सामग्री पर जाएँ

चिक्कमगळूरुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चिक्कमगळूरुमण्डलम्

ಚಿಕ್ಕಮಗಳೂರು ತಾಲೂಕು
मण्डलम्
Skyline of चिक्कमगळूरुमण्डलम्
राष्ट्रम्  India
राज्यम् कर्णाटकराज्यम्
केन्द्रम् चिक्कमगळूऱू
उपमण्डलानि चिक्कमगळूरु,कडूरु, तरिकेरे, मूडिगेरे, शृङ्गेरी, कोप्प, नरसिंहराजपुरम्,
Area
 • Total ७,२०१ km
Population
 (2001)
 • Total ११,३९,१०४
 • Density १५८.१९/km
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
Vehicle registration KA- 18
Website chickmagalur.nic.in

चिक्कमगळूरुमण्डलं (Chikkamagaluru district) कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति चिक्कमगळूरु नगरम् । 'काफी'पेयस्य उगमस्थानमस्ति इदम् । पश्चिमघट्टे अन्तर्भूताः चिक्कमगळूरुनगरस्थाः पर्वताः एव तुङ्गानद्याः भद्रानद्याः उगमस्थानायन्ते । कर्णाटकस्य अत्युन्नतगिरिः मुळ्ळय्यनगिरिः अस्मिन् मण्डले एव विद्यते । केम्मण्णुगुण्डि, कुद्रेमुखपर्वतप्रदेशाः, माणिक्यधारा, हेब्बे, कळ्ळतिगिरिजलपाताः, शृङ्गेरी , होरनाडु इत्यादीनि पुण्यक्षेत्राणि च अस्मिन् मण्डले एव सन्ति । अमृतपुरस्य होय्सळदेवालयः अत्रत्यं सम्पद्भरितम् इतिहासं प्रकाशयति । अरण्यजीवनस्य दिदृक्षवः अत्रत्यं कुदुरेमुखराष्ट्रियोद्यानं, भद्रा-अरण्यसंरक्षणकेन्द्रं च द्रष्टुम् अर्हन्ति ।


भौगोलिकता

[सम्पादयतु]

चिक्कमगलूरु कर्णाटकस्य पश्चिमघट्टप्रदेशस्य एकं मण्डलम् अस्ति । कर्णाटकराज्यस्य प्रकृतिरमणीयेषु मण्डलेषु एतत् प्रधानम् अस्ति । मण्डलकेन्द्रस्य नाम अपि समानम् अस्ति । एतत् राज्यराजधानीबेङ्गळूरुतः २५१ कि.मी.दूरे अस्ति । काफीवाटिकाः अत्र सर्वत्र दृश्यन्ते । अत्र वातावरणं तु सर्वदा शीतलं भवति । अस्मिन् मण्डले गिरिवनानां मध्ये मध्ये लघु लघु पत्तनानि सन्ति । किन्तु एतत् अति लघु पत्तनम् । प्रतिवर्षं देवीरम्मपर्वते महोत्सवः प्रचलति विविधप्रदेशेभ्यः जानाः अत्र आयान्ति । कतिपयवर्षेभ्यः अत्र परिगणनीया अभिवृद्धिः दृश्यते ।

  • विस्तीर्णता- ७२०१ च.कि.मी

दर्शानीयानि स्थानानि

[सम्पादयतु]

केम्मण्णुगुण्डीपर्वतशृङ्खलाः, कल्हत्तगिरिजलपातः, माणिक्यधाराजलपातः, मुळ्ळय्यनगिरिः, चन्द्रदोणपर्वतः, शृङ्गेरी, भद्राभयारण्यम्, लक्कवळ्ळिभद्राजलबन्धः, कुवेम्पुविश्वविद्यालयः, बालेहोन्नूरुपरिसरः, देवरमने च । मलेनाडु इति प्रसिद्धः प्राचीनकाले कदम्बशासितः प्रदेशः । अनेके पर्वताः अत्र प्रसिद्धाः सन्ति । मुळ्ळय्यनगिरिः, कल्लतगिरिः, बाबाबुडनगिरिः, (चन्द्रदोणगिरिः) इत्यादयः । बाबाबुडनगिरिः (६२२४) पादपरिमितोन्नतः चिक्कमगळूरुतः ३५ कि.मी. दूरेऽस्ति । अत्र दत्तात्रेयपीठं प्रसिद्धम् अस्ति । कोदण्डरामदेवालयः होय्सलराजानां काले निर्मितः अस्ति ।

उत्खननस्थानानि

[सम्पादयतु]

अस्य मण्डलस्य लिङ्गदहळ्ळी इत्यत्र पूर्वशिलायुगस्य कालस्य वस्तूनि प्राप्तानि सन्ति ।

उपमण्डलानि- ७

[सम्पादयतु]

चिक्कमगळूरु, कडूरु, कोप्प, शृङ्गेरी, नरसिंहराजपुर, बाळेहोन्नूरु, मूडिगेरे, तरीकेरे

तुङ्गा भद्रा तुङ्गभद्रा

प्रमुखक्षेत्राणि

[सम्पादयतु]

कळस, हिरेमगळूरु, शृङ्गेरी, होरनाडु, अम्बुतीर्थम्, किग्ग, खाण्डयसक्करेपदृण, नरसिंहराजपुरम् च ।

होरनाडुक्षेत्रदेवतायाः प्राचीनम् आवासस्थानम् अस्ति अन्नपूर्णेश्वरीदेवालयः। अस्ति । यदा प्राचीनदेवालयः शिथिलः सञ्जातः तदा अनेकेभ्यः राज्येभ्यः शिल्पिनः अत्र आगताः । कमलदलाकारैः देवस्थानस्य निर्माणं कृतवन्तः । सर्वालङ्कारयुक्ता देवी अन्नपूर्णेश्वरी अत्र सुन्दरमूर्तिरुपेण अस्ति । अन्नपूर्णेश्वर्याः शिरसः उपरि सर्पफणायुक्तनागेन्द्रः सुरक्षां दधानः अस्ति इव शिल्पम् उत्कीर्णम् अस्ति । होरनाडुक्षेत्रम् अत्यन्तं सुन्दरं स्थानम् । प्रकृतिसौंदर्यानुभवः सुमधुरः भवति । सहस्रशः भक्ताः अत्र आगच्छन्ति । सर्वेषां भोजनवसतिपूजादिव्यवस्थाः सन्ति । देवी अन्नपूर्णेश्वरी सर्वानन्ददायिनी अस्ति ।

  • मार्गः - कळसतः सप्त.कि.मी । बेङ्गलूरुतः २६६ कि.मी.
कर्णाटके चिक्कमगळूरुमण्डलम्

तुङ्गातीरे स्थितं शृङ्गेरीक्षेत्रं मलेनाडुप्रदेशस्थं सुन्दरं स्थानम् अस्ति । एतत् क्षेत्रं शृङ्गगिरिः इत्यपि जनाः कथयन्ति । पौराणिकदृष्ट्या ऋष्यश्रृङ्गमुनेः विभाण्डकमुनेः च तपोभूमिः । आदिशङ्कराचार्यैः अष्टमे शतके एव अत्र वेदान्तज्ञानपीठं शारदापीठं च स्थापितम् आसीत् । पुरी बदरी द्वारका उज्जयिनीपीठानि इव अत्रापि तपस्विनां विदुषां च केन्द्रं निर्मितम् आसीत् । शङ्कराचार्यैः स्थापितं श्रीचक्रं काश्मीरतः आनीता शारदाम्बामूर्तिः च अत्यंतमहत्वपूर्णविषयौ । चन्दनदारुशिल्पमयी मूर्तिः शृङ्गेरीपीठे स्थापितास्ति । अत्र श्रीमातरं ब्राहमी माहेश्वरी वैष्णवी इन्द्राणी चामुण्डा राजराजेश्वरी इति च पूजयन्ति । देशस्य शक्तिदेवतासु शारदाम्बाऽपि अन्यतमा अस्ति । १४ शतके निर्मितः विद्याशङ्करदेवालयः पूर्णतया शिलानिर्मितः कलारत्नः विभिन्नशैलीमिक्षणरुपश्च । विजयनगरशिल्पमपि अत्र पश्यामः । देवालयस्य द्वादश- स्तम्भाः द्वादशराशिनः सूचयन्ति । प्रतिमासं सूर्यस्य प्रथमकिरणं निर्दिष्टे स्तम्भे पतति । विश्वे एव शृङ्गेरीपीठस्य महत्त्वम् अधिकम् अस्ति । नवरात्रिपर्व अत्र विशेषेण प्रचलति । प्रतिदिनम् विद्यादानम् अन्नदानं ज्ञानदानं च सर्वदा प्रचलन्ति । तुङ्गानदीतीरे अधुनातनकाले शृङ्गेरीपीठस्य पूर्वतनयतीनां मूर्तयः सभामण्पाः उद्यानं च निर्मितानि सन्ति । वेदाध्ययनं वेदघोषः शास्त्राध्ययनं च अविरतं प्रचलति ।

कर्णाटकस्य सर्वप्रदेशतः लोकयानव्यवस्था अस्ति । रेलयानार्थं बीरुरु , कडूरु निस्थानपर्यन्तं सौकर्यम् अस्ति । श्रीमठे वासस्थलं भोजनं च काल्पितं भवति दूरभाषा- ०८२६५-५०१२३

अगस्त्यमहामुनेः जन्मस्थलम् एतत् क्षेत्रमस्ति । कुम्भसम्भवः कुम्भोद्भवः इति च मुनेः नामनि स्तः । अगस्त्यमुनेः कारणात् ग्रामस्य कळस इति नाम आसीत् । भद्रानद्या एतत स्थलं द्वीपः इव कृतः अस्ति । अत्र पञ्चतीर्थानि सन्ति । प्रमुखः विशेषः नाम भद्रानदीतीरे स्थितं कळसेश्वरं वरयितुं काशीतः आगता गिरिजाम्बा अपि अत्र पूजिता भवति । फेब्रुवरी- मार्च मासेऽत्र त्रिदिनात्मकः रथोत्सवः प्रचलति ।

  • मार्ग -मूडिगेरेतः ५५ कि.मी । चिक्कमगळूरुतः ९७ कि.मी बेङ्गळूरुतः २५९ कि.मी ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]












"https://sa.wikipedia.org/w/index.php?title=चिक्कमगळूरुमण्डलम्&oldid=480299" इत्यस्माद् प्रतिप्राप्तम्