चिक्कबळ्ळापुरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चिक्कबळ्ळापुरमण्डलम्
मण्डलम्
नन्दीदुर्गस्य भोगानरसिंहस्वामिमन्दिरम्
नन्दीदुर्गस्य भोगानरसिंहस्वामिमन्दिरम्
राष्ट्रम्  India
राज्यम् कर्णाटकराज्यम्
मण्डलम् चिक्कबळ्ळापुरमण्डलम्
भाषाः
 • अधिकृतभाषा कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
PIN
562 101
दूरवाणिसंज्ञा 08156
Vehicle registration KA-40
कर्णाटके चिक्कबल्लापुरमण्डलम्

चिक्कबल्लापुरमण्डलं (Chikkaballapur district) कर्णाटकराज्ये स्थितं किञ्चन मण्डलम् । नूतनतया निर्मितेषु मण्डलेषु इदम् अन्यतमम् अस्ति । पूर्वमेतत् कोलारमण्डलस्य उपमण्डलम् आसीत् । क्रि.श. २००८ तमे वर्षे कोलारमण्डलस्य प्रशासनकेन्द्रमासीत् । एतस्य पूर्वतनं नाम "चिन्नबळ्ळापुरम्" इति आसीत् । अस्य मण्डलकेन्द्रं बेङ्गळूरुतः ५६ कि.मी दूरे वर्तते । राष्ट्रियमहामार्गः-७ सञ्चारार्थं सुकरः अस्ति । २० कि.मी. दूरे एव अन्ताराष्ट्रीयं विमाननिस्थानम् अस्ति ।

विस्तीर्णता[सम्पादयतु]

४५२४ च.कि.मी मिता |

इतिहासः[सम्पादयतु]

विजयनगरसामन्तराजः मरिगौडा अत्र दुर्गं निर्मितवान् इति प्रतीतिः अस्ति । कालक्रमेण बैचेगौडः एतस्य प्रदेशस्य शासनं कृतवान् । ततः अनतिदूरे विद्यमानः नन्दिदेवालयः सनातनः अस्ति । गङ्गकदम्बाभ्यां पूर्वतनं शिलाशासनम् अत्र अस्ति । आङ्लाधिकारी कार्नावालिस् अपि अत्र कानिचन दिनानि वासं कृतवान् इति ज्ञायते । इतः २५ कि.मी. दूरे स्थिते माकिरेड्डीपल्लिमध्ये शोभमानः मुत्तेत्तरायस्वामिदेवालयः अपि बहुप्राचीनः वर्तते । अत्र श्रीरामनवमी सन्दर्भे विशेषोत्सवाः प्रचलन्ति ।

उपमण्डलानि-६[सम्पादयतु]

चिक्कबळ्ळापुर, शिड्लघट्ट, चिन्तामणि, बागेपळ्ळी, गुडिबण्डे, गौरीबिदनूरु ।

नद्यः[सम्पादयतु]

उत्तरपिनाकिनी, पालार, चित्रावती, पापघ्नी

क्षेत्राणि[सम्पादयतु]

कैवार, नन्दिबेट्ट, रङ्गस्थळ, अगलगुर्कि, बूरगमाकलहळ्ळी, कोणकोण्टलु सन्तेबिदनूरु, विदुराश्वत्थ गडिदं , मिट्टेमरी

दर्शनीयानि स्थानानि[सम्पादयतु]

नन्दिगिरिः, चिन्तामणिशिल्पाः, गुम्मनायकदुर्गः स्कन्दगिरिः गिरिचारणार्थं कलवारगिरिः योग्यः अस्ति सत्यसायीबाबाविश्वविद्यालयः अपि समीपे अस्ति ।

१.चिक्कबळ्ळापुरमण्डलस्य केन्द्रनगरम् एतत् चेन्नकेशव-वीरभद्र- सुब्रह्मण्येश्वर-आञ्जनेयदेवालयाः सन्ति । रङ्गस्थळप्रदेशे चिक्कबळ्ळापुरतः ५ कि.मी दूरे श्रीरङ्गनाथ- स्वामिनः बृहत् देवालयः अस्ति । विजयनगरपूर्वकाले अथवा होय्सलराजानां काले निर्मितम् आकर्षकं कलात्मकं मन्दिरम् एतत् । अत्र महाद्वारं शिलास्तम्भाः च मनोहराः सन्ति । मैसूरुराजः चामराजओडेयर् अस्य जीर्णोध्दारं कारितवान् । अस्य देवालयस्य पूर्वभागे शङ्ख-चक्रातीर्थे स्तः । पश्चिमे भागे ज्वालानरसिंहस्वामीपर्वतः अस्ति । मार्गशिरशुद्धपूर्णिमायाम् अत्र रथोत्सवः भवति । दसरा तथा रामनवमी समयः विशिष्टः ।

  • मार्गः- बेङ्गळूरुतः ६२ कि.मी. कोलारतः ७६ कि.मी राष्ट्रियराजमार्गः -६

कैवार[सम्पादयतु]

महाभारते एकचक्रनगरम् इति प्रसिद्धम् एतत् क्षेत्रं "कैवारम्" इति वदन्ति । लाक्षागृहदाहात् अरण्यम् आगताः पाण्डवाः अत्र किञ्चित्कालं निवासं कृतवन्तः । अत्र समीपे बकासुरः असीत् । तं भीमसेनः मारयित्वा कैवल्यगिरिगुहायां स्थापितवान् इति स्थलपुराणेन विदितम् अस्ति । मुख्यतया अमरनारायण मन्दिरम् अत्र प्रसिद्धम् । चमत्कारकर्ता नारायणयोगी (कैवारतात इति प्रसिद्धः) प्रसिद्धसाधुः (१२८३) अत्र स्थितवान् । स्वस्य ११० तमे वर्षे महापुरुषः समाधिस्थः अभवत् । एतेन कथितं कालज्ञानविषयकं वचनं सत्यमभवत् ।

  • मार्गः-कोलारतः ४० कि.मी. बेङ्गळूरुतः ७१ कि.मी । चिन्तामणितः १२ कि.मी

.नन्दी - नन्दीबेट्ट(नन्दीपर्वतः)[सम्पादयतु]

एषः प्रदेशः गिरिधाम इति सुप्रसिद्धः अस्ति । अस्य सानु प्रदेशे भोगनन्दीश्वरः अरुणाचलेश्वरः च प्राचीनदेवालयौ स्तः । एतौ देवालयौ राज्ञ्या रत्नावल्या निर्मितौ इतिहासप्रसिद्धौ वास्तुशिल्पदृष्ट्या च शोभायमानौ स्तः । देवालयस्य विस्तीर्णता ३७०*२४० पाद परिमितम् । महाद्वारानन्तरं विशालः मुखमण्डपः अस्ति । भोगनन्दीश्वरदेवालयः अष्टमशतके निर्मितः। गर्भगृहं शुकनासी नवरङ्ंग जालन्ध्राश्च सन्ति । जालन्ध्रेषु देवतानां लतानां च चित्राणि सन्ति । नवरङ्गे पुरतः नन्दीमण्डपः, गर्भगृहे ईश्वरलिङ्गः च सन्ति । बाह्यप्रदेशे स्थिते प्राकारे ८५ स्तम्भै निर्मितं प्राङ्गणम् अस्ति । तत्रापि सुन्दरशिल्पानि सन्ति । अरुणाचलेश्वरमन्दिरे ४ जालन्ध्राः सन्ति । १८ शतकीयं शिल्पकलावैभवम् अत्र पश्यामः । ’कर्णाटके एव अत्यन्तं श्रेष्ठं शिल्पम् अत्र अस्ति’ इति कर्नल् वेल् उक्तवान् ।

  • मार्गः- बेङ्गळूरुतः नन्दिहळ्ळि ६५ कि.मी । चिक्कबळ्ळापुरतः समीपे अस्ति ।

विदुराश्वत्थः[सम्पादयतु]

दोड्डकुरुगोडुसमीपे स्थितं विदुराश्वत्थक्षेत्रं पुराणप्रसिद्धमस्ति । महाभारतकाले धर्मात्मा विदुरः अत्र अश्वत्थवृक्षं संवर्धितवान् । अश्वत्यनारायणः इति ख्यातम् वृक्षं प्रदक्षिणीकृत्य सन्तानम् प्राप्नुवन्ति इति विश्वासः अस्ति । अत्र जनाः नागदेवतां प्रतिष्ठापयन्ति । अत्रैव श्रीवेङ्कटरमणमन्दिरं नवग्रहमन्दिरं च प्रसिद्धम् । चैत्रमासे पूर्णिमायाम् अत्र रथोत्सवः प्रचलति ।

  • मार्गः- चिक्कबळ्ळापुरतः ४२ कि.मी. गौरीबिदनूरुतः ६ कि.मी । वसतिभोजनादिसौलभ्यानि सन्ति ।

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

सर्. एम्. विश्वेश्वरय्यः प्रसिद्धः तन्त्रज्ञः अस्य मण्डलस्य मुद्देनहळ्ळीसञ्जातः एव ।

बाह्यानुबन्धः[सम्पादयतु]