बागलकोटेमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
बागलकोटेमण्डलम्
ಬಾಗಲಕೋಟೆ
मण्डलम्
बागलकोटेमण्डले विद्यमानं कूडलसङ्गमस्थानम्
बागलकोटेमण्डले विद्यमानं कूडलसङ्गमस्थानम्
राष्ट्रम्  भारतम्
राज्यम् कर्णाटकराज्यम्
केन्द्रम् बागलकोटेनगरम्
उपमण्डलानि बागलकोटे, बादामि, बिळ्गि, हुनगुन्द, जमखण्डि, मुधोल,
Area
 • Total ६,५७५
Population (2012)
 • Total १८,९१,००९
 • Density
भाषाः
 • अधिकृतभाषा कन्नडभाषा
Time zone भारतीयसामान्यकालमानम् (UTC+5:30)
PIN 587101-587325
दूरवाणिसंज्ञा + 91 (0)8354
Vehicle registration KA-29
Website bagalkot.nic.in


कर्णाटके बागलकोटेमण्डलम्

बागलकोटेमण्डलम् (Bagalkot) कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् । उत्तरकर्णाटकस्य प्रसिद्धं मण्डलम् एतत् । क्रि.श.१९९७ तमे वर्षे मान्यस्य जे. एच्. पटेलस्य मन्त्रिमण्डलस्य काले एतत् नूतनमण्डलम् इति उद्घोषितम् ।

विस्तीर्णता[सम्पादयतु]

  • ६५९४ च.कि.मी ।

उपमण्डलानि-६[सम्पादयतु]

जमखण्डि, मुधोल, बीलगि, बागलकोटे, बादामि, हुनगुन्द, एतानि षट् उपमण्डलानि अस्मिन् मण्डले भवन्ति ।

इतिहासः[सम्पादयतु]

इतिहासानुगुणं एतत् चालुक्यचक्रवर्तिभिः परिपालितम् । चालुक्यशैलीदेवालयाः अस्मिन् मण्डले सन्ति । मराठानां शातवाहनानां च नाणकानि अत्र उत्खनने उपलब्धानि । द्वितीयशतके भारतं प्रति आगतेन प्टोलेमि इति महाभागेन बादामी इण्डी कल्केरी प्रदेशाः उल्लिखिताः सन्ति । चालुक्यराजस्य प्रथमपुलकेशेः प्रशासनकेन्द्रं बागलकोटेनगरम् आसीत् इति ज्ञायते । कालान्तरे चालुक्यान् जित्वा राष्ट्रकूटाः अत्र प्रशासनम् अकुर्वन् इति अपि वैदेशिकप्रतिनिधीनाम् उल्लेखेन जानीमः । कन्नडभाषा एव एतेषां जनानां प्रदेशिकभाषा। भाषणशैली विशिष्टा अस्ति ।

आहारः[सम्पादयतु]

यावानलः, गोधूमः च एतेषां प्रधानः आहारः ।

कृषिः[सम्पादयतु]

कृषिप्रधानस्य अस्य मण्डलस्य वाणिज्यमपि समृद्धम् एव अस्ति । ६५% जनाः कृषिम् आश्रित्य एव जीवनं निर्वहन्ति । ८०% महिलाः कृषिकर्म कुर्वन्ति इत्येव विशेषः । कृष्णवर्णभूमिः कार्पासोत्पादनार्थं योग्या अस्ति । कर्णाटकस्य कृषिवाणिज्ये अस्य द्वादशः स्थानम् अस्ति । कार्पासेन सह रागि, जूर्णम् , चणकः, गोधूमः, इक्षुः, तमाखु च प्ररोहन्ति । जलबन्धेभ्यः कृष्यर्थं जलं प्राप्नुवन्ति । वर्षाधारिता कृषिः अपि प्रचलति । तन्तुवायाः अपि अत्र बहुसङ्ख्याकाः सन्ति । एते कार्पासानि चीनांशुकानि वस्त्राणि वयन्त्ति ।

नद्यः[सम्पादयतु]

कृष्णा मलप्रभा, घटप्रभा,

दर्शनीयानि क्षेत्राणि[सम्पादयतु]

बागलकोटे बादामी बनशङ्करी महाकूटम् ऐहोळे पट्ट्दकल्लु , महालिङ्गपुरं, गलगली, कूडलसङ्गमः, शिवयोगमन्दिरं , बीळगी, शूर्पाली

१) बागलकोटेनगरम्[सम्पादयतु]

अस्य बगडगे बांघाडिकोटे इत्यादि नामानि आसन् । नगररक्षकः हुगोधिदेवः हनुमान् कोत्तलेशः इत्यपि ख्यातः अस्ति । भवानीमन्दिरं पाण्डुरङ्गमन्दिरं च आकर्षणस्य विषयः । प्राचीनः भागः जलावृतः अस्ति । नवनगरनिर्माणं कृतमस्ति ।

मार्गः[सम्पादयतु]

बेङ्गळूरुतः ४९० कि.मी ।
गदगतः ९३ कि.मी ।
बिजापुरतः ८६ कि.मी।

२) बादामी[सम्पादयतु]

अस्य पूर्वं वातापी इति नाम आसीत् । प्राकृतिकं सुन्दरस्थानम् एतत् शिलापर्वतयोः मध्येऽस्ति । अत्र चत्वारः गुहन्तरदेवालयाः सन्ति । पर्वतारोहणाय सोपनानि निर्मितानि सन्ति । द्वौविष्णुदेवालायौ एकः शिवदेवालयः एकः जैन देवालयः च स्थः । उन्नतपर्वतात् अगस्त्यतीर्थस्य वीक्षणम् अतीव मनोहरम् भवति । पूर्वकाले बादामी चालुक्यवंशीयानां राजधानी आसीत् । कपीनां वासस्थलमेतत् ।

मार्गः[सम्पादयतु]

  • गदग-सोल्लापुररेलमार्गे बादामी निस्थानम् अस्ति ।
बेङ्गळूरुतः ५०२ कि.मी. ।
हुब्बळ्ळीतः १२८ कि.मी.।
बागलकोटेतः ४६ कि.मी. ।
गदगतः ६७ कि.मी.
बिजापुरतः १२० कि.मी ।

३)ऐहोळे[सम्पादयतु]

मलप्रभानदीतीरे प्रसिद्धम् एतत् क्षेत्रमस्ति । अत्र ७० देवालयाः सन्ति लाडखान्, कोन्तिगुडि, मेगुतीगुडि, दुर्गदेवालयः च सन्ति । चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् ‘शिल्पकलाचातुर्यम् अत्र पश्यामः।

मार्गः[सम्पादयतु]

बादामीतः ४३ कि.मी ।
पट्टदकल्लुतः ३२ कि.मी ।

४) पट्टदकल्लु[सम्पादयतु]

पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः । अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते ।

मार्गः[सम्पादयतु]

बादामीतः २९ कि.मी

५) बनशङ्करी[सम्पादयतु]

विशिष्टा शक्तिदेवता माया । "बनशङ्करी" "शाकाम्बरी" "बनदेवी" इत्यपि एतां कथयन्ति । अत्र प्राचीनः द्राविडमिश्रशैल्यां निर्मितः बनशङ्करी देवालयः अस्ति । विजयनगरसाम्राज्यकाले रचितः एषः। बनशङ्करी अस्य क्षेत्रस्य अधिदेवता अस्ति । देव्याः मूर्तिः अष्टबाहुयुता सिंहस्योपरि उपविष्टा अस्ति । प्रतिदिनं सहस्रशः जनाः अत्र आगच्छन्ति । जनवरीमासे अत्र मासं यावत् विशेषयात्रामहोत्सवः भवति । बनशङ्करीजात्रे इति जनाः कथयन्ति । देवालयस्य पुरतः पवित्रं हरिश्चन्द्रतीर्थम् इति सरः अस्ति । नवरात्रिसमये बनशङ्करीक्षेत्रे विशेषः उत्सवः भवति । पूर्णिमायां तेप्पोत्सवः भवति तन्नाम देव्याः नैकविहारोत्सवः (तेप्पोत्सव) प्रचलति । देवालये वासभोजनादिपूजाहोमादिव्यवस्था अस्ति ।

मार्गः[सम्पादयतु]

बादामीतः २५ कि.मी ।
गदगतः ५२ कि.मी ।
हुब्बळ्ळीतः १३३ कि.मी ।

४) महाकूटः[सम्पादयतु]

एतत् क्षेत्रम् प्राचीनम् शैवक्षेत्रमस्ति अगस्त्य महर्षि अत्र स्थितवान् । सपृमे शतमाने निर्मितेः अस्मिन् देवालये गर्भ गृहे लिङ्गरुपी शिवः अस्ति । पार्श्वे एक स्वच्छणल पूर्णम सहः अस्ति । अत्र जलं सदा निर्गच्छत् दृश्यते सरोवरमध्ये पञ्चमुखीशिवस्य शिल्पमस्ति। महाशिवरात्रि पर्वे अत्र वैभवेण उत्सवः प्रचलति महाकूटेश्वर दर्शनार्यम् बहवा अत्रागच्छन्ति ।

मार्गः[सम्पादयतु]

बादामीतः ८२ कि.मी ।

५) कूडलसङ्गमम् (हुनगुन्द)[सम्पादयतु]

कृष्णामलप्रभानद्योः सङ्गमस्थानम् एतत् क्षेत्रम् । अत्र श्रीजातवेदमुनिः विद्याकेन्द्रं स्थापितवान् इति श्रूयते । महात्मा बसवेश्वरः कल्याणक्रान्तेः अनन्तरम् अत्र आगत्य कूडलसङ्गमेश्वरे ऐक्यः अभवत्। चालुक्यशैल्यां रचितः कूडलसङ्गमनाथदेवालयः ९०० वर्षप्रचीनः अस्ति अत्र शिल्पकला विशिष्टा अस्ति । गर्भगृहं दर्शनीयम् अस्ति । बसवेश्वरस्य ऐक्यमण्डपं परितः वृत्ताकारे प्राकारः अस्ति ज्ले स्थितः एषः देवालयः विशेषानुभवं ददाति । कूडलसङ्गमक्षेत्रे बृहत् सभामण्डपं शिवशरणानां मूर्तिशिल्पानि सुन्दराणि सन्ति । समीपे आलमट्टिजलाशयः उद्यानवनं च स्तः । अत्र सङ्गमजले नौकाविहारं कर्तुं व्यवस्था अस्ति ।

मार्गः[सम्पादयतु]

बिजापुरतः ६७ कि.मी ।
हुनगुन्दतः १९ कि.मी ।
बादामीतः ७२ कि.मी.।
बेङ्गळूरुतः ५२० कि.मी ।
  • राष्टियमार्गसङ्ख्या १३

बाह्यसम्पकतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बागलकोटेमण्डलम्&oldid=431938" इत्यस्माद् पुनः प्राप्तिः