मिजोरामराज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मिजोरमराज्यम् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
Mizoram
मिजोरामराज्यम्
राज्यम्
Official seal of Mizoramमिजोरामराज्यम्
Seal
भारते मिजोरामराज्यम्
भारते मिजोरामराज्यम्
Coordinates (ऐजोल): २३°२२′उत्तरदिक् ९२°४८′पूर्वदिक् / 23.36°उत्तरदिक् 92.80°पूर्वदिक् / २३.३६; ९२.८०निर्देशाङ्कः : २३°२२′उत्तरदिक् ९२°४८′पूर्वदिक् / 23.36°उत्तरदिक् 92.80°पूर्वदिक् / २३.३६; ९२.८०
राष्ट्रम्  भारतम्
उद्घोषणा २० फेब्रवरी १९८७
राजधानी ऐजोल
मण्डलम्
Government
 • राज्यपालः एम एम लखेरा
 • मुख्यमन्त्री जोरामथांगा
Area
 • Total �.
Area rank २४ तम
Population (२०११)
 • Rank २७तम
Time zone भारतीय कालगणनम् (UTC+05:30)
साक्षरतापरिमाणम् ९१.५८% (१५तम)
भाषा मिजो
Website http://mizoram.nic.in/

मिजोरामराज्यं (आङ्ग्ल: Mizoram) भारतदेशस्य ईशान्यभागे विद्यमानं राज्यम् । अस्य राज्यस्य राजधानी ऐजोल इत्येतन्नगरम् । ईशान्यभारते मिजोरामराज्यस्य स्थानं महत्त्वपूर्णम् विद्यते ।

भौगोलिकम्[सम्पादयतु]

अस्य राज्यस्य विस्तारः २१,०८१ च.कि.मी.मितः अस्ति । अस्य राज्यस्य पूर्वदक्षिणदिशोः म्यानमारदेशः अस्ति । पश्चिमदिशि बाङ्गलादेशः अस्ति । अस्मिन् राज्ये २०८ से.मी.मितः वार्षिकवृष्टिपातः भवति । मिजोरामप्रदेशः प्रकृतिसौन्दर्ययुक्तः वर्तते । विवधैः जन्तुभिः सुशोभते । विविधानि सस्यानि वनस्पत्यादीनि च विलसन्ति । ’मिजो’ पदस्य मिजोभाषायां पर्वतनिवासिनां स्थलम् इत्यर्थः । पर्वतप्रदेशः अधिकः अस्ति अतः सार्थकनाम ।

नद्यः[सम्पादयतु]

मिजोराम-राज्ये बह्व्यः नद्यः सन्ति । तलवाङ्ग-नदी, तलाऊ-नदी, तुईचाङ्ग-नदी, तुईरियअल-नदी, छिमतुईपुई-नदी च इत्यादयः मिजोराम-राज्यस्य प्रमुखाः नद्यः सन्ति । एतासु नदीषु छिमतुईपुई-नदी अस्य राज्यस्य दीर्घतमा नदी अस्ति । तमदील-तडागः, रङ्गदील-तडागः, पलक-तडागः इत्यादयः मिजोराम-राज्यस्य प्रमुखाः तडागाः सन्त् [१]

जलवायुः[सम्पादयतु]

अस्मिन् प्रदेशे पर्वतीयक्षेत्राणि ग्रीष्मर्तौ शीतलानि भवन्ति । किन्तु अधस्थानि क्षेत्राणि उष्णानि भवन्ति । शीतर्तौ अस्य राज्यस्य न्यूनतमं तापमानं प्रायः ११ डिग्रीसेल्सियस्-मात्रात्मकं भवति । ग्रीष्मर्तौ अस्य राज्यस्य अधिकतमं तापमानं ३० डिग्रीसेल्सियस्-मात्रात्मकं भवति । मई-मासतः दिसम्बर-मासपर्यन्तम् अस्मिन् राज्ये अधिकमात्रायां वृष्टिः भवति । सम्पूर्णे वर्षे अस्मिन् राज्ये प्रायः २,५०० मिलिमीटरमिता वर्षा भवति [२]

इतिहासः[सम्पादयतु]

१८९१ तमसंवत्सरे लुशायी प्रदेशनाम्ना आङ्ग्ल-प्रशासने आसीत् अयं प्रदेशः । १८९८ तमे संवत्सरे लुशायीपरिसरस्य मण्डलत्वेन स्थापना जाता । १९७२ तमसंवत्सरपर्यन्तं प्रदेशोऽयं अस्सामराज्यस्य मण्डलत्वेन समाविष्टः आसीत् । १९७२ तमे संवत्सरे मिजोरामपरिसरः केन्द्रशासितप्रदेशे समावेशितः । अन्ततः १९८७ तमे संवत्सरे भारतदेशस्य २३ तमगणराज्यत्वेन 'मिजोराम' नाम्ना अस्य प्रदेशस्य उद्घोषणा कृता सर्वकारेण । १९ शताब्दे आङ्ग्ल-शासकानाम् आधिपत्यम् आसीत् । अतः अत्र क्रिस्तधर्मस्य अधिकप्रभावः दृश्यते । मिजोभाषायाः स्वतन्त्रलिपिः नासीत् । आङ्ग्लाधिपत्य-प्रभावात् रोमन-लिपिः स्वीकृता तैः ।

जनसङ्ख्या[सम्पादयतु]

मिजोरामराजस्य जनसङ्ख्या (२०११) १०,९७,२०६ अस्ति । अत्र ५,५५,३३९ पुरुषाः, ५,४१,८६७ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. ५२ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ५२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.४८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७६ अस्ति । अत्र साक्षरता ९१.३३% अस्ति ।

प्रमुखाः अंशाः[सम्पादयतु]

  • विस्तारः - २१,०८१ च.कि.मी.
  • जनसङ्ख्या - १०,९७,२०६ (२०११)
  • जनसङ्ख्या -
  • मिजो/लुशायी-६३.१%
  • म्हार-
  • पोयी- ८%
  • चकमा- ७.७%
  • राल्ते- ७%
  • पोवायी- ५.१%
  • कुकी- ४.६%
  • अन्य- ५.१%

मण्डलानि[सम्पादयतु]

मण्डलानि

अस्मिन् राज्ये ८ मण्डलानि सन्ति ।

महानगराणि[सम्पादयतु]

आईजोल[सम्पादयतु]

आईजोल-नगरं मिजोरम-राज्यस्य राजधानी अस्ति । इदं नगरं समुद्रतलात् ११३२ मीटरमितम् उन्नतम् अस्ति । अस्य नगरस्य उत्तरदिशि “दुर्तलैङ्ग” नामकानि पर्वतशिखराणि सन्ति । नगरमिदं तलौङ्ग-नद्याः तटे स्थितम् अस्ति । इयं नदी अस्य नगरस्य पश्चिमदिशि प्रवहति । अनया नद्या अस्य नगरस्य सौन्दर्ये वृद्धिर्भवति । नगरमिदम् अतीव पुरातनम् अस्ति । इदं नगरं विकासशीलनगरेषु अन्यतमम् अस्ति । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य समीपे तामदिल-तडागः अस्ति । अस्य तडागस्य सौन्दर्यम् अद्भुतम् अस्ति । वनतवाङ्ग-जलप्रपातः अस्य नगरस्य समीपे एव स्थितः अस्ति । अयं जलप्रपातः ७५० पादोन्नतः अस्ति । अयं मिजोराम-राज्यस्य सर्वोन्नतः जलप्रपातः अस्ति । तत्र फौङ्गपुई-नामकं मिजोराम-राज्यस्य उच्चतमं पर्वतशिखरम् अस्ति । आईजोल-नगरं मिजोराम-राज्यस्य सांस्कृतिककेन्द्रत्वेन विद्यते । अस्मिन् नगरे सङ्ग्रहालयः, सोलोमन-मन्दिरं, रङ्गदिल-तडागः च इत्यादीनि पर्यटनस्थलानि सन्ति । तेषु रङ्गदिल-तडागः युगलतडागः अस्ति । आईजोल-नगरस्य समीपे रीक-ग्रामः अस्ति । अयं ग्रामः सांस्कृतिकग्रामः कथ्यते । अस्मिन् ग्रामे मिजो-जनजातेः जनाः निवसन्ति । आईजोल-नगरस्य जलवायुः शीतोष्णः, सौम्यः च अस्ति । शीतर्तौ अस्य नगरस्य तापमानं प्रायः २० तः २९ डिग्रीसेल्सियस्-मात्रात्मकं भवति । शीतर्तौ अस्य तापमानं प्रायः ७ डिग्री-सेल्सियस्-मात्रात्मकं भवति । आइजोल-नगरे प्रतिवर्षं प्रायः २५४ सेन्टीमीटरमिता वर्षा भवति ।

आईजोल-नगरं ५४ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राजमार्गः आइजोल-नगरं शिलाङ्ग-नगरेण, गुवाहाटी-नगरेण च सह सञ्योजयति । मिजोराम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः जनाः मिजोराम-राज्यस्य वीक्षणीयस्थलानि गन्तुं शक्नुवन्ति । असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकम् आइजोल-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् आइजोल-नगरात् १८० किलोमीटरमिते दूरे स्थितम् अस्ति । सिलचर-रेलस्थानकात् आइजोल-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । सिलचर-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । लेङ्गपुई-नगरस्य विमानस्थानकम् आईजोल-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । ततः गुवाहाटी-नगराय, कोलकाता-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । आईजोल-नगरात् लेङ्गपुई-विमानस्थानकं ३५ किलोमीटरमिते दूरे स्थितम् अस्ति । तस्मात् विमानस्थानकात् बसयानैः, भाटकयानैः वा आईजोल-नगरं गन्तुं शक्यते ।

चम्पाई[सम्पादयतु]

चम्पाई-नगरं मिजोराम-राज्यस्य चम्पाई-मण्डलस्य केन्द्रं विद्यते । इदं मण्डलं “मिजोरम-राज्यस्य तण्डुलपात्रम्” इति कथ्यते । इदं मण्डलं परितः म्यान्मार-पर्वताः स्थिताः सन्ति । नगरमिदं पारम्परिकं, सांस्कृतिकं च वर्तते । इदम् उत्तरपूर्व-भारतस्य विशिष्टं पर्यटनस्थलं वर्तते । म्यान्मार-पर्वताः अस्य नगरस्य सौन्दर्यं वर्धयन्ति । अस्मिन् मण्डले मिजो-जनजातिः निवसति । मिजो-जनानां परम्परा अपि भिन्ना भवति । सांस्कृतिकदृष्ट्या, पारम्परिकदृष्ट्या च नगरमिदं समृद्धम् अस्ति । मिजोराम-राज्यस्य विकासशीलनगरेषु इदं नगरम् अन्यतमम् अस्ति । म्यान्मार-भारतयोः व्यापारद्वारत्वेन इदं नगरं मन्यते । किन्तु इदं स्थलं पर्यटनदृष्ट्या भारते प्रसिद्धं नास्ति । चम्पाई-मण्डले नैकानि पर्यटनस्थलानि सन्ति । “मुर्लेन-राष्ट्रियोद्यानं”, मुरा पुक, “रिह डिल तडागः”, “थासिआमा सेनो नैइहना” इत्यादीनि अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । अस्य मण्डलस्य जलवायुः सर्वदा सुखदः भवति । कस्मिँश्चिदपि समये चम्पाई-नगरस्य भ्रमणं कर्तुं शक्यते ।

चम्पाई-नगरम् आईजोल-नगरात् १९२ किलोमीटरमिते दूरे स्थितम् अस्ति । मिजोराम-राज्यस्य सर्वकारेण पर्यटकानां सौकर्याय बसयानानि प्रचालितानि सन्ति । मण्डलमिदं ५४ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकं चम्पाई-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । चम्पाई-नगरात् इदं रेलस्थानकं ३५२ किलोमीटरमिते दूरे स्थितम् अस्ति । सिलचर-रेलस्थानकात् चम्पाई-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । सिलचर-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । लेङ्गपुई-नगरस्य विमानस्थानकं चम्पाई-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । ततः गुवाहाटी-नगराय, कोलकाता-नगराय, अगरतला-नगराय, इम्फाल-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । तस्मात् विमानस्थानकात् बसयानैः, भाटकयानैः वा चम्पाई-नगरं गन्तुं शक्यते । अनेन प्रकारेण जनाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च चम्पाई-नगरं प्राप्तुं शक्नुवन्ति ।

शिक्षणम्[सम्पादयतु]

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं मिजोराम-राज्यस्य साक्षरतामानं ९१.५६ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ९३.७२ प्रतिशतं, स्त्रीणां साक्षरतामानं ८९.४० प्रतिशतं च अस्ति । मिजोराम-राज्यं भारतस्य साक्षरप्रदेशेषु द्वितीयम् अस्ति । अर्थात् शैक्षणिकदृष्ट्या इदं राज्यं द्वितीये क्रमाङ्के स्थितम् अस्ति । आइजोल-नगरे “नॉर्थ्-ईस्टर्न् हिल् विश्वविद्यालयः” स्थितः अस्ति । अयं विश्वविद्यालयस्य मुख्यालयः मेघालय-राज्यस्य शिलाङ्ग-नगरे स्थितः अस्ति । “नेशनल् इन्स्टीट्यूट् ऑफ् टेक्नोलॉजी”, “आई. सी. एफ्. ए. आई. युनिवर्सिटी”, “कॉलेज् ऑफ् वेटरनरी सायन्स् एण्ड् एनिमल् हस्बेण्डरी”, आइजोल-नगरस्य “रिजनल् इन्स्टीत्यूट् ऑफ् पेरामेडिकल् नर्सिङ्ग्” च इत्यादीनि मिजोराम-राज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति । अस्मिन् राज्ये भारतस्य प्रसिद्धशैक्षणिकसंस्थानेषु अन्यतमानि शैक्षणिकसंस्थानानि विद्यन्ते [३]

राजनीतिः[सम्पादयतु]

मिजोराम-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्य राज्यस्य विधानसभायाः ४० स्थानानि सन्ति । मिजोराम-राज्ये लोकसभायाः एकं स्थानं, राज्यसभायाः चापि एकं स्थानम् अस्ति । लालडेङ्गा-इत्याख्यः अस्य राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । “मिजो नेशनल् फ्रण्ट्”, ’मिजोराम पीपुल्स् कॉन्फ्रेन्स्”, “जोराम नेशनलिस्ट् पार्टी”, “मारालैण्ड् डेमोक्रेटिक् पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्” च इत्यादयः मिजोराम-राज्यस्य प्रमुखाः राजनैतिकाः समूहाः सन्ति [४]

अर्थव्यवस्था, कृषिः, उद्योगश्च[सम्पादयतु]

मिजोराम-राज्यस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य राज्यस्य ८० प्रतिशतं जनाः कृषिकार्येषु संलग्नाः सन्ति । २१ लक्षाधिक हेक्टेर् परिमिता भूमिः कृषिकार्यार्थम् उपयुक्ता । नारङ्गफलं, कदलीफलं, द्राक्षाफलं, मधुकर्कटी, आर्द्रकं, हरिद्रा, मरीचिका इत्यादीनि अस्य राज्यस्य प्रमुखसस्योत्पादनानि सन्ति । पुष्पाणि अपि समृद्धतया जनाः संवर्धयन्ति । पाटलपुष्पाणि, तेषु तेषु समयेषु उपलभ्यमाणानि पुष्पाणि, वनौषधयः च उपलभ्यन्ते । राज्येस्मिन् हस्तनिर्मितानां वस्तूनां, तण्डुलयन्त्रागाराणां, मुद्रणालयस्य च उद्योगाः सन्ति । अस्मिन् राज्ये विशेषरीत्या बृहदुद्योगाः न सन्ति । राज्येऽस्मिन् बहवः लघूद्योगाः सन्ति । यतः अधिकमात्रायाम् आदिवासिनः निवसन्ति । अतः ते लघूद्योगान् कुर्वन्ति । राज्यमिदं म्यान्मार-भारतस्य व्यापारिकं केन्द्रम् अस्ति । इदं व्यापारस्य द्वारत्वेन स्थितम् अस्ति । ई. स. १९८९ तमे वर्षे मिजोराम-राज्यस्य सर्वकारेण राज्यस्य औद्योगिकविकासाय औद्योगिकनीतेः घोषणा कृता आसीत् [५]

कला, संस्कृतिश्च[सम्पादयतु]

मिजो-जनजातेः बह्व्यः उपजातयः प्राप्यन्ते । तासु लुशाई, हमार, चकमा, पवी, लाखरे, राल्टे इत्यादयः उपजातयः सन्ति । अस्य राज्यस्य “बाँस-नृत्यं” प्रसिद्धम् अस्ति । अस्मिन् राज्ये एकस्मिन् सङ्ग्रहालये मिजोराम-राज्यस्य कलाकृतीनां वैविध्यपूर्णः सङ्ग्रहः अस्ति । मिजोराम-राज्यस्य उत्सवाः कृष्या सह सम्बद्धाः सन्ति । “पॉल कुट”, “चापचार”, “कुटमिम कुट” च इत्यादयः अस्य नगरस्य प्रमुखाः उत्सवाः सन्ति [६]

लोकजीवनम्[सम्पादयतु]

अस्य राज्यस्य बहुसङ्ख्यजनाः क्रैस्ताः सन्ति । मिजोजनाः मङ्गलोइड-जनजातिसम्बद्धाः वर्तन्ते । अस्यां जनजातौ जातिभेदाः, वर्गीकरणं च नास्ति । जनाः शान्ततापूर्णं, व्यवस्थितं च जीवन्ति । परिसरेऽस्मिन् जनानां गृहाणि विशिष्टानि सन्ति, पर्यटकान् च आकर्षन्ति । जनाः सामान्यतः मांसाहारिणः सन्ति । मण्डलेऽस्मिन् क्रिस्तिमिशनरी जनानां कार्यं बहु वर्तते । परिणामतः संस्कृत्यां पारम्परिकी-मिजो, क्रिस्ती-पाश्चात्त्यः इत्येतयोः संस्कृत्योः सङ्ग्रहणं दृश्यते । मिजोरामराज्ये अधिकतया मिजो जनाः सन्ति । ’राल्ते’, ’म्हार’, ’पोयी’, ’पवायी’ अन्यप्रमुखप्रजातयः सन्ति । मिजोजनजातिं विहाय ’चकमा’ मुख्या जातिः । मण्डलेऽस्मिन् मिजो, आङ्ग्ल, हिन्दी इत्येताः भाषाः प्रचलन्ति । शिक्षणसंस्थादिषु मिजोभाषायाः उपयोगः भवति । मिजोजनाः तेषां पारम्परिकीं 'पुआन्' इति वेशभूषां धरन्ति । मिजोजनानां चेरो, खोआल्लं, छेइह्लम् इत्येते विशिष्टनृत्यप्रकाराः सन्ति ।

उत्सवाः[सम्पादयतु]

मिजोरामराज्यस्य जनाः कृषीवलाः । अतः फलचयसङ्ग्रहणानन्तरम् उत्सवादिकम् आचरन्ति । उत्सवार्थं मिजोभाषायां 'कुट्' इति शब्दः । प्रसिद्धाः उत्सवाः त्रयः । ते चपचार कुट्, मिमकुट्, थालफवाङ्गकुट् च । अधिकाः क्रिस्ती-जनाः सन्ति अतः 'क्रिसमस'-पर्व उत्साहेन वैभवेन च जनाः आचरन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

मिजोराम-राज्यं पर्वतीयक्षेत्रे स्थितम् अस्ति । अस्मिन् राज्ये बहूनि पर्यटकस्थलानि सन्ति । मिजोराम-राज्यस्य राजधानी आईजोल-नगरं मिजो-जनानां धार्मिकं सांस्कृतिकं च केन्द्रं विद्यते । राज्येस्मिन् जलप्रपाताः अपि सन्ति । वानताङ्ग-जलप्रपातः मिजोराम-प्रदेशस्य सर्वोन्नतः, सुन्दरश्च जलप्रपातः अस्ति । म्यान्मार-देशस्य सीमायां चमकाई नामकं स्थलम् अस्ति । अस्मिन् स्थले जनाः पर्यटनाय गच्छन्ति । अस्य स्थलस्य प्राकृतिकदृश्यानि सुन्दराणि, मनोहराणि च भवन्ति । राज्येऽस्मिन् तामदिल-नामकः प्राकृतिकतडागः अपि अस्ति । द ब्लू माउण्टेन् (फाङ्गुपूई), प्रसिद्धाः गुहाः, मिलू पुक, पुकजिङ्ग-गुहाः, सुआङ्ग, पईलान-शिलालेख, बुद्धमूर्तिः (मुआलवेङ्ग), इत्यादीनि मिजोराम-राज्यस्य पर्यटनस्थलानि सन्ति । स्थलमिदं पर्वतीयम् अस्ति । अतः पर्वतारोहिणः अपि तत्र गच्छन्ति । नद्यः अपि बह्व्यः सन्ति । उत्तरदिशः सप्तभगिनीषु (seven sisters) अन्यतमं राज्यम् अस्ति । इदं राज्यं नीलपर्वतेषु स्थितम् अस्ति । राज्यमिदं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । वनेषु विविधाः वनस्पतयः, पशवः च दृश्यन्ते ।

लुङ्गलेई[सम्पादयतु]

लुङ्गलेई-मण्डलं मिजोराम-राज्यस्य मण्डलेषु अन्यतमम् अस्ति । लुङ्गलेई-नगरम् अस्य मण्डलस्य केन्द्रं विद्यते । इदं “लुङ्गलेह” इति नाम्ना अपि ज्ञायते । “पाषाणसेतुः” इति तस्यार्थः भवति । लुङ्गलेई-नगरे विविधाः वनस्पतयः, जन्तवः च प्राप्यन्ते । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । लुङ्गलेई-नगरस्य समीपे मुआल्चेङ्ग-ग्रामः अस्ति । अयं ग्रामः लुङ्गलेई-नगरात् ५० किलोमीटरमिते दूरे स्थितः अस्ति । तस्मिन् ग्रामे भगवतः बुद्धस्य प्रतिमा अस्ति । अयम् अस्य नगरस्य एकमात्रः बौद्धावशेषः अस्ति । अस्याः प्रतिमायाः विषये कोऽपि न जानाति यत् –“ इयं प्रतिमा कुतः समुद्भूता” इति । अतः एव इदं स्थलं रोचकम् अस्ति । “खौनग्लुङ्ग वाइल्डलाइफ सैङ्क्चुअरी”, “कौमजवी-उद्यानं”, “सैकुती हॉल्”, “थुआम्लूआइआ मुआल पादकन्दुकक्रीडाङ्गणं” च इत्यादीनि अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । अस्य मण्डलस्य वातावरणं सदैव मनोहरं, सुखदं च भवति । अतः जनाः कस्मिँश्चिदपि समये अस्य मण्डलस्य भ्रमणं कर्तुं शक्नोति । भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति ।

इदं मण्डलं ५४ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः इदं मण्डलं राज्यस्य विभिन्ननगरैः सह सञ्योजयति । मिजोराम-राज्यस्य सर्वकारेण अपि बसयानानि प्रचालितानि सन्ति । अतः तैः बसयानैः अपि इदं मण्डलं प्राप्तुं शक्यते । मिजोराम-राज्ये रेलमुख्यालयः नास्ति । अतः असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकं लुङ्गलेई-मण्डलस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य कैश्चित् नगरैः सह सम्बद्धम् अस्ति । सिलचर-रेलस्थानकात् लुङ्गलेई-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । लेङ्गपुई-नगरस्य विमानस्थानकं लुङ्गलेई-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । ततः गुवाहाटी-नगराय, कोलकाता-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । लुङ्गलेई-नगरात् लेङ्गपुई-विमानस्थानकं १९३ किलोमीटरमिते दूरे स्थितम् अस्ति । तस्मात् विमानस्थानकात् बसयानैः, भाटकयानैः, वैयक्तिकवाहनैः वा लुङ्गलेई-नगरं गन्तुं शक्यते ।

थेनजोल[सम्पादयतु]

थेनजोल-ग्रामः मिजोराम-राज्यस्य सेरसिप-मण्डले स्थितः अस्ति । अयं ग्रामः सेरसिप-मण्डलस्य प्रमुखं पर्यटनस्थलम् अस्ति । पुरा अस्मिन् स्थले सघनं वनम् आसीत् । ई. स. १९६१ पर्यन्तं तत्र वन्यप्राणिनः एव दृश्यन्ते स्म । तदनन्तरं तत्र कृषिकार्यम् आरब्धम् । तत्पश्चात् ई. स. १९६३ तमे वर्षे “बेगुअइया सायलो” इत्याख्येन अयं ग्रामः वासितः । थेनजोल-ग्रामः आईजोल-नगरात् ४३ किलोमीटरमिते दूरे स्थितम् अस्ति । साम्प्रतम् अयं ग्रामः हस्तकलायै भारते विख्यातः अस्ति । स्थलमिदं सर्वोत्तमं पर्यटनस्थलं वर्तते । अस्मिन् स्थले विविधाः वनस्पतयः, जीवजन्तवः च सन्ति । तत्र वानताङ्ग-जलप्रपातः स्थितः अस्ति । अयं जलप्रपातः मिजोराम-राज्यस्य बृहत्तमेषु जलप्रपातेषु अन्यतमः अस्ति । तत्र “थेनजोल-मृगोद्यानं” मृगाणां गृहं कथ्यते । अस्य ग्रामस्य समीपे “च्वाङ्गचिल्ही-गुहा” अस्ति । कथ्यते यत् – “सा गुहा स्त्रीसर्पयोः प्रेमकथया सह सम्बद्धा अस्ति । आवर्षम् अस्य ग्रामस्य वातावरणं सामान्यं, स्वास्थ्यकरं, सुखदं च भवति । अतः जनाः कस्मिँश्चिदपि समये तत्र गच्छन्ति ।

थेनजोल-ग्रामः ५४ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितः अस्ति । थेनजोल-नगरात् आईजोल-नगरं गन्तुम् अयं राष्ट्रियराजमार्गः उपयुज्यते । थेनजोल-नगरात् आईजोल-नगरं ४३ किलोमीटरमिते दूरे स्थितम् अस्ति । सर्वकारेण प्रचालितैः बसयानैः अपि इमं ग्रामं प्राप्तुं शक्यते । असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकं थेनजोल-ग्रामस्य समीपस्थं रेलस्थानकम् अस्ति । सिलचर-रेलस्थानकात् थेनजोल-ग्रामाय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । सिलचर-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । लेङ्गपुई-नगरस्य विमानस्थानकं थेनजोल-ग्रामस्य समीपस्थं विमानस्थानकम् अस्ति । ततः गुवाहाटी-नगराय, कोलकाता-नगराय, अगरतला-नगराय, इम्फाल-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । तस्मात् विमानस्थानकात् बसयानैः, भाटकयानैः वा थेनजोल-ग्रामः गन्तुं शक्यते ।

साइहा[सम्पादयतु]

साइहा-मण्डलं मिजोराम-राज्यस्य मण्डलेषु अन्यतमम् अस्ति । साइहा-नगरम् अस्य मण्डलस्य मुख्यालयः अस्ति । “मारा ऑटोनोमस् डिस्ट्रिक् काउन्सिल्” इत्यस्यै संस्थायै अपि मण्डलस्य मुख्यालयत्वेन स्थितम् अस्ति । साइहा-मण्डलस्य उत्तर-पश्चिमदिशि लुङ्गलेई-मण्डलं, पश्चिमदिशि लाङ्गतलाई-मण्डलं, दक्षिणदिशि, पूर्वदिशि च म्यान्मार-देशः च स्थितः अस्ति । नगरमिदं मिजोराम-राज्यस्य बृहत्तमेषु अन्यतमम् अस्ति । “गजदन्तः” इति “साइहा” शब्दस्य अर्थः भवति । कथ्यते यत् – “अस्मिन् मण्डले अधिकमात्रायां गजदन्ताः प्राप्यन्ते” इति । अतः एव अस्य नाम “साइहा” अभवत् । “साइहा” इत्ययं शब्दः मारा-भाषायाः अस्ति । अस्मिन् मण्डले कानिचन पर्यटनस्थलानि एव सन्ति । “पाला टीपो-तडागः”, “माउण्ट् मावमा” च अस्य मण्डलस्य प्रमुखे वीक्षणीये स्थले स्तः । मण्डलेऽस्मिन् मारा-जनजातेः जनाः निवसन्ति । साइहा-मण्डलस्य वातावरणं सर्वदा सौख्यकरं, सुखदं च भवति । अतः जनाः कस्मिँश्चिदपि ऋतौ साइहा-मण्डलस्य पर्यटनं कर्तुं गच्छन्ति ।

साइहा-नगरात् आइजोल-नगरं ३०५ किलोमीटरमिते दूरे स्थितम् अस्ति । नगरमिदं ५४ क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । मिजोराम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः साइहा-मण्डलस्य भ्रमणं कर्तुं शक्यते । असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकं साइहा-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं साइहा-नगरात् ४७९ किलोमीटरमिते दूरे स्थितम् अस्ति । सिलचर-रेलस्थानकात् साइहा-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । सिलचर-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । लेङ्गपुई-नगरस्य विमानस्थानकं साइहा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । ततः गुवाहाटी-नगराय, कोलकाता-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । तस्माद् विमानस्थानकाद् बसयानैः, भाटकयानैः वा आईजोल-नगरं गन्तुं शक्यते । अतः जनाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च साइहा-मण्डलं सरलतया गन्तुं शक्नुवन्ति ।

परिवहनम्[सम्पादयतु]

भूमार्गः[सम्पादयतु]

मिजोराम-राज्यस्य आहत्य भूमार्गाः ४,९८२ किलोमीटरमिताः दीर्घाः सन्ति । राज्यमिदं ५४ क्रमाङ्कस्य राष्ट्रियराजमार्गेण श्रेष्ठतया सम्बद्धम् अस्ति । मिजोराम-राज्यस्य सर्वकारेण ३.५ अर्व (३५० कोटिः) रुप्यकाणां निवेशेन प्रधानमन्त्रिग्रामीणमार्गयोजनान्तर्गततया मिजोराम-राज्ये बहूनां ग्राम्यमार्गाणां, नगरीयमार्गाणां, राजमार्गाणां निर्माणकार्यम् आरब्धम् । जनाः सरलतया भूमार्गेण मिजोराम-राज्यं गन्तुं शक्नुवन्ति ।

धूमशकटमार्गः[सम्पादयतु]

मिजोराम-राज्ये धूमशकटमार्गाः न सन्ति । यतः मिजोरामराज्यं पर्वतीयम् अस्ति । अतः धूमशकटमार्गान् निर्मातुं समस्या भवति । तथापि राज्यसर्वकारः, केन्द्रसर्वकारश्च प्रयासान् कुर्वन्तौ स्तः । इदं राज्यम् असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकेन सह भूमार्गेण सम्बद्धम् अस्ति । सिलचर-रेलस्थानकात् बसयानैः, भाटकयानैः वा मिजोराम-राज्यं प्राप्यते ।

वायुमार्गः[सम्पादयतु]

मिजोराम-राज्यस्य आईजोल-नगरे एकं विमानस्थानकम् अस्ति । इदं विमानस्थानकं गुवाहाटी-नगरेण, कोलकाता-नगरेण च सह सम्बद्धम् अस्ति । लेङ्गपुई-नगरे अपि एकं विमानस्थानकम् अस्ति । इदं विमानस्थानकं गुवाहाटी-नगरेण, कोलकाता-नगरेण, देहली-नगरेण इतरैश्च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण पर्यटकाः वायुमार्गेण सरलतया मिजोराम-राज्यं भ्रमणार्थं गन्तुं शक्नुवन्ति ।

वीथिका[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]


सन्दर्भाः[सम्पादयतु]

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३०४
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३०४
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३०४-३०५
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३०१-३०२
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३०४
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३०१-३०५
"https://sa.wikipedia.org/w/index.php?title=मिजोरामराज्यम्&oldid=387347" इत्यस्माद् पुनः प्राप्तिः