जोग जलपातः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जोगजलपातः इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
जोग जलपातः
Jog Falls 05092016.jpg
वृष्टिकाले जोगजलपातः
India Karnataka location map.svg
Red pog.svg


भौगोलिकावस्थनम्
क्षेत्रम् सागर, कर्णाटकम्, भारतम्
भौगोलिकस्थितिः १४°१३′४४″ उत्तरदिक् ७४°४८′४३″ पूर्वदिक् / 14.22889°उत्तरदिक् 74.81194°पूर्वदिक् / १४.२२८८९; ७४.८११९४
प्रकारः केटरेक्ट्, सेग्मेण्टेड्
समुन्नतिः 488 मीटर्स् (1600 ft MSL)
औन्नत्यम् 253 मीटर्स् (829 पादपरिमितम्)
जलधाराः 1
उच्चतमजलधारा 253 मीटर्स् (829 पादपरिमितम्)
उत्सप्रवाहः शरावती
सामान्यमानजलधारा 153 m³/s or 5,387 cu ft/s
जोगजलपातः

जोगजलपातः कर्णाटकराज्यस्य शिवमोग्गामण्डलस्य उत्तरकन्नडमण्डलस्य च सीमायाम् अस्ति।

कर्णाटकराज्ये स्थितः विश्वप्रसिद्धः जलपातः शिवमोग्गामण्डलस्य सागरप्रदेशस्य समीपे जोग(०८१८६) इति स्थले अस्ति । नैसर्गिकः जलपातः अतीव सुन्दरः अस्ति । विशेषतः वर्षाकाले जुलैमासतः अक्टोबरमासपर्यन्तम् अतीव रमणीयम् भवति । वर्षणं सम्यक् न भवति चेत् केवलं रविवासरे जलाशयतः जलं त्यजन्ति तदा एव जलपातदर्शनं सुन्दरं भवति । शरावतीनदीजलम् अत्र निसर्गरमणीये प्रपाते ९५० पादपरिमितोन्नतात्प्रदेशात् पतति । जलस्य अधः पतनस्य दृश्यम् अतीव आकर्षकं मनोहरं च भवति ।

व्युत्पत्तिः[सम्पादयतु]

जगत: नयनमनोहरेषु जलपातेषु जोगजलपात: अन्यतम: । गेरुसोप्पेजलपात: इत्यपि एतम् आह्वयन्ति । जलपातत: २९ कि.मी. दूरे शरावतीनद्या: वामतीरे 'गेरुसोप्पे’ नामकः कश्चित् ग्राम: अस्ति । अत: जलपातस्य नाम तथा अभवत् इति वदन्ति । परिसरे भल्लातकवृक्षा: अधिका: इत्यपि तथा नाम स्यात् । प्रादेशिकभाषया गेरुनाम भल्लातकम् इति अर्थः । जलपातस्य समीपे 'जोग' इति कश्चन लघुग्राम: अस्ति । अत: 'जोगजलपात:’ इत्येव सुप्रसिद्ध: जात: अस्ति ।

विवरणम्[सम्पादयतु]

शिवमोग्गा उत्तरकन्नडमण्डलयोः सीमायां शरावतीनदी २५२.७ मीटर् इत्युक्ते ८२९ पादपरिमितात् औन्नत्यात् कूर्दनं करोति । एषा शरावती शिवमोग्गाया: अम्बुतीर्थे जन्म प्राप्नोति । अनन्तरम् उत्तरदिशि प्रवहति । अग्रे एतां मलावी, हरिद्रावती, एण्णेहोळे उपनद्य: मिलन्ति । अनन्तरं बहुविस्तारतया एषा पश्चिमाभिमुखं प्रवहति । एषः उत्तरकन्नडशिवमोग्गमण्डलयोः सीमाप्रदेशे शरावततीनद्याः पातः । जोगजलपातः भारतस्य अत्युन्नतः जलपातः इति ख्यातः । जलपातस्य दीर्घता २९२मी. अस्ति । अत्र नदी शारावती राजा,घोषः, वनिता, बाणः इति चतसृषु शाखासु विभक्ता अधः पतति । शरावती यदा उपरिष्टात् अध: कूर्दति तदा तस्याः चतस्र: शाखा: अभवन् । एता: 'राजा, राणी, राकेट्, रोरर्’ इति प्रसिद्धाः ।

सिरसिनगरस्य सोदेराजस्य नाम सूचयति राजा शाखा , गर्जनं कुर्वती कूर्दति इत्यतः रोरर् शाखा राकेट्वेगेन इव कूर्दति इत्यतः राकेट् इति नाम आगतम् । राज्ञ्याः ब्लान्जाया: नाम अन्तिमाय जलपाताय दत्तम् अस्ति ।

सम्पर्कव्यवस्था[सम्पादयतु]

राजधानी बेङ्गळूरुतः ४०० कि.मी.दूरे गेरुसोप्पे प्रदेशः अस्ति । शिवमोग्गमण्डलस्य सागरपत्तनतः दोड्डमने मार्गे ३०कि.मी. दूरं गच्छति चेत् जोगजलपातः लभ्यते । उत्तरकन्नडमण्डलस्य होन्नावरतः अपि गन्तुं शक्यते । ततः ६०कि.मी.दूरं भवति । बेङ्गळूरुतः सागरपर्यन्तं बस् यानेन गत्वा ततः भाटकयानेन गमनं सुकरम् । रेल् यानप्रवासः आवश्यकः चेत् शिवमोग्गा अथवा ताळगुप्प रेल् निस्थानके समीपे भवतः । वासभोजनादिव्यवस्थाः सागरपत्तने एव भवन्ति । स्वकीययानेनापि बेङ्गलूरुतः गच्छति चेत् दिनद्वयस्य प्रवासः भवति ।यतः समीपे एव लिङ्गनमक्किजलबन्धः, गेरुसोप्पे जलविद्युत्स्थावरः, होसनगर श्रीरामचन्द्रापुरम्, मुर्डेश्वरः, इडगुञ्जी, केळदी, मण्डगद्दे पक्षिधाम ,इत्यादीनि दर्शनीयस्थानानि सन्ति ।

दिक्परिवर्तनम्[सम्पादयतु]

वस्तुत: पश्चिमघट्टस्य कावेरी, कपिला, तुङ्गानदी इव शरावत्या अपि पूर्वाभिमुखम् एव प्रवहणीयम् आसीत् । आरम्भे मूलनदी पूर्ववाहिनी एव आसीत् । अनन्तरं नद्या: विकासस्य कस्मिंश्चित् घट्टे एषा पश्चिमवाहिनी अभवत् । यतः पश्चिमघट्ट: पूर्वदिशि निम्नावनतः, पश्चिमदिशि निम्नोन्नतः अस्ति । पश्चिमदिशि प्रवहन्ती काचित् नदी उन्मुखासती अधिकावघर्षणेन पूर्ववाहिनीं शरावतीं स्वदिशि आकृष्टवती इति कारणेन नद्याः पात्रं विस्तारितम् अभवत् । अतः शरावती पश्चिमवाहिनी अभवत् । एतां प्रक्रियाम् एव 'नदीचौर्यम्’ इति वदन्ति ।

वैशिष्ट्यम्[सम्पादयतु]

जोग् अपेक्षया अधिक: उन्नत: जलपात: आग्नेयवेनिझुल्लानगरे अस्ति । एतम् एञ्जल् जलपात: इति वदन्ति । किन्तु जोगजलपाते यावत् जलं प्रवहति तावत् जलं तत्र न प्रवहति । केनडाअमेरिकासंयुक्तसंस्थानस्य सीमाप्रदेशे नयागरा जलपात: अस्ति । केनडादेशस्य भागे एतस्य विस्तीर्ण: ७६२ मीटर् । किन्तु एष: केवलं ४७ मीटर् उपरिष्टात् कूर्दति । एवमेव आफ्रिकाखण्डस्य उत्तररोडेषियस्य सीमाप्रदेशे जाम्बसीनद्या निर्मित: विक्टोरिया जलपात: सार्धैककिलोमीटर् विस्तीर्णयुतः अस्ति । किन्तु एतस्य औन्नत्यं केवलं १०४ मीटर् मितम् । उपरिष्टात् पततः जलस्य प्रमाणदृष्ट्या सौन्दर्यस्य दृष्ट्या च जोगजलपात: इव जगति अन्य: जलपात: नास्ति इति वक्तुं शक्यते ।

जलविद्युद्योजना[सम्पादयतु]

नद्या: जलं, मृदुशिला: यत्र भवन्ति तत्र यदा प्रवहति, तदा मृदुशिला: शीघ्रं विनष्टानि भवन्ति । यदा उपरिष्टात् कूर्दति तदा एवं जलपातस्य सृष्टि: भवति । गेरुसोप्पे जलपातस्य विषये ज्ञातुं क्रि.श. १८५६तमे वर्षे द्वौ ब्रिटिश् अधिकरिणौ संशोधनं कृतवन्तौ । तेषां वृत्तान्तानुगुणं प्रपातस्य दैर्घ्यं ८२९पादपरिमितम् । किन्तु जलप्रप्रवाहस्य रंहनिर्मितः प्रपातः १२९पादमितः । शिवमोग्गा-उत्तरकन्नडमण्डलयोः मध्ये नद्याः वैशाल्यं २१३०पादपरिमितम् । क्रि.श. १८६९तमे वर्षे जनवरी मासे ब्रिटिश् अधिकारिणी श्रीमती लूयि ब्रौनिङ्ग् एतं प्रदेशं दृष्ट्वा "जलपातस्य शिवमोग्गासीमाप्रान्ते गहनं वनम् आसीत् येन पटगृहम् अपि निर्मातुम् अवसरः नासीत्” इति उक्तवती । शरावतीनद्याः जलबन्धं निर्मीय लिङ्गनमक्किजलाशयः इति नाम दत्तम् । अस्मिन् जलागारे सङ्गृहीतजलम् अवलम्ब्य जोगजलपाततः २४कि.मी.दूरे विद्यमानस्य गिरेभास्कर इति प्रदेशे क्रि.श.१९३०तमे वर्षे मैसूरुराज्यस्य (कर्णाटकम्) लोकोपयोगी विभागद्वारा जलविद्युदुत्पादनाघटकस्य निर्माणार्थं कार्यम् आरब्धम् । अस्य कृष्णराजेन्द्रजलविद्युत् योजना इति नाम स्थापितम् । कालक्रमेण महात्मागान्धीजलविद्युत् प्रकल्पः इति नामाङ्कितम् । क्रि.श. १९४९तमे वर्षे फेब्रवररी २१दिनाङ्के आरब्धा एषा योजना प्रतिवर्षं १२०मेगाव्याट् विद्युदुत्पादनस्य क्षमतां रक्षति ।

वीथिका[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जोग_जलपातः&oldid=425631" इत्यस्माद् पुनः प्राप्तिः