हिन्दूधर्मः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

सनातनधर्मः हिन्दुधर्मस्य निजनाम वर्तते । वेदान् अवलम्बते अयं धर्मः इत्यनेन वैदिकधर्मः इत्यपि उच्यते । आर्यसन्ततेः धर्मः इति कारणतः आर्यधर्मः इति नाम्ना अपि अयं धर्मः निर्दिश्यते ।

हिन्दुशब्दस्य व्युत्पत्तिः[सम्पादयतु]

सिन्धूनद्याः तीरे विद्यमानानां धर्मः आसीत् अयम् । प्राचीनपर्षियन्-जनाः 'स'कारोच्चारणस्थाने 'ह'कारस्य उच्चारणम् अकुर्वन् । तस्मात् हिन्दुसंस्कृतिः हिन्दुराष्ट्रम् हिन्दुधर्मः इति जातम् ।
केचन वदन्ति यत् हिन्दु इत्येतदपि अस्मदीयः एव प्राचीनः शब्दः इति । ऋग्वेदस्य बृहस्पत्यागमे उल्लिखितम् अस्ति—

हिमालयं समारभ्य यावद् इन्दुसरोवरं ।
तं देवनिर्मितं देशं हिन्दुस्थानं प्रचक्षते ।।

अर्थात् हिमालयात् समुद्रपर्यन्तं देवैः स्थापितं देशं हिन्दुस्थानं कथ्यते।

मेरुतन्त्रे(शैवग्रन्थे) कथितं यत्—

हीनं च दूष्यत्येव हिन्दुरित्युच्यते प्रिये।

अर्थात् यः अज्ञानतां हीनतां च त्यक्तः सः हिन्दुः उच्यते। इदं शब्दकल्पद्रुमेणापि प्रोक्तम्—

हीनं दूषयति इति हिन्दुः।

माधवदिग्विजये अस्ति—

ओंकारमंत्रमूलाढ्य पुनर्जन्म दृढाशयः ।
गोभक्तो भारतगुरूर्हिन्दुर्हिंसनदूषकः ॥

अर्थात् यः ओंकारम् ऐश्वरीयध्वनिं मन्यते कर्म विश्वसिति गौपालकः हिंसायाः दूरः भवति सः हिन्दुः।

सनातनधर्मस्य प्रवर्तकाः[सम्पादयतु]

जगतः अन्यानि मतानि यथा केनचित् संस्थापितानि इति निर्दिश्यते तथा सनातनधर्मस्य कश्चन संस्थापकः इति न विद्यते । इदम् अस्य धर्मस्य वैशिष्ट्यं वर्तते । एकस्य जनस्य अध्यात्मानुभवम् अनुसृत्य अयं धर्मः न प्रवर्तते । अयं धर्मः बहूनां ज्ञानिनां योगिनां महात्मनाम् ऋषीणाम् अतीन्द्रियदर्शनानि अध्यात्मानुभवान् च आधारीकृत्य सुभद्रपृष्ठभूमौ स्थितः वर्तते । एते ऋषिमुनयः अपि अस्य सनातनधर्मस्य प्रवर्तकाः एव, न तु तस्य संस्थापकाः । तेषाम् अनुभवाः आचार-तत्त्व-उपदेशरूपेण व्यवस्थिततया सङ्कलिताः सन्ति । सहस्रशः सन्तः महात्मनः अस्य सत्यत्वं स्वस्य जीवनस्य आचरणद्वारा द्रढीकृतवन्तः सन्ति । विज्ञानपुस्तकेषु उल्लिखिताः नियमाः प्रयोगशालासु यथा द्रढीकर्तुं शक्याः तथैव एते अध्यात्मनियमाः अन्तरात्मनः प्रयोगशालायां द्रढीकर्तुं शक्याः सन्ति अद्यत्वे अपि ।

अपौरुषेयः धर्मः[सम्पादयतु]

सनातनधर्मः अपौरुषेयः दैवप्रेरितश्च । अध्यात्मसत्यानाम् आविष्कारः पूर्वमिव अद्यत्वे अपि शक्यः अग्रे अपि शक्यः इति दृढं विश्वसिति अयं धर्मः । सत्यम्इत्येतत् अनन्तं बहुमुखञ्च वर्तते । कस्यचित् एकस्य जनस्य अनुभवेन तत् सम्पूर्णतया प्रकटितः न भवेदेव । अतः अद्यत्वे अग्रे च नूतनावृत्तयः नूतनधर्मशास्त्राणि नूतनधर्मग्रन्थाश्च सृष्टाः भवेयुः एव इति निश्चिता मतिः अस्य धर्मस्य ।

अधारग्रन्थाः[सम्पादयतु]

सनातनधर्मः प्रामुख्येन वेदान् अवलम्बते । वेदः नाम ज्ञानमिति । ऋषयः ध्यानानन्दे लीनाः सन्तः श्रुतवन्तः इत्यनेन शिष्याः गुरुमुखेन इदम् अभ्यस्यन्ति स्म इत्यनेन च अस्य श्रुतिः इति नाम प्रसिद्धम् अस्ति । इदं स्मरणीयमस्ति इत्यनेन स्मृतिः इत्यनेन सर्वव्यापकशब्देन अपि निर्दिश्यते । इदम् अपौरुषेयं दैवदत्तम् इत्यनेन अस्य उल्लङ्घनं न कर्तव्यम् इति भाव्यते । दैवदत्तम् इदं ज्ञानं कस्यचित् सन्ततेः कस्यचित् देशस्य कस्यचित् कालस्य परिधौ विद्यमानं न । युक्तसाधनेन यःकोपि यदा कदापि इदं ज्ञानं प्राप्तुम् अर्हति ।

वेदाः[सम्पादयतु]

मुख्यलेखः: वेदाः

षड्दर्शनानि[सम्पादयतु]

मुख्यलेखः: षड्दर्शनानि

स्मृतयः[सम्पादयतु]

प्रस्थानत्रयम्[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=हिन्दूधर्मः&oldid=258323" इत्यस्माद् पुनः प्राप्तिः