जनमेजयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जनमेजयः पौरवकुलस्य राजा आसीत्। महाभारतानुसारं कुरुवंशस्य राजा । महाभारते युद्धे अभिमन्योः मरणकाले उत्तरा गर्भवती आसीत् । अस्याः गर्भात् यस्य जन्म अभवत् सः अग्रे परीक्षितमहाराजः इति ख्यातः यः महाभारतयुद्धस्य पश्चात् हस्तिनापुरस्य राजा अभवत् । अस्य एव पुत्रः जनमेजहयः । जनमेजयस्य मातुः नाम मद्रावती इति । महाभारतकथानुसारम् इयं जनमेजयस्य माता । किन्तु भागवतानुगुणम् इरावती या उत्तरकुमारस्य पुत्री । [१]

महाभारतस्य पूर्वभूमिः[सम्पादयतु]

जनमेजयः सहोदरेण सह

महाभारते अस्य जनमेजयस्य कक्षसेनः, उग्रसेनः, चित्रसेनः, इन्द्रसेनः, सुषेणः नख्यसेनः इति षट् सोदराः आसन् इति उक्तम् । [२]

महाकाव्यस्य आरम्भे एव जनमेजयस्य सर्पराजं तक्षकं विरुद्ध्य विजयस्य विषयः अस्ति । जनमेजयः स्वपितुः परीक्षितस्य मृत्योः पश्चात् हस्तिनापुरस्य सिंहासने आरूढः अभवत् । परीक्षितः पाण्डुवंशस्य एकमात्रं सन्तानम् आसीत् । परीक्षितः सर्पदशनेन मरणं गमिष्यति इति केनचित् महर्षिणा शप्तः । अने सर्पराजस्य तक्षकस्य कारणेन एव अस्य मृत्युः अभवत् । जनमेजयः अनेन प्रकरणेन अतीव खिन्नः आसीत् । अतः सः अमग्रस्य सर्पकुलस्य विनाशं कर्तुं निश्चित्य सर्पयज्ञम् अयोजितवान् । एतत् यज्ञम् अतिभयङ्करं भवति यस्मिन् विश्वस्य सर्वेऽपि सर्पाः विनष्टाः भवन्ति । तदा काश्चित् बालृर्षिः आस्तिकः इति तस्मिन् यज्ञपरिसरे आगतः यस्य माता मानसा इति नागस्त्रीः पिता कश्चित् ब्राह्मणः । तदा वेदव्यासस्य प्रियतमः शिष्यः वैशम्पायनः तत्रागतवान् । जनमेजयः एतस्मात् स्वपूर्वजानां वृत्तान्तं ज्ञातुम् इच्छति स्म । तदा वैशम्पायनमहर्षिः जक्रवर्तिनः भरतात् आरभ्य कुरुक्षेत्रमहासङ्ग्रामपर्यन्तं वंशगाथाम् अकथयत् । उग्रश्रवस्रौती अपि कथां श्रुत्वा नैमिषारण्यं गत्वा शौनकादिमुनीन् श्रावितवान् ।

  1. Raychaudhuri, H.C. (1972). Political History of Ancient India: From the Accession of Parikshit to the Extinction of the Gupta Dynasty. University of Calcutta. 
  2. University of Calcutta (Dept. of Letters), ed (1923). Journal of the Department of Letters. 
"https://sa.wikipedia.org/w/index.php?title=जनमेजयः&oldid=364642" इत्यस्माद् प्रतिप्राप्तम्