरे ब्रिटीष् सार्वकारस्य मुख्यायुक्तस्य अधीने अयं प्रदेशः आगतः ।
  • सा.श. १९०५ तमे संवत्सरे 'बङ्ग' विच्छेदः तथा सैन्याधिकारेः शासनम् आरब्धम् ।
  • सा.श. १९१५ तमे संवत्सरे पुनः मुख्यायुक्तस्य प्रशासनम् आरब्धम्।
  • सा.श. १९२१ तमे संवत्सरे राज्यपालस्य शासनम्।
  • सा.श. १९४७ तमे संवत्सरे भारतस्य स्वातन्त्र्यप्राप्तिः पाकिस्तानभारतयोः विभजनेन "बहुलसिलहट" प्रदेशस्य पाकिस्ताने मेलनम्।

नामोत्पत्तिः[सम्पादयतु]

असम इति नाम संस्कृत-भाषाधारितम् अस्ति । संस्कृते असम अर्थात् अद्वितीयः । अस्य अपरः अर्थः अपि प्राप्यते यत् – या भूमिः समतला नास्ति सा असमा इति । किन्तु बहवः विद्वांसः मन्यन्ते यत् – असम शब्दस्य मूलरूपम् “अहोम” इति अस्ति । यतः पुरा ब्रिटिश-शासनात् ६०० वर्षाणि पूर्वम् अहोम-राज्ञां शासनम् आसीत् । अतः “अहोम” इति शब्देन असम शब्दस्य आविर्भावः अभूत् । प्राचीनकालादेव अस्य प्रदेशस्य लघुपर्वतेषु आस्ट्रिक, मङ्गोल, द्रविड, आर्य इत्यादयः विभिन्नजातयः निवसन्ति स्म । अतः संस्कृतिः मिश्रिता अभवत् । अतः असम-राज्यस्य सभ्यता, संस्कृतिश्च समृद्धा अस्ति ।

प्राचीने काले अस्य नाम प्राग्ज्योतिषपुरम् इति आसीत् । अनन्तरं “कामरूप” नाम अभवत् । इलाहाबाद-नगरे स्थिते समुद्रगुप्तस्य शिलालेखे कामरूप-राज्यस्य उल्लेखः अपि प्राप्यते । ई. स. ७४३ तमे वर्षे चीन-देशस्य ह्वेन्साङ्ग्-इत्याख्यः विद्वान् यात्री कामरूप-राज्यं प्राप्तवान् आसीत् । तेन कामरूप-राज्यस्य कामोलुपा इति नाम्ना उल्लेखः कृतः आसीत् । एकादशशताब्द्याम् अलबरूनी इत्याख्यः इतिहासकारः अभवत् । तेन स्वस्य पुस्तके अपि कामरूपस्य उल्लेखः कृतः अस्ति । अनेन प्रकारेण महाकाव्यकालात् द्वादशशताब्दीपर्यन्तम् आर्यावर्ते प्राग्ज्योतिषपुरं, कामरूपम् इत्येते नामनी प्रसिद्धे स्तः ।

पौराणिकेतिहासः[सम्पादयतु]

पुराणानुसारम् इदं राज्यं कामरूप-राज्यस्य राजधानी आसीत् । महाभारतानुसारं कृष्णस्य पौत्रेण अनिरुद्धेन उषा-नामिकायाः युवत्याः अपहरणं कृतम् आसीत् । यतः अनिरुद्धः तस्याम् आकृष्टः अभवत् । किन्तु दन्तकथासु प्राप्यते यत् – “उषा अनिरुद्धात् मोहिता जाता आसीत् । अतः उषया स्वयमेव स्वस्याः अपहरणं कारितम् । इयं घटना तत्र कुमारहरणम् इति नाम्ना ज्ञायते । महाभारतकालादारभ्य सप्तमशताब्दीपर्यन्तं भास्करवर्मणः शासनकालपर्यन्तम् च एकस्य राजवंशस्य एव शासनम् आसीत् । बाणभट्टस्य, ह्वेनसाङ्ग्-इत्याख्यस्य च विवरणे अस्य राज्यस्य विवरणं प्राप्यते । महाकाव्यानां, पुराणानां च अनुसारेण अयं वंशः पृथ्व्याः पुत्रः अपि कथ्यते । अतः अयं वंशः भौमः अपि कथ्यते । भास्करवर्मणः राजवंशस्य शिलालेखे समर्थितं यत् – राज्ञा भागदत्तेन, तस्य उत्तराधिकारिभिः च कामरूप-राज्ये ३००० वर्षाणि यावत् शासनं कृतम् आसीत् । तदनन्तरं पुष्यवर्मन्-इत्याख्यः राजा अभवत् । अनेन प्रकारेण पुष्यवर्मणः परवतिनां शासकानां विवरणम् अपि प्राप्तम् । राजा भास्करवर्मन् राज्ञः हर्षवर्धनस्य मित्रम् आसीत् । अतः बाणभट्टेन विरचिते हर्षचरिते काव्ये भास्करवर्मणः उल्लेखः प्राप्यते ।

मध्ययुगः इतिहासः[सम्पादयतु]

मध्यकाले ई. स. १२२८ तमे वर्षे म्यान्मार-देशस्य चाउ लुङ्ग सिउ का फा इत्याख्येन अस्म-राज्ये अधिकारः प्राप्तः आसीत् । सः अहोमवंशीयः आसीत् । तेन अहोमवंशस्य शासनम् आरब्धम् । ई. स. १८२९ तमवर्षपर्यन्तम् अहोम-वंशस्य शासनम् आसीत् । अतः एव कथ्यते यत् – “अहोम-राज्ञां शासनेन एव असम इति नाम अभवत् ।

मण्डलानि[सम्पादयतु]

असमराज्ये २७ मण्डलानि सन्ति।

   

महानगराणि[सम्पादयतु]

गुवाहाटी[सम्पादयतु]

गुवाहाटी असम-राज्यस्य महानगरं विद्यते । गुवाहाटी-महानगरं विकासशीलनगरेषु अन्यतमं वर्तते । इदं भारतस्य ऐशान्यदिशः “प्रवेशद्वारम्” इति कथ्यते । पुरा इदं नगरं प्राग्ज्योतिषपुरं, दुर्जयः च कथ्यते स्म । नगरमिदं वर्मणां, पालवंशानां च काले कामरूपराज्यस्य राजधानी आसीत् । अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । अतः इदं नगरं देवालयनगरम् इत्यपि कथ्यते । ब्रह्मपुत्रा-नद्याः तटे स्थितम् इदं गुवाहाटी-महानगरम् । नगरस्य अपरे पक्षे शिलाङ्ग-उपत्यका विद्यते । ब्रह्मपुत्रा-नद्याः उत्तरतटे उत्तरगुवाहाटी-नगरं विस्तृत् जातम् । भारतस्य प्रमुखशिक्षणवाणिज्यकेन्द्रेषु अन्यतमम् अस्ति गुवाहाटी-महानगरम् । असम-राज्यस्य राजनैतिककार्याणि गुवाहाटी-नगरे भवन्ति । नगरमिदं क्रीडासांस्कृतिकग्गतिविधीनां केन्द्रम् अस्ति । गुवाहाटी-महानगरे जनाः परिवहनस्य सर्वाणि सौकर्याणि अपि प्राप्यन्ते ।

गुवाहाटी-महानगरं, संस्कृतेः, व्यवसायस्य, धार्मिकप्रवृत्तीनां च केन्द्रम् अस्ति । तत्र विविधधर्माणां, क्षेत्राणां च जनाः निवसन्ति । अतः तत्रत्याः संस्कृतयः अपि विविधाः सन्ति । मुघल-शासकैः बहुवारम् असम-राज्ये आक्रमणानि कृतानि आसन् । ते गुवाहाटी-नगरं प्रविष्टाः सन्तः पराजयं प्रापुः । गुवाहाटी-महानगरे अन्ताराष्ट्रियविमानस्थानकं, रेलस्थानकं च वर्तते । गुवाहाटी-महानगरे “इण्डियन् इन्स्टीट्यूट् ऑफ् टेक्नोलॉज (IIT)” इतीयं शैक्षणिकसंस्था स्थिता अस्ति । अतः इदं महानगरं शैक्षणिकस्थित्या दृढं, प्रबलं च वर्तते । “टाटा इन्स्टीट्यूट् ऑफ् सोशल् साइन्स्” इत्यस्याः शैक्षणिकसंस्थायाः शाखा गुवाहाटी-महानगरे अस्ति । सांस्कृतिकदृष्ट्या इदं महानगरं समृद्धमस्ति । नगरेऽस्मिन् बिहू इत्यादयः उत्सवाः उत्साहपूर्वकम् आचर्यन्ते । आवर्षं गुवाहाटी-महानगरस्य तापमानं सामान्यम् एव भवति । अस्य महानगरस्य तापमानं ३० डिग्री तः १९ डिग्री पर्यन्तं भवति । गुवाहाटी-महानगरं भारतस्य सर्वैः भागैः सह सलंग्नम् अस्ति । पूर्वोत्तरभारतस्य वृहत्तमं रेलस्थानकम् अस्ति गुवाहाटी-महानगरे । तत्र “गोपीनाथ बोरडोलोई अन्ताराष्ट्रियविमानस्थानकम्” अपि अस्ति । स्थलमार्गेण अपि भारतदेशे सर्वत्र संलग्नम् अस्ति इदं नगरम् ।

तेजपुरम्[सम्पादयतु]

तेजपुर-नगरम् असम-राज्यस्य सोनितपुर-मण्डलस्य मुख्यालयः अस्ति । नगरमिदं ब्रह्मपुत्रा-नद्याः उत्तरतटे स्थितम् अस्ति । तेजपुर-नगरस्य संस्कृतिः सम्पूर्णे भारते प्रसिद्धा अस्ति । इदं नगरं सांस्कृतिककेन्द्रत्वेन ज्ञायते । शैक्षणिकदृष्ट्या अपि अस्य उच्चस्थानम् अस्ति । भौगोलिकदृष्ट्या नगरमिदं समृद्धम अस्ति । तेजपुरं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । अतः जनाः तत्र भ्रमणार्थं गच्छन्ति । तत्र नदी, स्थलानि, पर्वताः च सन्ति । तेजपुर-नगरे “कोलिया-भोमोरा-सेतुः” अस्ति । ३०१५ मीटरमितं तस्य दैर्घ्यम् अस्ति । “कोलिया-भोमोरा-सेतुः” सोनितपुर-मण्डलं नागांव-मण्डलेन सह योजयति । तेन जनाः आकृष्टाः भवन्ति । तेजपुर-नगरे “अग्निगढ” नामकं वीक्षणीयस्थलम् अस्ति । “अग्निगढ” इतीदं तेजपुर-नगरस्य आकर्षणस्य केन्द्रम् अस्ति । अग्निगढस्थलस्य शीर्षात् तेजपुर-नगरस्य विहङ्गावलोकनं कर्तुं शक्यते ।

तेजपुर-नगरे बहूनि वीक्षणीयस्थलानि सन्ति । तानि – भैरवीमन्दिरं, कोल पार्क्, कोलिया भोमोरा सेतु, पदुम पुखुरी, केत्केश्वर देवल, महाभैरवमन्दिरं, रुद्रपदा, नागशङ्करमन्दिरं च । पुराणानुसारं कथ्यते यत् – “कृष्णस्य पौत्रः अनिरुद्धः, बाणासुरस्य पुत्री उषाया इत्येतयोः प्रणयप्रसङ्गाः तेजपुर-नगरेण सह सम्बद्धाः सन्ति । यदा असुरराजः तयोः प्रेमविषये ज्ञातवान्, तदा असुरराज्ञा अनिरुद्धः बद्धः । अतः कृष्णेन तस्मिन् क्षेत्रे आक्रमणं कृतम् । तस्मात् तत्र घोरयुद्धं सञ्जातम् । युद्धे महारक्तपातः जातः । अतः इदं नगरं तेजपुरम् इति कथ्यते । तेज अर्थात् रक्तम् इत्यर्थः । आधुनिकं तेजपुर-नगरम् ई. स. १८३५ तमे वर्षे प्रसिद्धम् अभवत् । ब्रिटिश-सर्वकारेण इदं नगरं दर्राङ्ग-मण्डलस्य मुख्यालयत्वेन चितम् आसीत् । इदं नगरम् अरुणाचलप्रदेशस्य निकटतमं स्थलम् अस्ति । अतः तेजपुर-नगरे थलसेनायाः, वायुसेनायाः व्यापकोपस्थितिः अस्ति । सांस्कृतिकक्षेत्रे अपि तत्र बहूनि कार्याणि जातानि । असमिया-भाषायाः चलच्चित्रनिर्मातुः “ज्योति प्रसाद अगरवाला” इत्याख्यस्य, क्रान्तिकारिणः गायकस्य “कलागुरु विष्णु प्रसाद राभा” इत्यस्य, प्रसिद्ध चलच्चित्रनिर्मातुः “फानी शर्मा” इत्याख्यस्य च जन्म तेजपुर-नगरे अभवत् । असम-राज्यस्य सांस्कृतिकराजधानीत्वेन ज्ञायते इदं तेजपुर-नगरम् ।

तेजपुर-नगरे वृष्टिः अधिकमात्रायां भवति । ग्रीष्मर्तौ तेजपुर-नगरस्य तापमानं ३६ डिग्री सेल्सियस् पर्यन्तं भवति । शीतर्तौ च ७ डिग्री सेल्सियस् पर्यन्तम् अस्य तापमानं भवति । तेजपुर-नगरे एकं लघुविमानस्थानकम् अस्ति । ततः कोलकाता-नगराय, सिलचर-नगराय नियमितरूपेण वायुयानानि प्राप्यन्ते । तत्र रेलस्थानकम् अपि स्थितम् अस्ति । स्थलमार्गाः अपि परिवहने उपयुक्ताः भवन्ति । ते मार्गाः विभिन्ननगरैः सह तेजपुरं सञ्योजयन्ति ।

दिसपुरम्[सम्पादयतु]

दिसपुर-नगरम् असम-राज्यस्य राजधानी अस्ति । आर्थिकदृष्ट्या अस्य नगरस्य विकासः शीघ्रतया जायमानोऽस्ति । इदं नगरं गुवाहाटी-नगरात् १० किलोमीटर्मितं दूरे स्थितम् अस्ति । पुरा असम-राज्यस्य राजधानी शिलाङ्ग-नगरम् आसीत् । ई. स. १९७३ तमे वर्षे यदा असममेघालययोः विच्छेदः कृतः, तदा मेघालयस्य राजधानी शिलाङ्ग आसीत् । तस्मिन् समये असम-सर्वकारेण दिसपुरं स्वस्य राजधानीत्वेन चितम् आसीत् । असम-राज्यस्य विधानसभा, सचिवालयः च दिसपुर-नगरे स्थितः अस्ति । शिल्पग्रामः, वशिष्ठाश्रमः च दिसपुर-नगरस्य महत्त्वपूर्णं दर्शनीयस्थलं वर्तते । दिसपुर-नगरस्य विपणौ चायस्य महत्प्रमाणेन सघोषविक्रयः भवति । अतः तन्नगरं भारते प्रसिद्धम् अस्ति । यद्यपि दिसपुर-नगरम् असम-राज्यस्य राजधानी अस्ति, तथापि तस्य नगरस्य तन्त्रस्य प्रचालनं प्रतिवेशिनः गुवाहाटी-नगरस्य साहाय्येन भवति । दिसपुर-नगरस्य वातावरणं गुवाहाटी-नगरम् इव अस्ति । किन्तु नवम्बर-मासतः, मार्च-मासपर्यन्तं शीतर्तौ दिसपुर-नगरं गन्तुं शक्यते । तस्मिन् समये बहवः जनाः भ्रमणार्थं तत्र गच्छन्ति । असम-राज्यस्य प्रमुखनगरैः सह दिसपुर-नगरं वायुमार्गेण, रेलमार्गेण, भूमार्गेण च सम्बद्धम् अस्ति ।

सिलचर[सम्पादयतु]

असम-राज्यस्य दक्षिणदिशि सिलचर-नगरं स्थितम् अस्ति । इदं नगरं कछार-मण्डलस्य मुख्यालयः अस्ति । नगरमिदं विशालं नास्ति, तथापि लघुत्वे सत्यपि सुन्दरं वर्तते । इमं नगरं परितः बराक-नदी प्रवहति । तेन अस्य नगरस्य सौन्दर्यं वर्धते । भौगोलिकदृष्ट्या सिलचर-नगरं भारतदेशस्य अन्यैः राज्यैः सह मणिपुर-राज्यं, मिजोरम-राज्यं च सञ्योजयति । आर्थिकदृष्ट्या अपि सिलचर-नगरं विकासशीलम् अस्ति । इदं नगरं तण्डुलानां, चाय इत्यादीनाम् उत्पादनकेन्द्रम् अस्ति । सिलचर-नगरे नैकानि वीक्षणीयस्थलानि सन्ति । तेषु स्थलेषु काञ्चाकान्तिदेव्याः मन्दिरम् अस्ति । इदं मन्दिरं सिलचर-नगरात् १७ किलोमीटर्मितं दूरे स्थितम् अस्ति । भुवनमहादेवमन्दिरं, शहीद का मकबरा, खासपुरं च इत्यादीनि स्थलानि अपि स्थितानि सन्ति । सिलचर-नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । सिलचर-नगरे विमानस्थानकं, रेलस्थानकं च स्थितम् अस्ति । गुवाहाटी-नगराय, कोलकाता-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । राष्ट्रियराजमार्गः अपि तत्र अस्ति । सः मार्गः भारतदेशस्य विभिन्ननगरैः सह असम-राज्यं सञ्योजयति ।

तिनसुकिया[सम्पादयतु]

असम-राज्ये तिनसुकिया-मण्डलम् अस्ति । तस्य मण्डलस्य मुख्यालयः अस्ति तिनसुकिया-नगरम् । इदं नगरम् असम-राज्यस्य बृहत्तमेषु महानगरेषु द्वितीयम् अस्ति । इदं नगरं व्यावसायिकदृष्ट्या अपि समृद्धम् अस्ति । गुवाहाटी-महानगरात् ४८० किलोमीतर्मितं दूरे स्थितम् अस्ति तिनसुकिया-नगरम् । इदं नगरं गुवाहाटी-नगरात् उत्तर-पूर्वदिशि स्थितम् अस्ति । इदं नगरम् असम-राज्यस्य व्यावसायिकराजधानी कथ्यते । इदं "चङ्गमाई-शैलप्रस्थम्" इति नाम्ना अपि ज्ञायते । अस्य नगरस्य प्राचीनं नाम बङ्गमारा आसीत् । इदं मुटाक-साम्राज्यस्य राजधानी आसीत् । तत्र एकं त्रिकोणजलकुण्डम् अपि अस्ति । तत् जलकुण्डं “तिनसुकिया पुखरी” इति कथ्यते ।

तिनसुकिया-नगरस्य समीपे “डिब्रु सैखोवा-राष्ट्रियोद्यानम्” अस्ति । तस्मिन् उद्याने बहुप्रकारकाः जीवाः, जन्तवः, वनस्पतयः च सन्ति । तत्र, डॉल्फिन्, हस्तिनः इत्यादयः लुप्तजीवाः प्राप्यन्ते । तत्र तिलिङ्गा-मन्दिरं बहुप्रसिद्धम् अस्ति । आवर्षं श्रद्धालवः दर्शनार्थं तत्र गच्छन्ति । शीतर्तौ तिनसुकिया-नगरस्य वातावरणम् आह्लादपूर्णं भवति । अतः जनाः शीतर्तौ तत्र भ्रमणार्थं गच्छन्ति । वायुमार्गेण, भूमार्गेण, रेलमार्गेण च तिनसुकिया-नगरं प्राप्तुं शक्यते ।

भाषाः[सम्पादयतु]

असमिया, बोडो च असम-राज्यस्य प्रमुखक्षेत्रीया भाषा, आधिकारिकी भाषा च अस्ति । प्राचीनकाले अपि कामरूप-राज्ये, कामतापुर कछारी. सुतीया, बोरही, अहोम, कोच च इत्यादिषु मध्ययुगीनेषु राज्येषु च असमिया-भाषा सामान्यतया व्यवह्रियते स्म । कामरूपी, ग्वालपरिया इत्यादयः भाषाः असमिया-भाषायाः अपभ्रंशभाषाः सन्ति । नागालैण्ड्-राज्ये, अरुणाचलप्रदेश-राज्ये, पूर्वोत्तरराज्येषु च असमिया-भाषा व्यवह्रियते । इतं परम् असम-राज्ये बङ्ग्ला-भाषा, बोडो-भाषा, नेपाली-भाषा, हिन्दी-भाषा च अपि व्यवहारे प्रयुज्यते ।

शिक्षणम्[सम्पादयतु]

असमराज्ये ‍(६) षड् वर्षादारभ्य (१२) द्वादशवर्षपर्यन्तं माध्यमिकाध्ययनस्य अनिवार्याता अस्ति । निःशुल्केन अध्ययनार्थं सार्वकारपक्षतः व्यवस्था कल्पिता अस्ति । अध्ययन दृष्ट्या राज्यस्य ८० अपेक्षया अधिकेषु केन्द्रेषु विभिन्नाः योजनाः कल्पिताः सन्ति । राज्ये नैके विश्वविद्यालयाः सन्ति । असम कृषिविश्विविद्यालयः, असम विश्व।विद्यालयः, डिब्रुगढ़ विश्‍‍वविद्यालयः, गुवाहाटी विश्वःविद्यालयः, भारतीय प्रौद्योगिकी संस्थानम् , गुवाहाटी, राष्ट्रिय प्रौद्योगिकी संस्थानम् (मानित विश्वयविद्यालयः), तेजपुर विश्वविद्यालयश्च अस्य राज्यस्य प्रतिष्टिताः विश्वविद्यालयाः।

अर्थव्यवस्था, कृषिः[सम्पादयतु]

असम-राज्यस्य अर्थव्यवस्था कृषिप्रधाना अस्ति । अस्य राज्यस्य ८० प्रतिशतं जनसङ्ख्या कृष्याधारिता अस्ति । असम-राज्ये तण्डुलाः, लवेटिका (Corn), गोधुमाः, कार्पासः इत्यादयः प्रमुखाणि सस्यानि सन्ति । चायं, निर्यासः, कॉफी च इत्यादीनि अपि उद्यानसस्यानि सन्ति ।

उद्योगाः[सम्पादयतु]

असम-राज्ये चायस्य उद्योगः प्रमुखः वर्तते । राज्ये प्रायः २.३२ लक्षं हेक्टेयर् क्षेत्रे चायस्य उद्यानानि सन्ति । विश्वस्य सम्पूर्णस्य चायोत्पादने १६ प्रतिशतं योगदानं तु केवलम् असम-राज्यस्य एव अस्ति । गुवाहाटी-नगरे चायस्य सघोषविक्रयकेन्द्रम् अस्ति । तत्केन्द्रं विश्वस्य बृहत्तमं चायविक्रयकेन्द्रं वर्तते । भारतस्य आहत्य चायोत्पादनस्य ५० प्रतिशतम् उत्पादनम् असम-राज्ये एव भवति । राज्ये षड् औद्योगिकविकासकेन्द्राणि सन्ति । इतः परं बालीपाडा, माटिया इत्येतयोः स्थानयोः द्वे औद्योगिककेन्द्रे स्थाप्यमाने स्तः । साम्प्रतं राज्ये चत्वारः तेलशोधकयन्त्रागाराः सन्ति । तेषु एकः डिगबोई-नगरे स्थितः अस्ति । उच्यते यत् – “ई. स. १८६७ तमे वर्षे सर्वप्रथमम् एशिया-खण्डे असम-राज्ये एव तैलोत्पादनाय कूपः उत्खनितः” । तस्य कूपस्य नाम “माकम” इति आसीत् ।

प्राकृतिकवायूनाम् उत्पादने अपि असम-राज्यस्य महद्योगदानं वर्तते । गुवाहाटी-नगरस्य समीपम् अमीनगाँव इत्यत्र अपि “निर्यातसंवर्धनौद्योगिकोद्यानस्य” निर्माणं पूर्णम् अभवत् । असम-राज्यं स्वस्य काष्ठकलायै, हस्तशिल्पकलायै च विश्वप्रसिद्धम् अस्ति । अस्मिन् राज्ये नानाप्रकारकाः गृहोद्योगाः सन्ति । यथा – काष्ठशिल्पकार्यं, धातुशिल्पकार्यं, काष्ठवस्तुनिर्माणं च ।

सिञ्चनं, विद्युदुत्पादनं च[सम्पादयतु]

असम-राज्ये ई. स. १९९९ तः ई. स. २००० पर्यन्तम् आहत्य ८.९८ लक्षं हेक्टेयर् भूमौ सिञ्चनाय व्यवस्था अभवत् । तेषु सिञ्चनविभागः ४.९५ लक्षं हेक्टेयर् क्षेत्रस्य सिञ्चनं करोति । असम-राज्ये वृष्टेः आधिक्येन सिञ्चनस्य व्यवस्था व्यापकरूपेण कृता अस्ति । सिञ्चनाय बह्व्यः योजनाः आरब्धाः । “जमुना सिंचाई योजना” इतीयं योजना अस्म-राज्यस्य बृहत्तम योजना अस्ति । तस्यां योजनायां २६,००० हेक्टेयर् भूमेः सिञ्चनस्य अनुमानम् अस्ति । सिञ्चनाय कूल्यानां दैर्घ्यं १३७.२५ किलोमीटर्मितं भविष्यति ।

असम-राज्यस्य प्रमुखेषु विद्युतावासेषु “चन्द्रपुर ताप बिजली परियोजना”, “नामरूप ताप बिजली परियोजना”, लघु पन बिजली परियोजना च प्रचलन्त्यौ स्तः । इतः परं बहवः विद्युदित्पादनघटकाः स्थापिताः सन्ति । सर्वकारेण “ग्रामीण विद्युतीकरण” इत्यस्य कार्यक्रमस्यान्तर्गततया ६८ प्रतिशतं ग्रामेभ्यः विद्युतः व्यवस्था कृता । आहत्य २१,४९५ ग्रामेभ्यः विद्युतः व्यवस्था कृता । साम्प्रतं “तिपाई मुख बाँध परियोजना” इत्यस्यां योजनायां जलबन्धनिर्माणाय प्रस्तावस्य सर्वकारेण सम्मतिः प्रदत्ता ।

खानिजाः[सम्पादयतु]

तृतीययुगस्य अङ्गारः (Coal), खानिजतैलं च असम-राज्यस्य प्रमुखखानिजाः सन्ति । अस्मिन् राज्ये ४५० लक्षं टन-मात्रात्मकः खानिजतैलस्य सञ्चयः अस्ति । इयं मात्रा सम्पूर्णभारतस्य खानिजतैलस्य पञ्चाशत् (५०) प्रतिशतम् अस्ति । ब्रह्मपुत्रा-नद्याः द्रोण्यां, दिगबोई, नहरकटिया, मोशन, लक्वा, टियोक इत्यादिषु स्थानेषु अपि खानिजतैलं प्राप्यते । असम-राज्यस्य दक्षिणपूर्वदिशः अङ्गारस्य भाण्डारः अस्ति । तस्मिन् भाण्डारे प्रायः त्रयस्त्रिंश्त्कोटिटनपरिमितमात्रायाम् अङ्गाराः सन्ति ।

जातयः[सम्पादयतु]

असम-राज्ये बह्व्यः जातयः सन्ति । तासु जातीषु प्रथमा खासी-जातिः अस्ति । इयं जातिः उत्तरपूर्वदिशः निवासिनः जनाः सन्ति । द्वितीये समूहे दिमासा, बोडो, रामा, कारो, लालुङ्ग च अस्ति । पूर्वभागे डफला, मिरी, अबोर, आपातानी, मिश्मी चेत्यादयः जातयः सन्ति । तृतीये समूहे लुशाई, आका, ककी इत्यादयः जातयः सन्ति । ताः जातयः दक्षिणदिशः समागताः । ताः मणिपुरीजातीषु, नागाजातीषु सम्मिलिताः अभवन् । कछारी, रामा, बोडो च एताः जातयः हिमालस्य उच्चतृणस्थलेषु निवसन्ति । मङ्गोल-जातेः जनाः असम-राज्यस्य अधः भागे निवसन्ति । इयं जातिः गोवालपारा इत्यत्र ‘राजवंशी’ इति नाम्ना प्रसिद्धा । सालोई-जातिः कामरूपे प्रसिद्धा अस्ति । नदियाल-जातिः मत्स्यहन्त्री अस्ति । साम्प्रते असम-राज्ये पश्चिमबङ्गाल-राज्यस्य, बिहार-राज्यस्य, ओडिसा-राज्यस्य चेत्यादीनां राज्यानाम् आदिवासिनः चायस्य उद्यानेषु कार्यं कुर्वन्ति । अतः तेषां जनानां सङ्ख्या अधिका जाता ।

कला, संस्कृतिश्च[सम्पादयतु]

असम-राज्ये बह्व्यः जनजातयः निवसन्ति । अतः तत्र संस्कृतेः अपि वैविध्यं वर्तते । ओजापालि, धोसा, धेमाली सूत्रिया, रास चेत्यादीनि नृत्यानि असम-राज्यस्य संस्कृतेः प्रमुखाणि अङ्गानि सन्ति । असम-राज्यस्य संस्कृतेः उत्सवेषु “रोङ्गाली बिहू”, “कोङ्गाली बिहू”, “भोगली बिहू” च प्रमुखाः उत्सवाः सन्ति । बिहू-नृत्यसमये जनाः प्रतिगृहं गत्वा “हुचरि”-गीतं गायन्ति । असम-राज्यस्य प्रत्येके विवाहे “तामुल पानोर बोटा” इति कांस्याधारिकायाः उपयोगः आवश्यकं भवति । “अम्बुवासी मेला”-उत्सवः असमराज्यस्य बृहत्तमः उत्सवः अस्ति । अयं कामाख्यादेव्याः मन्दिरे आयोज्यते । पूर्वोत्तरभारतस्य राज्येषु “शिवदोल” इत्याख्यं शिवमन्दिरम् उच्चतमं वर्तते । इदं ३७ मीटर्मितम् उन्नतं वर्तते । इदम् असम-राज्यस्य शिवसागरे स्थितम् अस्ति । अस्मिन् राज्ये सूर्यपर्वते मनसादेव्याः द्वादशभुजोपेता प्रतिमा दृश्यते । सूर्यपर्वतस्य तले ९९,९९९ शिवलिङ्गानि स्थापितानि । असम-राज्ये वैष्णवाः अपि निवसन्ति । अतः ते वैष्णवसाधूनां जन्मतिथौ पुण्यतिथौ च भजनानि गायन्ति । अन्यत्र अपि शिवरात्रिमेला उत्सवः, अशोकाष्टमीमेला-उत्सवः, पौषमेला-उत्सवः, परशुराममेला-उत्सवः, अम्बुबाशीमेला-उत्सवः, दोल-जात्रा, ईद, क्रिसमस्, दुर्गापूजा इत्यादयः उत्सवाः असम-राज्ये श्रद्धापूर्वकम् आचर्यन्ते ।

साहित्यम्[सम्पादयतु]

असमिया-भाषायाः साहित्यं सम्पूर्णे भारते प्रसिद्धम् अस्ति । त्रयोदशशताब्द्याम् असमिया-साहित्यस्य आरम्भः जातः । “हेम सरस्वती” इत्यस्य प्रह्लादचरित्रम् असमिया-साहित्येषु प्रथमं साहित्यं मन्यते । एकोनविंशतितमशताब्दीतः आधुनिकस्य असमिया-साहित्यस्य आरम्भः अभवत् । लक्ष्मीनाथ बैजबरुआ, नलिनी बाला देवी, कमलेश्वर चालिहा, डॉ. वीरेन्द्र कुमार भट्टाचार्यः, देवकान्त बरुआ, इन्दिरा गोस्वामी चेत्यादयः असम-राज्यस्य लेखकाः सन्ति । एतेषु “डॉ. वीरेन्द्र कुमार भट्टाचार्यः” ‘मृत्युञ्जय’ इति रचनां चकार । तया रचनया ई. स. १९७९ तमे वर्षे सः ज्ञानपीठपुरस्कारेण सम्मानितः जातः । “इन्दिरा गोस्वामी” अपि ई. स. २००० तमे वर्षे ज्ञानपीठपुरस्कारेण सम्मानिता आसीत् । असमिया-भाषायां “धर्म पुस्तक” इति पुस्तकं प्रकाशितम् । आत्माराम शर्मा अस्य पुस्तकस्य लेखकः आसीत् । असम-राज्ये डॉ. “भूपेन हजारिका” इत्याख्यः संगीतज्ञः अस्ति । राज्ये सः “संगीतसम्राट्” इति नाम्ना ज्ञायते । एवं च “अम्बिका गिरि राय चौधरी” इत्याख्यः “असम केसरी” इति नाम्ना ज्ञायते ।

वनं, वन्यजीवश्च[सम्पादयतु]

असम-राज्यस्य वनेषु विविधप्रकारकाणि काष्ठानि भवन्ति । यथा – साल, महोगनी, सेगल, सागवान् च । एतानि बहुमूल्यानि काष्ठानि सन्ति । ई. स. १९९८ तमे वर्षे असम-राज्ये आहत्य २०.२४ लक्षं हेक्टेयर्-भूमौ वनानि आसन् । तेषु १७.४२ लक्षं हेक्टेयर्-भूमौ आरक्षितानि वनानि सन्ति । असम-राज्यस्य क्षेत्रफलस्य २२.२१ प्रतिशतं भागे आरक्षितानि वनानि सन्ति । असम-राज्ये आहत्य ३९.४४ लक्षं हेक्टेयर-क्षेत्रे कृषिः क्रियते । तेषु २७.०१ लक्षं हेक्टेयर-क्षेत्रे अन्नसस्यानि उद्पाद्यन्ते । असम-राज्ये पञ्च (५) राष्ट्रियोद्यानानि, एकादश (११) वन्यजीवाभयारण्याः च सन्ति । काजीरङ्ग-राष्ट्रियोद्यानं, ‘मानस बाघ परियोजना’ च सम्पूर्णे विश्वस्मिन् प्रसिद्धा अस्ति ।

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

गोपीनाथ बोरदोलोई[सम्पादयतु]

गोपीनाथ बोरदोलोई इत्याख्यः असम-राज्यस्य प्रथमः मुख्यमन्त्री, क्रान्तिकारी च आसीत् । गोपीनाथेन भारतस्य स्वतन्त्रताप्राप्त्यनन्तरं सरदार वल्लभभाई पटेल-इत्याख्येन सह कार्यं कृतम् आसीत् । अस्य योगदानेन एव असम-राज्यं भारतस्य भागः अस्ति । ई. स. १९३८ तमस्य वर्षस्य सितम्बर-मासस्य एकोनविंशतितमदिनाङ्क (१९/०९/१९३८) तः ई. स. १९३९ तमस्य वर्षस्य नवम्बर-मासस्य सप्तदश दिनाङ्कपर्यन्तं (१७/११/१९३९) असम-राज्यस्य मुख्यमन्त्रित्वेन कार्यं कृतम् आसीत् ।

ज्योतिप्रसाद आगरवाला[सम्पादयतु]

ज्योतिप्रसाद आगरवाला इत्याख्यः असम-राज्यस्य प्रथमः चलच्चित्रनिर्माता आसीत् । अस्य जन्म ई. स. १९०३ तमस्य वर्षस्य जून-मासस्य सप्तदश (१७) दिनाङ्के अभवत् । अयं नाट्यकारः, कथाकारः, गीतकारः, पत्रसम्पादकः, सङ्गीतकारः, गायकश्च आसीत् । तेन चतुर्दशवर्षदेशीयेन एव “शोणित कुंवरी” इति नाट्यस्य रचना कृता आसीत् । ई. स. १९३५ तमे वर्षे “ज्योमति कुंवारी” इति नाट्याधारितं प्रथमम् असमप्रान्तीयं चलच्चित्रं निर्मापितम् आसीत् । सः अस्य चलच्चित्रस्य निर्माता, निर्देशकः, पटकथाकारः, मञ्चनिर्माता, सङ्गीतकारः, नृत्यनिर्देशकश्च आसीत् ।

भुपेन हजारिका[सम्पादयतु]

भुपेन हजारिका इत्याख्यः असम-राज्यस्य गीतकारः, सङ्गीतकारः, गायकश्च आसीत् । सः असमिया-भाषायाः कविः, चलच्चित्रनिर्माता, लेखकः च अपि आसीत् । तस्य जन्म ई. स. १९२६ तमस्य वर्षस्य सितम्बर-मासस्य ८ दिनाङ्के (८/०९/१९२६) अभवत् । सः असम-राज्यस्य संस्कृतिज्ञः, सङ्गीतज्ञः च आसीत् । तेन काव्यलेखने, पत्रकारितायां, गायने, चलच्चित्रनिर्माणे इत्यादिषु क्षेत्रेषु कार्यं कृतम् आसीत् ।

इन्दिरा रायसम गोस्वामी[सम्पादयतु]

इन्दिरा रायसम गोस्वामी इत्याख्या असमिया-भाषायाः लेखिका आसीत् । तस्याः जन्म ई. स. १९४२ तमस्य वर्षस्य नवम्बर-मासस्य चतुर्दश दिनाङ्के (१४/११/१९४२) अभवत् । इयं ज्ञानपीठपुरस्कारेण सम्मानिता आसीत् । सा असम-राज्ये स्थितस्य “युनाइटेड् लिबरेशन् फ्रण्ट् ऑफ् असम (ULFA)” नामकस्य सङ्घटनस्य कार्यकर्त्री आसीत् । अस्मिन् सङ्घटने “इन्दिरा रायसम गोस्वामी” इत्यस्याः महद्योगदानम् अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

हाजो[सम्पादयतु]

हाजो इत्येतत् स्थलम् असम-राज्यस्य महत्त्वपूर्णं धार्मिकस्थलं वर्तते । हाजो-स्थले हिन्दु-धर्मस्य, बौद्ध-धर्मस्य, इस्लाम-धर्मस्य च सङ्गमः अस्ति । तत्र हिन्दुधर्मस्य बहूनि मन्दिराणि स्थितानि सन्ति । इतः परं भगवतः बुद्धस्य पवित्रस्थलानि अपि सन्ति । इस्लामधर्मस्य साधूनां पवित्रस्थानम् अपि तत्र स्थितम् अस्ति । अनेन प्रकारेण हाजो इत्येतत् धर्मत्रयस्य मेलनम् अस्ति । इदं क्षेत्रं दिसपुर-नगरात् समीपे स्थितम् अस्ति । अतः सरलतया तत्स्थलं प्राप्तुं शक्यते । इदं स्थलं लोकप्रियं वर्तते । हाजो इत्येतस्य इतिहासमतानि भिन्नानि सन्ति । कथ्यते यत् – “इदं स्थलं कोच-राजवंशस्य राजधानी आसीत् । अनन्तरं मुघलशासनस्याधीनम् अभवत् । अस्य नगरस्य विभिन्नानि नामानि सन्ति । एकादशशताब्द्याम् अस्य नगरस्य अपूर्णाभाव, मणिकुटा इत्येते नामनी आस्ताम् । अनन्तरम् अष्टादशशताब्द्यां मणिकुटग्रामः इति नाम्ना विख्यातः आसीत् । बौद्धाः कथयन्ति यत् – “हाजो इत्यस्मिन् एव भगवता बुद्धे निर्वाणं प्राप्तम् आसीत् ।

हाजो-नगरे नैकानि मन्दिराणि सन्ति । तेषु हयग्रीवामाधवमन्दिरं प्रसिद्धमन्दिरेषु अन्यतमम् अस्ति । मन्दिरेऽस्मिन् भगवतः विष्णोः प्रतिमा अस्ति । इस्लाम-धर्मानुयायीनाम् अपि उपासनागृहाणि सन्ति । अतः ते अपि दर्शनार्थं तत्र गच्छन्ति । अन्यानि अपि मन्दिराणि सन्ति । गणेशमन्दिरं, केदारेश्वरमन्दिरं, कामेश्वरीमन्दिरं, धोपारगुरी सत्रा, जोयदुर्गामन्दिरं च इत्यादीनि प्रमुखाणि तीर्थस्थलानि सन्ति । ग्रीष्मर्तौ हाजो-नगरस्य वातावरणम् उष्णम्, आर्द्रं च भवति । किन्तु शीतर्तौ वातावरणं यात्रायै अनुकूलं भवति । अतः जनाः शीतर्तौ भ्रमणार्थं तत्र गच्छन्ति । हाजो-नगरं गुवाहाटी-नगरात् २५ किलोमीटरमिते दूरे स्थितम् अस्ति । अतः गुवाहाटी-नगरात् हाजो-नगरं गन्तुं नियमितरूपेण बस-यानानि प्राप्यन्ते ।

माजुलीद्वीपः[सम्पादयतु]

माजुलीद्वीपः एकम् आध्यात्मिकं स्थलं वर्तते । तत्स्थलम् इतिहासेन, संस्कृत्या च सह संलग्नम् अस्ति । इदं स्थलम् असम-राज्यस्य बृहत्तमं वीक्षणीयस्थलं वर्तते । तस्मिन् स्थले वैष्णवधर्मः अपि विद्यते । तत्स्थलं वैष्णवधर्मस्य केन्द्रं मन्यते । इदं स्थलं ब्रह्मपुत्रा-नद्याः तटे स्थितम् अस्ति । तया नद्या अस्य स्थलस्य प्राकृतिकं सौन्दर्यं वर्धते । नद्या निर्मितेषु द्वीपेषु विश्वस्य बृहत्तमः द्वीपः अस्ति माजुलीद्वीपः । पुरा अयं दीपः १२५० चतुरस्रवर्गकिलोमीटरमितः विस्तृतः अस्ति । किन्तु मृत्तिकायाः अपकर्षणेन साम्प्रतम् अयं ४२१.६५ चतुरस्रवर्गकिलोमीटरमितः एव विस्तृतः अस्ति । इदं स्थलं जोरहट-नगरात् २० किलोमीटरमिते दूरे स्थितम् अस्ति । नौकायानेन माजुलीद्वीपं प्राप्तुं शक्यते ।

माजुली-द्वीपे प्रायः जलप्लावनं भवति । अतः अस्य द्वीपस्य पारिस्थिकतन्त्रं दूषितम् अभवत् । किन्तु अस्य द्वीपस्य वर्तमानकालिकस्थितिः तस्य स्थलस्य धर्मप्रभावेण, संस्कृत्याः प्रभावेण च अस्ति । तत्र सतना इत्याख्या सांस्कृतिकसंस्था अस्ति । आहत्य पञ्चविंशतिः सांस्कृतिकसंस्थाः तत्र स्थिताः सन्ति । मन्यते यत् – “एताः संस्थाः वैष्णवधर्मस्य केन्द्राणि सन्ति । असमियासाधुना श्रीशङ्करदेवेन एतेषां केन्द्राणां प्रोत्साहनं कृतम् आसीत् । पुनश्च श्रीशङ्करदेवस्य अनुयायिना माधवदेवेन अपि एतासां वृद्ध्यर्थं प्रोत्साहनं कृतम् आसीत् । भारतस्य प्रमुखशास्त्रीयनृत्येषु सत्तरिया-नृत्यस्यापि केन्द्रम् अस्ति अयं द्वीपः ।

सतरा-संस्थाः सामाजिक्यः, धार्मिक्यः च सन्ति । तत्र वैष्णवधर्मपालनाय शिक्षणं प्रदीयते । सर्वेषां सतरा-संस्थानां विशिष्टं महत्त्वम् अस्ति । तत्र विभिन्नानि धार्मिकशिक्षणानि प्रदीयन्ते । माजुलीद्वीपस्य वातावरणं लोकप्रियं नास्ति । यतः तत्र वर्षा अधिककालपर्यन्तं भवति । तत्र उष्णतायाः अपि आधिक्यं भवति । केवलं शीतर्तौ एव वातावरणं शीतलं, सामान्यं च भवति । अतः तस्मिन् काले माजुलीद्वीपः भ्रमणं कर्तुं योग्यः ।

शिबसागरः[सम्पादयतु]

शिबसागरः शिवसागरस्य अपभ्रंशनाम अस्ति । शिवसागरः अर्थात् “शिवस्य समुद्रः” । गुवाहाटी-नगरात् ३६० किलोमीटर्मितं दूरे स्थितम् अस्ति इदं नगरम् । इदं शिबसागर-मण्डलस्य मुख्यालयः अपि अस्ति । पुरा इदं नगरं शतवर्षाणि यावत् अहोम-साम्राज्यस्य राजधानी आसीत् । अतः इदम् ऐतिहासिकस्थलम् अपि कथ्यते । तत्र मानवनिर्मितः शिवसागर-तडागः अस्ति । सः तडागः १२९ एकड-मात्रात्मकः विस्तृतः अस्ति । इमं तडागं परितः शिबसागर-नगरं स्थिम् अस्ति । तस्मिन् नगरे अहोम-साम्राज्यस्य ऐतिहासिकानि स्मारकाणि सन्ति । शिबसागरं न केवलम् ऐतिहासिकं स्थलम् अस्ति, अपि तु व्यावसायिकं स्थलम् अपि अस्ति । यतः तत्र तैलस्य, चायस्य च प्रचूरमात्रायां व्यापारः भवति । अतः नगरमिदम् असम-राज्यस्य पर्यटनस्थलम् अभवत् ।

असम-राज्ये अहोमवंशेन ६०० वर्षाणि यावत् शासनं कृतम् आसीत् । ई. स. १८१७ तमे वर्षे बर्मीज-वंशेन अहोमवंशस्य मूलतः नाशः कृतः । अनन्तरं ब्रिटिश-सर्वकारेण शासनं कृतम् आसीत् । इदं नगरं दीर्घकालं यावत् अहोम-वंशस्य शासनधीनम् आसीत् । अतः अस्मिन् नगरे अहोम-शासकानां स्मृतिचिह्नानि प्राप्यन्ते । शिबसागर-तडागः अस्य नगरस्य आकर्षणकेन्द्रं विद्यते । अयं शिबसागर-तडागः २०० वर्षाणि पुरातनः अस्ति । तडागं परितः शिवडोल-मन्दिरं, विष्णुडोल-मन्दिरं, देवीडोल-मन्दिरं च स्थितम् अस्ति । एतानि त्रीणि मन्दिराणि महत्त्वपूर्णानि सन्ति । ई. स. १७३४ तमे वर्षे एतेषां मन्दिराणां निर्माणं राज्ञ्या मदम्बिकया कारितम् आसीत् । इतः परं तत्र “तलातल घर”, “करेङ्ग घर”, “गरगांव महल” च इत्यादीनि स्थलानि सन्ति । शिबसागरस्य जलवायुः अल्पोष्णकटिबन्धीयः अस्ति । अयं जलवायुः पर्यटनदृष्ट्या अनुकूलं भवति । वर्षर्तौ अपि अतिवृष्टिः भवति । ग्रीष्मर्तौ अस्य नगरस्य अधिकतमं तापमानं ३० डिग्री-मात्रात्मकं भवति । शीतर्तौ अस्य नगरस्य न्यूनतमं तापमानं ७ डिग्री-मात्रात्मकं भवति । शिबसागरात् १६ किलोमीटरमिते दूरे सिमलगुरी-नगरे रेलस्थानकम् अस्ति । अपि च जोरहट-नगरं ५५ किलोमीटरमिते दूरे स्थितम् अस्ति । तत्र विमानस्थानकम् अस्ति । भूमार्गेण अपि तत्र गन्तुं शक्यते । शिबसागर-नगरं धार्मिकस्थलत्वेन प्रसिद्धम् अस्ति ।

डिब्रूगढ[सम्पादयतु]

डिब्रुगढ-नगरम् असम-राज्यस्य सुन्दरं नगरं विद्यते । इदं नगरं ब्रह्मपुत्रा-नद्याः समीपे स्थितम् अस्ति । अस्य नगरस्य अपरे पक्षे हिमालयपर्वतशृङ्खलाः सन्ति । असम-राज्यस्य पर्यटनस्थलेषु विशिष्टतमं स्थलम् अस्ति इदं नगरम् । डिब्रुगढ-नगरे चायस्य अत्यधिकम् उत्पादनं क्रियते । राज्यस्य ५० प्रतिशतं चायस्य उत्पादनं डिब्रूगढ-नगरे, टिंसुकिया-नगरे, शिबसागर-नगरे च भवति । डिब्रुगढ-नगरं भारतस्य “चायस्य नगरं” कथ्यते । डिब्रुगढ-नगरे चायस्य बहूनि उद्यानानि सन्ति । तानि उद्यानानि ब्रिटिश-कालिनानि सन्ति । डिब्रुगढ-नगरस्य भ्रमणे चायस्य उद्यानानि एव विशिष्टानि सन्ति । भारतस्य विशालनदीषु ब्रह्मपुत्रा-नदी अन्यतमा वर्तते । यदा इयं नदी शान्ततया प्रवहति, तदा नगरे अपि शान्तिः भवति । किन्तु यदा नदी अशान्ता भवति, तदा डिब्रुगढ-नगरस्य केचन अंशाः नष्टाः भवन्ति । अतः एव डिब्रुगढ-नगरस्य प्रगतिः अवरुद्धा अस्ति । सामान्यतः जलप्लावनेन डिब्रुगढ-नगरस्य स्थितिः गभीरा भवति ।

डिब्रुगढ-नगरे अहोम-राज्ञैः सांस्कृतिकसंस्थाः, सामाजिकसंस्थाः, धार्मिकसंस्था च निर्मापिताः । ताः संस्थाः सतरा इति कथ्यन्ते । ताः सतरा-संस्थाः डिब्रुगढ-नगरस्य प्रमुखाणी वीक्षणीयस्थलानि सन्ति । एताः संस्थाः डिब्रुगढ-नगरस्य प्रमुखाणि आकर्षणकेन्द्राणि अपि सन्ति । जनाः डिब्रुगध-नगस्य भ्रमणे ताः सतरा-संस्थाः अवश्यमेव पश्यन्ति । डिब्रुगढ-नगरस्य वातावरणं सामान्यतः अनुकूलं भवति । अतः एव जनाः कस्मिँश्चिदपि समये डिब्रुगढ-नगरस्य भ्रमणार्थं गन्तुं शक्नुवन्ति । रेलमार्गेण, भूमार्गेण, वायुमार्गेण च डिब्रुगध-नगरं गन्तु शक्यते । यतः डिब्रुगध-नगरे एकं रेलस्थानकं, एकं विमानस्थानकं चास्ति ।

जोरहाट[सम्पादयतु]

जोरहाट असम-राज्यस्य प्रमुखेषु नगरेषु अन्यतमम् अस्ति । इदं नगरम् असम-राज्यस्य उत्तरदिशि स्थितम् अस्ति । अतः नागालैण्ड-राज्यस्य, असम-राज्यस्य च प्रवेशद्वारं कथ्यते । जोरहाट इत्यत्र शब्दद्वयं विद्यते । “जोर, हाट” च इति । जोर अर्थात् द्वौ, हाट् अर्थात् आपणः । द्वौ आपणौ इति अर्थः प्राप्यते । अष्टादशशताब्द्यां तत्र द्वौ साप्ताहिकौ आपणौ भवतः स्म । प्रथमः चौकी हाट, द्वितीयः मचरारहाट च इति । एतयोः आपणयोः मध्यतः भगदोई-नदी प्रवहति । जोराहाट-नगरं पुरा अहोम-राज्ञां राजधानी आसीत् । अतः नगरे ऐतिहासिकावशेषाः अपि प्राप्यन्ते । जोरहाट-नगरे बहूनि चायोद्यानानि सन्ति । तेभ्यः उद्यानेभ्यः इदं नगरं भारते प्रसिद्धम् अस्ति । जोरहाट-नगरे, समीपस्थेषु क्षेत्रेषु च आहत्य १३५ चायोद्यानानि सन्ति । चायसम्बद्धानि अपि नैकानि स्थलानि सन्ति । तानि – “सिन्नामोरा चायोद्यानं”, “टोकलाई चाय अनुसन्धानकेन्द्रं” च । “टोकलाई चाय अनुसन्धानकेन्द्रं” विश्वस्य प्राचीनतमं चायसंस्थानं वर्तते । अनेन संस्थानेन जोरहाट-नगरस्य सौन्दर्यं वर्धते । जोरहाट-नगरं सांस्कृतिकदृष्ट्या अपि समृद्धम् अस्ति । तत्र बहवः लेखकाः, इतिहासकाराः, सङ्गीतकाराः च अभवन् । “वीरेन्द्र कुमार भट्टाचार्यः” असमिया-भाषायाः प्रथमः लेखकः आसीत् । सः ज्ञानपीठपुरस्कारं प्राप्तवान् । “कृष्णा कान्ता हाण्डिक” इत्याख्यः शिक्षणक्षेत्रे प्रसिद्धः अस्ति । तयोः जन्म जोरहाट-नगरे एव अभवत् । जोरहाट-नगरे आवर्षम् आर्द्रता भवति एव । ग्रीष्मर्तौ अत्यन्तम् उष्णं वातावरणं भवति । वर्षर्तौ तु पर्याप्तमात्रायां वृष्टिः भवति । जोरहाट-नगरे विमानस्थानकं, रेलस्थानकम् अपि अस्ति । अतः वायुमार्गेण, रेलमार्गेण, भूमार्गेण च जोरहाट-नगरं प्राप्तुं शक्यते ।

हाफलाङ्ग[सम्पादयतु]

हाफलाङ्ग-नगरम् असम-राज्ये स्थितम् एकं पर्वतीयक्षेत्रं विद्यते । इदं स्थलं पूर्वदिशः “स्विट्जरलैण्ड्” इत्यपि कथ्यते । नगरमिदम् अत्यन्तं सुन्दरं दृश्यते । इदं बारक-उपत्यकायाः समीपे स्थितम् अस्ति । इदं नगरं कछर-मण्डलस्य मुख्यालयः अपि अस्ति । हाफलाङ्ग-नगरे जनानाम् आवागमनं निरन्तरं भवति । ग्रीष्मर्तौ समीपस्थनगराणां जनाः प्रायः तत्र गच्छन्ति । हाफलाङ्ग-नगरं समुद्रतलात् ५१२ किलोमीटर्मितम् उन्नतम् अस्ति । इदं स्थलं पर्वतानां मध्ये स्थितम् अस्ति । क्षेत्रमिदं शीतलम् अस्ति । तत्र जलप्रपाताः अपि सन्ति । हाफलाङ्ग-नगरं “व्हाइट् एण्ट् हिलॉक्” इति नाम्ना अपि ज्ञायते ।

हाफलाङ्ग-नगरस्य समीपे मैबोङ्ग-स्थलम् अस्ति । तत्स्थलं “दिमासा-कछरी”-साम्राज्यस्य राजधानी आसीत् । हाफलाङ्ग-नगरस्य जलवायुः उपोष्णकटिबन्धीयः अस्ति । तत्र सामान्यतया उष्णता अपि भवति । किन्तु वातावरणम् अनुकूलम् एव भवति । शीतर्तौ वातावरणम् अतिशीतलं भवति । एवं च वर्षर्तौ वृष्टिः अपि पर्याप्तमात्रायां भवति । हाफलाङ्ग-नगरं सिलचर-नगरात् १०६ किलोमीटरमिते दूरे स्थितम् अस्ति । सिलचर-नगरे विमानस्थानकम् अस्ति । अतः सिलचर-नगरपर्यन्तं वायुमार्गेण, रेलमार्गेण च गन्तुं शक्यते । ततः भूमार्गेण हाफलाङ्ग-नगरं प्राप्यते ।

डिगबोई[सम्पादयतु]

डिगबोई-नगरम् असम-राज्यस्य व्यावसायिककेन्द्रम् अस्ति । अस्मिन् नगरे तैलशोधनयन्त्रागाराः अपि अस्ति । ते यन्त्रगाराः प्राचीनाः सन्ति । साम्प्रतम् अपि ते यन्त्रागाराः कार्यरताः सन्ति । ई. स. १८९९ तः अस्मिन् नगरे यन्त्रागाराः सन्ति । अतः इदम् असम-राज्यस्य “तैलस्य नगरं” अपि कथ्यते । ई.स १९०१ तमे वर्षे तैलशोधनयन्त्रागाराः सम्यक्तया कार्यरताः आसन् । अतः आङ्ग्लाः अपि तत्रैव निवसन्ति स्म । आङ्लानां प्रभावेण इदानीमपि अस्मिन् नगरे आङ्ग्लानां स्मरणं भवति । सैखोवा-राष्ट्रियोद्यानं, रिज् पॉइण्ट्, युद्धसमाधिक्षेत्रं च प्रमुखानि वीक्षणीयस्थलानि सन्ति । डिगबोई-नगरस्य जलवायुः उपोष्णकटीबन्धीयः वर्तते । जनाः शीतर्तौ विहाराय तत्र गच्छन्ति । अस्मिन् नगरे विमानस्थानकं, रेलस्थानकं च नास्ति । किन्तु डिब्रूगढ-नगरस्य विमानस्थानकं, तिनसुकिया-नगरस्य रेलस्थानकं च समीपे एव अस्ति । एवं च ३८ क्रमाङ्कस्य राष्ट्रियराजमार्गः तत्र प्राप्यते । अतः तेन डिगबोई-नगरं देशस्य विभिन्नभागैः सह सम्बद्धम् अस्ति ।

काझिरङ्गाराष्ट्रियोद्यानम्[सम्पादयतु]

असमराज्यस्य मध्यभागे विराजमाना गुवहाटी तस्य राजधानी अस्ति । तस्य ईशान्यभागे ब्रह्मपुत्रनदःतीरे मिकिरपर्वतप्रदेशे एतत् राष्ट्रियम् उद्यानमस्ति । ब्रह्मपुत्रनदतीरे मिकिरपर्वतप्रदेशे एतत् राष्ट्रीयम् उद्यानमस्ति ब्रह्मपुत्रनदस्य प्रपाते ९०० चतुरस्रकि.मी प्रदेशे व्याप्तविफुलैः वृक्षै तरुलताभिः फलवृक्षैः प्राणिभिः पूर्णम् अस्ति । पूर्वमेतत् अज्ञातस्थलमासीत् । सा.श.१९०८ तमे वर्षे एतत् राष्ट्रियोद्यानवनमिति घोषितवन्तः । सा.श. १९५० तमे वर्षे वन्यप्राणिरक्षणकेन्द्रमिति परिवर्तितं राष्ट्रियोद्यानम् अभवत् । अत्र गन्तुं साहासिभिः एव साध्यमस्ति । अहोंसाम्राज्यस्य प्राचीना राजधानीं जोरहात् प्रदेशम् आगत्यानन्तरं वनप्रदेशे गन्तव्यम् । निबिडे वने एषा प्रपातभूमिः अस्ति । गजारोहणं कृत्वा एलिफेण्टा शाद्वलमध्ये गन्तव्यं भवति । मार्गे अरण्याधिकारिणः मार्गदर्शनं कुर्वन्ति । एकत्र एकश्रृङ्गी खड्गमृगाः १८५५ सङ्ख्यधिकाः निवसन्ति । १२०० सङ्ख्यधिकाः गजाः व्याघ्राः १४०० सङ्ख्यधिकाः वनमहिषाः सन्ति । विविधाः अजगराः, मानिटर् लिजर्डप्राणिनः पक्षिसङ्कुलानि अत्र सन्ति । प्राणिसङ्कुलस्य ७५ प्रतिशतं प्राणिनः अत्र निवसन्ति इति पक्षितज्ञानाम् अभिप्रायः ।

शिबसागरम्[सम्पादयतु]

एतत् असमराज्यस्य उत्तरभागे स्थितं मण्डलम् । पूर्वम् अत्र ६०० वर्षपर्यन्तं अदोसाम्राज्यस्य राजधानी आसीत् । शिवाय अर्पितमिति कारणेन अस्य शिवसागरम् इति नाम आगतम् । अत्र २०० वर्षपूर्वतः विख्यातं शिबसागरं सरः ५२ हेक्तर् परिमितं विस्तृतम् अस्ति । अत्र जलस्तरः ग्रामस्य जलस्तरतः उपरि अस्ति । अत्र नगरे शिवदोल देवालयः (सा.श.१७३४काले), विष्णुदोल् देवीदोल् देवालयौ च सन्ति । शिवहोल् भारतदेशे एव अत्युन्नत (१०४ मीटर्) अस्ति । अस्य परिधिः १९५ पादमित अस्ति । अस्य विस्तारः हेक्तर् मितमस्ति । मार्गः – जोहराततः ५५ कि.मी.

मजूलिद्वीपः[सम्पादयतु]

मजूद्वीपः असमराज्ये ब्रह्मपुत्रनदेन निर्मितः विश्वस्य अतिबृहद्द्वीपः । अहो वंशीयानां प्रशासनकाले एषः प्रदेशः अतीव समृध्दः आसीत् । प्रपञ्चस्य जीववैविध्यम् अत्र दृष्टुं शक्यते । अत्र पक्षिणः प्राणिनः च विशिष्टाः कीटाः च सन्ति । विश्वसंस्थया अयं प्रदेशः विश्वपरम्परास्थानम् इति उद्घुष्टम् । अत्र बहवः वैष्णवमतानुयायिनः सन्ति । अत्र गन्तुं विमानधूमशकटवाहनसम्पर्कः अस्ति । समीपे दोहारत् इति नगरम् अस्ति ।

परिवहनम्[सम्पादयतु]

असम-राज्यस्य नदीनां कारणेन जलमार्गः अधिकः विकसितः अस्ति । परिवहने जलमार्गस्य उपयोगं भवति । इतः परं स्थलमार्गाः अपि सन्ति । ई. स. १९६६ तमे वर्षे रेलमार्गाणां दैर्घ्यं ५,८२७ किलोमीटरमितम् आसीत् । राजमार्गाणां दैर्घ्यं २०,६७८ किलोमीटरमितं वर्तते । राष्ट्रियमार्गाणां दैर्घ्यं २,९३४ किलोमीटरमितम् अस्ति । अस्मिन् राज्ये जलमार्गाणां विशिष्टं महत्त्वं विद्यते । प्राचीनकाले अपि जलमार्गाणां सर्वाधिकः उपयोगः क्रियते स्म । यतः असम-राज्यस्य नदीनां दैर्घ्यं ३२६१ किलोमीटरमितम् अस्ति । तत्रापि १६५३ किलोमीटरमितं मार्गः नौकाचालने योग्यः वर्तते ।

असम-राज्ये षड् विमानस्थानकानि सन्ति । तत्र नियमितरूपेण विमानसेवा दीयते । गुवाहाटी-नगरे “गोपीनाथ बाडदोलोई विमानस्थानकं”, तेजपुर-नगरे “सलोनीबाडी विमानस्थानकं”, डिब्रूगढ-नगरे “मोहनबाडी विमानस्थानकं”, उत्तरलखीमपुरे “सिलोनबाडी विमानस्थानकं”, सिलचर-नगरे “कुभीरग्राम विमानस्थानकं”, जोरहाट-नगरे “रोवरियाह विमानस्थानकं” च अस्ति ।

वीथिका[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=असमराज्यम्&oldid=394656" इत्यस्माद् पुनः प्राप्तिः