विष्णुः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
विष्णु:

विष्णुः सनातनधार्मिकाणां प्रमुखः देवः अस्ति। सः त्रिमूर्तिषु एकः। विश्वरक्षकः च। तस्य पत्नी लक्ष्मीः। वाहनं गरुडः। आदिशेषस्य उपरि तस्य शयनम्। सः सर्वेषां जगताम् एकएव स्वामी। विष्णुः एव परमात्मारूपेण सर्वेषु भूतेषु तिष्ठति। विष्णोः उपासकः वैष्णवः नाम्ना ज्ञायते। वैष्णवेषु शिवः इव कोऽपि नास्ति "वैष्णवानां यथा शम्भुः"। विष्णुः सवेषां जीवानां परमः सुहृत्। भगवान् विष्णुः क्षीरसागरे निवसति। तस्य धाम वैकुण्ठः इति नाम्ना ज्ञ‌ायते। विष्णोः नाभेः कमलः जातः यत्र ब्रह्मा स्थितः अस्ति। इदं कृत्स्नं जगत् तस्य एव शक्त्या सञ्चालितम् अस्ति। सः निर्गुणः सगुणश्च अस्ति। पद्मपुराणस्य उत्तरखण्डे वर्णितम् अस्ति यत् भगवान् श्रीविष्णुः एव हि परमार्थं तत्त्वं वर्तते। सः अत्यन्तः दयालुः अस्ति। ध्रुवः प्रह्लादः अजामिलः द्रौपदी गणिका आदीनाम् अनेकेषां भक्तानाम् उद्धारः अस्य विष्णोः कृपया जातः। सः खलु भक्तवत्सलः विद्यते।

दशावताराः[सम्पादयतु]

स: सतां संरक्षणाय दुष्टानां विनाशाय च भूमौ पुनः पुनः जायते। सः उवाच

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥

तेन दश अवताराः गृहीताः । ते

  • मत्स्यः - प्रलयसमये नारायणः हयग्रीवम् हत्वा जीविनः अपालयत्।
  • कूर्मः - कूर्मावतारे विष्णुः समुद्रमन्थने देवान् उपाकरोत्।
  • वराहः - हरिः वराहरूपेण आविर्भूय हिरण्याक्षं हत्वा भुवम् अरक्षत्।
  • नृसिंहः - नारयणः असुरं हिरण्यकशिपुम् अमारयत् ।
  • वामन: - दानशूरस्य बले: गर्वहरणं कृत्वा तम् अमारयत्।
  • परशुराम: - २१ पृथिवीप्रदक्षिणा कृत्वा १०८ तीर्थक्षेत्राणां संशोधित:।
  • राम: - रावणम् अमारयत् । युगे एकमेव पुरुषोत्तम:।
  • कृष्ण: - कंसं बाल्ये एव अमारयत्। महाभारतयुद्धे सहभाग: गीतोपदेशकर्ता च।
  • बौद्ध: - कलियुगे सिद्धपुरुष: जनहितकर्ता च ।
  • कलकी - कलियुगे दुष्टानां संहारं कर्तुं आविर्भविष्यति।

नाम[सम्पादयतु]

निरुक्ते "यद्विषितो भवति तद्विष्णुर्भवति"इति कथ्यते। आदिशङ्करः विष्णोः अर्थः सर्वत्रगतः इति अवदत्।

लक्षणानि[सम्पादयतु]

विष्णुः चतुर्भुजः अस्ति। तेषु पाञ्चजन्यम्-शङ्खम् सुदर्शन-चक्रम् कौमोदकी-गदाम् पद्मम् च धारयति। उक्तञ्च "वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी श्रीमान् नारायणोर्विष्णुः वासुदेवोभिरक्षतु” इति। सः मेघश्यामः अस्ति। तस्य वक्षः श्रीवत्सेन अङ्कितः। सः कौस्तुभमणिं वनमालां च धारयति। सः अनन्तनागे शेते।

सहस्रनामानि[सम्पादयतु]

भीष्मः युधिष्ठिरस्य विज्ञप्तिम् अनुमन्यमानः विष्णोः सहस्रानामस्तुतिम् अकरोत्। यः विष्णोः सहस्रनामानि जपेत् सः जन्मसंसारबन्धनात् विमुच्यते इति मन्यते। एष: सहस्रनामावली महाभारते अनुशासनिके पर्वणि अस्ति।

श्रीहरेः सर्वैः वर्णैः आरभ्यमाणानि नामानि[सम्पादयतु]

अज आनन्द इन्द्रेशावुग्र ऊर्ज ऋतम्भरः
ॠघलृशौल्लृजीरेकात्मैर ओजोभृदौरसः ।
अन्तोऽर्धगर्भः कपिलः खपतिर्गरुडासनः
घर्मो ङ्सारश्छार्वङ्गश्छन्दोगम्यो जनार्दनः ।
झाटतारिर्ञमष्टङ्की ठलको डरको ढरी
णात्मा तारस्तभो दण्डी धन्वी नम्यः परः फली ।
बली भगो मनुर्यज्ञो रामो लक्ष्मीपरिर्वरः
शान्तसंवित्षड्गुणश्च सारात्मा हंसळाळुकौ ।
पञ्चाशन्मूर्तयस्त्वेताः ममाकारादिलक्षकाः ।

  • अजः, आनन्दः, इन्द्रः, ईशानः, उग्रः, ऊर्जः, ऋतम्बरः, ॠघः, लृशः, लॄजिः, एकात्मा, ऐरः, ओजोभृत्, औरसः, अन्तः, अर्धगर्भः - एतानि ओङ्कारस्य अकारात् प्रकटिताः भगवद्रूपाः ।
  • कपिलः, खपतिः, गरुडासनः, घर्मः, ङसारः - एतानि पञ्च ओङ्कारस्य उकारतः प्रकटिताः भगवद्रूपाः ।
  • चार्वाङ्गः, छन्दोगम्यः, जनार्दनः, झटतारिः, ञमः - एतानि पञ्च मकारतः प्रकटिताः भगवद्रूपाः ।
  • टङ्की, ठलकः, डरकः, ढरी, णात्मा - एतानि पञ्च नादतः
  • तारः, थभः, दण्डी, धन्वी, नम्यः - एतानि पञ्च बिन्दुतः
  • परः, फली, बली, भगः, मनुः - एतानि पञ्च घोषतः
  • यज्ञः, रामः, लक्ष्मीपतिः, वरः - एतानि चत्वारि शान्ततः
  • शान्तसंवित्, षड्गुणः, सारात्मा, हंसः, ळाळुकः - एतानि पञ्च अतिशान्ततः
  • क्षकारतः नृसिंहरूपः ।


==आङ्कोरवतमन्दिरम्==

आङ्कोरवते समुद्र-मन्थनस्य वर्णनम् - मध्ये विष्णु: अस्ति।

आङ्कोरवतमन्दिरं सूर्यवर्मन: नाम्ना कम्बोजस्य राज्ञा कृतम्। एतन्मन्दिरं विष्णो: एव।



फलकम्:हिन्दू धर्म





"http://sa.wikipedia.org/w/index.php?title=विष्णुः&oldid=269060" इत्यस्माद् पुनः प्राप्तिः