कर्णाटकराज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
कर्णाटकम्
ಕರ್ನಾಟಕ
—  राज्यम्  —

ध्वजः

मुद्रिका
Location of Karnataka in India
Map of Karnataka
देशः  भारतम्
स्थापनदिनम् 1956-11-01
राजधानी बेङ्गळूरु
बृहत् नगरम् Bangalore
मण्डलानि 30
सर्वकारः
 • राज्यपालः Hansraj Bhardwaj
 • मुख्यमन्त्री जगदीशशेट्टर् (बीजेपी)
 • Legislature Bicameral (224 + 75 seats)
विस्तीर्णता[१]
 • संहतिः <
क्षेत्रविस्तारः 8th
जनसङ्ख्या (2011)[२]
 • संहतिः ६,११,३०,७०४
 • रैङ्क् 9th
IST (UTC+05:30)
ऐ एस् ओ ३१६६ कोड् IN-KA
Official language Kannada[३][४]
Literacy 69.3% (18th)
HDI increase 0.600 (medium)
HDI rank 25th (2005)
जालस्थानम् karunadu.gov.in


भारते कर्णाटकराज्यम्

कर्णाटकराज्यं भारतस्य दक्षिणदिशि स्थितम् अस्ति । सुन्दरतायै, विकासाय च इदं राज्यं भारते प्रसिद्धम् अस्ति । राज्यमिदं “यात्रिकेभ्यः स्वर्गः” इति अपि कथ्यते । कन्नड-भाषायाः “कुरूनाडु” इति शब्देन “कर्णाटक” इति नामोत्पत्तिः जाता । तस्यार्थः भवति यत् – भव्यं, उच्चभूमिः च । २००० वर्षप्राचीनः अस्ति अस्य राज्यस्येतिहासः । अस्य राज्यस्य एतत् वैषिष्ट्यम् अस्ति यत् अत्र तीरप्रदेशाः विशालप्रदेशाः पर्वतप्रदेशाः च सन्ति । एतत् प्रथमं राज्यं यत्र ८ ग्रन्थकर्तारः ज्ञानपीठप्रशस्तिभूषिताः सन्ति । कर्णाटकस्य राजधानी बेङ्गलुरु अस्ति । एतत् कर्णाटकस्य आग्नेयभागे विराजते ।

अन्तर्विषयाः

भौगोलिकम्[सम्पादयतु]

भारतस्य दक्षिणदिशि स्थितम् अस्ति कर्णाटक-राज्यम् । कर्णाटक-राज्यस्य उत्तरदिशि महाराष्ट्र-राज्यं, गोवा-राज्यं च स्थितम् अस्ति । दक्षिण-दिशि केरल-राज्यं, पूर्वदिशि आन्ध्रप्रदेश-राज्यं, तमिळनाडु-राज्यं च स्थितम् अस्ति । अस्य पश्चिमदिशि अरबसागरः स्थितः अस्ति ।

कर्णाटकराज्यस्य विस्तारः १,९१,७९१ चतुरस्रकिलोमीटर्मितः अस्ति । इदं राज्यं क्षेत्रफलदृष्ट्या अष्टमस्थाने, जनसङ्ख्यादृष्ट्या च नवमस्थाने विराजते । इदं राज्यं चतुर्षु प्रालकृतिकक्षेत्रेषु भौगोलिकक्षेत्रेषु वा विभक्तम् अस्ति । प्रथमम् उत्तरशैलप्रस्थः, सः शैलप्रस्थः समुद्रतलात् ३०० तः ६०० मीटर्मितं पर्यन्तम् उन्नतः अस्ति । द्वितीयं मध्यशैलप्रस्थः, सः समुद्रतलात् ४५० तः ७०० मीटर्मितं पर्यन्तम् उन्नतः अस्ति । तृतीयं दक्षिनशैलप्रस्थः, सः ९०० मीटर्मितम् उन्नतम् अस्ति । चतुर्थं तटीयक्षेत्रम् अस्ति । कर्णाटकराज्यस्य मैसूर-नगरे भारतस्य बृहत्तमः जलप्रपातः स्थितः अस्ति । “मुल्लायानागिरिः”, “बाबा बूदानगिरिः” च कर्णाटकराज्यस्य उच्चपर्वतशिखरे स्तः [५]

जलवायुः[सम्पादयतु]

कर्णाटक-राज्यस्य तटीयक्षेत्रेषु अत्यधिका वृष्टिः भवति । तेषां तापमानम् उष्णं भवति । राज्यस्य दक्षिणभागेषु वातावरणम् उष्णं, शुष्कं च भवति । किन्तु उत्तरीभागेषु वातावरणम् अल्पोष्णम्, अल्पशुष्कं च भवति । अस्मिन् राज्ये मई-मासे जून-मासे च अत्यन्तम् उष्णता भवति । तापमानं ४० डिग्री मात्रात्मकम् भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं कालः मनोहरः भवति । कर्णाटक-राज्ये प्रतिवर्षं वर्षर्तौ सामान्यतः १३९० मि.मी. मात्रात्मिका वृष्टिः भवति [६]

नद्यः[सम्पादयतु]

तुङ्गा, भद्रा, तुङगभद्रा, कावेरी, कपिला, भीमा, कृष्णा, मलप्रभा, घटप्रभा, द्रोणा, अर्कावती, नेत्रावती, शरावती, हेमावती, पयस्विनी इत्यादयः कर्णाटक-राज्यस्य प्रमुखाः नद्यः सन्ति । कर्णाटक-राज्यस्य पश्चिमतटात् बह्व्यः नद्यः समुद्भवन्ति । तासु शरावती-नदी प्रमुखा अस्ति । जोग-जलप्रपातः भारतस्य उच्चतमः जलप्रपातः अस्ति । शरावती-नदी एव जोग-जलप्रपातस्य मुख्याधाररूपा अस्ति । अयं जलप्रपातः २५३ पादोन्नतः अस्ति । कृष्णा-नदी कर्णाटक-राज्यस्य दीर्घतमा नदी अस्ति [७]

पर्वताः[सम्पादयतु]

चामुण्डिपर्वतः बिळिगिरिरङ्गाद्रिः स्कन्धगिरिः मलैमहादेश्वराद्रिः तडियाण्डमोल्पर्वतः नन्दिगिरिः नृपतुङ्गपर्वतः मधुगिरिः नरिमलेपर्वतः महिमरङ्गनाथस्वामिपर्वतः शिवगङ्गापर्वतः हिमवद्गोपालस्वामिपर्वतः मडिकेरिगिरिः पुष्पगिरिः कुन्दाद्रिः चन्द्रद्रोणपर्वतः सिद्दरबेट्टः मुळ्ळय्यनगिरिः मन्दरगिरिः कूटगल्पर्वतः श्रीरामदेवपर्वतः तालवाडिपर्वतः मेदिनिपर्वतः कुटचाद्रिः भैरवेश्वरशिखरम् इत्यादयः कर्णाटकराज्यस्य पर्वताः सन्ति ।

इतिहासः[सम्पादयतु]

द्विसहस्रवर्षपुरातने कर्णाटकराज्यस्येतिहासे सर्वप्रथमः नन्दवंशस्य, मौर्यवंशस्य, सप्तवाहनवंशस्य राजभिः शासनं कृतम् आसीत् । तेषु चालुक्यवंशस्य “पुलकेशिन द्वितीय” इत्याख्यः राजा सर्वप्रसिद्धः अस्ति । तृतीयशताब्द्याः मध्ये मौर्यवंशशासकैः कर्णाटक-राज्ये शासनं कृतम् आसीत् । चन्द्रगुप्तः मौर्यवंशस्य संस्थापकः आसीत् । तेन जैनधर्मः अङ्गीकृतः । अनन्तरं तेन स्वस्य जीवनस्य अन्तिमः कालः अस्य प्रदेशस्य बेलगोला-नगरे एव यापितः । अस्मिन् प्रदेशे मौर्यराज्ञः अशोकस्य शिलालेखाः अपि प्राप्ताः । अनन्तरं सप्तवाहनवंशजैः शासनं कृतम् । तेषु शासकेषु शालिवाहनेन ई. स. ७८ तमे वर्षे “शकसंवत्” आरब्धः । किन्तु कनिष्काय एव अस्य शकसवत् वर्षस्य आरम्भस्य श्रेयः दीयते ।

सप्तवाहनवंशस्य पतनानन्तरम् उत्तरकर्णाटक-क्षेत्रे, तुङ्गभद्रा-नद्याः उपरिक्षेत्रे कदम्बशासकैः, दक्षिणकर्णाटकक्षेत्रे, तुङ्गभद्रा-नद्यः अधोभागे गङ्गशासकैः शासनं कृतम् आसीत् । ई. स. ३४५ तमे वर्षे मयूरशर्मणा ब्राह्मणेन कदम्बवंशस्य स्थापना कृता । पल्लववंशजानां राज्ये सः अपमानं प्राप्तवान् । अतः तेन पल्लवानां विरोधः कृतः । कदम्बवंशे ककुस्थवर्मन् इत्याख्यः अभवत् । सः अत्यन्तः शक्तिशाली आसीत् । अतः वकटराजभिः, गुप्तराजभिः च तेन सह वैवाहिकसम्बन्धः प्रस्थापितः । महाकविना कालिदासेन अपि तस्य राज्यस्य यात्रा कृता” इति मन्यते । गङ्ग-शासकैः सर्वप्रथमं कोलार-क्षेत्रे शासनम् आरब्धम् । अनन्तरं गङ्गशासकैः “तालकडु” इत्यत्र राजधानी प्रस्थापिता [८]

चालुक्यवंशः[सम्पादयतु]

षष्ठ्यां शताब्द्याम् ई. स. ५०० तः ७५३ पर्यन्तं चालुक्यवंशजैः शासनं कृतम् । पुलकेशिन इत्याख्यः चालुक्यवंशस्य सुप्रसिद्धः शासकः आसीत् । तेन हर्षवर्धनः युद्धे पराजितः । मन्यते यत् – चालुक्यवंशस्य शासनकाले एव कर्णाटकराज्यस्य एकीकरणम् अभवत् । चालुक्यवंशस्य शासनकालस्य बहव्यः कलाकृतयः प्राप्यन्ते । ताभ्यः कलाकृतिभ्यः एव चालुक्यवंशः प्रसिद्धः अस्ति । चालुक्यवंशस्य शासनानन्तरं राष्ट्रकूटवंशजैः शासनं कृतम् आसीत् । ध्रुवः, गोविन्दतृतीयः, इन्द्रकृष्णः च इत्यादयः अस्य वंशस्य प्रसिद्धाः शासकाः सन्ति । नवमशताब्द्यां “सुलेमान सौदागर” इत्याख्यः भारतदेशं प्राप्तवान् । तेन तत्कालीनविश्वस्य बृहत्तमेषु चतुर्षु साम्राज्येषु राष्ट्रकूटसाम्राज्याय स्थानं प्रदत्तम् । अरब-साम्राज्यं, रोम-साम्राज्यं, चीन-साम्राज्यम् च एतानि अन्यानि त्रीणि बृहत्तमानि साम्राज्यानि आसन् । दशमशताब्द्यां कल्याणीक्षेत्रस्य चालुक्यवंशजैः राष्ट्रकूटशासकाः पराजिताः । द्वादशशताब्द्यां यदा चालुक्यसाम्राज्यस्य विभाजनम् अभवत्, तदा त्रिभिः कन्नडराजवंशैः अस्मिन् प्रदेशे शासनं कृतम् । चतुर्दशशताब्द्यां विजयनगरसाम्राज्यस्य स्थापना अभवत् । तत् साम्राज्यं विशालं, समृद्धं च आसीत् । कर्णाटकराज्यस्य बृहत्तमः भागः विजयनगरसाम्राज्ये समाविष्टः जातः । विजयनगरसाम्राज्यस्य शासनानन्तरम् अस्य राज्यस्य दक्षिणक्षेत्रं मैसूरसाम्राज्यस्य राज्ञां नियन्त्रणे अभवत् । भारतस्य स्वातन्त्र्यानन्तरम् ई. स. १९५६ तमे वर्षे कन्नडभाषीयाणां क्षेत्राणां सम्मिश्रणेन मैसूर-राज्यस्य स्थापना जाता । समयान्तरे ई. स. १९७३ तमे वर्षे अस्य राज्यस्य नाम कर्णाटक-राज्यम् इति कृतम् [९]

आङ्ग्ल-मैसूरयुद्धम्[सम्पादयतु]

ई. स. १७५९ तमे वर्षे “हैदर अली” इत्याख्यः शासकः तत्र आगतः । “टीपू सुल्तान” इत्याख्यः तस्य पुत्रः आसीत् । ताभ्यां द्वाभ्याम् आङ्ग्लसर्वकारेण सह युद्धानि कृतानि । ताभ्याम् आङ्ग्लैः सह युद्धचतुष्टयं कृतम् । इदं युद्धम् आङ्ग्ल-मैसूरयुद्धं, कर्णाटकयुद्धं वा इति ज्ञायते ।

  • प्रथमम् आङ्ग्ल-मैसूरयुद्धम् – ई. स. १७६७ तः १७६९ पर्यन्तम् इदं युद्धम् अभवत् । “हैदर अली-आङ्ग्लानां मध्ये युद्धमिदं जातम् । ई. स. १७६९ तमस्य वर्षस्य अप्रैल-मासस्य ४ दिनाङ्के मद्रास-सन्धौ अस्य युद्धस्य समाप्तिः जाता ।
  • द्वितीयम् आङ्ग्ल-मैसूरयुद्धम् – ई. स. १७८० तः १७८४ पर्यन्तं “हैदर अली-आङ्ग्लानां मध्ये इदं युद्धम् अभवत् । अस्मिन् युद्धे “हैदर अली” इत्याख्यः पराजितः जातः । अस्य युद्धस्यानन्तरं मङ्गलौरसन्धिः जातः ।
  • तृतीयम् आङ्ग्ल-मैसूरयुद्धम् – ई. स. १७९० तः १७९२ पर्यन्तं “टीपू सुल्तान-आङ्ग्लानां मध्ये इदं युद्धम् अभवत् । अस्मिन् युद्धे टीपू सुल्तान इत्याख्यः पराजितः जातः । अन्ते तेन आङ्ग्लैः सह श्रीरङ्गपट्टनमसन्धिः कारितः ।
  • चतुर्थम् आङ्ग्ल-मैसूरयुद्धम् – ई. स. १७९९ तमे वर्षे इदं युद्धम् अभवत् । अस्मिन् युद्धे टीपू सुल्तान इत्याख्यस्य मृत्युः अभवत् [१०]

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणम् कर्णाटक-राज्यस्य जनसङ्ख्या ६,११,३०,७०४ अस्ति । अत्र ३,१०,५७,७४२ पुरुषाः, ३,००,७२,९६२ महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटर्मिते ३१९ जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३१९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.६०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८८ अस्ति । अत्र साक्षरता ७५.४९% अस्ति ।

मण्डलानि[सम्पादयतु]

कर्णाटकराज्ये २९ मण्डलानि सन्ति ।

विभागाः[सम्पादयतु]

प्रशासनसौकर्यार्थं कर्णाटकराज्यस्य मण्डलानि चतुर्षु भागेषु विभक्तानि सन्ति ।

बेङ्गलूरुविभागः बेलगावीविभागः गुल्बर्गाविभागः मैसूरुविभागः
बेङ्गळूरुनगरमण्डलम् बागलकोटेमण्डलम् बळ्ळारीमण्डलम् चामराजनगरमण्डलम्
बेङ्गळूरुग्रामान्तरमण्डलम् बेळगावीमण्डलम् बीदरमण्डलम् चिक्कमगळूरुमण्डलम्
चित्रदुर्गमण्डलम् बिजापुरमण्डलम् गुल्बर्गामण्डलम् दक्षिणकन्नडमण्डलम्
दावणगेरेमण्डलम् धारवाडमण्डलम् कोप्पळमण्डलम् हासनमण्डलम्
कोलारमण्डलम् गदगमण्डलम् रायचूरुमण्डलम् कोडगुमण्डलम्
शिवमोग्गामण्डलम् हावेरीमण्डलम् यादगिरिमण्डलम् मण्ड्यमण्डलम्
तुमकूरुमण्डलम् उत्तरकन्नडमण्डलम् --- मैसूरुमण्डलम्
चिक्कबळ्ळापुरमण्डलम् ---- -- ----

महानगराणि[सम्पादयतु]

कर्णाटक-राज्ये पञ्चमहानगराणि सन्ति । तानि – बेङ्गळूरु, हुबली, मेङ्गलौर, मैसूर, हासन च ।

बेङ्गळूरु[सम्पादयतु]

बेङ्गळूरु-महानगरं कर्णाटक-राज्यस्य राजधानी अस्ति । इदं महानगरं मण्डलत्वेन अपि तिष्ठते । भारत-देशस्य प्रमुखेषु दशमहानगरेषु अन्यतमम् अस्ति । पुरा अस्य नगरस्य नाम “बेन्दाकाळूरु” इति आसीत् । समयान्तरे तस्य नाम “बेङ्गलूर” अभवत् । साम्प्रतम् अस्य नगरस्य आधिकारिकं नाम “बेङ्गळूरु” इति कृतम् । ई. स. १५३७ तमे वर्षे विजयनगरसाम्राज्यस्य कैम्पेगौडा इत्याख्येन सेनापतिना एकः लघुग्रामः स्थापितः आसीत् । सः ग्रामः साम्प्रतं “बेङ्गळूरु” इति नाम्ना ख्यातः अस्ति । पुरा इदं “गार्डन सिटी” इति नाम्ना अपि ज्ञायते स्म । इदं नगरं भारतस्य नूतनयुगस्य नगरम् अपि कथ्यते । पुरा बेङ्गळूरु-नगरे गङ्गा-राजवंशेन शासनं कृतम् । अनन्तरं होयसल-राजवंशस्य अधिकारे आगतम् । तदनन्तरं “हैदर अली” इत्याख्येन, तस्य पुत्रेण “टीपू सुल्तान” इत्याख्येन च तत्र शासनं कृतम् आसीत् ।

साम्प्रतम् इदं नगरं “सिलिकॉन् वेली” इति नाम्ना अपि ज्ञायते । यतः अस्मिन् नगरे सूचनाप्रौद्योगिकिक्षेत्रस्य (IT) तीव्रतया विकासः जातः । कर्णाटक-राज्यस्य दक्षिणपूर्वदिशि इदं महानगरं स्थितम् अस्ति । इदं नगरं ७४१ चतुरस्रकिलोमीटर्मितं विस्तृतम् अस्ति । अस्य नगरस्य जनसङ्ख्या ८४,२५,९७० अस्ति । समुद्रतलात् ३११३ पादोन्नतम् अस्ति इदं महानगरम् । अतः अस्य नगरस्य जलवायुः मनोहरः, सुखदश्च अस्ति । जवाहरलाल नेहरू तारामण्डल, लाल बाग, कब्बन पार्क्, द एक्वेरियम्, वेनकटप्पा आर्ट् गैलेरी, विधान सौधा, बनरगट्टा नेशनल पार्क् च इत्यदीनि बेङ्गळूरु-महानगरस्य वीक्षणीयस्थलानि सन्ति । श्रवणबेलगोला, नागरहोल, बान्दीपुर, रङ्गनाथिटु, बेलूर, हैलेबिड इत्यादीनि बेङ्गळूरु-महानगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । बेङ्गळूरु-महानगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । तत्र विमानस्थानकं, रेलस्थानकं, बसस्थानकं च अस्ति । नगरस्य आन्तरिकक्षेत्राणि गन्तुम् अपि भाटकवाहनानि प्राप्यन्ते ।

हुबली[सम्पादयतु]

हुबली-नगरं दक्षिणभारतस्य महानगरं विद्यते । इदं नगरं धारवाड-नगरस्य अनुकृतं (Duplicate) नगरं कथ्यते । धारवाड-मण्डलस्य मुख्यालयः अस्ति धारवाड-नगरम् । हुबली-नगरं कर्णाटक-राज्यस्य उत्तरभागस्य वाणिज्यिककेन्द्रं विद्यते । कर्णाटकराज्यस्य विकासशीलनगरेषु इदं द्वितीयम् अस्ति । “हुब्बल्ली” इत्यनेन कन्नड-भाषायाः शब्देन “हुबली” शब्दस्य उत्पत्तिः जाता । इदम् ऐतिहासिकं नगरं विद्यते । चालुक्य-वंशकाले अस्य नगरस्य उत्पत्तिः अस्ति । रायरा हुबली, इलेया पुरावदा हल्ली, पुरबल्ली च इत्यादीनि अस्य नगरस्य पुरातनानि नामानि सन्ति । विजयनगर-साम्राज्यस्य शासनकाले कार्पासव्यापारस्य, लौहव्यापारस्य प्रमुखकेन्द्रम् आसीत् । ई. स. १७५६ तमे वर्षे इदं क्षेत्रं मराठा-शासकानां शासने आसीत् । किन्तु मध्ये कस्मिँश्चित् समयान्तराले “हैदरअली” इत्याख्येन इदं क्षेत्रं हृतम् । पुनश्च ई. स. १७९० तमे वर्षे मराठा-शासकैः इदं क्षेत्रं स्वाधीने कृतम् । ई. स. १८८० तमे वर्षे हुबली-नगरे आङ्ग्लशासकैः रेलयानस्य कार्यशाला आरब्धा । अतः एव विश्वस्मिन् इदं नगरं प्रसिद्धम् अस्ति । हुबली-नगरं कार्पासस्य, कलायस्य (Groundnut) च प्रमुखं व्यापारिकं केन्द्रम् अस्ति ।

भवानीशङ्करमन्दिरम्, असार, सिद्धरूधामठः, उन्कल-तडागः, नृपटूँगा बेट्टा, ग्लास् हाऊस् च हुबली-नगरस्य वीक्षणीयस्थलानि सन्ति । नविलतीर्थं, सथोडा, सोगल्ला, मथोडा-जलप्रपाताः, इस्कॉन्-मन्दिरं, स्काइस् पॉइण्ट्, उलाविया च इत्यादीनि हुबली-नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य जलवायुः ऊष्णकटिबन्धीयः अस्ति । सः आर्द्रः, शुष्कश्च अस्ति । अक्टूबर-मासतः फरवरी-मासपर्यन्तं जनाः भ्रमणार्थं गच्छन्ति । हुबली-नगरं कर्णाटक-राज्यस्य प्रमुखस्थलैः सह सम्बद्धम् अस्ति । हुबली-नगरे एकं विमानस्थानकम् अपि अस्ति । ततः बेङ्गळूरु-महानगराय, हैदराबाद-महानगराय, मुम्बई-महानगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते ।

मैसूर[सम्पादयतु]

मैसूर-नगरं कर्णाटक-राज्यस्य सांस्कृतिकराजधानी अस्ति । इदं नगरं कर्णाटक-राज्यस्य बृहत्तमेषु नगरेषु द्वितीयम् अस्ति । दक्षिणभारतस्य प्रसिद्धपर्यटनस्थलेषु इदं नगरं वेशभूषायै प्रसिद्धम् अस्ति । तत्रस्थानि सुन्दराणि उद्यानानि, भव्यभवनानि च जनान् आकर्षन्ति । ई स. २०१० तमे वर्षे “युनियन् अर्बन् डेवलप्मेण्ट् अथॉरिटी” इत्यनया संस्थया सर्वेक्षणं कृतम् । तस्मिन् सर्वेक्षणे ज्ञातं यत् –“मैसूर-नगरं भारत-देशस्य द्वितीयं, कर्णाटक-राज्यस्य प्रथमं च स्वच्छनगरम् अस्ति” इति । मैसूर-नगरं “सेण्डलवुड् सिटी” इत्यपि कथ्यते । अस्मिन् नगरे प्रतिवर्षम् अष्टाङ्गयोगकार्यक्रमः आयोज्यते । अस्मिन् कार्यक्रमे विदेशात् अपि बहवः योगप्रशंसकाः समागच्छन्ति । ई. स. १७९१ तः १७९९ तमवर्षपर्यन्तं मैसूर-नगरे “टीपू सुल्तान”, “हैदरअली” च इत्येतयोः शासनम् आसीत् । ई. स. १७९९ तमे वर्षे टीपू सुल्तान इत्यस्य मृत्योः अनन्तरं मैसूर-नगरं पुनः वुडेयार-राज्यस्य राजधानी अभवत् । “कृष्णराजा वुडेयार चतुर्थ” इत्याख्यस्य शासकस्य शासनकाले अस्मिन् नगरे बृहन्मार्गाणां, भव्यभवनानां, तडागानां च निर्माणम् अभवत् ।

नगरेऽस्मिन् प्राचीनमन्दिराणि, सङ्ग्रहालयाः, तडागाः, उद्यानानि च सन्ति । अस्मिन् नगरे नैकाः भव्यप्रासादाः सन्ति । अतः “प्रासादानां नगरम्” इत्यपि कथ्यते । “मैसूर महल”, “अम्बा महल” च मैसूर-नगरस्य प्रसिद्धौ प्रासादौ स्तः । मैसूर-प्राणीसङ्ग्रहालयः, चामुण्डेश्वरीमन्दिरं, महाबलेश्वरमन्दिरं, सेण्ट् फिलोमेना चर्च्, वृन्दावन गार्डन, जगनमोहन महल आर्ट् गैलेरी, ललिता महल, जयलक्ष्मी विलास हवेली, रेलवे म्यूजियम्, करणजी झील, कुक्करहल्ली झील च इत्येतानि मैसूर-नगरस्य वीक्षणीयस्थलानि सन्ति । श्रीरङ्गपट्टनम, नञ्जनगुड, श्रीवानसमुद्री-जलप्रपातः, तलाकाडु मेलकोट, सोमनाथपुरम्, हैलेबिड, बेलूर, बान्दीपुर नेशनल पार्क्, श्रवणबेलगोला, कुर्ग चेत्यादीनि मैसूर-नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति ।

मैसूर-नगरं कर्णाटक-राज्यस्य दक्षिणभागे विराजते । इदं काबिनी-नद्याः मध्ये स्थितम् अस्ति । समुद्रतलात् इदं नगरं ७७० मीटर्मितम् उन्नतम् अस्ति । अतः अस्य नगरस्य जलवायुः सामान्यः एव भवति । मैसूर-नगरं बेङ्गळूरु-महानगरात् १४० किलोमीटार्मिते दूरे स्थितम् अस्ति । मैसूर-नगरे एकं विमानस्थानकम् अपि विद्यते । ततः भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते ।

मेङ्गलोर[सम्पादयतु]

“मेङ्गलोर-नगरं कर्णाटक-राज्यस्य प्रवेशद्वारम् अस्ति” इति कथ्यते । इदं नगरम् अरब-सागरस्य तटे स्थितम् अस्ति । मङ्गलादेव्या नाम्ना अस्य नामकरणम् अभवत् । नगरमिदं प्रसिद्धः पोताश्रयः वर्तते । साम्प्रतं मेङ्गलोर-नगरं विभिन्नसंस्कृतीभिः परिपूर्णम् अस्ति । मेङ्गलोर-नगरस्य संस्कृतिः बहुधा वर्तते । यतः विविधनगरेभ्यः विविधसंस्कृतीनां जनाः निवसन्ति । नगरे यक्षगानं, कृष्णजन्माष्टमी, कराडी वेशा नृत्यम्, विजयादशमी च इत्यादयः सांस्कृतिकोत्सवाः आचर्यन्ते । “कादरी मञ्जूनाथा मन्दिर”, सेण्ट् एलॉयसियस् चैपल्, रोसारियो कैथेड्रल्, जामा मस्जिद् च इत्यादीनि मेङ्गलोर-नगरस्य वीक्षणीयस्थलानि सन्ति । जनाः शीतर्तौ मेङ्गलोर-नगरस्य भ्रमणं कुर्वन्ति । दिसम्बर-मासतः मार्च-मासपर्यन्तम् अस्य नगरस्य वातावरणम् अनुकूलं भवति ।

मेङ्गलोर-नगरे सर्वकारप्रचालितानि बसयानानि सन्ति । इदं नगरं “राष्ट्रियराजमार्गः १३”, “राष्ट्रियराजमार्गः १७”, “राष्ट्रियराजमार्गः ४५” एतैः राजमार्गैः सह सम्बद्धम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । बेङ्गळूरु-महानगराय, चेन्नै-महानगराय, मुम्बई-महानगराय, हासन-नगराय च रेलयानानि प्राप्यन्ते । मेङ्गलोर-नगरे एकं विमान-स्थानकं विद्यते । तद् भारतस्य विभिन्नविमानस्थानकैः सम्बद्धम् अस्ति ।

हासन[सम्पादयतु]

हासन-नगरं कर्णाटक-राज्यस्य हासन-मण्डलस्य मुख्यालयः अस्ति । एकादशशताब्द्यां “चन्ना कृष्णप्पा नाइक” इत्याख्येन हासन-नगरं स्थापितम् आसीत् । अस्मिन् नगरे हासनअम्बा-मन्दिरम् अस्ति । हासनअम्बादेवी अस्य नगरस्य स्थानीयदेवी अस्ति । अतः अस्य नगरस्य नाम हासन अभवत् । अस्य नगरस्य स्थापत्यकला प्रसिद्धा अस्ति । पुरा होयसाल-वंशीयाः राजानः अत्र शासनं कुर्वन्ति स्म । अतः तेषां संस्कृतिः साम्प्रतमपि दृश्यते । होयसाल-वंशस्य राजानः जैनधर्मानुयायिनः आसन् । किन्तु सर्वत्र भगवतः शिवस्य मन्दिराणि विद्यन्ते । नगरमिदम् ऐतिहासिकम् अस्ति । अस्य नगरस्य विकासः तीव्रं जायमानः अस्ति । “भारतीय अन्तरिक्ष अनुसन्धान संस्थान (ISRO)” इत्यस्याः संस्थायाः मुख्यनियन्त्रणकेन्द्रत्वेन अपि अस्ति ।

हासन-नगरे सर्वकारप्रचालितानि बसयानानि प्राप्यन्ते । एतन्नगरं बेङ्गळूरु, मैसूर, मेङ्गलोर, मदिकेरी, चिकमङ्ग्लूर इत्यादिभिः नगरैः सह बसमार्गेण सम्बद्धम् अस्ति । हासन-नगरे रेलस्थानकम् अस्ति । ततः बेङ्गलूरु, मैसूर, मेङ्गलोर चेत्यादिभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । नगरेऽस्मिन् विमानस्थानक्कं नास्ति । किन्तु हासन-नगरात् बेङ्गळूरु-नगरस्य विमानस्थानकं २०७ किलोमीटर्मिते दूरे स्थितम् अस्ति । तत् अन्ताराष्ट्रियविमानस्थानकम् अस्ति ।

भाषा[सम्पादयतु]

“कन्नड” कर्णाटक-राज्यस्य मुख्यभाषा अस्ति । कर्णाटके अन्याः क्षेत्रीयभाषाः अपि सन्ति । यथा – तुलु, कोदावा, कोङ्कण च इत्यादयः । कर्णाटक-राज्ये हिन्दी-भाषा राष्ट्रियभाषात्वेन उपयुज्यते । जनाः भारतदेशस्य विभिन्ननगरेभ्यः, ग्रामेभ्यः च पठनार्थं, वृत्त्यर्थं वा कर्णाटक-राज्यं गच्छन्ति । अतः आङ्ग्ल-भाषा, मराठी-भाषा, मलयालम-भाषा, तमिल-भाषा, तेलुगू-भाषा च इत्यादयः भाषाः अपि व्यवहारे उपयुज्यन्ते ।

शिक्षणम्[सम्पादयतु]

ई. स. २०११ वर्षस्य जनगणनानुगुणं कर्णाटकराज्यस्य साक्षरतामानं ७५.४९ प्रतिशतम् आसीत् । तेषु पुरुषाणां साक्षरतामानं ८२.८५ प्रतिशतं, महिलानां च साक्षरतामानं ६८.१३ प्रतिशतम् अस्ति । कर्णाटक-राज्यं विभिन्ननगरेभ्यः जनाः पठितुं समागच्छन्ति । सम्पूर्णे भारते शिक्षणक्षेत्रे कर्णाटक-राज्यस्य महद्योगदानं वर्तते । अस्मिन् राज्ये बहूनि शैक्षणिकसंस्थानानि सन्ति । “भारतीय प्रबन्धन संस्थानम्, बेङ्गळूरु (IIM)”, “बेङ्गळूरु-विश्वविद्यालयः”, “गुलबर्गा-विश्वविद्यालयः, गुलबर्गा”, “कर्णाटक राज्य मुक्त (Open) विश्वविद्यालयः, मैसूर”, “नेशनल लॉ स्कूल् ऑफ् इण्डियन् युनिवर्सिटी, बेङ्गळूरु” “राष्ट्रीय प्रौद्योगिकी संस्थानम्, सूरथकाल”, “भारतीय सांख्यिकी संस्थानम्, बेङ्गळूरु”, “सेण्ट्रल् इन्स्टीट्यूट् ऑफ् इण्डियन् लैङ्ग्वैजेज्, मैसूर”, “मेङ्गलौर-विश्वविद्यालयः, मेङ्गलौर”, “मैसूर-विश्वविद्यालयः, मैसूर”, “युनिवर्सिटी ऑफ् एग्रीकल्चरल् साइन्सेज्, बेङ्गळूरु” च इत्यादीनि प्रमुखाणि शैक्षणिकसंस्थानानि कर्णाटकराज्ये स्थितानि सन्ति [११]

२००६ वर्षानुगुणं कर्णाटकराज्ये ५४,५२९ प्राथमिकविद्यालयाः आसन् । तेषु विद्यालयेषु २,५२,८७५ शिक्षकाः, ८४.९५ लक्षं विद्यार्थिनः च सन्ति । इतः परं ९,४९८ माध्यमिकविद्यालयाः सन्ति । तेषु ९२,२८७ शिक्षकाः, १३.८४ लक्षं विद्यार्थिनः च सन्ति । अधिकतमेषु विद्यालयेषु कन्नड-भाषा, आङ्ग्लभाषा वा शिक्षणमाध्यमेन प्रयुज्यते । सर्वकारप्रचालितेषु विद्यालयेषु, माध्यमिकविद्यालयेषु च सर्वकारेण शूल्कहीनं मध्याह्नभोजनं प्रदीयते । इतः परम् अपि कर्णाटक-राज्यस्य सर्वकारः योग्यछात्रेभ्यः छात्रवृत्तिं यच्छति, अध्ययने साहाय्यम् अपि करोति च । राज्ये ३५ चिकित्सामहाविद्यलयाः, ४० दन्तचिकित्सामहाविद्यालयाः च स्थिताः सन्ति । कर्णाटक-राज्ये संस्कृतशिक्षायै अपि कार्याणि प्रचलन्ति सन्ति । अतः उडुपी-नगरे, शृङ्गेरी-नगरे, गोकर्ण-नगरे, मेलकोट-नगरे च वैदिकशिक्षायै, संस्कृतशिक्षायै च शैक्षणिकसंस्थानानि विद्यन्ते ।

धर्मः[सम्पादयतु]

कर्णाटक-राज्ये विभिन्नधर्मानुयायिनः निवसन्ति । जगद्गुरुशङ्कराचार्येण सम्पूर्णे भारते चतुर्दिक्षु प्रमुखाः चत्वारः पीठाः स्थापिताः आसन् । तेषु दक्षिणदिशि कर्णाटक-राज्ये शृङ्गेरी-मठः स्थापितः । विशिष्टाद्वैतवादस्य प्रवर्तकेन रामानुजाचायेण अपि मेलकोट-नगरे बहूनि वर्षाणि अतिवाहितानि । सः ई. स. १०९८ तमे वर्षे कर्णाटक-राज्यं प्राप्तवान् । ई. स. ११२२ पर्यन्तं स तत्र न्यवसत् । मेलाकोट्-नगरे तेन शैल्वनारायणमन्दिरं स्थापितम् । तत्र मठः अपि स्थापितः तेन । तस्मिन् काले रामानुजाचार्यः होयसालवंशस्य राज्ञः विष्णुवर्धनस्य संरक्षणं प्राप्तवान् । द्वादशशताब्द्यां जातिवादकारणात्, सामाजिककुप्रथाभ्यः च उत्तरकर्णाटक-क्षेत्रे वीरशैवधर्मः समुद्भूतः । अस्मिन् आन्दोलने “बसव”, “अक्का महादेवी”, अलाम प्रभु च अग्रण्यः व्यक्तयः आसन् । तैः अनुभवमण्डपस्य स्थापना कृता । तदा शक्तिविशिष्टाद्वैतः उद्भूतः । साम्प्रतम् अस्य शक्तिविशिष्टाद्वैतवादस्य बहवः अनुयायिनः सन्ति । अस्मिन् राज्ये जैनधर्मस्य अपि प्रभावः अधिकः आसीत् । कर्णाटकराज्यस्य सांस्कृतिकपरिदृश्ये जैनसाहित्यस्य, जैनदर्शनस्य च महत्पूर्णं योगदानम् आसीत् । प्रायः दशमशताब्द्यां भारतस्य पश्चिमतटे इस्लाम-धर्मस्य उदयः जातः । अयं धर्मः कर्णाटक-राज्यस्य बहमनी-साम्राज्यस्य, बीजापुर-साम्राज्यस्य च संरक्षणं प्राप्तवान् । षोडशशताब्द्यां पुर्तगालिजनाः भारतं समागतवन्तः । ई. स. १५४५ तमे वर्षे “सेण्ट् फ्रान्सिस् जेवियर्” इत्याख्यः अपि आगतः । तावदेव अस्मिन् राज्ये ईसाई-धर्मः आरब्धः जातः । एवं च गुलबर्ग, बनवासी च इत्यादिषु क्षेत्रेषु च प्रथमसहस्राब्दौ बौद्धधर्मस्य उत्पत्तिः जाता । ई. स. १९८३ तमे वर्षे गुलबर्ग-क्षेत्रे मौर्यकालस्य अवशेषाः, अभिलेखाः च प्राप्ताः । तैः ज्ञायते यत् – “कृष्णानद्याः क्षेत्रे बौद्धधर्मस्य प्रचारः अभवत्” इति ।

क्रीडा[सम्पादयतु]

भारतस्य यष्टिक्रीडायां कर्णाटक-राज्यस्य कोडगु-मण्डलस्य महद्योगदानं भवति । तस्मिन् मण्डलस्य बहवः क्रीडालवः अन्ताराष्ट्रियस्तरे भारतीययष्टिक्रीडासमूहस्य प्रतिनिधित्वम् अकुर्वन् । “कोडव हॉकी उत्सव” विश्वस्य बृहत्तमः यष्टिक्रीडोत्सवः अस्ति । बेङ्गळूरु-महानगरे प्रतिवर्षं बहवः क्रीडोत्सवाः आयोज्यन्ते । तत्र “महिला टेनिस सङ्घ” इत्याख्येन टेनिस्-क्रीडा आयोजिता । बेङ्गळूरु-महानगरे भारतस्य सर्वोच्चक्रीडासंस्थाने स्थिते सन्ति । ते – “भारतीय खेल प्राधिकरण”, “नाइके टेनिस अकादमी” च । तरणस्पर्धायाम् अपि अस्य राज्यस्य स्नातारः (Swimmer) प्रसिद्धाः सन्ति । क्रिकेट्-क्रीडा कर्णाटक-राज्यस्य लोकप्रियक्रीडा वर्तते । अस्य राज्यस्य क्रीडासमूहः षड्वारं “रणजी-विजयवैजयन्तिं” प्राप्तवान् । बेङ्गळूरु-महानगरे “चिन्नास्वामी क्रीडाङ्गणम्” अस्ति । अस्मिन् क्रीडाङ्गणे अन्ताराष्ट्रिय-क्रिकेट्-क्रीडास्पर्धाः आयोज्यन्ते । ई. स. २००० तमे वर्षे “राष्ट्रिय-क्रिकेट्-अकादमी” संस्थायाः केन्द्रम् आसीत् इदं राज्यम् । ई. स. १९९० तमे वर्षे एका अन्ताराष्ट्रिया क्रिकेट्-स्पर्धा अभवत् । तस्यां स्पर्धायाम् अस्य राज्यस्य क्रीडालवः अधिकाः आसन् । इतः परं खो खो, कबड्डी, चिन्नई डाण्डु च इत्यादयः कीडाः जनाः क्रीडन्ति । “प्रकाश पादुकोन” इत्याख्यः पिच्छकन्दुकक्रीडायां (Badminton) विजेता आसीत् । सः “ऑल् इङ्ग्लैण्ड् बेडमिण्टन् चैम्पियनशीप” इत्यस्याः स्पर्धायाः विजेता अपि आसीत् । अपरं च “पङ्कज आडवाणी” इत्याख्यः अपि पिच्छकन्दुकक्रीडायाः क्रीडालुः अस्ति । तेन विंशतिवर्षाणां वयसि एव पिच्छकन्दुकक्रीडास्पर्धा अपि आरब्धा । कर्णाटकराज्ये द्विचक्रिकाचालनस्पर्धा अपि भवति । अस्यां स्पर्धायां “प्रेमलता सुरेबान” इत्याख्या भारतीयप्रतिनिधिषु अन्यतमा आसीत् । क्रीडालूनाम् उत्साहं दृष्ट्वा राज्यसर्वकारेण “बी. आर्. अम्बेडकर स्टेडियम्” इत्यस्मिन् क्रीडाङ्गणे द्विचक्रिकापथः निर्मापितः । तस्य निर्माणकार्ये ४० लक्षं रुप्यकाणां व्ययः अभवत् ।

अर्थव्यवस्था, कृषिः[सम्पादयतु]

कर्णाटक-राज्यस्य अर्थव्यवस्था कृष्याधारिता अस्ति । कर्णाटक-राज्यस्य प्रायः ५६ प्रतिशतं श्रमशक्तिः कृषिकार्ये संलग्ना अस्ति । कार्पासः, व्रीहिः, लवेटिका, कलायः, सूर्यमुखी (पुष्पं), तमालपत्रं च इत्यादीनि अस्य राज्यस्य प्रमुखानि सस्यानि सन्ति । काफी, काजूतकं, नारिकेलं, एला (Cardamom), पुगीफलं च इत्यादीनि सस्यानि अपि कर्णाटकराज्ये भवन्ति । काफीपेयस्य उत्पादने भारतस्य राज्येषु कर्णाटकराज्यस्य प्रथमं स्थानम् अस्ति । सम्पूर्णदेशस्य ६० प्रतिशतं काफी-सस्यं कर्णाटकराज्ये उत्पाद्यते । उपस्कराणाम् (Spice) उत्पादने भारतस्य राज्येषु तृतीये स्थाने तिष्ठते कर्णाटकराज्यम् । अस्मिन् राज्ये चन्दनकाष्ठस्य अपि सर्वाधिकम् उत्पादनं भवति [१२]

उद्योगाः[सम्पादयतु]

कर्णाटक-राज्यस्य बेङ्गळूरु-महानगरम् औद्योगिकदृष्ट्या समृद्धम् अस्ति । तन्महानगरं भारतस्य “सिलिकॉन् वैली” इति नाम्ना प्रसिद्धम् अस्ति । कर्णाटकराज्ये बहवः उद्योगाः सन्ति । स्वचालितयन्त्राणां (Automobile), वायुयानानां (Aeronautics), भेषजानां (pharmaceutical), सूचनाप्रौद्योगिक्याः च क्षेत्रे बहवः उद्योगाः दृश्यन्ते । अतः एव बेङ्गळूरु-महानगरं “विद्युन्नगरम्” अपि कथ्यते । स्वर्णं, रजतं, लौहः, मैङ्गनीज्, कर्करः, कौलालकं (porcelain), ताम्रं च इत्यादयः खानिजाः कर्णाटकराज्ये समुत्पद्यन्ते । “हिन्दुस्तान एयरोनॉटिक्स् लिमिटेड्”, “हिन्दुस्तान मशीन टूल्स्”, “भारत इलेक्ट्रॉनिक्स्”, “इण्डियन् टेलीफोन् इण्डस्ट्रीज्”, “नेशनल एयरोनॉटिक्स् लैबोरेटरी”, “भद्रावती लौह इस्पात केन्द्र” च कर्णाटक-राज्यस्य प्रमुखानि उद्योगकेन्द्राणि सन्ति ।

जैवप्रौद्योगिकीक्षेत्रे अपि कर्णाटक-राज्यं सर्वप्रथमं वर्तते । इदं राज्यं भारतस्य बृहत्तमस्य जैवाधारितोद्योगसमूहस्य केन्द्रम् अपि अस्ति । सम्पूर्णे भारते आहत्य ३२० जैवप्रौद्योगिकीसंस्थाः प्रचाल्यमानाः सन्ति । तेषु १५८ संस्थाः कर्णाटक-राज्ये स्थिताः सन्ति । भारतस्या पुष्पोद्योगे अपि अस्य राज्यस्य ७५ प्रतिशतं योगदानं वर्तते । अस्मात् राज्यात् भारतस्य विभिन्ननगरेभ्यः विशिष्टपुष्पाणाम् आपूर्तिः क्रियते । भारतस्य बृहत्तमेषु वित्तकोषेषु केनरावित्तकोषस्य, सिण्डिकेट्-वित्तकोषस्य, कॉर्पोरेशन्-वित्तकोषस्य, विजया-वित्तकोषस्य, वैश्य-वित्तकोषस्य, स्टेट् बैङ्क ऑफ् मैसूर्-वित्तकोषस्य चेत्येतेषां सप्तवित्तकोषाणाम् उद्गमस्थानं कर्णाटकराज्यम् एव अस्ति । ई. स. २००२ तमस्य मार्च-मासानुगुणं कर्णाटक-राज्ये विभिन्नवित्तकोषाणाम् आहत्य ४७६७ शाखाः विराजन्ते [१३]

सर्वकारः शासनव्यवस्था च[सम्पादयतु]

मुख्यलेखः : कर्णाटकसर्वकारः

राजनीतिः[सम्पादयतु]

कर्णाटक-राज्ये द्विसदनात्मकं विधानसभामण्डलं वर्तते । तयोः मण्डलयोः प्रथमः विधानपरिषद्, द्वितीया विधानसभा च अस्ति । कर्णाटक-राज्यस्य विधानसभायां २२४ स्थानानि, विधानपरिषदि च ७५ स्थानानि च सन्ति । अस्मिन् राज्ये लोकसभायाः २८ स्थानानि, राज्यसभायाः १२ स्थानानि च सन्ति । ई. स. १९७१ तमस्य वर्षस्य मार्च-मासस्य विंशतितमे दिनाङ्कतः (२० मार्च १९७१) ई. स. १९७२ पर्यन्तम् आसीत् । भारतीय जनता पार्टी, भारतीय राष्ट्रीय कॉङ्ग्रेस्, जनता दल (एस्), जनता दल (यू), भारतीय कम्युनिस्ट् पार्टी (मार्क्सवादी) इत्यादयः कर्णाटक-राज्यस्य राजनैतिकसमूहाः सन्ति । कर्णाटक-राज्यस्य उच्चन्यायालयः बेङ्गळूरु-महानगरे स्थितः अस्ति । ई. स. १८८४ तमे वर्षे कर्णाटक-राज्यस्य उच्चन्यायालयस्य स्थापना अभवत् [१४]

कला, संस्कृतिश्च[सम्पादयतु]

कर्णाटक-राज्ये लोकनाट्यम् अत्यन्तं लोकप्रियम् अस्ति । कर्णाटक-राज्ये इदं लोकनाट्यं “बायालता” इति कथ्यते । लोकनाट्येषु सनता, पारिजात, यक्षगान, दसारता च इत्यादयः लोकप्रियाणि लोकनाट्यानि सन्ति । एतेषु लोकनाट्येषु अपि यक्षगानलोकनृत्यं प्रमुखम् अस्ति । सस्यानां कर्तनकाले यक्षगानं क्रियते । कर्णाटकराज्ये बहुभाषीयाः जनजातयः सन्ति । तासां जनजातीनाम् इतिहासः अपि प्राचीनतमः अस्ति । तत्र कन्नडिगो, तुलुव, कोडव, कोङ्कणी इत्यादयः जनजातयः निवसन्ति । अतः कर्णाटक-राज्यस्य संस्कृतिः अपि नैकधा अस्ति । तत्र तिब्बती बौद्ध, सोलिग, येरवा, टोडा, सिद्धि इत्यादयः अपि अस्य राज्यस्य अल्पसङ्ख्यकाः जनजातयः सन्ति ।

सङ्गीतं, नृत्यं, नाट्यं, कथावाचनम् इत्यादयः कर्णाटक-राज्यस्य परम्परागतलोककलाः सन्ति । मालनाड, यक्षगणः, शास्त्रीयनृत्यनाटिकाः च कर्णाटकराज्यस्य प्रधाननाट्यशैल्यः सन्ति । तत्र निनासम, रङ्गशङ्कर, रङ्गायन, प्रभात कलाविदरु च इत्यादयः सक्रियनाट्यसङ्घटनानि सन्ति । तेषां सङ्घटनानां योगदानेनैव नाट्यपरम्परा जीविता अस्ति । गुब्बी वीरन्ना, टी फी कैलाशम, बी वी करन्थ, के वी सुबन्ना, प्रसन्ना च एतेषां सङ्घटनानाम् आधारभूताः सन्ति । वीरागेस, कमसेल, कोलाट, डोलुकुनिता चेत्यादयः कर्णाटक-राज्यस्य प्रचलिताः नृत्यशैल्यः सन्ति । “जत्ती तयम्मा” इत्याख्या मैसूरशैल्याः भरतनाट्यस्य प्रसिद्धा व्यक्तिः अस्ति । तेनैव कारणेन साम्प्रतं भरतनाट्यं शिखरे अस्ति । अतः एव कर्णाटक-राज्यं भरतनाट्यस्य प्रधानकेन्द्रत्वेन गण्यते । कर्णाटक-राज्यस्य विश्वस्तरीयशास्त्रीयसङ्गीते विशिष्टं स्थानम् अस्ति ।

सङ्गीते कर्णाटकशैल्यः (कॉर्नेटिक), भारतीयशैल्यः च विशिष्टाः सन्ति । अस्मिन् राज्ये द्वयोः शैल्योः कलाकाराः अभवन् । “कर्णाटकसङ्गीत” इत्यस्मिन् शब्दे कर्णाटक इत्युक्ते दक्षिणभारतीयसङ्गीतम् इत्यर्थः गृहीतव्यः । षोडशशताब्द्याः हरिदासान्दोलनस्य कर्णाटकसङ्गीतस्य विकासे महद्योगदानम् आसीत् । सम्मानितेषु हरिदासेषु पुरन्दरदासाय कर्णाटकसङ्गीतस्य पितामहस्य उपाधिः प्रदत्तः आसीत् । गङ्गूबाई हङ्गल, मल्लिकार्जुन मंसूर, भीमसेन जोशी, बसवराज राजगुरु, सवाई गन्धर्व च इत्यादयः कर्णाटकराज्यस्य कलाकाराः सन्ति । एतेषु केचन कालिदासपुरस्कारेण, पद्मभूषणपुरस्कारेण, पद्मविभूषणपुरस्कारेण च सम्मानिताः सन्ति । कर्णाटकसङ्गीताधारिताः नैकाः शास्त्रीयसङ्गीतशैल्यः सन्ति । कर्णाटक-राज्ये तासां शैलीनां प्रचलनम् अपि अस्ति । तासु शैलिषु कन्नडभगवतीशैली प्रसिद्धसङ्गीतशैली अस्ति । सा शैली आधुनिककविगणानां भावनात्मकरसैः प्रेरिता अस्ति । मैसूरचित्रकलाशैल्याः बहवः चित्रकाराः सन्ति । तेषु सुन्दरैया, तञ्जावुर, कोण्डव्य, बी वेङ्कटप्पा, केशवैय्या च सन्ति । “राजा रवि वर्मा” इत्याख्यः अपि सुप्रसिद्धचित्रकारः अस्ति । सः धार्मिकचित्राणि निर्माति । तेन निर्मितानि चित्राणि सम्पूर्णे भारते, विश्वस्मिन् च पूजनाय प्रयुज्यन्ते । मैसूरचित्रकलायाः शिक्षणाय “चित्रकला परिषद्” इति नामकं सङ्घटनं प्रचलितम् अस्ति ।

कर्णाटक-राज्ये महिलाः शाटिकां धरन्ति । कोडगु-क्षेत्रस्य महिलाः विशिष्टरीत्या शाटिकां धरन्ति । किन्तु शाटिकाधारणस्य तत्प्रकारः किञ्चिद्भिन्नः वर्तते । कर्णाटक-राज्यस्य पुरुषाः धौतवस्त्रं धरन्ति । तद्वस्त्रं “पाँचे” इति कथ्यते । कर्णाटकराज्यस्य दक्षिणक्षेत्रे जनाः विशिष्टतया शिरोवस्त्रं धरन्ति । तद्वस्त्रं “मैसूरी पेटा” इति कथ्यते । किन्तु कर्णाटकराज्यस्य उत्तरीक्षेत्रेषु जनाः राजस्थानशैल्यां शिरोवस्त्रं धरन्ति । तद्वस्त्रं “पटगा” इति कथ्यते । कर्णाटक-राज्ये विभिन्नाः उत्सवाः आचर्यन्ते । तेषु विजयादशमी, नागपञ्चमी, नवरात्री (नाडाहाब), येलू अमावस्या, दीपावलिः च इत्यादयः उत्सवाः जनाः उत्साहपूर्वकम् आचरन्ति । एतेषु उत्सवेषु विजयादशमी-उत्सवः सम्पूर्णे प्रदेशे उत्साहपूर्वकम् आचर्यते । तत्र वैशाखीपर्वणः नूतनवर्षस्य प्रारम्भः मन्यते । कर्णाटक-राज्ये “श्री शिडलिङ्गप्पा मेला”, “गोडाची मेला”, “श्री विथाप्पा मेला”, “वनशङ्करीदेवी मेला” इत्यादयः मेला-उत्सवाः अपि भवन्ति [१५]

वीक्षणीयस्थलानि[सम्पादयतु]

कर्णाटक-राज्यं भारतस्य दक्षिण-पश्चिम-दिशः पर्यटनकेन्द्रम् अस्ति । विश्वस्य विभिन्ननगरेभ्यः जनाः भ्रमणार्थं कर्णाटक-राज्यं गच्छन्ति । बेङ्गळूरु-महानगरम् अपि कर्णाटक-राज्यस्य प्रमुखवीक्षणीयस्थलेषु अन्यतमम् अस्ति । कर्णाटक-राज्ये नैकानि वीक्षणीयस्थलानि सन्ति । अतः तत्र मनोरञ्जनाय उद्यानानि, भोजनालयाः, विश्रामालयाः च सर्वकारेण निर्मापिताः सन्ति । अतः जनाः सर्वसौकर्याणि प्राप्नुवन्ति । कर्णाटक-राज्ये आहत्य ३० मण्डलानि सन्ति । तेषु मण्डलेषु पर्यटकाः आनन्दं प्राप्नुवन्ति । ये वन्यजीवप्रेमिणः भवन्ति, ते अभयारण्यम् अपि गन्तुं शक्नुवन्ति । ये पर्वतारोहणम् इच्छन्ति, ते तत्कर्तुं शक्नुवन्ति । धार्मिकाः जनाः मन्दिराणि गच्छन्ति । प्राकृतिकदृष्ट्या अपि कर्णाटक-राज्यम् अत्यन्तं सुन्दरं वर्तते । कर्णाटक-राज्यं भौगोलिकदृष्ट्या तटीयक्षेत्रेषु विभक्तम् अस्ति । यथा – कारावलीपर्वतीयक्षेत्रं, मालेनाडुक्षेत्रं च । इत परम् अपि बहूनि वीक्षणीयस्थलानि सन्ति । तानि अधः प्रदत्तानि सन्ति [१६]

सोन्दा[सम्पादयतु]

सोन्दा-नगरं कर्णाटक-राज्यस्य उत्तरकन्नड-मण्डले स्थितम् अस्ति । इदं तीर्थक्षेत्रम् अपि कथ्यते । अस्य तीर्थस्य नैकानि नामानि सन्ति । तानि – सोन्दापुर, स्वादि, सोन्दा, सोदे च । अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । अतः मन्दिरेभ्यः इदं नगरं प्रसिद्धम् अस्ति । सोन्दा—नगरे “वदिराज” इत्याख्यस्य मठः अस्ति । वदिराजेन माधवाचार्यस्य द्वैतवादस्य प्रचाराय अत्र अस्य मठस्य स्थापना कृता आसीत् । इतः परं तत्र अकलङ्क-मठः, स्वर्णवली-मठः च अपि अस्ति । षोडश शताब्दीतः अष्टादशशताब्दीपर्यन्तं स्वाडी-राज्ञां शासनकाले इदं नगरं महत्तपूर्णम् आसीत् । समुद्रतलात् इदं नगरं २००० मीटर्मितम् उन्नतम् अस्ति । अस्मिन् नगरे भगवतः विष्णोः अवतारस्य त्रिविक्रमस्य मन्दिरं विद्यते । तस्मिन् मन्दिरे भगवतः त्रिविक्रमस्य चित्राणि सन्ति । मन्दिरस्य बहिः पाषाणनिर्मितः एकः रथः अस्ति । मन्दिरस्य पर्वसु अस्य रथस्य उपयोगः क्रियते । रथे भगवतः पत्न्याः महालक्ष्म्याः चित्रम् अस्ति । मन्दिरस्य उत्तरदिशि मठस्य प्रवेशद्वारं दृश्यते । सोन्दा-नगरे एकः पुरातनः दुर्गः विद्यते । तस्मिन् दुर्गे प्राचीनानि लघुनालास्त्राणि सन्ति । सोन्दा-नगरे जैनधर्मस्य मन्दिराणि अपि सन्ति । भगवतः “वैङ्कटरामा” इत्याख्यस्य मन्दिरम् अपि स्थितम् अस्ति । सोन्दा-नगरे धार्मिकानि, ऐतिहासिकानि च स्थलानि सन्ति । अतः इदं स्थलं पर्यटनाय उत्तमम् अस्ति । “मुत्तिनाकेरे पक्षी अभयारण्य”, “शिवगङ्गाजलप्रपातः”, तपोवनम् इत्यादीनि अपि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । सिरसी-नगरात् सोन्दा-नगराय बसयानानि प्राप्यन्ते । सिरसी-नगरं कर्णाटक-राज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः जनाः सोन्दा-नगरं प्राप्तुं काठिन्यं न अनुभवन्ति ।

कुरूदुमाले[सम्पादयतु]

कुरूदुमाले-नगरं कर्णाटक-राज्यस्य कोलार-मण्डले स्थितम् अस्ति । इदं नगरं तीर्थत्वेन ज्ञायते । कुरूदुमाले-नगरे भगवतः गणेशस्य मन्दिरं स्थितम् अस्ति । इदं मन्दिरम् अद्भुतम् अस्ति । अस्मिन् मन्दिरे भगवतः गणेशस्य शक्तिशालीप्रतिमा विद्यमाना अस्ति । इयं प्रतिमा १३.५ मीटर्मितम् उन्नता अस्ति । विद्वांसः कथयन्ति यत् – “द्वाभ्यां वास्तुकाराभ्यां गणेशमन्दिरस्य निर्माणं कृतम् आसीत् । प्रथमः जनकचारी इत्याख्यः, द्वितीयः जनकचारी इत्याख्यस्य पुत्रः धनकचारी च आसीत् । कथ्यते यत् – ब्रह्मविष्णुमहेश्वरैः अस्याः प्रतिमायाः स्थापना कृता आसीत् । अस्य नगरस्य नाम शब्दद्वयेन निर्मितम् अस्ति । कोदु, मलाई च इत्येतौ द्वौ शब्दौ स्तः । “कुरूदुमाले” इति शब्दस्य अर्थः भवति यत् – “मिलनस्थलम्” इति । अत्र सर्वे देवाः मिलन्ति । कुरूदुमाले-नगरे सोमेश्वर-मन्दिरम् अपि विद्यते । अस्मिन् मन्दिरे भगवतः शिवस्य लिङ्गम् अस्ति । इदं गणेशमन्दिरात् अपि प्राचीनम् अस्ति । चोल-वंशस्य शासकैः अस्य मन्दिरस्य निर्माणं कारितम् आसीत् । कुरूदुमाले-नगरं बेङ्गळूरु-महानगरात् ११८ किलोमीटर्मिते दूरे स्थितम् अस्ति । भूमार्गेण अपि तत्र सरलतया गन्तुं शक्यते । कर्णाटक-राज्यस्य विभिन्ननगरेभ्यः कुरूदुमाले-नगरात् नियमितरूपेण बसयानानि प्राप्यन्ते ।

याना[सम्पादयतु]

याना-ग्रामः कर्णाटक-राज्यस्य उत्तरकन्नड-मण्डले स्थितः अस्ति । अयं ग्रामः कुम्ता-नगरात् २५ किलोमीटर्मितं, सिरसी-नगरात् ४० किलोमीटर्मितं च दूरे स्थितमस्ति । तत्र प्राप्ताः पाषाणाः एव तस्य ग्रामस्य वैशिष्ट्यम् अस्ति । याना-ग्रामे स्थितैः पाषाणैः पर्यटकाः आकर्षिताः भवन्ति । अयं सह्याद्रिपर्वतशृङ्खलासु स्थितः अस्ति । अस्य स्थलस्य पाषाणसंरचनाविषयिण्यः पुराणानुसारं बह्व्यः कथाः प्राप्यन्ते यत् – “यदा दैत्यराजः भस्मासुरः भगवन्तं शिवं भस्मसात्कर्तुं शिवम् अनुगच्छन् आसीत्, तदा भगवान् शिवः अस्य स्थलस्य “भैरवेश्वर चोटी” इति नामकस्य पाषाणस्य रचनां चकार । तत्र जगन्मोहिनी-नामकः पाषाणः अस्ति । यदा भगवता विष्णुना मोहिनीस्वरूपे भगवतः शिवस्य रक्षणं कृतम् आसीत्, तदा अस्य जगन्मोहिनी-पाषाणस्य रचना अभवत्” । जनाः महाशिवरात्रौ उत्साहपूर्वकम् उत्सवम् आचरन्ति । अयमुत्सवः दशदिनात्मकः भवति । अस्मिन् उत्सवे शास्त्रीयनृत्यं, सङ्गीतप्रदर्शनं, यक्षगानप्रदर्शनम् इत्यादिकं च भवति । याना-ग्रामस्य समीपे एकं गुफा-मन्दिरं, जलप्रपातश्च अस्ति । याना-नगरस्य निकटतमं विमानस्थानकं गोवा-विमानस्थानकम् अस्ति । याना-नगरात् गोवा-विमानस्थानकं १३७ किलोमीटर्मिते दूरे स्थितम् अस्ति । हुबली-नगरे निकटतमं रेलस्थानकम् अस्ति । सिरसी-नगरे, कुम्ता-नगरे च बसयानानि प्राप्यन्ते ।

शिवगङ्गे[सम्पादयतु]

“शिवगङ्गे” इत्येतत् स्थलं बेङ्गळूरु-महानगरात् ६० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं स्थलं यात्रायै श्रेष्ठम् अस्ति । शिवगङ्गे इत्येतत् स्थलं मूलतः लघुपर्वतः अस्ति । अस्य पर्वतस्य शिखरे भगवतः शङ्करस्य मन्दिरम् अस्ति । अतः एव अस्य स्थलस्य नाम शिवगङ्गे इति अभवत् । कथ्यते यत् – अयं जलप्रपातः गङ्गायाः शाखा वर्तते । अनेन जलप्रपातेन जनाः आकृष्टाः भवन्ति । इदं स्थलम् “दक्षिणा काशी” इति नाम्ना ज्ञायते । कथ्यते यत् – तत्र गुप्तसुरङ्गा वर्तते । सा सुरङ्गा शिवगङ्गे-स्थलात् बेङ्गळूरु-नगरे स्थितं गङ्गाधरेश्वर-मन्दिरपर्यन्तम् अस्ति । शिवगङ्गे-स्थलात् दबसपेट-नगरं ८ किलोमीटर्मिते दूरे स्थितम् अस्ति । दबसपेट-नगरात् शिवगङ्गे-स्थलाय नियमितरूपेण बसयानानि प्राप्यन्ते ।

वेनूर[सम्पादयतु]

वेनूर इत्येतत् स्थलं जैनधर्मस्य महत्त्वपूर्णं तीर्थस्थलं वर्तते । कर्णाटक-राज्यस्य दक्षिणकन्नड-मण्डले स्थितम् इदं तीर्थस्थलम् । इदं स्थलं गुरूपुर-नद्याः तटे स्थितम् अस्ति । साम्प्रतम् इदं स्थलं तावत् प्रसिद्धम् नास्ति, यावत् पुरा आसीत् । पुरा इदं नगरं धनसमृद्धम् आसीत् । अजिलावंशस्य राजधानीत्वेन स्थितम् आसीत् इदं नगरम् । पुरा जैनधर्मस्य महत्त्वपूर्णं केन्द्रमपि आसीत् । अस्य स्थलस्य धार्मिकम्, ऐतिहासिकं महत्त्वं च विद्यते । अस्मिन् नगरे भगवतः गोमतेश्वरस्य ३५ पादोन्नता प्रतिमा स्थिता अस्ति । सा प्रतिमा आकर्षणस्य केन्द्रम् अस्ति । ई. स. १६०४ तमे वर्षे “तिम्मन्ना अजिला” इत्याख्येन जैनराज्ञा इयं प्रतिमा प्रस्थापिता । वेनूर-नगरात् बहिः सप्त प्राचीनमन्दिराणि सन्ति । तेषां मन्दिराणां स्थापत्यशैली अत्यधिका सुन्दरी अस्ति । तां स्थापत्यशैलीं दृष्ट्वा प्राचीनकालस्य कलायाः अवबोधः जायते । इदं मन्दिरम् उभयतः द्वे मन्दिरे स्तः । इदं नगरं सह्याद्रिपर्वतशृङ्खलासु स्थितम् अस्ति । अतः अस्य स्थलस्य प्राकृतिकं सौन्दर्यम् अपि महत्त्वपूर्णम् अस्ति । जनाः वेनूर-स्थलस्य भ्रमणार्थं शीतर्तौ गच्छन्ति । इदं स्थलं मैङ्गलोर-नगरात् भूमार्गेण सम्बद्धम् अस्ति । उडुपी-नगरात् वेनूर-तीर्थस्थलाय बसयानानि प्राप्यन्ते । वेनूर-नगरं गन्तुं वैयक्तिकवाहनानि अपि प्राप्यन्ते । जनाः भाटकेन वैयक्तिकवाहनानि प्राप्य वेनूर-नगरं गच्छन्ति । कर्णाटक-सर्वकारस्य परिवहनविभागेन अपि वेनूर-नगरं गन्तुं बसयानानि प्रचालितानि सन्ति ।

कतील[सम्पादयतु]

कतील-नगरं कर्णाटक-राज्यस्य कन्नड-मण्डले स्थितम् अस्ति । इदं नगरं मठः अपि कथ्यते । नगरमिदं शक्तिपूजायै महत्त्वपूर्णं पीठम् अस्ति । इदं स्थलं नन्दिनी-नद्याः तटे स्थितम् अस्ति । नन्दिनी-नद्याः तटे दुर्गादेव्याः मन्दिरं स्थितम् अस्ति । भारतस्य विभिन्ननगरेभ्यः श्रद्धालवः दर्शनार्थं तत्र गच्छन्ति । अस्य तीर्थस्थलस्य कथा अपि अस्ति यत् – “प्राचीनकाले अरुनासुर-नामकः असुरः आसीत् । तस्य क्रूरतायाः कारणेन अस्य क्षेत्रस्य जनाः तेन असुरेण त्रस्ताः आसन् । तत्र जाबाली इत्याख्यः साधुः निवसति स्म । तेन ध्यानशक्त्या जनानां पीडा दृष्टा । अतः जनानां कल्याणार्थं, साहाय्यार्थं च तेन साधुना यज्ञं कर्तुं मनसि विचारः कृतः । यज्ञं कर्तुं सः कामधेनुम् अधः आनेतुम् इच्छति स्म । अतः साधुः इन्द्रस्य स्तुतिं चकार । इन्द्रेण साधोः इच्छां ज्ञात्वा उक्तं यत् – “कामधेनुः वरुणलोके अस्ति । अतः भवान् तस्याः पुत्रीं नन्दिनीं नयतु ।“ किन्तु नन्दिन्या अहङ्कारवशात् तस्य प्रस्तावः अस्वीकृतः यत् – “पृथ्वीलोके पापिनः निवसन्ति । अतः कदापि न गमिष्यामि” । तेन क्रुद्धः जाबालीना नन्दिनीं शशाप । अतः नन्दिनी नदीस्वरूपेण भूविम् अवतीर्णा । शापात् मुक्त्यर्थं नन्दिनी जाबालीं पृष्टवती । तदा जाबालिना उक्तं यत् – “भवत्या दुर्गादेव्याः आराधना करणीया भविष्यति । अतः नन्दिन्या दुर्गादेव्याः साधना कृता । नन्दिन्याः पूजायाः दुर्गादेवी प्रसन्ना अभवत् । किन्तु जाबालेः शापस्य पूर्णतायै दुर्गादेव्या नन्दिनी उक्ता यत् – “इदानीं भवती नदीस्वरूपेण पृथ्वीलोकं गच्छतु । अहं भवत्याः पुत्रीस्वरूपेण आगत्य शापात् मुक्तं कारयिष्यामि” । अन्ते नन्दिनी कनकगिरिपर्वतस्य कतील-नगरात् नदीस्वरूपेण उद्भूता । अस्याः नद्याः तटे जाबालिना यज्ञः कृतः । तेन यज्ञेन वृष्टिः सञ्जाता । वृष्ट्यनन्तरं तस्य क्षेत्रस्य जनाः तृप्ताः अभवन् ।

किन्तु तस्मिन् समये अरुणासुरेण तपस्यां कृत्वा ब्रह्मणः वरं प्राप्तम् । ब्रह्मणा वरं प्रदत्तं यत् – “द्विपादः, चतुष्पादः वा जीवाः तं हन्तुं न शक्ष्यन्ति । केनापि अस्त्रेण अपि तस्य हननम् अशक्यम्” इति । अतः अरुणासुरः वरं प्राप्य देवैः सह युद्धं कृतवान् । देवाः पराजिताः जाताः । तदा देवैः दुर्गादेव्याः स्तुतिः कृता । दुर्गादेवी युवत्याः रूपं धृत्वा समुद्भूता । तां युवतिं दृष्ट्वा अरुणासुरः मुग्धः जातः । सः युवतिम् अनुगच्छन् आसीत् । मार्गे तया युवत्या सत्यम् उक्तम् । सत्यं ज्ञात्वा अरुणासुरः देवीं हन्तुं प्रयासं कृतवान् । किन्तु देवी पाषाणे परिवर्तिता । तस्मात् पाषाणात् मधुमक्षिकाः समुद्भूताः । यावत् अरुणासुरः स्वस्य प्राणं न त्यक्तवान्, तावत्पर्यन्तं ताः मधुमक्षिकाः दंशितवत्यः । अन्ते देवाः अरुणासुरस्य प्रकोपात् मुक्ताः अभवन् ।

अरुणासुरस्य वधानन्तरं देवाः दुर्गादेवीम् उक्तवन्तः यत् – “हे देवि ! भ्रमराम्बिकदेवीस्वरूपात् मूलस्वरूपं धरतु । तदा देवी नन्दिनी-नद्याः मध्ये समुद्भूता । अनेन देव्या प्रदत्तं वचनं सत्यम् अभवत् । नन्दिन्याः पुत्रीत्वेन देवी उद्भूता । यत्र देवी समुद्भूता, तस्य स्थलस्य नाम “कतील” इति अभवत् । “कती” इत्यस्य अर्थः मध्ये, “ला” इत्यस्य अर्थः भूमिः इति । अतः तत्र नद्याः मध्ये एकं मन्दिरं निर्मापितम् । मन्दिरे देव्याः मूर्तिः प्रस्थापिता । साम्प्रतम् इदं मन्दिरं “दुर्गापरमेश्वरी” इति नाम्ना विख्यातम् अस्ति । अप्रैल-मासे सूर्यः मेषराशिं प्रविशति, तदा अष्टदिवसात्मकः उत्सवः आचर्यते । माघ-मासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ नन्दिनीनद्याः जन्मोत्सवः अपि आचर्यते । इतः परं नवरात्र्युत्सवः, गणेशचतुर्थी, कृष्णजन्माष्टमी, कधिरू हब्बा, लक्षदीपोत्सवः च इत्यादयः उत्सवाः जनाः प्रतिवर्षम् आचरन्ति । कतील-स्थलं मैङ्गलौर-नगरात् २९ किलोमीटर्मिते दूरे स्थितम् अस्ति । मैङ्गलोर-नगरात् कतील-तीर्थक्षेत्रं गन्तुं प्रतिदिनं बसयानानि प्राप्यन्ते । कतील-स्थले रेलस्थानकं नास्ति । कतील-स्थलात् मुल्की-रेलस्थानकं ११ किलोमीटर्मिते, सुरथकल-रेलस्थानकं १८.७ किलोमीटर्मिते, मेङ्गलौर-रेलस्थानकं २७.७ किलोमीटर्मिते च दूरे स्थितम् अस्ति । कतील-स्थलात् ११.२ किलोमीटर्मिते दूरे मेङ्गलौर-नगरे एकं विमानस्थानकम् अस्ति ।

शिवगिरी[सम्पादयतु]

“शिवगिरी” इत्येतत् स्थलं कर्णाटक-राज्यस्य चिकमागलुर-मण्डले स्थितम् अस्ति । अस्य स्थलस्य प्राकृतिकसौन्दर्यं महत्त्वपूर्णम् अस्ति । शिवगिरी-स्थलं परितः सघनानि वनानि सन्ति । अस्य समीपे येममेदोदी-ग्रामः स्थितः अस्ति । तत्र उद्यानानि अपि बहूनि सन्ति । शतवर्षपूर्वमेव इदं स्थलं पर्वतशिखरे स्थितम् अस्ति । एतद् दृश्यं दर्शनीयं भवति । शिवगिरि-स्थलस्य मध्ये एकं व्याघ्राभयारण्यम् अपि अस्ति । तत्र डोडावेले सिड्डरागुडा नामकं पर्वतशिखरम् अस्ति । तच्छिखरं शिवगिरि-स्थलात् ५५०० पादोन्नतम् अस्ति । तत्र एकं शिवमन्दिरम् अपि विद्यते । अस्य क्षेत्रस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । “माडागाडाकेरे झील”, “मुथुडी वन्य जीव अभयारण्य” च पर्यटनाय योग्यस्थलम् अस्ति । “मुथुडी वन्य जीव अभयारण्य” शिवगिरी-स्थलात् ६५ किलोमीटर्मिते दूरे स्थितम् अस्ति । अस्मिन् अभयारण्ये विहगानां, पशूनां च विभिन्नाः प्रजातयः दृश्यन्ते । वर्षर्तौ शिवगिरि-स्थलं पर्यटनयोग्यं नास्ति । किन्तु ग्रीष्मर्तौ, शीतर्तौ च पर्वतारोहरणं, भ्रमणं च कर्तुं शक्यते । बेङ्गळूरु-महानगरात्, हुबली-नगरात्, मेङ्गलौर-नगरात् च शिवगिरी-स्थलं गन्तुं बसयानानि प्राप्यन्ते । शिवगिरी-स्थलात् बेङ्गळूरु-महानगरं २३५ किलोमीटर्मिते, हुबली-नगरं २१५ किलोमीटर्मिते च दूरे स्थितम् अस्ति । तयोः नगरयोः रेलस्थानकम् अस्ति । शिवगिरि-स्थलात् बेङ्गळूरु-विमानस्थानकं २३५ किलोमीटर्मिते दूरे स्थितम् अस्ति ।

बनवासी[सम्पादयतु]

बनवासी-नगरं कर्णाटक-राज्यस्य उत्तरकन्नड-मण्डले स्थितम् अस्ति । वरदा-नद्याः तटे स्थितम् अस्ति बवनासी-नगरम् । अस्मिन् नगरे बहूनि प्राचीनानि मन्दिराणि सन्ति । इदं तीर्थस्थलं ४००० वर्षपुरातनम् अस्ति । बनवासी-नगरं कर्णाटक-राज्यस्य प्राचीनतमं नगरं विद्यते । वनेभ्यः अस्य नगरस्य उत्पत्तिः अभवत् । अतः अस्य नाम “बनवासी” इति । महाभारते अपि अस्य नगरस्य उल्लेखः प्राप्यते । अस्मिन् नगरे मधुकेश्वर-मन्दिरम् अस्य नगरस्य लोकप्रियमन्दिरं विद्यते । अस्य मन्दिरं निर्माणं नवमशताब्द्याम् अभवत् । अतः जनाः दर्शनार्थं तत्र गच्छन्ति । प्रतिवर्षं दिसम्बर-मासे कर्णाटक-राज्यस्य सर्वकारः कदम्बोत्सवस्य भव्यायोजनं करोति । अयमुत्सवः सांस्कृतिकः भवति । अस्मिन् उत्सवे क्षेत्रीयनृत्यानि, यक्षागानानि, सङ्गीतकार्यक्रमाः च भवन्ति ।

बनवासी-नगरात् बेङ्गळूरु-नगरं ३७४ किलोमीटर्मिते दूरे स्थितम् अस्ति । हुबली-नगरस्य विमानस्थानकं निकटतमम् अस्ति । इदं १०० किलोमीटर्मिते दूरे स्थितम् अस्ति । बनवासी-नगरात् गोवा-राज्यस्य डाबोलिम-विमानस्थानकं २४५ किलोमीटर्मिते दूरे स्थितम् अस्ति । बनवासी-नगरात् हावेरी-नगरं ७० किलोमीटर्मिते दूरे स्थितम् अस्ति । तस्मिन् नगरे रेलस्थानकम् अस्ति । बनवासी-नगरं कर्णाटक-राज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

यल्लापुर[सम्पादयतु]

यल्लापुर-नगरं कर्णाटक-राज्यस्य उत्तरकन्नड-मण्डले स्थितम् अस्ति । प्राकृतिकसौन्दर्याय नगरमिदं प्रसिद्धम् अस्ति । यल्लापुरं १७७४ पादोन्नत्ये स्थितम् अस्ति । भारतस्य दूरनगरेभ्यः जनाः तत्र गच्छन्ति । पर्वतानां, जपप्रपातानां च दृश्यं मनोहरं भवति । कवडी, झील, सातोड-जलप्रपातः, मागोड-जलप्रपातः च अस्य नगरस्य पर्यटनस्थलानि सन्ति । यल्लापुर-नगरात् ३६० किलोमीटर्मिते दूरे स्थिते कलची-ग्रामे दुर्गादेव्याः मन्दिरं स्थितम् अस्ति । इदं मन्दिरं बहुप्रसिद्धम् अस्ति । नवम्बर-मासतः अप्रैल-मासपर्यन्तं जनाः यल्लापुर-नगरं गच्छन्ति । तत्काल्ः भ्रमणार्थम् उत्तमः भवति ।

यल्लापुर-नगरात् हुबली-नगरस्य रेलस्थानकं ७१ किलोमीटर्मिते दूरे अस्ति । हुबली-नगरात् यल्लापुर-नगराय बसयानानि प्राप्यन्ते । हुबली-नगरे यल्लापुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । हुबली-नगरात् मुम्बई-महानगराय, बेङ्गळूरु-महानगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते ।

एम् एम् हिल्स्[सम्पादयतु]

एम् एम् हिल्स् इत्येतत् स्थलं कर्णाटक-राज्यस्य चामराजनगर-मण्डले स्थितम् अस्ति । मैसूर-नगरात् इदं स्थलं १४० किलोमीटर्मिते दूरे स्थितम् अस्ति । “मेल महादेश्वरा पर्वतशृङ्खला” इत्येतत् अस्य पूर्णनाम वर्तते । “मेल महादेश्वरा लघुपर्वतेषु भगवतः शिवस्य मन्दिरं विद्यते । इदं मन्दिरम् अस्य स्थलस्य आकर्षणकेन्द्रम् अस्ति । इदं मन्दिरं सघनवनेषु स्थितम् अस्ति । इदं स्थलं समुद्रतलात् ३००० पादोन्नतम् अस्ति । “मेल महादेश्वरा”स्थलं परितः वनानि, लघुपर्वताः च सन्ति । इदं स्थलं रमणीयम् अस्ति । कथ्यते यत् – महादेश्वरा भगवतः शिवस्य एव अवतारः अस्ति । स्थानीयजना वदन्ति यत् – महादेश्वरा इत्याख्येन लघुपर्वतेषु तपस्या कृता । साम्प्रतम् अपि शिवलिङ्गत्वेन महादेश्वरा तत्र स्थितः अस्ति । अस्मिन् मन्दिरे आवर्षं जलं प्रवहति । साम्प्रतम् अपि तस्य जलप्रवाहस्य रहस्यं न कोऽपि ज्ञातुं समर्थः । “मेल महादेश्वरा लघुपर्वतानां वनेषु चन्दनवृक्षाः, वेणुवृक्षाः च अत्यधिकाः सन्ति । वनेषु गजाः, मृगाः, सिंहाः इत्यादयः पशवः दृश्यन्ते ।

मैसूर-नगरात् “मेल महादेश्वरा” इत्यस्मै स्थलाय नियमितरूपेण बसयानानि प्राप्यन्ते । मैसूर-नगरस्य रेलस्थानकं “मेल महादेश्वरा” स्थलात् १३० किलोमीटर्मिते दूरे स्थितम् अस्ति । मैसूर-रेलस्थानकं भारत-देशस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । मैसूर-नगरात् जनाः वैयक्तिकवाहनैः, बसयानैः च “मेल महादेश्वरा” स्थलं प्राप्नुवन्ति । एतत्स्थलात् बेङ्गळूरु-महानगरस्य विमानस्थानकं निकटतमम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । महादेश्वरा-स्थलात् बेङ्गळूरु-विमानस्थानकं १७३ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भारत-देशस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । बेङ्गळूरु-विमानस्थानकात् महादेश्वरा-स्थलाय वैयक्तिकवाहनानि, बसयानानि च प्राप्यन्ते

तडियाण्डमोल[सम्पादयतु]

तडियाण्डमोल इत्येतत् स्थलं कर्णाटक-राज्यस्य कूर्ग-मण्डलस्य कक्काबे-पत्तस्य समीपे स्थितम् अस्ति । इदं स्थलं कर्णाटक-राज्यस्य द्वितीयं पर्वतशिखरं वर्तते । इदं केरल-कर्णाटक-राज्ययोः सीमायां स्थितम् अस्ति । समुद्रतलात् अस्य स्थलस्य औन्नत्यं १७४८ मीटर्मितम् अस्ति । एतावतः औन्नत्यस्य कारणेन पर्वतारोहणाय पर्वतारोहिणः तत्र गच्छन्ति । ये जनाः आरोहणे असमर्थाः भवन्ति, ते कारयानेन सार्धमार्गं यावत् गन्तुं शक्नुवन्ति । किन्तु तस्य अग्रे आरोहणं कठिनं भवति । पर्वतशिखराद् दृश्यं मनोहरं दृश्यते । अस्य पर्वतस्य तले “नलकनाड-भवनम्” अस्ति । ई. स. १७९२ तमे वर्षे “वीर राजेन्द्र” इत्याख्येन स्वस्य सेनायाः विश्रामार्थं निर्मापितम् आसीत् । तत्र समीपे इग्गूथप्पा-मन्दिरम् अस्ति । इदं मन्दिरं प्राचीनं, पवित्रं च अस्ति । पर्वतस्य उपह्वरे शोला-नामकं वनम् अस्ति । तद्वनम् अपि प्राचीनम्, अद्भूतं च वर्तते । ग्रीष्मर्तौ जनाः भ्रमणार्थं तत्र गच्छन्ति । ग्रीष्मर्तुः तडियाण्डमोल-स्थलस्य पर्यटनाय श्रेष्ठतमः कालः अस्ति ।

तडियाण्डमोल-स्थलं कर्णाटक-राज्यस्य विभिन्ननगरैः सह भूमार्गेण सम्बद्धम् अस्ति । अतः बसयानैः तडियाण्डमोल-स्थलं सरलातया प्राप्तुं शक्यते । मेङ्गलोर-नगरे अस्य स्थलस्य निकटतमं रेलस्थानकम् अस्ति । मेङ्गलोर-नगरम् अस्मात् स्थलात् १३१ किलोमीटर्मिते दूरे स्थितम् अस्ति । मेङ्गलोर-नगरं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मेङ्गलोर-नगरात् तडियाण्डमोल-स्थलं गन्तुं जनाः वैयक्तिकवाहनानाम् उपयोगं कुर्वन्ति । मेङ्गलोर-नगरे अन्ताराष्ट्रिय-विमानस्थानकम् अपि अस्ति । तद्विमानस्थानकं तडियाण्डमोल-स्थलात् १३९ किलोमीटर्मिते दूरे स्थितम् अस्ति ।

होनेमरडु[सम्पादयतु]

होनेमरडु इत्येतत् स्थलं कर्णाटक-राज्यस्य शिमोगा-मण्डले स्थितम् अस्ति । बेङ्गळूरु-महानगरात् इदं स्थलं ३७९ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं स्थलं जलाशयस्य समीपे स्थितस्य पर्वतस्य उपह्वरे स्थितम् अस्ति । “होने” नामकस्य वृक्षस्य नाम्ना होनेमरडु इति नाम अभवत् । इदं स्थलं सारावथी-नद्याः तटे स्थितम् अस्ति । तत्र जलाशयस्य मध्ये द्वीपः अस्ति । सः द्वीपः आकर्षणस्य केन्द्रम् अस्ति । अस्य स्थलस्य समीपे सघनानि वनानि अपि सन्ति । तत्र पर्यटकाः आखेटाय गच्छन्ति । तत्र विभिन्नप्रकारकाः विहगाः अपि भवन्ति । अतः जनाः तान् विहगान् दृष्ट्वा आनन्दं प्राप्नुवन्ति । शिमोगा-मण्डले जॉग्-जलप्रपाताः अपि सन्ति । तेषां जलप्रपातानां दृश्यम् अद्भूतं भवति । ते जलप्रपाताः ८२९ पादोन्न्तायाः पतन्ति, सारावथी-नद्यां मिलन्ति च । जॉग्-जलप्रपातानां समीपे दब्बे-जलप्रपाताः अपि सन्ति । ते जलप्रपाताः अपि दृष्टव्याः । शीतर्तौ जनाः होनेमरडु-स्थलं गच्छन्ति ।

तलगप्पा-नगरे होनेमरडु-स्थलस्य निकटतमं रेलस्थानकम् अस्ति । तलगप्पा-रेलस्थानकं १२ किलोमीटर्मितं दुरे स्थितम् अस्ति । तलगप्पा-नगरात् बेङ्गळूरु-महानगराय, शिमोगा-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । मेङ्गलौर-महानगरे होनेमरडु-स्थलस्य समीपस्थं विमानस्थानकम् अस्ति । तद्विमानस्थानकं २३३ किलोमीटर्मिते दूरे स्थितम् अस्ति । तलगप्पा-नगरात् होनेमरडु-स्थलाय वैयक्तिकवाहनैः, भाटकवाहनैः च जनाः गच्छन्ति ।

सिद्धपुरम्[सम्पादयतु]

सिद्धपुरं कर्णाटक-राज्यस्य उत्तरकन्नड-मण्डले स्थितम् अस्ति । इदं स्थलं प्राकृतिकसौन्दर्याय प्रसिद्धम् अस्ति । सिद्धपुरं समुद्रतलात् १८५० पादोन्नत्ये स्थितम् अस्ति । अतः अस्य स्थलस्य जलवायुः शान्तः, सुखदश्च अस्ति । अतः जनाः तत्र भ्रमणार्थं गच्छन्ति । अस्मिन् नगरे काफी-पेयस्य उद्यानानि सन्ति । अतः तेभ्यः उद्यानेभ्यः विख्यातम् अस्ति इदं नगरम् । अस्य नगरस्य समीपे बुरूडे-जलप्रपातः अस्ति । तस्मिन् क्षेत्रे बहूनि मन्दिराणि सन्ति । सिद्धपुरे लक्ष्मीनारायण-मन्दिरं, “कोण्डी मारीकाम्बा”-मन्दिरं, बानकेश्वरा-मन्दिरं च इत्यादीनि धार्मिकस्थलानि अपि सन्ति । प्रतिवर्षं सिद्धपुरे हॉकी-उत्सवः आचर्यते । अस्मिन् उत्सवे बहवः जनाः भागं गृह्णन्ति । सिद्धपुरस्य समीपे एकं बौद्ध-मन्दिरम्, एकः दुर्गः च विद्यते ।

ग्रीष्मर्तौ जनाः भ्रमणार्थं सिद्धपुर-नगरं गच्छन्ति । तस्मिन् समये सिद्धपुरस्य जलवायुः शान्तः, मनोहरश्च भवति । यद्यपि जनवरी-मासतः अक्टूबर-मासपर्यन्तम् अपि इदं नगरं भ्रमणयोग्यम् अस्ति । बेङ्गळूरु-महानगरे स्थितं विमानस्थानकं सिद्धपुरस्य समीपस्थं विमानस्थानकम् अस्ति । मैसूर-नगरस्य रेलस्थानकम् अपि समीपस्थं वर्तते । ततः वैयक्तिकवाहनैः, बसयानैः च सिद्धपुरं गन्तुं शक्यते ।

नृत्यग्रामः[सम्पादयतु]

नृत्यग्रामः कर्णाटक-राज्यस्य बेङ्गळूरुग्रामान्तर-मण्डलस्य हेसारगट्टा-नगरे स्थितम् अस्ति । इदं स्थलं बेङ्गळूरु-महानगरात् ३५ किलोमीटर्मिते दूरे स्थितम् अस्ति । अयं ग्रामः नृत्यकलायै प्रसिद्धः अस्ति । “प्रोतिमा बेदी” इत्याख्या अस्य ग्रामस्य प्रसिद्धा नर्तकी आसीत् । तया विचारितं यत् – “अस्मिन् ग्रामे प्राचीनपद्धत्यनुसारं शिक्षणं भवेत्” इति । अतः स्वस्य लक्ष्यसाधनाय प्रयासः कृतः आसीत् । तस्य फलानुगुणं साम्प्रतम् अयं ग्रामः नृत्यग्रामः इति नाम्ना एव ज्ञायते । अस्य ग्रामस्य नृत्यानि प्रसिद्धानि सन्ति । अस्य ग्रामस्य प्राकृतिकं सौन्दर्यम् अपि बहुचर्चितम् अस्ति । “गेरार्ड् दा कान्हा” इत्याख्यः प्रसिद्धः वास्तुकारः आसीत् । तेन एव अस्य ग्रामस्य परिसङ्कल्पना (Design) निर्मिता । ग्रामे हरितमयानि स्थानानि, मृद्भवनानि च सन्ति । तैः अस्य ग्रामस्य ग्राम्यस्वरूपं दृश्यते । तत्र वसन्थाहब्बा-उत्सवः आचर्यते । वसन्तर्तोः आवाहनार्थम् अयम् उत्सवः आचर्यते । अस्मिन् उत्सवे विश्वस्य विभिन्नस्थलेभ्यः कलाकाराः स्वस्य कलां प्रदर्शयितुं तत्र गच्छन्ति । नृत्यग्रामात् ५ किलोमीटर्मिते दूरे हेसारगट्टा-जलाशयः अस्ति । अयं जलाशयः मानवनिर्मितः अस्ति । ई. स. १८९४ तमे वर्षे अस्य निर्माणम् अभवत् । अयं जलाशयः ११२४ एकड्-मात्रात्मकः विस्तृतः अस्ति ।

बेङ्गळूरु-नगरात् नृत्यग्रामाय भाटकवाहनानि, सर्वकारप्रचालितानि बसयानानि च प्राप्यन्ते । नृत्यग्रामे रेलस्थानकं नास्ति । बेङ्गळूरु-रेलस्थानकं नृत्यग्रामस्य निकटतमं रेलस्थानकम् अस्ति । तद्रेलस्थानकं नृत्यग्रामात् ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । बेङ्गळूरु-नगरं देहली-महानगरेण, चेन्नै-महानगरेण, कोलकाता-महानगरेण, मुम्बई-महानगरेण च इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । बेङ्गळूरु-महानगरस्य विमानस्थानकं निकटतमं विमानस्थानकम् अस्ति । नृत्यग्रामात् इदं विमानस्थानकं ३० किलोमीटर्मिते दूरे स्थितम् अस्ति ।

देवआर्यनदुर्ग[सम्पादयतु]

“देवआर्यनदुर्ग” इत्येतत् स्थलं कर्णाटक-राज्यस्य तुमकूरु-मण्डले स्थितम् अस्ति । तत्र शैलमयाः लघुपर्वताः सन्ति । अतः जनाः तत्र भ्रमणार्थं गच्छन्ति । इदं क्षेत्रं समुद्रतलात् ३९४० मीटर्मितम् उन्नतम् अस्ति । अतः अस्य क्षेत्रस्य जलवायुः स्वच्छः भवति । तत्र मन्दिराणि, वनानि चापि सन्ति । पुरा अस्मिन् क्षेत्रे वोदेया-शासकानां शासनम् आसीत् । “चिक्का देवराज वोदेयार” इत्याख्यस्य राज्ञः नाम्ना एव अस्य नामकरणम् अभवत् । तेन अस्य ग्रामस्य प्रमुखः “जदका” इत्याख्यः पराजितः । अस्मिन् पर्वतीयक्षेत्रे भोगनरसिंह-मन्दिरं, योगनरसिंह-मन्दिरं, लक्ष्मी-नरसिंह-मन्दिरं च स्थितम् अस्ति । तेषु मन्दिरेषु भोगनरसिंह-मन्दिरं तले स्थितम् अस्ति । किन्तु योगनरसिंह-मन्दिरं पर्वतशिखरे स्थितम् अस्ति । तत्र वनेषु एकं वृक्षपोषणस्थानम् (Nursery) अपि अस्ति । तस्मिन् आयुर्वेदिकपादपाः सन्ति । ते पादपाः अन्यत्र दुर्लभाः भवन्ति । तत्र कार-उत्सवं, नरसिंह-जन्मोत्सवं च जनाः उत्साहेन आचरन्ति । शीतर्तौ जनाः “देवआर्यनदुर्ग” इत्यत्र भ्रमणार्थं गच्छन्ति । तस्मिन् समये तस्य क्षेत्रस्य जलवायुः सुखदः भवति ।

देवआर्यनदुर्ग-स्थलात् बेङ्गळूरु-महानगरं ६५ किलोमीटर्मिते दूरे स्थितम् अस्ति । बेङ्गळूरु-महानगरात् देवआर्यनदुर्ग-स्थलाय भाटकवाहनानि, सर्वकारप्रचालितानि बसयानानि च प्राप्यन्ते । देवआर्यन-दुर्ग-स्थलात् तुमकूरु-रेलस्थानकं निकटतमम् अस्ति । इदं तस्मात् स्थलात् १८ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं बेङ्गळूरु, देहली, मुम्बई, मैसूर चेत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । देवआर्यनदुर्ग-स्थलात् बेङ्गळूरु-महानगरस्य विमानस्थानकं ७१ किलोमीटर्मिते दूरे स्थितम् अस्ति ।

विशिष्टाः व्यक्तयः[सम्पादयतु]

संस्कृतकवयः, तेषां कृतिपरिचयः, पद्मश्री- पद्मभूषण-भारतरत्न-ज्ञानपीठप्रशस्तिविजेतारः क्रीडालवः,राजकीयनेतारः,स्वातन्त्र्ययोद्धारःकलाविदः इत्यादयः ।

परिवहनम्[सम्पादयतु]

वायुमार्गः[सम्पादयतु]

कर्णाटक-राज्यस्य वायुपरिवहनं विकासशीलम् अस्ति । अस्मिन् राज्ये बेङ्गळूरु-महानगरे, मेङ्गलौर-नगरे, हुबली-महानगरे, बेलगाम-नगरे, हम्पी-नगरे, बेल्लारी-नगरे च विमानस्थानकम् अस्ति । तेषु बेङ्गळूरु-महानगरे, मेङ्गलौर-नगरे च अन्ताराष्ट्रियविमानस्थानकम् अस्ति । मैसूर-नगरे, गुलबर्ग-नगरे, बीजापुर-नगरे, हसन-नगरे, शिमोगा-नगरे च ई. स. २००७ तः वायुयानसेवा आरब्धा । किन्तु तेषु नगरेषु अधिकः विकासः न जातः । कर्णाटक-राज्ये “किङ्गफिशर् एयरलाइन्स्”, “एयर् डेक्कन्” च प्रमुखे द्वे संस्थे वायुसेवायै कार्यरते स्तः । एते द्वे बेङ्गळूरु-महानगरे स्थिते स्तः । कर्णाटक-राज्यं भारतस्य प्रमुखनगरैः सह वायुमार्गेण सम्बद्धम् अस्ति ।

धूमशकटमार्गः[सम्पादयतु]

कर्णाटक-राज्यस्य सम्पूर्णरेलमार्गः ३,०८९ किलोमीटर्मितं दीर्घः अस्ति । साम्प्रतम् कर्णाटकराज्यस्य केचन भागाः दक्षिणपश्चिममण्डले, केचन भागाः दक्षिणमण्डले समायान्ति । तटीयकर्णाटकराज्यस्य केचन भागाः कोङ्कणमण्डले समायान्ति । इयं भारतस्य बृहत्तमा रेलपरियोजना कथ्यते । बेङ्गळूरु-महानगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । बेङ्गळूरु-महानगराय भारतस्य प्रत्येकेभ्यः विशिष्टनगरेभ्यः रेलयानानि प्राप्यन्ते ।

जलमार्गः[सम्पादयतु]

कर्णाटक-राज्ये एकादश पोताश्रयाः सन्ति । तेषु मेङ्गलौर-पोताश्रयः नूतनतमः अस्ति । किन्तु अन्येषां पोताश्रयाणाम् अपेक्षया अयं पोताश्रयः विशालः, आधुनिकश्च अस्ति । ई. स. १९७४ तमस्य वर्षस्य मई-मासस्य ४ दिनाङ्के (४ मई १९७४) मेङ्गलौर-पोताश्रयः भारतस्य नवमः प्रधानपोताश्रयत्वेन निश्चितः । अस्मिन् पोताश्रये ई. स. २००६-०७ तमे वर्षे ३ कोटि २०.४ लक्षटनमात्रात्मिकाणां वस्तूनां निर्यातव्यापारः, १४१.० लक्षटनमात्रात्मिकाणां वस्तूनाम् आयातव्यापारः च अभवत् । अस्मिन् वर्षे आहत्य १०१४ जलयानानाम् आवागमनम् अभवत् । तथापि अस्मिन् राज्यस्य जलमार्गः तावत् विकसितः नास्ति ।

भूमार्गः[सम्पादयतु]

कर्णाटक-राज्यस्य राष्ट्रियराजमार्गाणां दैर्घ्यं ३,९७३ किलोमीटर्मितं, राज्यराजमार्गाणां दैर्घ्यं ९,८२९ किलोमीटर्मितम् अस्ति । अस्य राज्यस्य सर्वकारेण “कर्णाटक राज्य सडक परिवहन निगम” इत्ययं समूहः प्रचालितः अस्ति । अस्मिन् समूहे कर्णाटक-राज्ये बसयानानि प्रचलन्ति । प्रतिदिनं प्रायः २२ लक्षं जनाः यात्रां कुर्वन्ति । अस्मिन् समूहे प्रायः २५ सहस्रं कर्मचारिणः संलग्नाः सन्ति । समयान्तरे ई. स. १९९० तमे वर्षे सर्वकारेण अयं समूहः त्रिषु भागेषु विभक्तः । “बेङ्गळूरु मेट्रोपॉलिटन् ट्रान्स्पोर्ट् कॉर्पोरेशन्”, “नॉर्थ्-वेस्ट् कर्णाटक ट्रान्स्पोर्ट् कॉर्पोरेशन्”, “नॉर्थ्-ईस्ट् कर्णाटक ट्रान्स्पोर्ट् कॉर्पोरेशन्” च । एतेषां समूहानां मुख्यालयाः बेङ्गळूरु-महानगरे, हुबली-महानगरे, गुलबर्ग-नगरे च स्थिताः सन्ति । अनेन प्रकारेण कर्णाटक-राज्यं सम्पूर्णभारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]


सन्दर्भाः[सम्पादयतु]

  1. "State-wise break up of National Parks". Wildlife Institute of India. Government of India. Archived from the original on 22 June 2008. Retrieved 12 June 2007. 
  2. "Figures at a glance". 2011 Provisional census data. Ministry of Home Affairs, Government of India. Retrieved 17 September 2011. 
  3. "The Karnataka Local Authorities (Official Language) Act, 1981" (PDF). Retrieved 9 December 2011. 
  4. "The New Indian Express (IBN Live) - Namaskara, Swalpa Swalpa Kannada Gottu". Ibnlive.in.com. Retrieved 9 December 2011. 
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४४
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४५
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४४
  8. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४०
  9. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३८
  10. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४१
  11. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २४५-२४६
  12. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४५
  13. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४५
  14. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २४१-२४२
  15. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४६
  16. http://hindi.nativeplanet.com/karnataka/
"https://sa.wikipedia.org/w/index.php?title=कर्णाटकराज्यम्&oldid=387369" इत्यस्माद् पुनः प्राप्तिः