ब्रह्म

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


संसारचक्रं विचित्रमस्ति। मायाविमोहिताः सन्ति सर्वेऽपि मानवाः। विद्यावन्तोऽपि महाविद्यां नोपासन्ते। तेऽपि नानाविधानि कष्टानि प्राप्नुवन्ति। ये योगिनः ज्ञानिनः आचारवन्तः साधवः सन्ति तेऽपि मायया मोहिताः भवन्ति। यथोक्तम्- ज्ञानिनामपि चेतांसि देवी भगवती हि सा।। दुर्गासप्तशती 1.55 बलादाकृष्य मोहाय महामाया प्रयच्छति। दुर्गासप्तशती 1.56 ये संसारबन्धनं त्यक्तुं वाञ्छन्ति, मायामयं विश्वं संसारसागरञ्च तर्त्तुमिच्छन्ति मोक्षस्य द्वारमुद्धाटयितुमिच्छन्ति तैः किं करणीयमिति वर्तते महती जिज्ञासा। वस्तुतः मोक्षस्य सर्वस्य वा मूलमस्ति महेश्वरः महेश्वरस्यापि मूलमस्ति पञ्चाक्षरमन्त्रः पञ्चाक्षारमन्त्रस्यापि मूलमस्ति गुरुः। अतः संसारे सर्वेभ्योऽपि श्रेष्ठः गुरुरस्ति। उक्तञ्च- मोक्षस्य मूलं यज्ज्ञानं तस्य मूलं महेश्वरः। तस्य पञ्चाक्षरो मन्त्रो मूलमन्त्रं गुरोर्वचः ।।इति।। गुरुरेव माता गुरूरेव पिता गुरुरेव देवो वर्तते। गुरुरेव पातकिनं पवित्रं करोति, पतितमुन्नतशिखरमारोहयति। प्रसन्नः गुरुः महेश्वरं प्रसीदयति प्रदर्शयति च। तत्किमस्ति यद् गुरुः कर्तुं न शक्नोति। गुरुः दुर्लभमपि प्रापयति असाध्यमपि साधयति। ईश्वरादपि श्रेष्ठः गुरुरेव अस्ति। गुरौ प्रसन्ने ईश्वरः प्रसीदति विपदः गच्छन्ति सम्पदः आगच्छन्ति। यथोक्तम्- गुरुः पिता गुरुर्माता गुरुर्देवो गुरुर्गतिः। शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन। मन्त्रत्यागाद् भवेन्मृत्युर्गुरुत्यागाद् दरिद्रता। (ज्ञानार्णवतन्त्रः) गुरुः मोक्षद्वारोद्धाटकः तत्त्व- ज्ञानप्रदायकः मार्गप्रदर्शकश्च वर्तते। गुरुः सामान्यमनुष्यरूपेण न द्रष्टव्यः। गुरोर्लघुत्वं गुरुत्वं वा मनसि न विचारणीयम्। गुरुः सर्वदा श्रद्धया भक्त्या च द्रष्टव्यः पूजनीयश्च। यथा ईश्वरप्रतिमा प्रस्तररूपेण न दृश्यते ईश्वरबुद्धया प्रणम्यते। तथैव गुरुः भक्त्या प्रणम्यः न तु तस्य शरीरावयवविचारः करणीयः। श्रद्धावतां सज्जनानामेव गुरौ देवे च भक्तिर्जायते। अतः उक्तम्- गुरौ मनुष्यबुद्धिञ्च मन्त्रे चाक्षरबुद्धिकाम्। प्रतिमासु शिलाबुद्धिं कुर्वाणो नरकं व्रजेत्।। गुरौ सन्निहते यस्तु पूजयेदन्यदेवताम् प्रयाति नरकं घोरं सा पूजा विफला भवेत्।। इति।। पितुरपेक्षयापि गुरुरेव श्रेष्ठो वर्तते। यतः पिता तु केवलं जन्मदायको भवति परन्तु ब्रह्मज्ञानदायकस्तु गुरुर्भवति। ब्रह्मज्ञानेन विना जन्मैव वृथा भवति। अतो ह्युक्तम्- उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदो गुरुः। तस्मान्मन्येत सततं पितुरप्यधिकं गुरुम्।।इति।। गुरौ भक्तिः कार्या, श्रद्धा विधेया, गुरोराज्ञा पालनीया, कदापि गुरोर्वचनेषु अविश्वासः न करणीयः। यथा- निःसन्दिग्धं गुरोर्वाक्यं संशयात्मा विनश्यति।।इति।। गुरोः स्मरणेन दर्शनेन च पापस्य नाशो भवति। गुरुः सिद्धिप्रदः कल्याणकारी शिवरूपः अस्ति। गुरोरर्थोऽपि एतादृश एव भवति। यथोक्तम्- गकारः सिद्धिदः प्रोक्तः रेफः पापस्य दाहकः उकारः शम्भुरित्युक्तस्त्रितयात्मा गुरुः स्मृतः।। इति।। गुरोरुपाधिः गुरोर्ज्ञानं गुरोर्वयो वा नालोचनीयम्। सः यादृशस्तादृशो वा भवेत् गुरुस्तु गुरुरेव भवति। यथा चोक्तम्- अविद्यो वा सविद्यो वा गुरुरेव तु दैवतम्। अमार्गस्थोऽपि मार्गस्थो गुरुरेव सदागतिः। गुरुः ध्येयः पूज्यः प्रातः स्मरणीयो वर्तते। यथा चोक्तम्- प्रातरुत्थाय देवेशि ब्रह्मरन्ध्रे निजं गुरुम्। ध्यात्वा पञ्चोपचारैश्च मानसैः पूजयेत्परम्।। इति।। तन्त्रशास्त्रे दीक्षायाः महत्त्वम् संसारः ईश्वरस्याधीने वर्तते। ईश्वरोऽपि मन्त्रस्याधीने वर्तते । पुनः स च मन्त्रः दीक्षितस्यैवाधीने भवति । दीक्षायाः तन्त्रे बहुमहत्वं विद्यते । शुद्धसंस्कारहेतवे मलनिवृत्तये च दीक्षैव साधनमस्ति। दीक्षां विना तन्त्रे मन्त्रे च प्रवेशः एव निषिद्धः अस्ति। तन्त्रे तु दीक्षितः एव अधिकारी भवति। अदीक्षितस्तु फलं नाश्नुते। यथोक्तम्- अथ दीक्षां प्रवक्ष्यामि श्रृणुष्व कमलानने। यया विना नाधिकारस्तन्त्रे मन्त्रेऽपि च क्वचित्।। दीक्षया महत्पुण्यं सम्पद्यते पापं क्षीयते दिव्यज्ञानञ्च लभ्यते। यथा ह्युक्तम्- दिव्यज्ञानं यतो दद्यात् कुर्यात् पापक्षयं यतः तेन दीक्षेति लोकेऽस्मिन् कीर्तिता तन्त्रपारगैः।। (यामलतन्त्रे) साधकः दीक्षयैव जपस्य तपसो वा अधिकारी भवति। दीक्षां विना मन्त्रजपः अरण्यरोदनं भवति। यथोक्तम्

दीक्षामूलं जपं सर्वं दीक्षामूलं परं तपः। अपि च-

अदीक्षितार्चनं देवा न गृह्णन्ति कदाचन।। इति ।। दीक्षितः शुद्धः संस्कृतः मोक्षार्थी भवति। अदीक्षितः शिवत्वं न लभते न च मोक्षार्हो भवति। यथोक्तम्--

विना दीक्षां न मोक्षः स्यात्प्राणिनां शिवशासने।इति।।

अपि च-

दीक्षामात्रेण मुक्तिः स्याद् भक्तिमात्राद् गुरोः सदा।इति।।

(स्वच्छन्दतन्त्रे)

दीक्षया ज्ञानस्योदयो भवति मानवत्वमागच्छति पशुत्वं गच्छति। अदीक्षितस्य सर्वं कर्म वृथा भवति। यथोक्तम्- अदीक्षिताः ये कुर्वन्ति जपपूजादिकाः क्रियाः। न भवन्ति श्रिये तेषां शिलायामुप्तबीजवत्।।इति अतः स्वस्य विकासाय शरीरे कान्तिलाभाय स्वजीवनस्य साफल्याय च दीक्षा आवश्यकी वर्तते। यथोक्तम्-

दीयते ज्ञानसद्भावः क्षीयते पशुभावना। दानक्षपणसंयुक्ता दीक्षा तेनेह कीर्तिता।।

अपि च-

कर्माखिलं वृथा यस्मात्तस्माददीक्षितः पशुः।।

दीक्षितः एव साधको भवति। विना दीक्षया मन्त्रजपस्याधिकारो नास्ति। दीक्षा संसारबन्धनात् निवृत्तिं करोति जीवं शिवरूपेण प्रतिष्ठापयति। यथोक्तम्--

दीक्षैव मोचयेत् पाशान् शिवत्वञ्च ददात्यणोः।। इति।।

अपि च---

मन्त्रजापं योगजापं कृत्वा पापनिवारणम् परं मोक्षमवाप्नोति मानुषो नात्र संशयः।।इति।।

अतः सर्वैरपि अवश्यमेव दीक्षा ग्राह्या। अदीक्षितस्य कापि गतिरेव नास्ति। यथोक्तम्--

अदीक्षितोऽपि मरणे रौरवं नरकं व्रजेत्।। इति।।

( नीलकण्ठतन्त्रे) भगवती वर्णरूपेण मन्त्रस्थिता वर्तते। प्रतिमासु भगवत्याः स्थूलं स्वरूपममस्ति। सूक्ष्मरूपन्तु मन्त्रे अस्ति। मन्त्रद्वारा साधकस्य शरीरे सा शक्तिः अवतरति। यथोक्तम्--

वर्णरूपेण सा देवी जगदाधाररूपिणी
सूक्ष्मं मन्त्रमयं देहं स्थूलं विग्रहचिन्तनम्।

पुनश्च -

परावाग्रूपा सर्ववर्णोद्भवहेतुभूता । सप्तकोटिसंख्याकानां महामन्त्राणां प्रकाशिकेयं वर्तते। उक्तञ्च--
सर्वे वर्णात्मिका मन्त्रास्ते च शक्यात्मकाः प्रिये। शक्तिस्तु मामका ज्ञेया सा च ज्ञेया शिवात्मिका।। इति।।

(तन्त्रसद्भावे) मन्त्रः संसारात् मोचयति परे शिवे योजयति साधकः येन त्रायते स एव मन्त्रः। यथा---

मयोक्तानि च तन्त्राणि मद्भक्ता ये पठन्ति च। पठित्वा कुरुते कर्म कृत्वा मत्सन्निधिं व्रजेत्।।

पुनश्च मोचयन्ति च संसाराद् योजयन्ति परे शिवे। मननत्राणधर्मित्वात् तेन मन्त्रा भुवि स्मृताः।।इति।। कलौ तन्त्रमार्गेण अचिरेणैव सिद्धिर्लभ्यते। तन्त्रद्वारा झटिति त्राणं भवति आध्यात्ममार्गे साध्यसाधनाय वेदमन्त्रेभ्योऽपि तान्त्रिकाः मन्त्राः वेगेन फलदायका भवन्ति। यथा --

सर्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं परम्

वैष्णवादुत्तमं शैवं शैवाद्दक्षिणमुत्तमम्। दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम्

सिद्धान्तादुत्तमं कौलं कौलात् परतरं नहि।।

(कुलार्णवतन्त्रे) तन्त्र्यते यद् येनेत्यादिना तन्त्रस्य व्युत्पत्तिः क्रियते। ऐहिकमामुष्मिकाभ्युदयनिःश्रेयससाधका उपायाः तन्त्रे सन्ति। साधकः तन्त्रबलेन न केवलं स्वस्य संसारस्यापि मङ्गलमातनोति। जनत्राणार्थमेव तन्त्रमस्ति। यथा---

तनोति विपुलानर्थान् तत्त्वमन्त्रसमन्वितान्

त्राणं च कुरुते यास्मात् तन्त्रमित्यभिधीयते इति। व्यवहारः कथ्यते यत्र तथा चाध्यात्मवर्णनम्।

इत्यादिलक्षणैर्युक्तं तन्त्रमित्यभिधीयते।।इति।।

( तन्त्रसद्भावे) दीक्षया मन्त्रजपेन च शक्तेर्लाभो भवति ज्ञानस्योदयो भवति। अतः अदीक्षितः जपवर्जितः सर्वथा असफलो भवति । यथोक्तम्---

शक्तिहीनो यतो देही निर्बलो योगवर्जितः ज्ञानहीनस्तथात्मानं न पश्यति पदद्वयम्।।इति।।

तन्त्रमार्गेण मुक्तिरपि सुखेन लभ्यते। ये तन्त्रं विहायान्यमार्गेण मोक्षं प्राप्तुमिच्छन्ति ते भ्रान्ता एव ज्ञातव्या। यथोक्तम् -----

शुक्तौ रजतविभ्रान्तिर्यथा भवति भैरव। तथान्यदर्शनेभ्यश्च भुक्तिं मुक्तिञ्च काङ्‌क्षति।।इति।।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ब्रह्म&oldid=409501" इत्यस्माद् पुनः प्राप्तिः