गदगमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गदगमण्डलम्

ಗದಗ ಜಿಲ್ಲೆ
मण्डलम्
गदगमण्डलस्य लक्कुण्डिनगरे स्थितं जैनमन्दिरम्
गदगमण्डलस्य लक्कुण्डिनगरे स्थितं जैनमन्दिरम्
कर्णाटकराज्ये गदगमण्डलम्
कर्णाटकराज्ये गदगमण्डलम्
राष्ट्रम्  India
राज्यम् कर्णाटकराज्यम्
विभागः बेल्गामविभागः
केन्द्रम् गदगनगरम्
Area
 • Total ४,६५६ km
Population
 (2001)
 • Total ९,७१,८३५
 • Density २०९/km
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
दूरवाणिसंज्ञा + 91 (0)
Vehicle registration KA-26
लिङ्गानुपातम् .969 पु /स्त्री
साक्षरता 66.1%
Website gadag.nic.in

गदगमण्डलं (Gadag district) कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं गदगनगरम् । अस्मिन् मण्डले स्थितः लक्कुन्डि नामकः ग्रामः प्रेक्षणीयः अस्ति । एतत् उत्तरकर्णाटकस्य मण्डलेषु अन्यतमम् अस्ति । मण्डलकेन्द्रस्यापि गदग इत्येव नाम । गदगमण्डलं क्रिस्ताब्दे १९९७ तमे वर्षे "गदगमण्डलस्य" रचना अभवत् । पम्पः दुर्गसिंहः, चामरसः, कुमारव्यासः नयसेनः हुयिलगोळनारायणरायः आदिकविभिः गदगमण्डलं प्रसिद्धम् अस्ति । कतिपयवर्षेभ्यः पूर्वम् एतत् धारवाडमण्डलस्य एव भागः आसीत् । कन्नडकवेः कुमारव्यासस्य, गानयोगी पञ्चाक्षरी गवायी महोदयस्य जन्मना ख्यातम् एतन्मण्डलम् । गदगस्य मूलनामानि कृतुक, कृतुपुर, करडुगु, गलदुगु, गदुगु इत्यादीनि आसन् । कालक्रमेण गदग इति जातम् । गदग- बेटगेरी च यमलनगरे । बेङ्गलूरुतः एतत् ४३१ कि.मी.दूरे धारवाडतः ८० कि.मी. दूरे अस्ति ।

विस्तीर्णता[सम्पादयतु]

४६५७ च.कि.मी मिता ।

उपमण्डलानि -५[सम्पादयतु]

गदग, मुण्डरगी, रोण, नरगुन्द शिरहट्टी

क्षेत्राणि[सम्पादयतु]

गदग, मुण्डरगि, रोण, नरगुन्द, लक्कुण्डी लक्ष्मेश्वरम्, उम्बळ, गजेन्द्रगड, वेङ्कटापुरम्

नद्यः, कृषिश्च[सम्पादयतु]

कृषिप्रधाने अस्मिन् मण्डले मलप्रभा घटप्रभा इति प्रमुखे द्वे एव नद्यौ वहतः । अत्र कृषकाः विविधानि धान्यानि, कलायः, सूर्यकान्तिः, कार्पासः, पलाण्डुः, नानाविधद्विदलधान्यानि च अस्मिन् मण्डले प्ररोहन्ति । वीरनारायणदेवालयः, पार्श्वनाथाय महावीराय च अर्पिते जैनमन्दिरे च गदगस्य धार्मिककेन्द्राणि । अस्मिन् मण्डले मुद्रणोद्यमाः अधिकतया वर्तन्ते शताधिकानि मुद्रणकेन्द्राणि अत्र कार्यं कुर्वन्ति । तन्तुवायाः अपि अधिकसङ्ख्याकाः सन्ति । एते आकर्षकाणि नानावर्णरञ्जितानि वस्त्राणि वयन्ति । भीष्मकेरे इति प्रसिद्धं एकं सरः अत्र अस्ति । पवनविद्युदुत्पादनानि केन्द्रानि अपि अत्र कार्यं निर्वहन्ति ।

प्रेक्षणीयस्थानानि[सम्पादयतु]

१) गदग[सम्पादयतु]

कृतपुरम् इति पूर्वं प्रसिद्धम् एतत् नगरम् । अत्र होय्सळराजेन विष्णुवर्धनेन निर्मितं श्रीवीरनारायणामन्दिरम् अत्यन्तं प्रसिद्धम् अस्ति । विशाले प्राङ्गणे सुन्दरदेवालयः महाद्वारे गोपुरं च स्तः । गोपुरं विजयनगरशैल्या अस्ति । श्रीवीरनारायणमूर्तिः योत्रमुद्रायुक्ता शङ्खचक्रगदाहस्ता, कर्णकुण्डलकिरीटधारिणी च अस्ति । शिलास्थम्भाः आकर्षकाः सन्ति । कविः कुमारव्यासः (नारणप्पा) कर्णाटकभारतकथामञ्जरी महाकाव्यम् अत्रैव लिखितवान् । कोळीवाड इति ग्रामः समीपे अस्ति । ततैव कविः कुमारव्यासः जन्म प्राप्तवान् । सः श्रेष्ठ हरिभक्तः । गदगनगरे त्रिकूटेश्वरदेवालयोऽपि कश्चन शिलादेवालयः । हरिहरब्रह्मणां त्रिलिङ्गानि अत्र सन्ति । अत्र स्थिते सरस्वतीमन्दिरे प्रत्येकस्तम्भेषु भिन्नभिन्नशिलपकलावैभवं पश्यामः । मन्दिरे शिलपकला अपूर्वाऽस्ति । श्री जगद्गुरुतोण्टदार्यमठोऽपि अत्र अस्ति अन्धानाम् अक्षयदाता श्री पञ्चाक्षरीगवायी गदगनगरे राज्ये च प्रसिद्धः। गदगनगरतः समीपे (१२ कि.मी)दूरे वेङ्कटापुरग्रामे सुन्दरः श्रीवेङ्कटेश्वरदेवालयः अस्ति । मदलगट्टा प्रदेशे मुण्डरगी समीपे कृष्णाशिलायां निर्मितः हनुमान् प्रसिद्धः अस्ति । एषः महाभारतकालीनः विग्रहः। एतस्याः मूर्तेः योजनं जीर्णोध्दारः च श्रीव्यासरायस्वामिना कृतम् । अन्यानि दर्शानीयानि स्थानानि सरस्वतीदेवालयः, त्रिकूटेश्वरदेवालयः, वीरनारायणदेवालयः, जैनमन्दिरे, श्रीतोण्टदार्यमठः, हालकेरे अन्नदानेश्वरमठः, शिवानन्दमठः, वीरेश्वरपुण्याश्रमः च प्रसिद्धानि प्रेक्षणीयस्थानानि सन्ति ।

मार्गः- बेङ्गळूरुतः ४७९ कि.मी धारवाडतः ८० कि.मी हुब्बळ्ळीतः ५८ कि.मी हुब्बळ्ळी-गुन्तकल् रेलमार्गे गदगनिस्थानम् अस्ति।

२) लक्कुण्डी[सम्पादयतु]

एषः ग्रामः कश्चन प्राचीनः अग्रहारः लोक्कुण्डी इति च ख्यातः । अत्र १०८ देवालयाः १०८ बसदयः(जैनदेवालयाः), १०१ वाप्यः १०२ शिवलिङ्गानि च आसन् । काशीविश्वेश्वरः प्रमुखः दानचिन्तामाणिः इति प्रसिद्धा अत्तिमब्बा बसदीनां निर्माणं (१००९-४०) कारितवती । ब्रह्मदेवालयः प्राचीनः ३० स्तम्भविशिष्टः । तत्र महावीरस्य कृष्णाशिल्पमूर्तिः अस्ति । एतां मूर्तिं दक्षिणभारते एव शिल्पकलामुकुटमणिः इति कथयन्ति । मार्ग -गदगतः १२ कि.मी

३) गजेन्द्रगड (रोण)[सम्पादयतु]

अत्र ३८ वाप्यः २८ सरोवराणि, १८ देवालयाः ३८ मुस्लिमप्रार्थनामन्दिराणि च सन्ति । कालकालेश्वरः, कल्लेश्वरः, दुर्गादेवी, रामलिङ्गेश्वरः इत्यादयः देवालयाः प्रमुखाः । समीपे एका गुहा प्रसिद्धाऽस्ति । वीरभद्रदेवालयोऽप्यस्ति । अन्तरगङ्गेयकोळ इति तीर्थमस्ति । मार्गः-रोणतः १६ कि.मी । मल्लापुररेलनिस्थानतः ३५ कि.मी । गदग-सोल्लापुररेलमार्गे ।

४) लक्ष्मेश्वरम्- (शिरहट्टी)[सम्पादयतु]

इतिहासे अस्य क्षेत्रस्य पुलिगेरे हुलिगेरे हुलिगेरे हुटिकनगरम् इति नामानि आसन् । कण्वभूमिः अत्र आसीत् । चालुक्यराजः लक्ष्मीनरसः अत्र शासनं कृतवान् अतः लक्ष्मेश्वरम् इति नाम अभवत् । अत्र सुन्दरदेवालयाः सन्ति प्रमुखः देवालयः कलात्मकः। ११ शतमानकाले निर्मितः सोमेश्वरदेवालयः । अत्र शिवः पार्वती च नन्दीश्वरस्य उपरि उपविष्टवन्तौ स्तः । देवः स्वयम्भूः पुलिगेरे सोमेश्वरः सौराष्ट्रादानीतः इति कारणात् सौराष्ट्रस्य सोमेश्वरः इति कथितः अस्ति । जनाः देवालयं लक्ष्मीलिङ्गगुडि इति कथयन्ति । मार्गः -धारवाडतः ६० कि.मी । गदगतः ४० कि.मी । गुडगेरिरेलनिस्थानतः १२ कि.मी । हुब्बळ्ळी-बेङ्गळूरुमार्गः

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

पण्डितः भीमसेन जोशी, पञ्चाक्षरी गवायि, महाकविः कुमारव्यासः, कविः हुयिलगोल नारायणराय,

वीथिका[सम्पादयतु]


बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गदगमण्डलम्&oldid=480222" इत्यस्माद् प्रतिप्राप्तम्