ब्राह्मणः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
यज्ञवेदी
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

ब्राह्मणः ( (/ˈbrɑːhmənəhə/)) (हिन्दी: ब्राह्मिन्, आङ्ग्ल: Brahmins) इति पदस्य च मूलम् 'ब्रह्मन्’ इति । 'ब्रह्मन्' मूलशब्देन व्यत्पन्नस्य 'ब्राह्मिन्' इत्यस्य पदस्य संस्कृतभाषायाः ब्राह्मणः शब्दः व्यत्पन्नः । तस्य पदस्य अर्थः श्रेष्ठः आत्मा इति । ब्राह्मणं विप्रः = प्रेरितः अथवा द्विजः = द्विवारं जातः इत्यपि कथयन्ति । ब्राह्मणाः वैदिकं कर्म कुर्वन्ति । ब्राह्मणः इत्युक्ते न केवलम् अर्चकः किन्तु संस्कारजीवी अपि । वेदयुगात् उत्तरे काले ब्रह्मणाः विविधाः वृत्तीः अवलम्ब्य अपि जीवनं निर्वहन्ति स्म । तत्र प्रधानतया वैद्यः योधः लेखकः, कविः, भूस्वामी, मन्त्री च भवन्ति स्म । भारतस्य केषुचित् स्थानेषु ब्राह्मणाः राजानः अपि आसन् ।

अग्निकार्ये ब्राह्मणबालः

वेदकालात् राजानः ब्राह्मणैः सह निकटं सम्बन्धम् अस्थापयन् । नृपाः एतेषां मार्गदर्शनानुगुणं प्रशासनं कुर्वन्ति स्म । भारतदेशे ब्राह्मणाः प्रबलाः प्रभावशालिनः च आसन् । केचन एव नीचजातीयेषु पक्षपातं प्रदर्शयन्ति स्म । किन्तु आधुनिके भारते ब्राह्मणाः तद्विरुद्धे तारतम्ये पतिताः इति वदन्ति । ब्राह्मणानां परम्परायाः मूलं मध्यजम्बूद्वीपस्य पुरातनजनजीवनपर्यन्तम् अन्विष्टं दृश्यते ।

इतिहासः[सम्पादयतु]

भारते ब्राह्मणवर्गस्य इतिहासः तु हिन्दुत्वस्य आरम्भस्तरस्य वैदिकधर्मकालात् आरब्धः इति वक्तुं शक्यते । इदानीन्तने काले हैन्दवः सनातनधर्मः इत्येव कथयन्ति । वेदाः एव ब्राह्मणानाम् आचारस्य मूलस्रोतः अस्ति । प्रायः सर्वे ब्राह्मणसम्प्रदायाः वेदैः एव प्रेरिताः सन्ति । हैन्दवसम्प्रदायानुगुणं वेदः अपौरुषेयः (पुरुषकृतः न) अनादिः (आरम्भः एव नास्ति) च । किन्तु एते वेदाः सार्वत्रिकसार्वकालिकं सत्यं प्रदर्शयन्ति । श्रुतौ चत्वारः वेदाः (ऋक्,सामः, यजुः, अथर्वः) तत्सम्बद्धेषु ब्राह्मणेषु संहितासु, आरण्यकेषु उपनिषत्सु च अन्तर्गच्छन्ति । ब्रह्मन् ब्राह्मिन् (उभावपि पुल्लिङ्गशब्दौ) समानशब्दौ न । ब्रह्मन् शब्दः पुँल्लिङ्गे स्वीकृतः चेत् ब्राह्मणः इत्येव अर्थं जनयति । ब्रह्मन् नपुंसकलिङ्गम् इति परिगणितं चेत् परमात्मा इति अर्थं ददाति । किन्तु ब्राह्मिन्/ब्राह्मणः इति पदं काञ्चन व्यक्तिं सूचयति । क्रि.श. १९३१तमे वर्षे भारतदेशे जात्याधारिता जनगणना अभवत् । तदनुगुणं ब्राह्मणानां जनसङ्ख्या ४.३२% आसीत् । उत्तरप्रदेशराज्ये यत्र ब्राह्मणसङ्ख्य़ा अधिका तत्रापि १२% एव आसीत् ।

ब्राह्मणानां सङ्ख्या[सम्पादयतु]

आन्ध्रप्रदेशराज्ये ब्राह्मणानां सङ्ख्या ६%
तमिळुनाडुराज्ये ३%
कर्णाटकराज्ये २% तः अपि न्यूना आसीत् ।
केरलराज्ये नम्बूदरिब्राह्मणानां सङ्ख्या ०.७% आसीत् ।

जात्याधारिता जनगणनां पुनः यदा क्रि.श. २००१तमे वर्षे प्रवृत्तां तदा भारतदेशे ब्राह्मणजसङ्ख्या ४.१% पर्यन्तम् आगता । सारस्वतब्राह्मणाः देशे १%तः अपि न्यूनाः आसन् ।

ब्राह्मणविभागाः[सम्पादयतु]

ब्राह्मणजातिं स्थूलरूपेण द्वेधा विभक्तुं शक्नुमः। विन्ध्यपर्वतात् उत्तरे भागे विद्यमानाः पञ्चगौडब्राह्मणाः, विन्ध्यपर्वतात् दक्षिणे भागे विद्यमानाः पञ्चद्राविडब्राह्मणाः इति प्रान्तीयसमूहद्वयं व्यवस्थितम् । एतं विषयं दृढयति क्रि.श. ११तमे वर्षे लिखितस्य कल्हण्स्य राजतरङ्गिणीग्रन्थस्य श्लोकः यथा..

कर्णाटकाश्च तैलङ्गा द्राविडा महाराष्ट्रिकाः ।

गुर्जराश्चेति पञ्चैव द्राविडा विन्ध्यदक्षिणे ।

सारस्वताः कान्यकुब्जाः गौडा उत्कलमैथिलाः ।

पञ्चगौडा इति ख्याता विन्ध्यस्योत्तरवासिनः ॥

पञ्चगौडब्राह्मणाः –

उत्तरभारतस्य ब्राह्मणानां प्रभेदाः एवं सन्ति –

१) सारस्वताः
२) कान्यकुब्जाः
३) मैथिलाः
४)गौडाः
५) उत्कलाः च इति ।

एते सर्वे काश्मीरः, नेपालः, उत्तराखण्डः, हिमाचलः, कुरुक्षेत्रं, रजपुतानम्, उत्तरप्रदेशः, अयोध्या, गान्धारः, पञ्जाबः, ऐशान्यप्रान्ताः, पाकिस्थानं, सिन्धः, मध्यभारतं, तिर्हटः, बिहार, ओरिस्सा, बङ्गालः, अस्साम्, इत्यादिषु राज्येषु विकीर्णाः सन्ति ।

बिहारम्-बिहारराज्ये कान्यकुब्जब्राह्मणाः, भूमिहारब्राह्मणाः मैथिलब्राह्मणाः शक्द्वीपीब्राह्मणाः अधिकाः सन्ति । मोघल् साम्राज्यस्य पतनस्य अनन्तरम् अवधमण्डलस्य दक्षिणदिशि, वाराणसी, गोरखपुरं, देवरिया, गाझीपुरं, बलिया इत्यादिषु प्रदेशेषु विद्यमानेषु नदीजलेन समृद्धक्षेत्रेषु भूमिहारब्राह्मणाः शालिधान्यानां कृषिकर्म कुर्वन्ति स्म । भूमिहारब्राह्मणाः सेनायाम् अपि कार्यं कुर्वन्ति स्म । १९तमे शतके भूमिहारजनाः भूस्वामिनः कृषकाः वा आसन् । क्रि.श. १८४२ तमे काले बङ्गालस्य सेनायां विद्यमानेषु ६७००० हैन्दवसैनिकेषु २८०००रजपुताः (राजपुत्राः) २५००० योधाः ब्राह्माणाः आसन् । १९तमशतकस्य अन्ते मङ्गलपाण्डे नायकत्वेन प्रचालिते स्वातन्त्र्यसङ्ग्रामे भूमिहारब्राह्मणाः प्रधानं भूमिकाम् अवहन् । काशीरज्यम् अपि भूमिहारब्राह्मणानां प्रदेशः आसीत् ।

महाराष्ट्रम् - महाराष्ट्रराज्ये पञ्चद्राविडब्राह्मणाः पञ्चगणेषु विभक्ताः । यथा चित्पावनकोङ्कणस्थाः, गौडसारस्वताः, देशस्थाः, कर्हाडाः, देव्रुखाः इति । कोङ्कणब्रह्मणाः कोङ्कणप्रदेशात् नाम पश्चिमतीरप्रदेशात् आगताः। गौडसारस्वताः कर्णाटकमूलाः अथवा गोवामूलाः भवन्ति । देशस्थब्राह्मणाः महाराष्ट्रस्य प्रस्थभूमिप्रदेशीयाः। कर्हाडब्राह्मणाः प्रायशः कर्णाटकीयाः इति अभिप्रायः अस्ति । देव्रुखब्राह्मणाः रत्नगिरिप्रदेशस्य देव्रुखमूलाः,बाग्डब्राह्मणाः मागा ब्राह्मणानां गोत्रिणः इति स्वयं वदन्तः दैव्युपासकाः भारतस्य पश्चिमतीरप्रदेशे दृश्यन्ते ।

गुजरात – गुजरातराज्ये ब्राह्मणानां मुख्यभेदाः इत्युक्ते नागराः, अनाविलाः, खेदावलाः, अवधिकाः, दधीचयः, वराद्राः, श्रीमालिनः, (बगाडाः) त्रिवेदिमेवाडाः, भट्टमेवाडाः, राजगुरवः, तपोधनाः ब्राह्मणाः । सुशिक्षिताः तपोधनब्राह्मणाः गुजरातमहाराष्ट्रराज्ययोः यन्त्रवाणिज्योद्यमानां स्वामिनः सन्ति । सामाजिकस्तरानुगुणम् एते नीचस्तरीयाः श्रमः एव धनम् इति विचिन्त्य परिश्रमेण धनम् अर्जयन्ति ।

हरियाणा – हरियाणाराज्ये दधीचाः, आदिगौराः, खण्डेलवालाः, प्रमुखाः ब्राह्मणभेदाः । किन्तु अत्र अधिकसङ्खाकाः आसिगौरब्राह्मणाः एव । मध्यप्रदेशः - मध्यप्रदेशराज्ये विद्यमानान् ब्राह्मणान् नग्दाहाग्निहोत्रिणः ब्राह्मणाः इति कथयन्ति । मालवप्रान्तस्य इन्दोरः उज्जयिनी, दिवासः, भूपालः, भूपालरट्लम्, मध्यप्रदेशः इत्यादिषु प्रदेशेषु एते ब्राह्मणाः भावन्ति । अपि च श्रीगौडाः, सधन्याः, गुज्जरगौडाः, अत्र दृश्यन्ते । श्रीगौडब्राह्मणाः बहुसङ्ख्याकाः मालवप्रदेशे, इन्दोरपत्तने, उज्जयिनीनगरे, दिवस्पुरे च दृश्यन्ते । पूर्वमध्यप्रदेशे सरयूपरायणब्राह्मणाः अधिकाः वसन्ति । मध्यप्रदेशस्य होशङ्गाबादे, हर्दामण्डले च गणनीयप्रमाणेन भूमिहारब्राह्मणवर्गस्य जुझोतियाब्राह्मणाः अधिकाः सन्ति । खर्गोनेविप्राः सनध्यब्राह्मणाः सर्वप्रियाः इति ख्यातिं प्राप्नुवन् । अत्र सोमनाथदेवालयस्य पूजां कुर्वाणाः नर्मदेवब्राह्मणाः गुजराततः आगताः । नर्मदेव इत्युक्ते नर्मदानदीतीरे वासं कुर्वाणाः ब्राह्मणाः इति अर्थः । श्रीशङ्करभगवत्पादस्य गुरुः गोविन्दाचार्यः अपि अस्य वर्गस्य विप्रः इति वदन्ति । गुरुगोविन्दाचार्यः नर्मदाताटे ओङ्कारेश्वरे श्रीशङ्कराय दीक्षाम् अयच्छत् इति प्रतीतिः अस्ति । मध्यप्रदेशस्य निमार्, भुवन इत्यादिषु प्रदेशेषु नर्मब्राह्मणाः अधिकसङ्ख्यया सन्ति ।

नेपालम् - नेपाळराज्ये बेट्टद/खासा ब्राह्मणाः एवं विभक्ताः.. उपाध्यायब्राह्मणाः, जैसिब्राह्मणाः, कुमायिन्ब्राह्मणाः, इति । अस्मिन् राज्ये नेवारि भाषया भाषमाणाः उपाध्यायब्राह्मणाः प्राचीनतमाः ब्राह्मणा इति कथयन्ति ।

पञ्जाब्-पञ्जाबराज्ये सारस्वतब्राह्मणाः एव सन्ति ।

कर्णाटकम् – कर्णाटकराज्ये ब्राह्मणाः प्रधानतया कन्नडं वा तुळुं वा भाषमाणाः माध्वाः, स्मार्ताः, इति द्विधा विभक्ताः । स्मार्ताः पुनः विभक्ताः हविगन्नडभाषिणः हव्यकाः, कन्नडं भाषमाणाः होय्सळकर्णाटकीयाः, कोटाः, तुळुभाषिकाः शिवळ्ळिजनाः, स्थानिकाः, कन्नडभाषिणः काण्वशाखीयाः, मराठीभाषिकाः कर्हाडाः च इति । सर्वेऽपि स्वीये स्वीये सम्प्रदाये आचरणे च सन्तुष्टाः सन्ति । अन्यः ब्राह्मणसमुदायः इत्युक्ते हेब्बार श्रीवैष्णवाः, तमिळुमराठीमिश्रभाषायाः साङ्केतिनः च सन्ति । पूर्वम् एते तुमकूरुमण्डलमूलनिवासिनः इति वदन्ति ।

राजस्थानम् - राजस्थानराज्ये ब्राह्मणवर्गाः एवं विभक्ताः । राजपुरोहिताः, श्रीमलनः, नगदाग्निहोत्रिणः, बाग्डाः, दधीचाः, सारस्वताः, परीखगौराः, सनध्याः, पुरोहिताः, श्रीगौराः, खण्डेलवालाः, गुर्जरगौराः, पुष्कर्णाः, गार्गाः, गारवः, गुरवः, च इति । राजपुरोहितब्राह्मणाः अधिकाः मार्वारमण्डले, गोड्वाडमन्डले च दृश्यन्ते । एते पूर्वं महाराजानाम् आस्थानेषु राजगुरवः आसन् । शक्द्वीपीयब्राह्मणाः पश्चिमराजस्थानप्रदेशे प्रधानार्चकाः भवन्ति ।

सिन्ध - सिन्धप्रदेशे नर्सर्पुर् सुक्कर् प्रान्तयोः ब्राह्मणान् 'नर्सपुरि सुक्कुरिसिन्ध् सारस्वतब्राह्मणाः' इति कथयन्ति । एते भारतदेशस्य विभाजनकाले पाकिस्थानतः भारतम् आगताः इति वदन्ति ।

काश्मीरः - काश्मीरे हिमाचलप्रदेशे च भारद्वाजडोग्राब्राह्मणाः सन्ति । ते हिमालयस्य भारतीयपर्यायद्वीपात् आगताः इति वदन्ति ।

उत्तरप्रदेशः – उत्तरप्रदेशराज्ये पश्चिमतः पूर्वस्यां दिशि सनध्याः, गौडाः, त्यागिनः, मध्यभागे कान्यकुब्जाः, ऐशान्याग्नेयभागयोः सरयूपरिणाः, वाराणस्याः आग्रायाः प्रदेशेषु मैथिलाः, पश्चिमे सूर्यध्वजाः, वायव्यभागे जुझोतियाब्राह्मणाः सन्ति । (आकरः – इतिहासः किंवदन्त्योः मध्ये, लेखकः रवीन्द्र के.जैनः)

बङ्गालः – बङ्गालराज्यस्य पश्चिमभागे ब्राह्मणाः बरेन्द्राः रार्ही इति द्विधा विभक्ताः । उत्तरबङ्गालस्य बरेन्द्रभूमिः इति नाम । तस्य मूलनिवासिनः बरेन्द्राः ब्राह्मणाः । दक्षिणबङ्गालस्य रार्हदेशः इति नाम आसीत् । तस्य मूलनिवासिनः रार्ही ब्राह्मणाः । बरेन्द्रब्राह्मणाः अर्चकाः नासन् किन्तु ते वैद्यशास्त्रम् अधीत्य शस्त्रक्रियाः कुर्वन्ति स्म । बरेन्द्राः ब्राह्मणाः रार्हीब्राह्मणैः सह नीचदृष्ट्या व्यावहरन् ।

बङ्गालीब्राह्मणानां साम्प्रदायिकविचारान् १७ तमशतके लिखिते कुलदीपिका इति ग्रन्थे पश्यामः । यज्ञयागादीन् कर्तुम् अत्र वैदिकाः न आसन् । क्रि.श. १०७७तमे काले यज्ञं कर्तुकामः आदिशूरः इति राजा कान्यकुब्जतः पञ्चब्राह्मणान् आनीतवान् इति ग्रन्थे उल्लिखितम् । किन्तु आदिशूरः बल्लाळासेनस्य मातुः पूर्वजः आसीत्। सः बङ्गालं मिथिलां च शास्ति स्म । मिथिलायां तु वेदकालात् एव ब्राह्मणानां बाहुल्यम् अस्ति एव । श्यामलवर्मा इति राजा कान्यकुब्जात् पञ्चविप्रान् आनीतवान् इत्यपि अपरं संशोधनं स्पष्टयति । ओरिस्सातः आगताः उत्कलब्राह्मणाः अपि अत्र वसन्ति । पश्चिमभारतात् उत्तरभारतात् च आगताः अन्यब्राह्माणाः अपि बङ्गालप्रान्ते वसन्ति । महाभारतस्य युद्धस्य अनन्तरं जनमेजयः सर्पयागं बङ्गालस्य गौर् ब्राह्मणद्वारा एव कारितवान् इति वदन्ति ।

आन्ध्रप्रदेशः - अस्मिन् राज्ये ब्राह्मणाः वैदिकाः नियोगिनः चेति द्विधा विभक्ताः । वैदिकाः इत्युक्ते वेदविदः पूजादिधार्मिकविधिम् आचरन्तः । नियोगिनः नाम सांसारिकं नित्यविधिम् आचरन्तः ।

तमिळ्नाडु - अस्मिन् राज्ये ऐय्यङ्गार् ऐय्यर् चेति ब्राह्मणेषु वर्गद्वयम् अस्ति । अय्यङ्गार्याः वैष्णवब्राह्मणाः सन्ति । तेषु वडकळै तेङ्गळै इति पुनः वर्गद्वयम् अस्ति । एते रामानुजाचार्यस्य अनुयायिनः सन्ति । ऐय्यर् ब्राह्मणेषु स्मार्ताः शैवाः च सन्ति । एतेषु वडमः, वतिमः, बृहच्चरणम्, अष्टसहस्रं, शोलियार्, गुरुक्कल् इति ब्राह्मणानाम् उपभेदाः भवन्ति । सामान्यतः एते सर्वे ब्राह्मणाः शाङ्करमतस्य अनुयायिनः भवन्ति ।

केरलम् - केरलरज्ये ब्राह्मणाः स्थूलतया चतुर्धा विभक्ताः सन्ति । नम्बूदरीब्राह्मणाः, पोट्टीब्राह्मणाः, एझावतीब्राह्मणाः, पुष्पकब्राह्मणाः इति भेदाः । प्रधानपूजादिकार्याणि नम्बूदरिविप्राः कारयन्ति । कझकम् इत्यादीनि देवालयसम्बद्धकार्याणि पुष्पकब्राह्मणाः कुर्वन्ति । आदिशङ्कराचार्यः अपि नम्बूदरिब्रह्मणकुलसञ्जातः एव । पोट्टिपुष्पकब्राह्मणाः अपि शाङ्करमतम् एव अनुसरन्ति । तमिळुनाडुतः आगत्य केरले निवसितवतः विप्रान् पट्टार् इति कथयन्ति । एझावतिविप्राः सजचेरवंशजाः कैरलिविप्राः सन्ति ।

बर्मा(ब्रह्मदेशः) – पोन्न बर्मीभाषया ऐतिहासिकप्रसिद्धं पदं तत्रत्यान् ब्राह्मणान् द्योतयति । बर्माब्राह्मणेषु सामान्यतः चत्वारः भेदाः सन्ति । मणिपुरब्राह्मणाः, अरकानिस्ब्राह्मणाः, सगायिङ्ग्ब्राह्मणाः, भारतीयब्राह्मणाः इति । एतेषु सगायिङ्ग् ब्राह्मणाः स्थलीयाः अतिप्राचीनाः मूलनिवासिनः । भारतीयब्राह्मणाः ब्रिटिश् अधिकारिभिः सह आगताः विप्राः । अरकानीस् ब्राह्मणाः कोन्भाङ्ग् राज्ञः आक्रमणकाले तेन सह बर्मादेशम् आगताः विप्राः भवन्ति । मणिपुरब्राह्मणाः क्रि.श.१७००तमे काले मणिपुरतः प्रेषिताः विप्राः । अत्र ब्राह्मणाः नवतन्तुयुक्तं यज्ञोपववीतं धरन्ति । नवदेवतानां पूजाविधिम् आचरन्ति । नवदेवताभिः बुद्धं अर्हन्तारं च अर्चयन्ति ।

गोत्राः प्रवराः च[सम्पादयतु]

गोत्रं तु पुरुषस्य तद्वंश्यादिमं पुरुषं द्योतयति । पाणिनिः स्वीये व्याकरणे 'अपत्यं पौत्रप्रभृति गोत्रम्' इतिसूत्रेण 'गोत्रं' नाम कस्यचित् ऋषेः पुत्रात् आरब्धम् इति अर्थः इति विवृणोति । कश्चित् काश्यपगोत्री इति वदति चेत् तस्य पूर्वजानां सन्ततिः कश्यपमुनेः आरब्धा इत्यर्थः । बौधायनस्य श्रौतसूत्रानुसारं विश्वामित्रः, जमदग्निः, भरद्वाजः, गौतमः, अत्रिः, वसिष्ठः, कश्यपः, अगस्त्यः च अष्ट गोत्रप्रवर्तकाः ऋषयः सन्ति । अतः विश्वामित्रगोत्रिणः, जमदग्निगोत्रिणः, भरद्वाजगोत्रिणः, गौतमगोत्रिणः, अत्रिगोत्रिणः, वसिष्ठगोत्रिणः, कश्यपगोत्रिणः, अगस्त्यगोत्रिणः जनाः लोके सन्ति । एतान् अतिरिच्य ये भवन्ति तान् 'गोत्रावयवः' इति कथयन्ति ।

गोत्राणि चतुर्धा विभक्तानि दृश्यन्ते । आश्वलायनस्य श्रौतसूत्रानुसारं वसिष्ठगोत्रगणे एव चत्वारः उपविभागाः सन्ति । यथा.. उपमन्युः, पराशरः, कुण्डिनः, वसिष्ठः इति । एतेषां चतुर्णाम् अपि पुनः उपविभागाः सन्ति । प्रत्येकम् अपि 'गोत्रम्' इति पदेन एव व्यवहारः भवति । अतः गोत्रप्रवरेषु आदौ गणस्य नाम तदनन्तरं पक्षः अनन्तरं वैयक्तिगगोत्रस्य नाम उच्यते । बौधायनानाम् अनुगुणं प्रधानानि अष्टगोत्राणि पक्षरूपेण विभक्तानि । उपमन्योः गोत्रप्रवरः वसिष्ठः, भारद्वसुः,इन्द्रप्रमादः इति, पराशरगोत्रप्रवरः वासिष्ठः, शाक्त्यः, पाराशर्यः इति कौण्डिन्यगोत्रप्रवरः वासिष्ठः, मैत्रावरुणः, कौण्डिन्यः, इति भवन्ति । एतत् त्रयम् अतिरिच्य वासिष्ठगोत्रप्रवरः केवलं वासिष्ठः भवति । अतः एव केचन वदन्ति यत् 'प्रवरः' तु ऋषीनां समूहः, एकस्य गोत्रस्य प्रवर्तकम् अन्यात् पृथक् प्रदर्शनम् एव इति ।

प्रवरेषु द्वैविध्यम् अस्ति । शिष्यप्रशिष्य-ऋषिपरम्पपरा, पुत्रप्रम्परा चेति । गोत्रप्रवराः एकार्षेयाः, द्व्यार्षेयाः, त्रयार्षेयाः, पञ्चार्षेयाः, सप्तार्षेयाः च इति १९पर्यन्तम् अपि सन्ति । आन्ध्रप्रदेशे काश्यपगोत्रस्य दौ विषिष्टप्रवरौ स्तः । एकः प्रवरः त्रयार्षेयः अपरः सप्तार्षेयः च । एषः शिष्यप्रशिष्यऋषिपरम्परायाः अथवा पुत्रपरम्परायाः प्रवरः भवति ।

ऋषयः प्रवर्गाः च[सम्पादयतु]

धार्मिककर्माधारेण, सांस्कृत्याधारेण, सम्प्रदायाधारेण, वेदशालायाम् अध्ययनाधारेण च ब्रह्मणाः उपजातिषु विभक्ताः । वेदाध्ययनस्य आधारेण वेदानां विद्यार्थिनां ज्ञानेन च ब्राह्मणाः विभिन्नासु शाखासु पुनः विभक्ताः । ब्राह्मणानां प्रसिद्धगुरुसन्निधौ वेदानां प्रत्येकं शाखायाः विभिन्नलक्षणयुताः विविधाः विभागाः रचिताः। ब्राह्मणेभ्यः सूत्रप्रदायकाः अङ्गीरसः, आपस्तम्बः, अत्रिः. भृगुः, बृहस्पतिः. बौधायनः, दक्षः, गौतमः, हारीतः, कात्यायनः, लिखितः, मनुः,पराशरः, संवर्तः, शङ्खः, शततपः, उषानसः, वसिष्ठः, विष्णुः, व्यासः, याज्ञवल्क्यः, यमः च इति २१ऋषयः स्मृतीनां प्रतिपादकाः सन्ति । स्मृतिषु अतिप्राचीनम् आपस्तम्बसूत्रं बौधायनसूत्रं, गौतमसूत्रं, वासिष्ठसूत्रं च भवन्ति ।

ब्राह्मणसन्तानानि[सम्पादयतु]

बहवः भारतीयाः भारतीयेतराः च 'वयं ब्राह्मणाब्राह्मणवंशयोः वेदकालस्य ऋषीणाम् अत्यानि' इति वदन्ति । डाष्, नागाजनाः तु 'वयं काश्यपमुनेः वंशाजाः' इति कथयन्ति । विश्वकर्मजनाः 'ब्रह्मर्षीणां वंशाजाः' इति कथयन्ति । दक्षिणभारतीयाः कानि इति काननवासिनः 'वयं अगस्त्यवंशजाः' इति वदन्ति । गोन्धलि, कनेट्, बोत्, लोहार्, दागि, हेसिस् जनाः 'वयम् रेणुकादेव्याः वंशजाः' इति मन्यन्ते । काशी कापाडि शूद्राः 'वयं शुक्रदेवस्य कुलोत्पन्नाः' इति विश्वसन्ति । ददीच्, दयामा, जाट् च ब्राह्मणाः 'दधीचिमहर्षिवंशजाः' इति वदन्ति ।

अन्यकार्यब्राह्मणाः[सम्पादयतु]

ब्राह्मणाः न केवलं वैदिककार्याणि किन्तु अन्यत् कर्म अपि कुर्वन्ति स्म । पण्डिताः, यतयः, योधाः, उद्यमिनः अपि भवन्ति स्म इति कल्हणस्य राजतरङ्गिण्याम् उल्लिखितम् । येषां क्षत्रियाणां गुणाः भवन्ति तान् ब्रह्मक्षत्रियाः इति कथयन्ति । हेहयानाम् उपरि २१वारम् आक्रमणं कृतवान् परशुरामः ब्रह्मक्षत्रियः इति ख्यातः । ऋषिः परशुरामः युद्धकलां सम्यक् जानाति स्म । सः शस्त्रास्त्राणि विना युद्धं कर्तुं समर्थः आसीत् । अपि च तत् कौशलं अन्यान् अपि शिक्षयति स्म । परशुरामः यदा क्षत्रियान् नाशितवान् तदा तत्रैव भूमिहारब्राह्मणाः परशुरामेण आनीताः । कालान्तरे ते अर्चकवृत्तिं त्यक्त्वा कृषकाः वैद्याः च अभवन् । बैद्यः इति बङ्गालभाषया कथ्यमानाः गुप्ताः, दासगुप्ताः, सेनगुप्ताः अयुर्वेदस्य 'धन्वन्तरी देवस्य वंशजाः' एव ।

रजपूतानां राककुलेषु 'राजपुरोहिताः' इति ब्राह्मणाः आसन् । किन्तु ते राजकुमारेभ्यः युद्धविद्यां बोधयन्ति स्म । ते राज्ञः वंशावलेः इतिहासस्य च रक्षकाः च आसन् । यदि राजा अकालमृत्युं प्राप्नोति, तर्हि उत्तराधिकारिणः राजकुमारस्य तु बाल्ये सत्त्वात् राज्यरक्षणस्य दायित्वमपि एते ब्राह्मणाः स्वीकुर्वन्ति । ब्राह्मणानां क्षत्रियाणां च गुणान् प्राप्तवन्तः ते ब्रह्मक्षत्रियाः इति भवन्ति । पलवब्राह्मणाः वयं ब्रह्मक्षत्रियाः इति स्वयं कथयन्ति स्म । ब्राह्मणः ललितादित्यमुक्तपादः काश्मीरस्य राजा अभवत् । क्रि.श.६५७तमे वर्षे चम्पा(वियेट्नाम्)प्रदेशस्य राजा रुद्रवर्मा ब्राह्मणः एव । क्रि.श.७८१तमे वर्षे काम्बोजप्रशासकः राजा जयवर्मा कश्चित् ब्रह्मक्षत्रियः । वैश्यस्य अथवा वणिजः गुणयुक्तान् विप्रान् 'ब्रह्मवैश्यः' इति कथयन्ति स्म । बङ्गालराज्ये दक्षिणभारतस्य केषुचिद् राज्येषु वसन्तः अम्बस्थब्राह्मणाः ब्रह्मवैश्याः आसन् । ते आयुर्वेदम् अधीत्य वैद्यवृत्तिं कुर्वन्ति स्म ।

ब्राह्मणानाम् आचरणपद्धतिः[सम्पादयतु]

ब्राह्मणाः वैदिकाः अर्चकाः पुरोहिताः भूत्वा ब्राह्मण्यस्य सनातनधर्मस्य च रक्षणाय बद्धकङ्कणाः भवन्ति । वेदाध्ययनम्, अध्यापनं, मूर्तिपूजा, दानं, प्रतिग्रहः चेति ब्राह्मणानाम् अनिवार्याणि कर्तव्यानि भवन्ति । अन्यान् पूजार्थं प्रेरणं, तद्वारा प्राप्तदानेन जीवननिर्वहणं च तेषां कर्तव्यम् एव भवति । मनुस्मृतेः एषः श्लोकः कञ्चित् भिन्नं विषयं समर्थयति ।

अध्यापनमध्ययनं चैव यजनं याजनं तथा ।

दानं प्रतिग्रहश्चैव षट्कर्माण्यग्रजन्मनः ।।

छात्राणां बोधनं, स्वाध्यायः, यज्ञस्य ऋत्विक्त्वं, स्वयं यज्ञनिर्वहणं, दानस्वीकरणं, दानं च ब्राह्मणानां कर्तव्यानि इति ।

सर्वेजनाः सुखिनो भवन्तु, वसुधैव कुटुम्बकम् इत्यादिषु उक्तिषु विश्वस्मिन् जीवन्तः नैके ब्राह्मणाः समाजोत्थानस्य कार्याणि कृतवन्तः, कुर्वन्तश्च सन्ति । बहुशः ब्राह्मणाः शकाहारिणः एव । केवलं काश्मीरे, हिमाचलप्रदेशे, बङ्गाले च केचन ब्राह्मणाः मत्स्यभक्षिणः सन्ति । किन्तु कुत्रापि ब्राह्मणः गोमांसं न खादन्ति ।

सम्प्रदायाः[सम्पादयतु]

ब्राह्मणेषु त्रिविधाः सम्प्रदायाः(समाचरणभेदाः) सन्ति । विशेषतः दक्षिणभारते स्मार्तसम्प्रदायः, श्रीवैष्णवसम्प्रदायः, मध्वसम्प्रदायः च ।

वैष्णवमतम् – श्रीवैष्णवसम्प्रदायः माध्वसम्प्रदायः च विष्णूपासनायाः मुखद्वयम् एव । एतस्य प्रभावेण रामानन्द्रसम्प्रदायः, रामदासीसम्प्रदायः चेति वैष्णसम्प्रदायः पुनः द्विधा विभक्तः । श्रीवैष्णवसम्प्रदायस्य प्रवर्तकः श्री रामानुजाचार्यः, माध्वसम्प्रदायस्य प्रवर्तकः श्री मध्वाचार्यः । श्री वल्लभाचार्येण प्रवर्तितः पुष्टिमार्गसम्प्रदायः अपि अनेन प्रभावितः एव ।

वैष्णवपथे एव सुप्रसिद्धः श्रीचैतन्यमहाप्रभुणा प्रतिष्ठापितःः बङ्गालस्य गौडीयवैष्णवसम्प्रदायः । अन्ताराष्ट्रियकृष्णप्रज्ञासङ्घसम्प्रदायः (Iskcon) अपि गौडीयवैष्णपथस्य प्रभावेन एव समुत्पन्नः ।

श्रीकृष्णं विठ्ठल इति पूजयन् वार्करि इति सम्प्रदायः अपि अत्र अस्ति । वार्करि इति पदस्यार्थः प्रवासी इति । अस्य सम्प्रदायस्य जनाः स्वपत्तनात् ग्रामात् च पादाभ्यां चलन्तः पण्ढरपुरं गत्वा विठ्ठलस्य दर्शनं कुर्वन्ति । अतः तीर्थयात्रां कुर्वाणं 'वार्करि' इति कथयन्ति ।

द्वादशे शतके चक्रधरस्वामी इति ख्यातेन राज्ञा चक्रधरेण 'महानुभवः' इति सम्प्रदायः आरब्धः । एते सम्प्रदायस्थाः श्रीकृष्णं, श्री दत्तात्रेयं, श्रीचक्रपाणिं, श्रीगोविन्दप्रभुं, श्रीचक्रधरम् इति च महाविष्णोः विविधरूपणि पूजयन्ति ।

शैवब्राह्मणाः – एतेषां कर्णाटकस्य बसवस्वामी, तमिळुनाडुराज्यस्य कुङ्गिळियकळय नायनार्, गुजरातराज्यस्य लकुलीशः च प्रमुखाः मूर्तिस्वरूपाः भावयन्ति ।

ब्राह्मणानाम् कर्तव्यानि[सम्पादयतु]

तत्र ब्राह्मणानां कर्तव्यानि मनुः एवम् उपादिषत्-
अध्यापनमध्ययनं च यजनं याजनं तथा ।
दानं प्रतिग्रहः चैव ब्राह्मणानामकल्पयत् ॥१-८८ ॥

एवम् अध्ययनम् अध्यापनं यजनं याजनं तथा दानं प्रतिग्रहः च एतानि षट् कर्तव्यानि ब्राह्मणार्थं विहितानि । श्रीमद्भगवद्गीतायां ब्रह्मकर्माणि एवम् उपवर्णितानि –

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥१८-४२ ॥

अत्र तु वस्तुतः न कर्तव्यानि अपि तु सामान्यतः के गुणाः आचरणे आनेतव्याः ? तेषां निर्देशः क्रियते । शमः नाम मनः संयमः, दमः नाम इन्द्रियनिग्रहः, तपः शौचं, क्षान्तिः आर्जवं, ज्ञानं, विज्ञानम्, आस्तिक्यं च । एते सर्वे गुणाः प्राधान्येन सात्त्विकाः गुणाः सन्ति इति तु दृक्पातेनैव अवगम्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ब्राह्मणः&oldid=451205" इत्यस्माद् प्रतिप्राप्तम्