याज्ञवल्‍क्‍यस्मृतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

याज्ञवल्क्यमहर्षिणा लिखिता स्मृतिः याज्ञवल्क्यस्मृतिनाम्ना चिरं प्रख्याताऽस्ति । मानवसामाजे व्यावहारिकदृष्ट्या तत्प्रणीतायाः स्मृतेः सुमहद गौरवं वरीवर्ति । याज्ञवल्क्यस्मृतिः सनकादिनामृषीणां सोमश्रवादिमुनीनाञ्च धर्मजिज्ञासायां प्रश्नोत्तरच्छलरुपा स्मृतिरिति कथ्यते । मनुस्मृतिवत् संहितायाम् अस्यामपि यथाक्रमम् आचार व्यवहार-प्रायश्चित्तभेदेन त्रयोऽध्याया वर्त्तन्ते ।

तत्र प्रथमाध्याये (आचाराध्याये) उपोद्घात-प्रकरणं, ब्रह्मचारिप्रकरणं, विवाह-प्रकरणं, वर्णजातिविवेक-प्रकरणं, गृहस्थ-प्रकरणम्, स्नातवह-प्रकरणम्, भक्ष्याभक्ष्य-प्रकरणम्, द्रव्यशुद्धि प्रकरणम्, दान-प्रकरणम्, श्राद्ध्-प्रकरणम्, गणपति कल्पप्रकरणम्, ग्रहशान्ति-प्रकरणम्, राजधर्म-प्रकरणम्, चेति त्रयोदशप्रकरणानि सन्ति । ततो व्यवहाराध्याये साधारणव्यवहारणानि सन्ति । ततो व्यवहाराध्याये साधाराव्यवहारमातृका, ऋणादानो-पनिधि-साक्षी-लेख्य-दिव्य-दायविभाग-सीमाविवाद-स्वामिपालविवाद-अस्वामिविक्रय-दत्ताप्रदानिक क्रीतानुशया-अभ्युपेत्याशुश्रूषा-संविदव्यतिक्रम्-वेतनादानद्यूत समाह्वय -वाक् पारुष्य-दण्डपारुष्य-साहसविक्रीयासम्प्रदानसम्भूय समुत्थान-स्तेय-स्त्रीसङ्ग्रहण-प्रकरणञ्चेति पंचविंशतिप्रकरणानि सन्ति । ततश्च प्रायश्चित्ताध्यायेऽशौचप्रकरणम्, आपद्धर्मप्रकरणम्, वानप्रस्थप्रकरणम्, यति-धर्मप्रकरणम्, प्रायश्चित्त-प्रकरणम्, प्रकीर्ण-प्रयश्चित्तानि चेति षट् प्रकरणानि समुपस्थापितानि । मनुस्मृतेरपेक्षया याज्ञवल्क्यस्मृतिरधिकव्यवस्थिता शृङ्खलिता च ।

महर्षिर्याज्ञवल्क्यः मिथिलायां निवसानः स्मृतिमिमां रचितवान् । अस्याः स्मृतेः पञ्च टीकाः समुपलभ्यन्ते । तत्रादौ विश्वरुपस्य बालक्रीडाटीका, ततो विज्ञानेश्वरस्य मिताक्षरा, ततोऽपरादित्यस्यापरार्कटीका, तदनन्तरं शूलपाणेः दीपकलिकाटीका, सर्वशेषे मित्रमिश्रस्य वीरमित्रोदयटीका विरचिताः । तत्र मिताक्षरानाम्नी टीका विद्वत्समाजे प्रमाणिकीति स्वीक्रियते । मिताक्षराटीका भारतीयहिन्दुविधावपि समादृता भवति । मिताक्षरा समग्रे भारतवर्षे न्यायालयेषु प्रामाणिकीरुपेण स्वीक्रियते । केवलं पूर्ववङ्गे दायभागस्यादरो दृश्यते । मिताक्षराया उपरि नन्दपण्डितेन प्रमिताक्षरानाम्नी टीका बालभट्टेन च बालभट्टीति च टीकाद्वयमस्ति । एतयोः टीकयोः व्यवहारविषये विशेषतो दायभागविषये महती प्रामाणिकता स्वीक्रियते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]