शिवमोग्गामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
शिवमोग्गामण्डलम्
मण्डलम्
वर्षाकाले जोगजलपातः
वर्षाकाले जोगजलपातः
राष्ट्रम्  भारतम्
राज्यम् कर्णाटकराज्यम्
Headquarters शिवमोग्गा
मण्डलानि भद्रावतीमण्डलम्, होसनगरम्, सागरमण्डलम्, शिकारीपुरम्, सोरबमण्डलम्, शिवमोग्गामण्डलम्, तीर्थहल्लिमण्डलम्
Government
 • Deputy Commissioner M.V. Vedamurthi[१]
Area
 • Total ८,४९५
Population (2011)
 • Total १७,५५,५१२[२]
 • Density २०७
राज्यभाषा
 • भाषा कन्नडभाषा
Time zone IST (UTC+5:30)
PIN 577201 to 577205
Telephone code 08182
कर्णाटके शिवमोग्गमण्डलम्

शिवमोग्गामण्डलम् (Shimoga district) कर्णाटकराज्यस्य मण्डलेषु अन्यतमम् । शिवमोग्गामण्डलस्य मण्डलकेन्द्रस्य च नाम समानम् अस्ति । एतत् बेङ्गळूरुतः २७५ कि.मी.दूरे अस्ति । कर्णाटकस्य निसर्गरमणीयं मण्डलम् इदं ’मलेनाडु(पर्वतमयः प्रदेशः) इत्येव ख्यातम् । शिवमुखम् इति पदपुञ्जात् निष्पन्नं पदं शिवमोग्गा इति कथितम् ।अत्र मूलतृणादिवनस्पतिभिः रुचिकरं रसम् उत्पादयन्ति स्म( संग्रहं कुर्वन्ति स्म) । अतः सिहिमगे इति नाम, अनन्तरं ’शिवमोग्गे’ इत्यागतम् । भौगोळिकतया शिवमोग्गमण्डले शालिक्षेत्राणि सन्ति । राज्ये सर्वाधिक वर्षास्थानम् आगुम्बे अत्र अस्ति । दूर्वासक्षेत्रमित्यपि क्षेत्रस्य नाम आसीत् ।

उपमण्डलानि-७[सम्पादयतु]

शिवमोग्ग, सागर, तीर्थहळ्ळी होसनगर सोरब, शिकारीपुर भद्रावती

नद्यः[सम्पादयतु]

तुङ्गभद्रा, कुमुद्वती, शरावती, वेदवती, वरदा, कुशावती एताभिः नदिभिः एतत् मण्डलं जलसमृद्धम् अस्ति ।

विस्तीर्णता[सम्पादयतु]

८४६५ च.कि.मी

भौगोलिकता[सम्पादयतु]

पश्चिमपर्वतप्रदेशः सह्याद्रिपर्वतश्रेणिः मण्डलस्य सौन्दर्यं वर्धितवती अस्ति । विश्वप्रसिद्धः जोगजलपातः इतः ११३कि.मी.दूरे अस्ति । अत्र शरावतीनदी राजा राणी रोरर् राकेट् इति धाराचतुष्टयेन पतति ।

इतिहासः[सम्पादयतु]

क्रि.पू. तृतीयेशतके साम्राडः अशोकस्य मौर्यसाम्राज्यस्य दक्षिणसीमान्त्यः अयं प्रदेशः । चतुर्थशतकस्य काले कदम्बाः षष्ठे शतके चालुक्याः, तेषां सामन्ताः राजानः गङ्गाः, अष्टमे शतके राष्ट्रकूटाः, एकादशे शतके होय्सलाः, पञ्चदशे शतके विजयनगरराजाः एतस्य प्रदेशस्य शासनं कृतवन्तः।

दर्शनीयानि स्थानानि[सम्पादयतु]

जोगजलपातः, श्रीरेणुकाम्बादेवालयः , चन्द्रगुत्तीदुर्गं ,लिङ्गनमक्कि- जलाशयः, वनके अब्बेजलपातः, भद्रायोजना, होसनगरश्रीरामचन्द्रापुरमठः, लक्कवल्लिजलाशयः, आगुम्बेसूर्यास्तः, मण्डगद्दे पक्षिधाम, अम्बुतीर्थम्, कुन्दाद्रिः,कुप्पवल्लिकविशैलः, कोटेसीतारामाञ्जनेयमन्दिरं, तुङ्गभद्रासङ्गमः, कोडचाद्रिः, तावरेकोप्पसिंहधाम, शिवप्पनायकनकोटे, सिगन्धूरुमाता, दब्बेजलपातः

प्रसिद्धानि क्षेत्राणि[सम्पादयतु]

१.शिवमोग्गानगरम्[सम्पादयतु]

(०८२९२) दूर्वासमहर्षिः अत्र तपः आचरितवान् । शिवलिङ्गं बालहनुमन्यंत्रं च पूजितवान् । तदेव अत्र कोटेसीतारामाञ्जनेयः, भीमेश्वरदेवालयरुपेण अस्ति । जनमेजयस्य सर्पयागः अत्रैव कृतः इति विश्वासः अस्ति ।

मार्गः[सम्पादयतु]

२.बळ्ळिगावे[सम्पादयतु]

द्वादशे शतके बनवासीराज्यस्य राजधानी । एतत् क्षेत्रं बलिपुर- अग्रहारः इति प्रसिद्धम् आसीत् । इन्द्रस्य अमरावती कुबेरस्य अलकावतीव सुन्दरं ‘वैभवोपेतं च आसीत् । ’दक्षिणकेदारमरिकल्याण’ इत्यपि जनाः कथयन्ति स्म । शासनानुसारम् अत्र १३ विद्यासंस्थाः, त्रयः बौद्धविहाराः , द्वादश जैनबसदयः (जैनमन्दिराणि), वाणिज्यकेन्द्राणि च आसन् केदारेश्वरदेवालयः चालुक्यशैल्या रचितः त्रिकूटाचलरुपः अस्ति । कृष्णशिलाशिवलिङ्गः अत्र अस्ति । काशीविश्वेश्वरमन्दिरं (१०६० कि.श) त्रिपुरान्तकेश्वरमन्दिरं , दुण्डिराजगणपतिमन्दिरं च अत्र सन्ति । इतिहासप्रसिद्धायाः नाट्यराज्ञ्याः शान्तलायाः जन्मस्थलम् । महामहिमस्य परशिवस्वरुपस्य अल्लमप्रभोः जन्मस्थानं च ।

मार्गः[सम्पादयतु]

  • शिकारीपुरतः २० कि.मी ।
  • शिवामोग्गतः ८० कि.मी.।
  • शिराळकोप्पतः २ कि.मी.।

३.भद्रावती[सम्पादयतु]

भद्रानदीतीरे स्थितस्य अस्य क्षेत्रस्य बङ्किपुरं बेङ्किपुरम् इति कथयन्ति स्म । अत्र वङ्किमहर्षेः आश्रमः आसीत् । भद्रानदीतीरे श्री लक्ष्मीनरसिंहस्वामीदेवालयः अस्ति । देवः शङ्खचक्रगदापद्मधारी लक्ष्मीसमेतः च अस्ति । देवालयः होय्सलवास्तुशिल्पशैल्या अस्ति । नक्षत्राकारके मण्डपे त्रिकूटाचलरुपेण त्रीणि गर्भगृहाणि निर्मितानि । पुरुषोत्तमः लक्ष्मीनरसिंहः वेणुगोपालः च अत्र सन्ति । आञ्जनेयदेवालयोऽपि अस्ति ।

मार्गः[सम्पादयतु]

  • बेङ्गलूरु-शिवमोग्गरेल् मार्गे भद्रावती निस्थानकम् अस्ति ।
  • शिवमोग्गतः २६ कि.मी.।
  • बेङ्गळूरुतः २५६ कि.मी.।
  • मैसूरुतः २२५ कि.मी. ।
  • लोकयानानि यथेष्टं सन्ति ।

४. कूडली[सम्पादयतु]

एतत् क्षेत्रं तुङ्गाभद्रानद्योः सङ्गमस्थानम् । पुराणानुसारं भक्तस्य प्रह्लादस्य हरिः नरसिंहरुपेण प्रत्यक्षः अभवत् । स एव नरसिंहः अत्र सालिग्रामरुपे स्थितवान् । चिन्तामणिनरसिंहः पवित्राश्वत्थवृक्षः च अत्र स्तः । रामेश्वर-ब्रह्मेश्वरदेवालयौ शङ्कराचार्यमध्वाचार्ययोः मठौ च स्थः ।

मार्गः[सम्पादयतु]

  • शिवमोग्गतः २६ .कि.मी ।
  • भद्रावतीतः २४ कि.मी ।
  • वासार्थं मठाः सन्ति ।

वरदपुर वरदहळ्ळी[सम्पादयतु]

(सागर)- श्रीरामदासवर्यस्य अनुग्रहं प्राप्तवतः श्रीधरस्वामिनः आश्रयः समाधिस्थलं च अत्र स्तः । श्रीधरस्वामी धर्मजागृतिकारणात् यात्रां कुर्वन् अन्ते अत्रत्ये प्रशान्ते रमणीये एकान्ते च स्थले वासम् आरब्धवान् । अत्र प्रतिवर्षं श्रीधरस्वामिजयन्तिः, आराधना, श्रीगुरुपूर्णिमा, विजयदशमीसमये विशेषोत्सवाः च भवन्ति ।

मार्गः[सम्पादयतु]

  • सागर- शिवमोग्गमार्गे ८ कि.मी ।

६. उडुतडी -(शिकारीपुर)[सम्पादयतु]

द्वादशशतके सुप्रसिद्धायाः शिवभक्तायाः अक्कमहादेव्याः जनस्थलम् एतत् । शिवः एव स्वपतिः सः एव चेन्नमाल्लिकार्जुनः इति ध्यायन्ती अक्कमहादेवी वस्त्ररहिता कल्याणनगरं गतवती । अन्ते वचनानि रचयन्ती वदन्ती श्रीशैले कदलीवने चेन्नमल्लिकार्जुने ऐक्या अभवत् ।

मार्गः[सम्पादयतु]

  • शिकारीपुरतः २५ कि.मी ।

७. शिगन्दूरु (सागर)[सम्पादयतु]

एतत नदीजलमध्यस्थं विशालः द्वीपः । मलेनाडुप्रदेशः(पर्वतप्रदेशः) शक्तिदेवता ’चौडेश्वरी’ ’शिगन्देश्वरी’ इति देवीं कथयन्ति । सहस्रशः भक्ताः दूरतः अत्र आगच्छन्ति । उत्तमम् नैसर्गिकदृश्यवैभवम् अत्र पश्यामः ।

मार्गः[सम्पादयतु]

  • सागरतः लोकयानम् । जोग-कोगरहळ्ळि-भट्कळ् वाहनमार्गे ४५ कि.मी ।

८.होम्बुज- (होसनगर)[सम्पादयतु]

अस्य हुञ्च पोम्बुर्च इति नामनि स्तः । जैनकाशीति प्रसिद्धे क्षेत्रे पञ्चबसदिदेवालयस्य अग्रे मानस्तम्भः , मुत्तिनकोळ, तपस्थितभङ्ग्यां पञ्चतीर्थङ्कराणां प्रत्येकगर्भगृहाणां दर्शनं विशेषाः । पद्मावती देवालयोऽप्यस्ति । जिनदत्तरायः करिलक्किनामकस्य वृक्षस्य अधः विश्रामं स्वीक्रुतवान् इति विश्वासः । सः वृक्षः अद्यापि अस्ति ।

मार्गः[सम्पादयतु]

  • शिवमोग्गतः ५४ कि.मी ।
  • सागरतः तीर्थहळ्ळिमार्गे रिप्पन् पेटे निस्थानतः समीपे

९.केळदी (सागर)[सम्पादयतु]

एषः प्रदेशः केळदिनायकानां पूर्वतनराजधानी । अत्रत्याः २० नायकाः क्रिस्ताब्द १४९९ तः २७५ वर्षाणि यावत् प्रशासनम् कृतवन्तः । ते शूराः दानशूराः धर्मभीरवः देवालयनिर्माणकर्तारः च । १८ देवालयानां निर्माणं कृतवन्तः । तेषु अघोरेश्वरः शिवस्य पञ्चमुखेषु अन्यतमः (१५४०) । अत्र देवालये जालन्ध्राः, नन्दीमण्टपः, शुकनासी इत्यादयः भागाः शिल्पदृष्ट्या अपूर्वाः सन्ति । होय्सलद्राविडयोः साम्मिश्रशैलीम् अत्र पश्यामः । वीरभद्रदेवालये देवस्य ३२ हस्ताः लोहमये मूर्तिविशेषे द्रष्टुं शक्याः सन्ति ।

मार्गः[सम्पादयतु]

  • शिवमोग्गतः ६२ कि.मी ।
  • सागरतः ९ कि.मि. ।
  • जोगजलपाततः ३३ कि.मी.

१०.कोडचाद्रिः (सागर)[सम्पादयतु]

कोडचाद्रिपर्वतश्रेण्याम् उन्नतः (२३४३ मीटर्) दुर्गमः पर्वत प्रदेशः एषः । उडुपी शिवमोग्गमण्डलयोः सीमाप्रदेशेऽस्ति । अत्र ३२हस्तयुक्तस्य व्याघ्रस्य शिलामूर्तिः कालभैरवदेवालयः, उमामहेश्वरदेवालयः, प्रेक्षणीयाः सन्ति ।

मार्गः[सम्पादयतु]

  • जोगतः ६२ कि.मी (शिवमोग्गतः २२५ कि.मी सागरतः ७ कि.मी होसनगरतः २६ कि.मी (पादचारणम् अनिवार्यम् अस्ति । स्वकीयं वाहनं भवति चेदुत्तमम् ।

११.चन्द्रगुत्ती-(सोरब)[सम्पादयतु]

एतस्य पर्वतस्य मूले श्रीरेणुकाम्बादेवालयः आस्ति । एतां गुत्यम्म इति च कथयन्ति । देवालये ६० से.मी उन्नतः परशुरामस्य विग्रहः अस्ति । भवानीतीर्थ-शङ्करतीर्थे अत्र प्रसिद्धे । शूलप्पगुडि, भैरवगुडि च अत्र स्तः। भक्ताः अत्र त्रिशूलं भक्त्या अर्पयन्ति ।

मार्गः[सम्पादयतु]

  • सोरबतः २६ कि.मी

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

केलदी चेन्नम्मा अल्लमप्रभुः शिवप्पनायकः अक्कमहादेवी प्रफुल्लचन्द्रः कडिदाळ मञ्जप्पः शान्तवेरी गोपालगौडः एस्.बङ्गारप्पः बि.एस्.यडियूरप्पः के.एस्.ईश्वरप्पः कागोडु तिम्मप्पः यु.आर्.अनन्तमूर्तिः पि.लङ्केशः ना.डिसोजः एम्.के.इन्दिरा के.वि.सुब्बण्णः एन्.एस्.लक्ष्मीनारयणभट्टः गिरिशकासरवल्ली डा.टि.एम्.शिवानन्दय्य ।

बाह्यानुबन्धः[सम्पादयतु]

  1. "Who's Who". National informatics centre. 
  2. "Shimoga:Census2011". census2011.co.in. 
"https://sa.wikipedia.org/w/index.php?title=शिवमोग्गामण्डलम्&oldid=284738" इत्यस्माद् पुनः प्राप्तिः