गोमतीनदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गोमतीनदी

ગોમતી નદી

Gomti River
गोमतीदर्शनम्
गोमती गोमयस्नानं गोदानं गोपिचन्दनम् ।
दर्शनं गोपिनाथस्य गकाराः प्रञ्च दुर्लभाः ।।
स्थितिः जुनागढमण्डलम्, गुजरातराज्यम्
लम्बमानम् १६ कि.मी.
मूलस्थानम् नानाभावडाग्रामः
तटस्थितं मुख्यमन्दिरम् द्वारकाधीशमन्दिरम्

गोमतीनदी ( /ˈɡmətnəd/) (गुजराती: ગોમતી નદી, आङ्ग्ल: Gomti River) गुजरातराज्यस्य पश्चिमप्रदेशे अर्थात् सौराष्ट्रे जुनागढमण्डले वहति । मानवजातेः पोषणं नदीभिः एव भवति । अतः वयं नदीं मातृरूपेण पूजयामहे । कदाचिदनेन कारणेनैवास्माकं महत्वपूर्णानि तीर्थस्थलानि नदीतीरे एव सन्ति । गोमतीनद्याः तीरेऽपि द्वारका -भलका-परशुरामतपस्थली-सङ्गमनारायणादयः तीर्थस्थलानि सन्ति ।

उद्गमस्थलम्[सम्पादयतु]

गोमतीनदी १६ कि.मी. लम्बमाना अस्ति । अस्याः उद्गमस्थानं कश्चन नानाभावडाग्रामसमीपेऽस्ति । अतः एतद् स्थलं मूलगोमती इत्यनेनापि प्रसिद्धमस्ति । 'मूल गोमता' इति अस्य नामान्तरमस्ति ।

पुराणेषु गोमत्याः उत्पत्तिः[सम्पादयतु]

एषा वसिष्ठपुत्री गोमतीनदी गङ्गानद्यः रूपमस्ति । सनकादिकमुनिनां आग्रहेण ब्रह्मा गङ्गाम् अवतरणाय आदेशं कृतवान् । अस्य वर्णनं स्कन्दपुराणे प्राप्यते -

या हि शीघ्रं सरिच्छेष्ठे पृथिव्यां हरिकारणात् ।
गां गता त्वं महाभागे ततो बहुमताऽसि मे ।।
उर्व्यां ते गोमती नाम सुप्रसिद्धं भविष्यति ।
वसिष्ठस्यानुगा भूत्वा या हि शीघ्रं धरातलम् ।
तातं पुत्रीवानुयाता वसिष्ठतनया भव ।।
स्कन्दपुराणम् (५.२२-२४)

अर्थात् हे गङ्गे ! भगवान् विष्णुः द्वारकाधीशरूपेण अवतरिष्यति । त्वमपि लोककल्याणार्थं भूलोकं गच्छ । तत्र त्वं गोमती नाम्ना ख्यातिं प्राप्स्यसि । तव मार्गदर्शकः वसिष्ठः अस्ति, अतः त्वं वसिष्ठपुत्रीरूपेण प्रसिद्धा भविष्यसि ।

गोमतीपूजा[सम्पादयतु]

यथा हरिद्वार-काशी-प्रयागादिस्थलेषु गङ्गायाः सायम् आरती भवति । तथैव गोमतीघाटे सायम् आरती भवति । आरत्याः व्यवस्थां गुग्गुलीज्ञातेः ब्राह्मणाः कुर्वन्ति । तेषां समितेः नाम 'गुग्गुली ज्ञाति ५०५ समस्त' अस्ति । अन्यच्च ५६ सौपानिकघाटे गोमतीमातुः सुन्दरं मन्दिरमस्ति । तत्रापि पुजाकार्यं भवति ।

स्नानमहत्वम्[सम्पादयतु]

गोमती-समुद्रसङ्गमे स्नानस्य अधिकमहत्वं वर्तते । अत्र स्नाने सति पितृतृप्तिः, पापशमनञ्च भवति । अस्योल्लेखः पुराणेषु प्राप्यते ।

धन्यास्ते मानुषे लोके, गोमत्युदधि वारिणा ।
तर्पयन्ति पितृन्देवान्गत्वा द्वारवतीं कलौ ।।
स्कन्दपुराणे द्वारकामहात्म्यम् (२३.८४)

गोमती सङ्गता यत्र सागरेण द्विजोत्तमाः ।
मुक्तिद्वारं तु तत्प्रोक्तं कलिकाले न संशयः ।।

सम्बद्धाः लेखाः[सम्पादयतु]

कृष्णः

द्वारका

द्वारकाद्वीपः

गङ्गा

बाह्यानुबन्धः[सम्पादयतु]

http://sultanpur.nic.in/gom1.htm

http://www.britannica.com/EBchecked/topic/238160/Gomati-River



"https://sa.wikipedia.org/w/index.php?title=गोमतीनदी&oldid=318051" इत्यस्माद् प्रतिप्राप्तम्