सामग्री पर जाएँ

यमुनानदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Yamuna (यमुना)
River
Taj Mahal in Agra on the banks of Yamuna
Country India
States उत्तराञ्चलः, उत्तरप्रदेशः, हरियाणा
Tributaries
 - left Tons, Hindon, Sarda, Kunta, Gir, Rishiganga, Hanuman Ganga
 - right Chambal, Betwa, Ken, Sindh
Cities यमुनानगरम्, देहली, मथुरा, आग्रा, इटावा, काल्पी
Source यमुनोत्री
 - elevation फलकम्:Unit height
 - coordinates ३१°०१′०.१२″ उत्तरदिक् ७८°२७′०″ पूर्वदिक् / 31.0167000°उत्तरदिक् 78.45000°पूर्वदिक् / ३१.०१६७०००; ७८.४५०००
Mouth त्रिवेणी संगमम्
 - elevation फलकम्:Unit height
 - coordinates २५°३०′ उत्तरदिक् ८१°५३′ पूर्वदिक् / 25.500°उत्तरदिक् 81.883°पूर्वदिक् / २५.५००; ८१.८८३
Length १,३७६ km (८५५ mi)
Basin ३,६६,२२३ km2 (१,४१,३९९ sq mi)
Map

यमुना दक्षिणेशियामहाद्वीपे भारतदेशे एका नदी अस्‍ति। भानुजा, कालिन्दी, सूर्यपुत्री इति ज्ञाता हिमालये कलिन्दपर्वतात् उत्पद्यते।

यमुनोत्री-यमुनायाः उगमस्थानम्

सा एका पवित्रा नदी। यमुनानद्याः उगमस्थानम् उत्तराखण्डराज्यस्य उत्तरकाशीमण्डलस्य यमुनोत्री इत्यत्र उद्भवति । ततः १३७० कि.मी दूरं यावत् प्रवह्य उत्तरप्रदेशस्य इलहाबाद् प्रयागः इत्यत्र गङ्गानद्या मिलति । एषा नदी उत्तराखण्ड-हरियाणा-देहली-उत्तरप्रदेशराज्यानां मार्गेण प्रवहति । देहली मथुरा आग्रा इत्यादिप्रमुखनगराणि अस्याः तीरे सन्ति । यद्यपि एषा गङ्गानद्याः उपनदी इति कथ्यते ,तथापि एतस्याह् अपि अनेकाः उपनद्यः सन्ति । तासु प्रमुखाः चम्बल्, बेत्वा, तोन्स्, केन् च । एतासु तोन्स्नदी दीर्घा अस्ति । सा सूर्यपुत्री यमस्य स्वसा च।

प्राचीनः इतिहासः पुराणं च

[सम्पादयतु]
कूर्मवाहिनी यमुना

यमुना कूर्मवाहिनी अस्ति। पूर्वं कदाचित् यमुनानदी घग्गरनद्याः उपनदी आसीत् इति उल्लीखाः प्राप्ताः सन्ति । अग्रे कदाचित् उत्तरभारते जातानां भूस्तराणाम् चलनकारणतः एषा स्वस्य पात्रं परिवर्त्य गङ्गया मिलति । पुराणाम् आधारेण सा सूर्यस्य पुत्री यमस्य स्वसा च। विवस्वतः(सूर्यस्य) सञ्जनायाः च पुत्री । यमुनानद्या निर्मिते कल्किद्वीपे एव महाभारतस्य वेदव्यासस्य जन्म अभवत् । यमुनानद्याः अञ्जलिमात्रेन जलेन सोमयागः सम्पन्नः इति कथा श्रूयते । मथुरा-वृन्दावनयोः वहन्ती यमुना श्रीकृष्णस्य लीलानां साक्षीभूता तिष्ठति ।

विविधानि नामानि

[सम्पादयतु]

यमुनां जमुना इत्यपि आह्वयन्ति । प्रसिद्धः इतिहासकारः टालेमी एतां द् यामौन् इति आहूतवान् अस्ति । लीनी जोमान्स् इति, अरियन् जोबेर्स् इति च आहूतवन्तौ स्तः । देवप्रयागतः गङ्गायमुनयोः सङ्गमस्थानं प्रायागं यावत् विद्यमानः भूभागः अन्तर्वेदी, शासस्स्थली, ब्रह्मावर्तः इत्यादिभिः नामभिः प्रसिद्धः दृश्यते ।

इतरे विषयाः

[सम्पादयतु]

विश्वे अत्यन्तकलुषितनदीषु यमुना अन्यतमा । एतस्य मालिन्यस्य प्रमुखं कारणं देहलीनगरस्य त्याज्यवस्तूनि । यमुनायाः शुद्धीकरणार्थं कृताः अनेके प्रयत्नाः विफलाः सन्ति । सत्लज्-यमुना नद्योः योजनार्थं कश्चन नौकामार्गः निर्माणघट्टे अस्ति । यदा एतत् कार्यम् सम्पत्स्यते तदा भारतस्य पूर्वभागतः पश्चिमभागपर्यन्तं नौकायानसम्पर्कः शक्यः । कृष्यर्थं प्रथमा कुल्या १८३० तमे वर्षे निर्मिता ।सहारनपुर- मुझफ़रपुर- मेरठमण्डलानां कृते एषा पूर्वभागस्य कुल्या जलं कल्पयति । पश्चिमभागस्य कुल्या अम्बाला- कर्नाल- हिस्सार-देहलीप्रदेशानां कृषेः आधारभूता अस्ति । पूर्वम् एषा कुल्या १३५६ तमे वर्षे फ़िरोजशाह्-३ सुल्तानेन निर्मिता आसीत् । १५६८ तमे वर्षे अकबरः जीर्णोद्धारं कारितवान् । स्वस्य जन्मस्थानात् कलिन्दशिखरात् ८६०मैल् यावत् प्रवह्य गङ्गया मिलितवती एषा कलिन्दकन्या। अग्रे बाणगङ्गा - चम्बल्- बेत्वा नद्यः यमुनया मिलन्ति । यमुनायाः जलं कदाचित् मन्दनीलं पुनः कदाचित् कृष्णवर्णीयं भवति।


"https://sa.wikipedia.org/w/index.php?title=यमुनानदी&oldid=461531" इत्यस्माद् प्रतिप्राप्तम्