सामग्री पर जाएँ

उडुपीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उडुपिमण्डलम्

ಉಡುಪಿ ಜಿಲ್ಲೆ
मण्डलम्
उडुपिमण्डलस्य यक्षगानम्
उडुपिमण्डलस्य यक्षगानम्
कर्णाटके उडुपिमण्डलम्
कर्णाटके उडुपिमण्डलम्
राष्ट्रम्  भारतम्
राज्यानि कर्णाटकराज्यम्
संस्थापनम् 1997
मुख्यस्थानम् उडुपीनगरम्
उपमण्डलानि उडुपीउपमण्डलम्, कार्कळउपमण्डलम्, कुन्दापुरउपमण्डलम्
Population ११,१२,२४३
भाषाः
 • अधिकृत कन्नडभाषा
 • भाष्यमानाः भाषाः तुलुभाषा, कन्नडभाषा, कोन्कनीभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूतटसंख्या
576 101
ISO 3166 code IN-KA-UD
समुद्रतटः 98 किलोमीटर (61 मील)
बृहत्नगरम् उडुपीनगरम्
Sex ratio 1130 पु/स्त्री
साक्षरतापरिमाणम् 81.25%
अधःपातन 4,302 मिलीमीटर (169.4 इंच)
Website udupi.nic.in
Source

उडुपीमण्डलम् (Udupi District) कर्णाटकराज्यस्य प्रमुखं मण्डलम्। अस्य मण्डलस्य केन्द्रम् उडुपीनगरम् अस्ति। अस्मिन् मण्डले बहूनि प्रेक्षणीयस्थलानि सन्ति। तेषु उडुपी,मल्पे, कापु, पाजकक्षेत्रम्,सैंट् मेरीस् ऐल्यान्ड् प्रमुखाणि। अनेकानि ऐतिहासिकस्थानानि च सन्ति ।

इतिहासः

[सम्पादयतु]

उडुपी इति नाम तुळुभाषायाः ’ओडिपु’ इति शब्देन आगतम् अस्ति । संस्कृते रजतपीठपुरम् इति वदन्ति । राजा रामभोजः परशुराममहर्षिम् ईश्वर- लिङ्गरूपेण आराधितवान् । तपसा प्रसन्नः देवः रजतपीठे साक्षात् दर्शनं दत्तवान् । ततः अस्य नगरस्य रजतपीठपुरम् इति नाम आगतम् । पूर्वं सप्तमशतके अळुपाः अत्र शासनं कृतवन्तः । अनन्तरं होय्सलाः, ततः विजयनगरस्य च प्रशासनम् आसीत् । ततोऽपि अग्रे केळदीनायकानां, टिप्पुसुल्तानस्य, आंग्लानां, अन्ते मद्राससर्वकारे च अङ्गभूतम् आसीत् । १९५६ तमे वर्षे मैसूरराज्योदयकाले केनराविभागरूपेण दक्षिणकन्नडमण्डले प्रविष्टम् आसीत् । पुनः १९९६ तमे वर्षे स्वतन्त्रमण्डलरूपेण अस्तित्वं प्राप्नोत् ।

श्रीकृष्णरथः
उडुपि श्रिकृष्ण मठ गोपुरम्

उपमण्डलानि

[सम्पादयतु]

उडुपी, कार्कळं, कुन्दापुरम्

तीर्थक्षेत्राणि

[सम्पादयतु]

उडुपी, पाजक, कुञ्जारुगिरि, अम्बलपाडि, पेर्डूरु, कापु, उद्यावर, मल्पे, ओडभाण्डेश्वर, बारकूरु , कुम्भासि, आनेगुड्डे, हूविनकेरे, कार्कळ, पडुतिरुपतिः कोल्लूरु च ।

उडुप इति शब्दः उडुपी इति परिवर्तितः अस्ति । उडुप इत्यस्य चन्द्रः इत्यर्थः । अस्मिन् स्थले चन्द्रः दक्षशापपरिहारार्थं तपः आचरितवान् । चन्द्रस्य उग्रतपसा परशिवः अत्र प्रत्यक्षः आसीत् । तस्य स्मरणार्थम् एव चन्द्रमौलीश्वरदेवालयः स्थापितः अस्ति । उडुपीनगरं शिवळ्ळि इति अपि कथयन्ति । पूर्वं शिवबेळ्ळी इति आसीत् इति श्रूयते । वादिराजस्वामिनः महेशरजत इति आकारितवन्तः । रजतपीठम् इत्यपि अस्य नाम अस्ति ।

कृतयुगे परशुरामः २१ वारम् प्रदक्षिणां कृत्वा क्षत्रियाणां संहारं कृतवान् । सर्वां भूमिं ब्राह्मणेभ्यः दत्तवान् । अनन्तरं दत्ते स्थले स्वयं वासकरणम् अनुचितम् इति मत्वा स्वशक्त्या समुद्रम् एव दूरे अपसार्य नवीनं क्षेत्रम् निर्मितवान् । एतत् परशुरामक्षेत्रम् इति ख्यातमस्ति । अनन्तरम् एतत् क्षेत्रं रामभोजस्य वशं कृतवान् । रामभोजः अश्वमेधयागसमये परशुरामम् आहूय रजतपीठासने उपवेशनाय व्यवस्थां कृतवान् । यागानन्तरम् तत्पीठम् पातालमगच्छत् । तस्मिनस्थले शिलालिङ्गः आविर्भूतः तत्र परशुरामस्यापि सान्निध्यम् आस्ति । एतस्य अनन्तासनः अथवा अनन्तेश्वरः इति कथयन्ति । अनन्तासनः एव परशुरामः। एषः देवः एव शिवबेळ्ळिनगरस्य मुख्यप्राणभूतः इव आसीत् ।

श्रीमन्मध्वाचार्यः अस्मिन् देवालये एव् पाठप्रवचनादिकं करोति स्म । आन्तरिकप्राङ्गणे विद्यादानादिकं प्रचलति स्म (अद्यापि पर्यायस्वामिनः प्रथमं तावत् श्रीअनन्तदर्शनं कृत्वा अनन्तरं कृष्णदेवालयं प्रविशन्ति । एषः सम्प्रदायः।

उडुपिमण्डलस्य सामन्यं शाकभोजनम्

क्रिस्ताब्दे १२९७ तमे वर्षे हेविळम्बिसंवत्सरस्य माघशुद्धतृतीयायां मध्वाचार्याः श्रीकृष्णस्य सुन्दरप्रतिमाम् आनीय पूर्वाभिमुखं प्रतिष्ठापितवन्तः । कनकदासाय दर्शनं दातुं श्रीकृष्णः स्वयं पाश्चिमाभीमुखी भूत्वा रन्ध्रद्वारा दर्शनम् दत्तवान् । तस्य स्थानस्य '''कनकनकिण्डी''' इति नाम अभवत् । अष्टमठानां यतयः श्रीकृष्णस्य पूजादिकं मासद्वयं यावत् कुर्वन्ति स्म। श्रीवादिराजयतीनां काले मासद्वयस्यापेक्षया वर्षद्वयस्य अवधिः उत्तमः इति निश्चयः अभवत्। अस्य पूजा-कार्यपरिवर्तनस्य ‘पर्यायमहोत्सवः’ इति वदन्ति । एषः पर्यायमहोत्सवः वर्षद्वये एकवारं जनवरीमासस्य तृतीये सप्ताहे प्रचलति । उडुप्याः श्रीकृष्णमन्दिरे कलासांस्कृतिकसङ्गीतकार्यक्रमाः आयोजिताः भवन्ति । मध्वसरोवरः राजाङ्गणं, काष्ठरथः, दीर्घा वृत्ताकारिका राजवीथी, गीताभवनम् इत्येते इतरविशेषाः । मध्वसरोवरे प्लवनयानोत्सवः (तेप्पोत्सवः) प्रचलति । प्रतिदिनम् उडुपिनगरं प्रति बहुजनाः आगच्छन्ति । श्रीकृष्णदर्शनं कृत्वा प्रसादं स्वीकुर्वन्ति मुख्यप्राणं च नमन्ति । गोपीचन्दनशिलायां श्रीकृष्णमूर्तिम् ओडभाण्डेश्वरप्रदेशे मध्वाचार्याः प्राप्तवन्तः । ततः पूर्वम् एकस्य सार्थवाहस्य नौका चण्डमारुतेन ग्रस्ता अभवत् । मध्वाचार्याः योगबलेन नौकां रक्षितवन्तः । सार्थवाहः भक्त्या इष्टं वस्तु स्वीकर्तुं प्रार्थनां कृतवान् । मध्वाचार्याः गोपीचन्दनशिलाम् स्वीकृतवन्तः । तस्यां शिलायां श्रीकृष्णमूर्तिः लब्धा इति अभिप्रायः अस्ति। उडुपीतः ओडभाण्डेश्वरः ४ कि.मी. दूरेऽस्ति । उडुपीतः समीपे समुद्रतीरे मल्पेप्रदेशे मत्स्योद्यमः, कापुप्रदेशे दीपस्तम्भः च प्रसिद्धौ।

• मार्गः- बेङ्गळूरुतः ४२२ कि.मी। राष्ट्रियमार्गः २६।राष्ट्रियमार्गः २७ । मङ्गळूरुतः ५८ कि.मी.। कुन्दापुरतः ४२ कि.मी। रेलयानार्थं कोङ्कणरेलमार्गे इन्द्राळी निस्थानम् ।
• वसतिः -बिर्लायात्रिवासः, श्रीकृष्णमठः, श्रीकृष्णमठे यात्रिकानां भोजनव्यवस्था अस्ति ।
उडुपिमल्लिका

२.पाजकम् –(बेळ्वे)

[सम्पादयतु]

श्रीमन्मध्वाचार्याणाम् अवतारभूमिः पाजकक्षेत्रमिति प्रसिद्धम् अस्ति । अत्र मध्वाचार्याणां पूर्वाश्रमस्य गृहम् अक्षराभ्यासशिला दण्डतीर्थं वासुदेवतीर्थं क्षीरदधिपात्रयोः आच्छादनशिलाशरावाः च सन्ति । आयार्याणां पादचिह्नस्थले श्रीवादिराजस्वामिभिः स्थापितं श्रीमध्वाचार्याणां मन्दिरं काणियूरमठस्याधीने अस्ति। एतस्य क्षेत्रस्य दर्शनं सकलपापहारकं जन्मसाफल्यदायकं च । भगवान् वायुदेवः भागवतधर्मासक्तः मध्वाचार्यरूपेण अत्र जन्म प्राप्तवान् इत्यतः एतत् क्षेत्रं गङ्गादिजन्मकारणात् यथा हिमालयस्य श्रेष्ठत्वं तथा एतस्य क्षेत्रस्य श्रेष्ठत्वम् इति जनानां विश्वासः अस्ति ।

श्रीकृष्णमठस्य प्रवेशः

मार्गः -उडुपीतः ८ कि.मी । वसतिः -उत्तमवसतिगृहम् अस्ति ।

वाराहीनदीतीरे एतत् पट्टनम् अस्ति । कलियुगे गणपतिः दुर्गादेवी च महामान्वितौ भवतः इत्युक्तेः प्रमाणवत् अत्र उभयोः सन्निधानमस्ति । वरसिद्धिदायकः अत्रत्यप्रमुखम् आकर्षणम्। सर्वसिध्दिदायकः इति सर्वेषां प्रीतिपात्रः विनायकः अत्र आराध्यः अष्टमे शतके निर्मितः कृष्णशिलामूर्तिः अत्र राराजते । एषा उद्भवमूर्तिश्च । द्विबाहुयुक्तः वामहस्ते मोदकपात्रधरः जटाधरः वामदिक्शुण्डावान् नवरत्नकिरीटवान् तिष्ठन् एकदन्तः बालगणेशः सर्वाकर्षकश्च अस्ति । मार्गः- शङ्करनारायण -नेरलकट्टे –गुडेअङ्गडितः २ कि.मी। कोल्लूरुतः २५ कि.मी सति -भव्यं वसतिगृहम् अस्ति ।

पुराणानुसारं महारणपुरम् इति प्रसिद्धम् क्षेत्रमेतत् । पश्चिमपर्वतश्रेणीषु कोडचाद्रिपर्वतस्य सानुप्रदेशे श्रीमूकाम्बिकादेवालयः महर्षिणा परशुरामेण रचितः इति पौराणिकाधारः अस्ति । अत्रत्य देवता पर्वतेश्वरी पार्वती श्रीमूकाम्बिकादेवी । इदं सिद्धपीठम् । श्रीशङ्कराचार्याः तपः आचरणीयम् इति निश्चित्य अत्र आगत्य श्रीचक्राराधनं कृतवन्तः इति इतिहासेऽस्ति । गर्भगृहे स्वर्णरेखासहितः शिवलिङ्गः अस्ति । अत्र मूकाम्बिकादेवी शिवेन सह आगत्य लिङ्गरूपेण प्रत्यक्षा भूत्वा मूकासुरं घातितवती । अतः कोल्लूरु शिवशक्त्याः सङ्गमः इति वदन्ति। शक्तिक्षेत्रम् इत्यपि नाम प्राप्तम् अस्ति । पञ्चमुखगणेशः अत्रत्यम् अन्यत् आकर्षणम्। न केवलं कर्नाटकराज्यस्य भक्ताः अपि तु इतरराज्यानां दक्षिणभारतीयाः भक्ताश्च अत्र आगच्छन्ति । तादृशम् आकर्षणम् अस्मिन् क्षेत्रेऽस्ति । श्रीवादिराजस्वामिनः अत्र आगत्य देवीं कात्यायनीं दुर्गे इति प्रार्थितवन्तः । प्रतिदिनम् अत्र होमहवनादिकम् अन्नदानं च प्रचलति।

मार्गः -कुन्दापुरतः ४८ कि.मी
कुन्देश्वरपुष्करिणी
बैन्दूरुतः ३२ कि.मी
उडुपितः ८० कि.मी
शिवमोग्ग, बेङ्गलूरु, केरल, तमिळुनाडुतः अपि लोकयानव्यवस्था अस्ति ।
वसतिः -देवालयस्य वसतिगृहाणि सन्ति ।
सौपर्णीकानदी - सिन्धुसागरः च कुन्दपुरसमीपे

सह्स्रवर्षपुरातनं श्रीनृसिंहक्षेत्रमेतत् । अत्र श्रीनरसिंहः द्विभुजः शङ्खचक्र ह्स्तः जटाधारी योगनरसिंहः इति ख्यातः अस्ति गुरुनरसिहः इत्यपि कथयन्ति । देवः पश्चिमाभिमुखः सालिग्रामशिलामूर्तिरुपः । एषा मूर्तिः पीठादन्तेऽस्ति अतः अन्तरनरसिंहः इत्यपि कथयन्ति । कोटाब्राह्मणानाम् आराध्यः सर्वानुग्रहकारकः च।

मार्गः –कुन्दापुर-उडुपी मार्गः

बाल्ये वयसि श्रीमन्मध्वाचार्यः स्वगुरवे गुरुदक्षिणारुपेण एकं तीर्थं निर्माय तस्य जलेन गुरुक्षेत्रं कृषियोग्यं कृतवान् । अत्र दण्डतीर्थम् इति एकः मठः अस्ति । उडुपी- पर्यायमाठाधीशाः अत्र आगत्य गच्छन्ति इति लोकरूढिः ।

मार्गः- उडुपीतः २० कि.मी

(उडुपि) उडुपीसमीपे स्थितं पुण्यक्षेत्रं देव्याः क्षेत्रम् । अत्र श्रीजनार्दनः विष्णोः प्रतीकः, काळी च शिवस्य प्रतीकरुपेण स्तः । काळीमूर्तिः ६ पादपरिमितोन्नता उद्घाटितरसना चतुर्भुजा शङ्खचक्रखड्गपात्रायुक्ता अस्ति । रुण्डमालाधारिणी चन्द्रकलाधरा च । शिलामये देवालये भक्तानाम् अभयप्रदा अस्ति । कदाचित् देवी व्यक्तौ समाहिता सती जनानां कष्टं परिहरति ।

मार्गः -उडुपीकृष्णमन्दिरतः ३ कि.मी.

एतत् क्षेत्रं जैनक्षेत्रमिति प्रसिद्धं तथापि अत्र अनन्तपद्मनाभस्य देवालयः सुन्दरः अस्ति । देवः अत्र सर्पशयनः, शिलामूर्तिरुपः, दक्षिणहस्ताधारेण स्थितः, वामहस्तं वामपादे स्थापितवान् च अस्ति । पादयोः समीपे श्रीदेवी भूदेवी च सेवां समर्पयतः । देवस्य ह्स्तेषु पद्म-चक्र- शङ्ख- गदाः सन्ति । अत्र क्षेत्रे चैत्रशुद्धपञ्चमी तः सप्तदिनानि यावत् यात्रामहोत्सवः भवति ।

'कर्कळे गोमटेश्वरः
मार्गः – मङ्गलूरुतः ५२ कि.मी । उडुपीतः २६ कि.मी. मूडबिद्रितः २० कि.मी ।
वसतिः- वसतिगृहाणि सन्ति ।

९.कुम्भासी (कुन्दापुरम्)

[सम्पादयतु]

अस्य क्षेत्रस्य गजपुरम् इति कुम्भकाशीति च नाम अस्ति । पूर्वं कुम्भो नाम राक्षसः अत्र आसीत् । द्वापरयुगे श्रीमहागणपतेः अनुग्रहेण भीमसेनः राक्षसं घातितवान् । एतत् हरिहरक्षेत्रमपि । समीपे आनेगुड्डे इत्यत्र महागणपतिक्षेत्रमस्ति । एषः उद्भवमूर्तिः। गौतमऋषिः अत्र गङगाम् आनीय प्रतिष्ठापितवान्। ३ कि.मी दूरे श्रीवादिराजस्वामिनां जन्मस्थलं हूविनकेरे इति क्षेत्रमस्ति ।

गजपुरमन्दिरम्
मार्गः- उडुपितः ३२ कि.मी । कुन्दापुरतः ५ कि.मी. मङ्गळूरुतः ९० कि.मी

१०. कोडचाद्रिः(कुन्दापुरम्)

[सम्पादयतु]
हिड्ळुमने जलपातः कोडचाद्रिप्रदेशे

कोडचाद्रिपर्वतप्रदेशः श्रीमूकाम्बिकायाः मूलस्थानम् एतत् शङ्करार्चार्याणां तपोभूमिः । अत्र सर्वज्ञपीठम् अम्बावनं चित्रमूलसिंहासनं च स्तः । ३२ हस्तयुक्तः व्याघ्रमूर्तेः विग्रहः अस्ति । उन्नते पर्वते गणपतेः मन्दिरम् अस्ति । पादचारणाय अयं प्रदेशः अत्युत्तमः अस्ति।

मार्गः- जोगजलपाततः ६२ कि.मी. शिवमोग्गतः ३३ कि.मी । होसनगरतः २६कि.मी सागरतः ७ कि.मी. । ततः दशकिलोमीटरपादचारणम् । लघुवाहनानि स्वकीयानि भवन्ति चेदुत्तमम्।
कोडचाद्रिप्रदेशः
कोडचाद्रिमार्गे अम्बवनम्

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
  1. १.० १.१ "Know India - Karnataka". Government of India. आह्रियत 6 December 2010. 
  2. GRIndia
"https://sa.wikipedia.org/w/index.php?title=उडुपीमण्डलम्&oldid=480007" इत्यस्माद् प्रतिप्राप्तम्