भक्तियोगः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

अध्यायस्य सारः[सम्पादयतु]

गीतोपदेशः

भक्तियोगो गीताज्ञानस्य अमृतफलम् अस्ति । अयमेव 'राजविद्या’ शब्देनापि प्रोक्तः । अपि चायं सर्वेषां रहस्यानां रहस्यम् अस्ति । भक्तिं विना साधकस्य साधनरुपम् आचरणम् अपूर्णमेव तिष्ठति । विराटरुपिणो दर्शनस्यान्ते भगवान् श्रीकृष्णः प्रतिपादयति यद देवदुर्मभस्य विराटरुपिणः साक्षात्कारो न वेदेन, न तपस्यया, न दानेन, च चेज्यया विधातुं शक्यते अपितु अनन्यभक्त्यैव सः सम्भवति । अनयैव जीवः ईश्वरं प्रत्यक्षं द्रष्टुं क्षमते, तत्त्वतो ज्ञातुं शक्नोति, भगवता सह ऐक्यभावमपि लब्धुं क्षमते ! अनन्यभक्तितत्त्वस्य स्वरुपम् श्रीमद्भगदगीतायामेवं प्रकारेण निरुपतिम् –

मत्कर्मकृद् मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डवः ॥

यज्ञ-दान तपः प्रभृतीनि सर्वाणि कर्त्तव्यकर्माणि भगवद्रूपाणि मत्वा साधनारतः भगवन्त मेव परमाश्रयं मत्वा तत्प्राप्त्यर्थं सततं प्रयत्नशीलः भक्तियोगस्य अनुष्ठाता, अनासक्तः, सर्वप्रणिषु शत्रुभावारहितो जनो भक्तोऽस्ति । भक्तस्य साधनायाः स्वरुपमेव भक्तिरस्ति । भगवत्प्राप्तिरेव भक्तेः फलं विद्यते । श्रीमद्भगद्गीता लोकल्याणाय सगुण- सकाम –भक्तिमार्गाय उपदेशं प्रददाति । भक्तिः उपासनापद्धतिम् अवलब्य प्रवर्तिताऽस्ति । गीताया भक्तियोगे इतरसाधनेभ्योऽविरोधोऽस्ति ।

गीताया भक्तियोगे भक्तस्य महत्त्वं सर्वोपरि निर्धारितम् अस्ति । भक्ताश्चतुर्विधाः प्रतिपादिताः सन्ति-आर्तभक्ता, जिज्ञासुभक्ताः अर्थार्थिनो भक्ताः ज्ञानिनो भक्ताः । एषु चतुर्षु ज्ञानिनां श्रेष्ठता प्रतिपादिताऽस्ति । ज्ञानी भक्तो भगवत आत्मसरुपो भवति । यथोक्तम् –“ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते”। एवं श्रीमद्भगवद्गीता विविधमार्गेषु समन्वयं प्रदर्श्य साधनमार्गं सुगमं सुलभं च करोति ।

गीतोक्तम्तानुसारेण कर्म-ज्ञान- ध्यान-भक्तिमार्गः एकस्यैव ईश्वारस्य प्राप्त्युपायाः सन्ति । अध्यात्मसाधकः एषां मार्गाणां यथेच्छम् उपयोगं कर्त्तुं शक्नोति । गीतायाः साधनामार्गस्य प्रारम्भो निष्कामकर्मणा अनन्यशरणागतिभावेन च भवति । निष्कामकर्मणोऽनुष्ठानेन, नियमपूर्वकं ध्यानयोगस्य अभ्यासेन साधको ब्रह्मभावं प्राप्नोति । तस्य चेतसि समत्वभावना जागर्ति । एषैव ब्राह्मी स्थितिः गीतायां प्रतिपादिता ।

यदा ब्राह्मी स्थितिः समुदिता भवति, तदा साधकः उत्कृष्टां भक्तिं लभते । भक्तेरुदयानन्तरमेव परमज्ञानस्य अधिकारी भवति । परमज्ञानेनैव भगवतः स्वभावं स्वरुपं विभूतिगुणानाञ्च यथार्थतो जानाति । परमज्ञानस्यैव फलम् ईश्वरोपलब्धिरस्ति । ईश्वरोपलब्धये प्रतत्तिरावश्यकी अस्ति। प्रपत्तिमार्गोऽन्यमार्गाणां नैसर्गिकं पर्यवसानमस्ति । गीतायाः गुह्यं ज्ञानमिदमेवास्ति । उक्तञ्च –

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्यैवमात्मानं मत्परायणः ॥

वस्तुतो ज्ञानकर्मणोरुभयोः समन्वयः भक्तौ दृश्यते । भक्त एव यथार्थतः ज्ञानी कर्मयोगी च भवितुं शक्यते । स्वयं भगवता श्रीकृष्णेनोक्तम् शास्त्रज्ञानस्य, प्रत्यक्षदर्शनस्य, भगवदैक्यस्य च प्राप्तिरनन्यभक्त्यैव सम्भवति । सात्त्विकीं श्रद्धां दैवीं सम्पत्ति च विना अनन्या भक्तिर्नैव जायते । अतो भगवदभक्त्यै अभय –सत्त्व शुद्धयादि –सद्गुणानाम् उपार्जनं नितान्तम् आवश्यकमस्ति । इमेऽपि सदगुणाः सात्त्विकश्रद्धयैव उदभवन्ति, अतो दैवैसम्पत्तिं लब्ध्वा कर्मज्ञानयोश्च तदुपयोगं विधाय अनन्या भक्तिरेव आचरणीयेति गीतायाः सन्देशोऽस्ति ।

भक्तिज्ञानयोर्मध्ये आन्तरिकविरोधो न मन्तव्यः । यतो हि यावत् ज्ञानं न भविष्यति तावत् भक्तिः कुतः सम्भवा ? ज्ञानेनैव ईश्वरानुरागः समुदेति । भक्तिं विना ज्ञानमपि नीरसं वर्तते, ज्ञानं विना च भक्तिः नेत्रहीनेवास्ति । उभयोः परस्परं सम्बन्धोऽस्ति । अतः ज्ञानसम्पन्न एव जनः यथार्थभक्तो भवति । यश्च भक्तोऽस्ति, सः न कदापि ज्ञानमुपेक्षते । ज्ञानी अपि भक्तेरुपेक्षां कर्त्तुं न क्षमते ।

एवं भगवद्गीतायाः दार्शनिकविचाराणमयमेवाशयोऽस्ति यत् ईश्वरं प्रति समर्पणभावनां कृत्वा कर्म कुर्वाणो जनः अनासक्तभावेन न कदापि कर्मबन्धने निपतति न च सांसारिकतैव तस्मिन् प्रभावं निपातयति, जीवनसंग्रामे स्वच्छन्दो भूत्वाऽसौ कर्मयोगी ज्ञानस्य उपयोगेन सह भक्तिमाचरमाणो मुक्तिं लभते ।

श्लोकानाम् आवलिः[सम्पादयतु]

भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः
12.1 एवं सततयुक्रा ये….
12.2 मय्यावेश्य मनो….
12.3 ये त्वक्षरमनिर्देश्यं….
12.4 सन्नियम्येन्द्रियग्रामं….
12.5 क्लेशोधिकतरः तेषां….
12.6 ये तु सर्वाणि….
12.7 तेषामहं समुद्धर्ता….
12.8 मय्येव मन आधं….
12.9 अथ चित्तं समाधातुं….
12.10 अभ्यासेऽप्यसमर्थो….
12.11 अथैतदप्यशक्तोऽसि….
12.12 श्रेयो हि ज्ञानम्….
12.13 अद्वेष्टा सर्वभूतानां….
12.14 सन्तुष्टः सततं….
12.15 यस्मान्नोद्विजते….
12.16 अनपेक्षः शुचिः….
12.17 यो न दृश्यति न….
12.18 स्मः शत्रौ च ….
12.19 तुल्यनिन्दास्तुतिः….
12.20 ये तु धर्म्यामृतम्….

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भक्तियोगः&oldid=389474" इत्यस्माद् पुनः प्राप्तिः