गङ्गानदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(गङ्गा इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
गङ्गा
देवनागरी गङ्गा
भारतम् भारतस्य राष्ट्रियद्योतकानि
ध्वजः त्रिरङ्गः
चिह्नम् सिंहचतुर्मुखम्
पञ्चाङ्गम् शकपञ्चाङ्गम्
राष्ट्रगानम् जन गण मन
राष्ट्रगीतम् वन्दे मातरम्
पुष्पम् कमलम्
फलम् आम्रम्
नदी गङ्गा
वृक्षः वटवृक्षः
पशुः व्याघ्रः
जलचरप्राणी गङ्गानद्याः डोल्फिन्
कविः रवीन्द्रनाथ ठाकुर
बङ्किमचन्द्र चट्टोपाध्याय
पक्षी मयूरः
नाणकचिह्नम् Indian Rupee symbol.svg रूप्यकम्
क्रीडा हॉकी

गङ्गा नदी दक्षिण-एशियाखण्डे विद्यमाने भारतदेशे प्रवहन्ती काचित् नदी|

उद्भवनम्[सम्पादयतु]

भागीरथी उत्तराञ्चले हिमालये गङ्गोत्रीहिमसंहतेः उद्भूय देवप्रयागं प्रति अलकनन्दाम् संयाति। देवप्रयागात् एव सा गङ्गा इति कथ्यते। प्रयागे यमुना गङ्गया संयाति। ततः सा उत्तरभारते सृत्वा वङ्गोपसागरं प्राप्नोति। तस्य वितरकनद्यः हूग्ळीपद्मादयः। वङ्गोपसागरस्य समीपे सुन्दरवनम् अस्ति। तत् व्याघ्राणां प्रमुखं निवासस्थलम् अस्ति।

जन्तवः[सम्पादयतु]

गङ्गायां द्विविधौ शिशुमारौ(मत्स्यविशेषः) स्तः। तौ गङ्गाशिशुमारः इरावतीशिशुमारः च। गङ्गायां केचन विरलाः कुम्भीराः(मकराः) (Glyphis gangeticus) अपि वसन्ति।

गङ्गादेवी

पुराणम्[सम्पादयतु]

हैन्दवाः गङ्गादेवीं माता इव पूजयन्ती|

गङ्गायाः तीरे अनेके हरिद्वार-काश्यादीनि पवित्राणि तीर्थस्थलानि सन्ति। गङ्गास्नानं सर्वाणि पापानि अपहरति मोक्षमपि ददाति इति जनाः मन्यन्ते। श्रद्धावन्तः हैन्दवाः गङ्गास्नानं कर्तुं यात्रां कुर्वन्ति। तस्याः तीरे अपि तपः कुर्वन्ति |

एकदा ब्रह्मा विष्णुपादधूलिं संयोज्य गङ्गाम् निर्माति स्म। अत एव गङ्गा अति पवित्रा।

भागीरथी गङ्गोत्रीहिमसंहतेः उद्भवति

एकदा महाराजः सगरः अश्वमेधयज्ञं कृतवान्। तस्य षष्टिसहस्रपुत्राः आसन्। अश्वः मत्सरेण इन्द्रेण बद्धः। सगरः अश्वं प्रतिप्राप्तुं स्वपुत्रान् प्रेषितवान्। ते अश्वम् कपिलर्षेः आश्रमे अपश्यन्। कपिलमहर्षिः एव चोरः इति मत्वा ते तम् अबाधन्त। क्रुद्धः ऋषिः स्वदृष्ट्या एव तान् भस्मसात् अकरोत्। तेषाम् अन्तिमसंस्कारः न कृतः । अत एव ते स्वर्गम् न प्राप्नुवन्। सगरस्य वंश्यः भगीरथः स्वपूर्वजानाम् शान्तये गङ्गाजलम् ऐच्छत्। सः तीव्रेण तपसा गङ्गां भूलोकं प्रति आनायितवान्। शिवः तां गङ्गां स्वजटायां धृतवान्। गङ्गा पापेभ्यः सर्वान् उद्धरति ।

पुराणेषु गङ्गायाः विशिष्टाः संदर्भाः अन्यत्र द्रष्टव्याः। पुराणकथनानुसारेण, सूर्यः स्वरश्मिभिः यं जलं गृह्णाति, तस्य ब्रह्माण्डे वितरणं सः आकाशगंगया करोति। अयं जलं न कोपि साधारणं जलमस्ति, अपितु सोमः अस्ति। आकाशगंगा पर्जन्यवृष्ट्या पृथिव्योपरि जलस्य वर्षणं करोति। अयं वृष्टिः प्रथमतः कारणरूपस्य मेरोः पर्वतस्य परितः भवति, येन मेरोः विभिन्न दिशाभ्यः सीता, चक्षु आदिसंज्ञकानां गङ्गानां प्रादुर्भावः भवति। किन्तु भारतवर्षाय एषां गङ्गानां सृतिः पर्याप्तं नासीत्। यदा भगीरथेन कपिलमुनेः क्रोधदृष्ट्या भस्मीभूतानां स्वपितॄणां तारणाय तपः अतपत्, तदैव दक्षिण दिशातः गंगायाः पतनमभवत्, यां गङ्गां शिवः स्वजटासु अधारयत्। कालान्तरे एभ्यः जटाभ्यः अलकनन्दासंज्ञकस्य एका धारायाः प्रवाहः भारते अभवत्। पुराणेषु कथनमस्ति यत् गङ्गायाः जलं साधारणं जलं नास्ति, अपितु सोमस्य रूपमस्ति। तेन जलेन पृथिव्यामुपरि सर्वेषां ओषधीनां, सर्वेषां प्राणिनां पोषणं भवति। अयं संकेतमस्ति यत् आध्यात्मिकरूपेण गङ्गायाः प्रवाहः प्राणे - प्राणे भवितुं शक्यते। प्रवाहस्य किं परीक्षा अस्ति। यदा गंगायाः प्रवाहः भविष्यति, तदा क्षुधायाः भीषणता विनङ्क्ष्यति। पुराणेषु सार्वत्रिक रूपेण कथनमस्ति यत् गङ्गायाः उद्भवं विष्णोः वामपादाङ्गुष्ठेनाभवत्। वनस्पतिषु जलस्य प्रवाहः तेषां मूलेभ्यः शिखरं प्रति, गुरुत्वाकर्षण शक्तेः विपरीतं दिश्यां भवति। एवमेव जंगमेषु प्राणिषु अपि जलस्य प्रवाहः गुरुत्वाकर्षणतः विपरीत दिश्यां भवितुं शक्यमस्ति। अयं प्रवाहः न कोपि साधारणः प्रवाहः अस्ति, अपितु बाह्यगङ्गाजलेन सदृशं शीतजनकं भवति। पादाङ्गुष्ठतः गङ्गायाः सरणं प्रत्येक जनस्य अपेक्षा अस्ति। न केवलं सरणं, अपि तु अस्य सरणस्य आरम्भकालमपि ब्रह्ममुहूर्तं भवेत्, अयं अपेक्षणीयः।

भारतवर्षे यस्य गङ्गा नद्याः आरम्भः गङ्गाद्वारतः भवति, तस्याः प्रवाहः साधारणरूपेण उत्तरतः दक्षिणायां दिशां प्रति अस्ति। किन्तु प्रयागे अयं प्रवाहः क्षणिकरूपेण पश्चिमाभिमुखी एवं वाराणस्यां उत्तरवाही भवति। अयं प्रयागे एवं वाराणस्यां स्थितायां गङ्गां विशिष्टतां प्रदाति। दक्षिणगङ्गा - उत्तरगङ्गानां किं आध्यात्मिकं रहस्यं अस्ति, अयं अन्वेषणीयः। कथनमस्ति यत् दक्षिणगङ्गायाः सम्बन्धं वसिष्ठ ऋषितः अस्ति, उत्तरवाहिनी गङ्गायाः विश्वामित्र ऋषितः। यदा गङ्गा समुद्रेण सह सङ्गमयति, तदा सा सप्त सप्तर्षिपत्नीनां रूपं धारयति।

मूर्तिकलासु गङ्गायाः लेखनम्[सम्पादयतु]

देहल्यां राष्ट्रीय संग्रहालये स्थितस्य एकस्य मूर्तेः चित्रम्।

सार्वत्रिक रूपेण, मूर्तिकलासु गङ्गायाः चित्रणे तस्याः प्रतिष्ठा मकरोपरि भवति। पुराणेषु मकरस्य कानि अर्थानि भवितुं शक्यन्ते, अयं अन्यत्र वर्तते। ओंकारस्य परिकल्पनं मुख्यतः त्रिवर्णेभिः अस्ति - अ, उ एवं म। चतुर्थी अर्धमात्रा अस्ति। अ - प्राणेन ब्रह्माण्डस्य ऊर्जायाः ग्रहणम्। उ - ऊर्जायाः संरक्षम्, ऊर्जायाः क्षरणतः रक्षणम्। म - यस्याः ऊर्जायाः संरक्षणं असफलं अभवत्, तस्याः पुनर्नवीनीकरणम्। पञ्चतन्त्रे कथनविशेषमस्ति यत् छन्दःशास्त्रस्य रचनाकारस्य पिङ्गलऋषेः मरणं मकरकारणेन अभवत्। अस्मिन् संदर्भे टिप्पणी अस्ति -

पंचतन्त्रे कथनमस्ति यत् छन्दःशास्त्रस्य रचनाकारं पिङ्गलं मकर नामक जलजन्तुः व्यापादितवान् ( पञ्चतन्त्रम् 2.35 )। अयं कथनं न केवलं स्थूलार्थस्य कथनमस्ति। ऊर्जायाः अव्यवस्थायाः निरोधस्य उपायं अस्ति यत् सर्वां ऊर्जां छन्दोभिः आबद्धं कुरु। तदा ऊर्जायाः अनुपयोगी भागः, यस्य संज्ञा ओंकारे मकारः भवति, न्यूनतमं भविष्यति। छन्दः शब्देन न केवलं गायत्री, त्रिष्टुप आदि छन्दानां बोधं भवति, अपितु सर्वेषां भक्तीनां अपि बोधं भवति। न कोपि क्रिया भक्तिरहितं भवेत्, तत् छन्दोबद्धता।

किं गङ्गा ओंकाराक्षरे चतुर्थी अर्धमात्रा, प्रकृत्याः विशिष्टरूपमस्ति, अयं अन्वेषणीयः।

गङ्गायाः प्रकृतस्थितिः[सम्पादयतु]

भारतदेशः प्रकृतिसम्पदा समृद्धः अस्ति । वयम् अत्र प्रकृतिं पञ्जमहाभूतानि इति कथयामः। ये अस्माकम् उपकारं कुर्वन्ति तेषां कृतज्ञता समर्पणम् अस्माकं कर्तव्यं भवति । तथैव जलं वायुः अग्निः इत्यादयः अस्मान् निरन्तरम् उपकुर्वन्ति अतः तान् देवत्वेन भावयन् नमस्काररूपेण वयं कार्तज्ञ्यं समर्पयामः । एतादृशस्य पुण्यजलस्य स्रोताः भारतीयाः पुण्यनद्यः । तासु महानदीषु अन्यतमा भागीरथी त्रिपथगा जाह्नवी इति कथ्यमाना नदी गङ्गा । प्राचीनकाल‌ात् अस्माकं देशे पवित्रभावनयापूज्यमाना एषा नदी इदानीं प्रदूषिता अस्ति । विष्णोः पादकमलात् उद्भूता गङ्गा शिवस्य शिखाद्वारा भूलोके पतित्वा प्रवहति इति भारतीयानां विश्वासः । अतः गङ्गास्नानेन पापनाशनं भवति इति भावनया प्रतिदिनं २०लक्षजनाः पुण्यस्नानं कुर्वन्ति । जनानां धार्मिकाध्यात्मिकेन विश्वासेन इयं अस्मिन् विश्वे एव पुण्यतमा इति ख्याता । एतादृशी नदी मानवानां दुराशायाः निर्लक्षस्य च कारणेन तन्नाम नगरीकरणेन नदीतीरे अत्यधिकयन्त्रागाराणां स्थापनेन च गङ्गायाः जलं मलिनं सञ्जातम् । एतस्य जलस्य पानेन स्नानेन वा मानवाः रोगबाधिताः भवन्ति एव । अस्मिन् जले कालरा डिसेण्ट्री इत्यादिरोगोत्पादकाः अंशाः सन्तीति भारतीयविज्ञानिनः धार्मिकनायकाः च मिलित्वा संशोध्य जनान् प्रबोधितवन्तः । पुनः च अस्मिन् जले अन्यनदीनाम् अपेक्षया अधिकः आम्लजनकः अस्ति यः मानवशरीरास्य अनुकूलकरः न । अनेन जलपानेन मानवः ज्वरबाधितः भवति इति । अतः मानवः गङ्गाजलं पुण्यभावनया आबहोः कालत् तीर्थम् इव किञ्चिदेव पिबन् जीवति । भारतीयसर्वकारेण गङ्गायाः पुनः शुद्धीकरणार्थं कोट्याधिकं धनं व्ययितम् । सा परियोजना इदानीमपि चलन्ती अस्ति । किन्तु यावत् वयम् आधुनिकाः नागरिकाः मानवाः जागरिताः न भवेम तावत् समस्या भवति एव । गङ्गनदीतीरप्रदेशे विद्यमानानां यन्त्रागाराणां स्वामिनः अशुद्धजलं शुद्धीकृत्य त्यजेयुः । सार्वजनिकाः व्यर्थवस्तूनि नद्यां न प्रक्षिपेयुः । नगरीकरणानाम् अथवा अन्यव्याजेन अरण्यनाशः न सहनीयः । एतेषां रक्षणार्थं प्रशासनेन नियमाः करणीयाः अनुष्ठाने च गभीरक्रमः पालनीयः भारतसर्वकारेण । एवं चेत् अस्माकं परमपावनी गङ्गा पुण्यनदी रूपेण तिष्ठेत् । तुङ्गतरङ्गे गङ्गे । वन्दे गङ्गामातरम् ।


बाह्यसम्पर्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गङ्गानदी&oldid=424546" इत्यस्माद् पुनः प्राप्तिः