वेदारम्भसंस्कारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


उपनयनसंस्कारस्य अनन्तरं गुरुः शिष्यं वेदान् शिक्षयेत् । तदारम्भप्रधानः संस्कारः एव अयम् ।

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ - याज्ञवल्‍क्‍यस्मृतिः

वेदारम्भः प्रथमं निजशाखायाः एव स्यात् । निजशाखां साङ्गोपाङ्गम् अधीत्य ततः शाखान्तराध्ययनक्रमः विहितः । तदुक्तं संस्कारप्रकाशे -

यच्छाखीयैस्तु संस्कारैः संस्कृतो ब्राह्मणो भवेत्
तच्छाखाध्ययनं कार्यमन्यथा पतितो भवेत् ॥
अधीत्य शाखामात्मीयां परशाखां ततः पठेत्
पारम्पर्यगतो येषां वेदः सपरिबृंहणः
तच्छाखं कर्म कुर्वीत तच्छाखाध्ययनं तथा ।
एवमध्ययनं कुर्वन् ब्रह्मसायुज्यमाप्नुयात् । इति ॥

ब्राह्मणस्य उपनयनसंस्कारानुपदमेव वेदारम्भकरणेन तदभ्यासः एव परमं तपः भवति ।
वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते इति मनुवचनप्रमाणम् ।

"https://sa.wikipedia.org/w/index.php?title=वेदारम्भसंस्कारः&oldid=395893" इत्यस्माद् प्रतिप्राप्तम्