सामग्री पर जाएँ

भीमः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भीमः दुश्शासनं मारयति

अयं भीमः पञ्चपाण्डवेषु अन्यतमः । कुन्तिपाण्डुमहाराजयोः द्वितीयः पुत्रः । वायुदेवस्य वरप्रसादकारणात् अस्य जन्म अभवत् । युधिष्ठिरः अस्य भीमस्य अग्रजः, अर्जुनः अनुजः । नकुलः सहदेवः च भीमस्य विमातुः पुत्रौ । महाभारतस्य अत्यन्तं प्रमुखपात्रेषु अन्यतमम् अस्ति भीमस्य पात्रम् । पाञ्चाली हिडिम्बा च भीमस्य पत्न्यौ । घटोत्कचः भीमहिडिम्बयोः पुत्रः । भीमसेन-शब्दार्थः :- "भीमः", भीः - भृतः, माः - (सकलाः) विद्याः यस्य सः - भीमः। (सकल​-विद्यावान् इत्यर्थः)॥ "सेनः", स - सहितः, इनः - स्वामिना विष्णुना इति - सेनः। भीमश्चासौ सेनश्च - "भीमसेनः" ॥

"https://sa.wikipedia.org/w/index.php?title=भीमः&oldid=498891" इत्यस्माद् प्रतिप्राप्तम्