गौतमः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

गौतमः न्यायसूत्राणां रचयिता । गौतमस्य अपरं नाम 'अक्षपादः' इति । न्यायदर्शनस्य आधारः न्यायसूत्राणि एव । अतः न्यायदर्शनस्य अपरं नाम ’अक्षपाददर्शनम्’ इति । वेदाः, उपनिषदः, महाभारतम् इत्यादिषु ग्रन्थेषु यद्यपि तर्कशास्त्रस्य मूलभूताः अंशाः दृश्यन्ते, तथापि अस्य शास्त्रस्य व्यवस्थितं स्वरूपं गौतमेन एव कल्पितम् । गौतमः १५० तमे क्रिस्ताब्दे आसीत् इति भाव्यते । प्रभासक्षेत्रे सोमशर्मा नाम ब्राह्मणः आसीत् । तस्य चतुर्षु पुत्रेषु ज्येष्ठः एव गौतमः' इति ब्रह्माण्डपुराणात् ज्ञायते । गौतमेन रचितानां न्यायसूत्राणाम् आधारेण एव न्यायशास्त्रं शाखोपशाखारूपेण प्रवृद्धम् । सर्वशास्त्रकाराः अपि स्वसिद्धान्तस्य प्रतिपादनार्थं न्यायशास्त्रचिन्तनम् अवलम्बन्ते एव । गौतममहर्षेः उत्पत्तेः प्राक् न्यायदर्शनप्रतिपाद्याः वेदप्रमाणविषयाः यदि न निश्चिताः तथा श्रेयोमार्गे मानवानां प्रवृत्तिः न संभवति, इति शङ्क्य न्यायादिविद्यानां सर्वदा विद्यमानत्वात्, तदुक्तं न्यायमञ्जर्यां ’चरनैय्यायिकेन जयन्तभट्टेन’आदि सर्गात् प्रभृति वेदवत् इमाः विद्याः प्रवृत्ताः’ इति ।

गौतमस्य जन्मभूमिः[सम्पादयतु]

न्यायदर्शनप्रणेता अक्षपादः प्रजापतेः अङ्गीरसस्य प्रपौत्रः, दीर्घतमसः पुत्रः, महान् तपस्वी च आसीत् । अस्यैव पत्नी अहल्या या च स्वभर्त्रा अभिशप्ता, भगवतः रामचन्द्रस्य पादनिर्गतरजस्पर्शेन विधूतपापा सञ्जाता । अहल्यागौतमयोः तनयः शतानन्दः मिथिलेश्वरस्य जनकराजस्य पुरोहितः आसीत् । अतः गौतमः अहल्यापतिः ’मैथिलः’ इति वक्तुम् अस्ति अवसरः इति केचन वदन्ति । गौतमोऽयम् अष्टादशपुराणकर्तुः भगवतः व्यासस्य गुरुः । कदाचित् व्यासगौतमयोः विवादः जातः, विवादे व्यासः गौतमस्य मतं पराकृत्य , ’एतेन शिष्टापरिग्रहः व्याख्यातः’ इति ब्रह्मसूत्रे तृतीयाध्याये द्वितीयपादे महद्दीर्घाधिकरणे सूत्रं प्रणीतवान् । तदनु सञ्जातकोपः गौतमः स्वशिष्यं व्यासं त्वं गुरुमतं खण्डयसि, अतः शिष्याधमो जातः, ’इतः परं त्वाम् अनेन चक्षुषा नैव द्रक्ष्यामि’ इति अवदत् । तत् श्रुत्वा व्यासस्य मनसि खेदः जातः। तदन्तरं स्वगुरोः गौतमस्य पादयोः पतित्वा ’मयि एतावान् कोपः --भवतः मास्तु’ इति साञ्जलीं प्रार्थितवान् । ततः विगतक्रोधः गौतमः योगशक्तिबलात् स्वपादे एकं चक्षुम् उत्पाद्य, तद्वारा तं शिष्यम् अपश्यत । अतः गौतमस्य नाम अक्षपादः इति ।
कदाचित् गौतमेन संगतः व्यासः वार्तालापावसरे गुरोः गौतमस्य मतं जीवब्रह्मणोः भेदं तर्कबलेन खण्डितवान् । तेन कुपितः तव मुखं चक्षुषा न द्रक्ष्यामि इति अवोचत् । तेन दुःखितमनः व्यासः, गुरुं प्रसन्नतां सम्पादयितुं पुरतः दण्डवत् प्रणाममकरोत् । तेन विगतक्रोधः गौतमः स्व पादे एकं चक्षुम् उत्पाद्य, तद्वारा अपश्यत् । इत्यपरा कथा ।

गौतमः उत गोतमः[सम्पादयतु]

न्यायदर्शनप्रवर्तकाचार्याणां नाम्नि केचन गौतमः उत गोतमः इति नाम्नि चर्चां कुर्वन्ति । तत्र केचन गोतमः इत्येव तस्य नाम इति अभिप्रयन्ति । तस्य प्रमाणत्वेन महाकवेः नैषधकर्तुः श्रीहर्षस्य युक्तिं प्रदर्शयन्ति तथा हि,

मुक्तयेयः शिलात्वाय शास्त्रमूचेः सचेतसाम् ।
गोतमं तमवेत्यैव यथा वित्थं तथैव सः । इति ।

न्यायदर्शनानुसारेण मुक्तिः आत्यन्तिकदुःखनिवृत्तिरेव अर्थात् मुक्तिदशायां न किमपि ज्ञानं सुखादिकं वा, अतः पाषाणकल्पा मुक्तिः । चेतनानां शिलाभावाय मोक्षाय प्रणीतवान् गोतमः। स च न केवलं नाम्ना गोतमः किन्तु ’प्रकृष्टाः गौः’ गोतमः महावृषभः पशुरेवेति उपरितनश्लोकस्यार्थः अयं च न्यायसूत्रकर्तुः गोतमनामकत्वैव सङ्गच्छते ।

गौतमस्य कृतिः[सम्पादयतु]

गौतमस्य सुप्रसिद्धः न्यायदर्शनस्य आधारभूतः ग्रन्थः ’न्यायसूत्रम्’ भवति । गौतमनाम्ना महर्षिणा न्यायशास्त्रं विना ग्रन्थान्तरम् एतावत्पर्यन्तं नोपलभ्यते । अतः एव एकैव कृतिः प्रथितः अस्ति । इत्ययं विषयः महामहोपाद्यायैः उमेशमिश्रमहोदयैः ’हिस्टोरि आफ् इण्डियन् फिलोसफि’ (History of Indian Philosophy) नामके ग्रन्थे प्रतिपादितः ।

न्यायदर्शनग्रन्थे सूत्रार्थे पञ्चाध्यायाः, प्रत्यध्याये आह्निकद्वयं च सन्ति । सूत्रसंख्यायां सर्वेषां विदुषां भिन्नभिन्नाभिप्रायाः सन्ति । वाचस्पतिमिश्रकृतन्यायसूचितनिबन्धानुसारं न्यायदर्शने ८४ प्रकरणानि, ५२८ सूत्राणि च सन्ति । तत्र प्रथमाध्याये प्रथमान्हिके अभिधेयप्रयोजनसंबन्धाः प्रमाणलक्षणानि, प्रमेयन्यायपूर्वाङ्गलक्षणानि, न्यायाश्रयसिद्धान्तलक्षणानि, प्रतिज्ञादि न्यायावयवस्वरूपाणि, न्यायोत्तराङ्गलक्षणम् इत्यादयः निरूपिताः । द्वितीयान्हिके तु वाद-जल्प-वितण्ड-कथानां, पञ्चविधहेत्वाभासानाम्, त्रयाणां छलानाम्, पुरुषशक्तिलिङ्गदोषसामान्यलक्षणस्य च विषयाः निरूपिताः । द्वितीये अध्याये प्रथमे आह्निके संशयपरीक्षणम्, प्रमाणसामान्यपरीक्षणम्, प्रत्यक्षपरीक्षणम्, प्रासङ्गिकी अवयविनिरूपणम्, अनुमानपरीक्षणम्, उपमानशब्दपरीक्षणञ्च प्रतिपादितम् । द्वितीयाह्निके प्रमाणपरीक्षणम्, शब्दनित्यत्वपरीक्षणञ्च कृतम् । तृतीयाध्याये प्रथमाह्निके इन्द्रिय-शरीर-मनोभ्यः अतिरिक्तः आत्मा इति च निरूप्य । तदनु आत्मनः नित्यत्वं प्रसाद्य शरीरनिरूपणम्, इन्द्रियनानात्वं निरूपितम् । तृतीयाध्याये द्वितीये आह्निके बुद्धेः अनित्यत्वम्, क्षणभङ्गः, बुद्धेः आत्मगुणत्वम्, बुद्धेः शरीरगुणव्यतिरेकनिरूपणम्, मनो निरूपणम्, शरीरस्य अदृष्टनिष्पाद्यत्वनिरूपणञ्च कृतमस्ति । चतुर्थे अध्याये प्रथमे आह्निके प्रवृत्तिदोषसामान्यपरीक्षणम्, दोषत्रैविध्यस्य प्रकरणम्, प्रेत्यभावपरीक्षणम्, शून्यतोपादाननिरूपणम्, ईश्वरोपादानप्रकरणम्, आकस्मिकत्वनिरूपणम्, फलदुःखापवर्गाणां परीक्षणम् इत्यादयः विषयाः निरूपिताः । चतुर्थे अध्याये द्वितीये आह्निके तत्त्वज्ञानोत्पत्तिनिरूपणम्, अवयवावयवनिरूपणम्, निरवयवनिरूपणम्, तत्त्वज्ञानविवृद्धितत्पालननिरूपणञ्च प्रतिपादितम् । पञ्चमे अध्याये प्रथमे आह्निके जातिप्रभेदाः, तेषामुत्तराणि च निरूपितानि । द्वितीये आह्निके निग्रहस्थानानि विस्तरेण प्रतिपादितानि ।

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गौतमः&oldid=423190" इत्यस्माद् पुनः प्राप्तिः