पालिभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
Pali
PaliScript.svg
उच्चारणम् [paːli]
विस्तारः Cambodia, Bangladesh, India, Laos, Burma, Nepal, Sri Lanka, Thailand
Extinct No native speakers, used as a literary and liturgical language only
भाषाकुटुम्बः
लिपिः Brāhmī and derived scripts and Latin alphabet (refer to article)
भाषा कोड्
ISO 639-1 pi
ISO 639-2 pli
ISO 639-3 pli
Indic script
This page contains Indic text. Without rendering support you may see irregular vowel positioning and a lack of conjuncts. More...

पालिः (Pali) इत्येषा प्राचीनभारतस्य काचित् भाषा। भाषैषा हिन्दयोरोपीय भाषापरिवारस्य सदस्याऽस्ति। एषा तु बौद्धत्रिपिटकस्य भाषा इति प्रसिद्धा। पालिभाषायाः लेखनं ब्राह्मीपरिवारीयासु लिपिषु क्रियते।

'पालि'शब्दस्य व्युत्पत्तिः[सम्पादयतु]

पालिशब्दस्य व्युत्पत्ति विषये विद्वत्सु नाना मतानि प्रचलितानि सन्ति। कश्चित् एनं पाठशब्दात् कश्चित् पायड (प्राकृत इति) शब्दात् व्युत्पन्नः मन्यते। जर्मनविद्वान् मैक्सवैलेसरः तु पालिं पाटलि इत्यस्य संक्षिप्तरूपं उक्त्वा एतन्मतं व्यक्तवान् यदेतस्य सम्बन्धः पाटलिपुत्रस्य प्राचीनभाषया सह अस्ति।

एतेभ्योऽप्यधिकं द्वयोः मतयोः विदुषामधिका नतिः। एकं तत्र पण्डितविधुशेखरभट्टाचार्यस्य मतम्, यस्मात् पालिशब्दः पङ्क्तिशब्दात् व्युत्पन्नः। एतस्य च मतस्य समर्थनं प्राचीनेन एकेन पालिकोशेन अभिधानप्पदीपिकाऽऽख्येन (12 तमशताब्दस्य) भवति। यस्मात् तत्र तन्ति (तन्त्रम्), बुद्धवचनं, पन्ति (पङ्क्तिः) इति शब्देष्वपि पालेरर्थः पङ्क्तिरित्येवास्ति। पूर्वोक्तयोश्च द्वयोः अर्थयोः पालिशब्दस्य ये प्रयोगाः लभन्ते, तेषामपि सार्थकता अनेनैव सिध्यते। बुद्धवचनानां पङ्क्ति पाठस्य वा पङ्क्ति इति रूपेण एतस्यार्थः बुद्धघोषस्य प्रयोगेषु युज्यते। तथापि ध्वनिविज्ञानानिसारेण पङ्क्तिशब्दात् पालेः व्युत्पत्तिः योक्तुं न शक्यते। तदपेक्षया पङ्क्तेरर्थे प्रयुक्तेषु देशजशब्देषु पालिशब्दस्य सम्बन्धः युज्यते, ते यथा- पालि, पाठ्ठ, पाडू इत्यादयः। पश्चाच्च पालिशब्दः संस्कृतेऽपि प्रचलितः दृश्यते। अभिधानप्पदीपिकायाञ्च यत् पालेर्व्युत्पत्तिः पालेति रक्खतीति पालि इति दर्शिता तेनापि मतस्यैतस्य समर्थनं भवति। परन्तु पालिमहाव्याकरणस्य कर्त्रा भिक्षुणा जगदीशकश्यपेन पालेः पङ्क्तिरित्यर्थे ग्रहणे काश्चित् आपत्तयः प्रदर्शिताः। तेन च तस्योत्पत्तिः मूलत्रिपिटकग्रन्थेषु प्रयुक्तात् परीयाय (पर्याय) शब्दात् दर्शयितुं प्रयत्नं कृतम्। सम्राजोऽशोकस्य भाब्रूस्थे शिलालेखे त्रिपिटकीयस्य धर्मपरियायशब्दस्य स्थाने मागधीप्रवृत्तिमनुसृत्य धम्मपलियायशब्दस्य प्रयोगः लभ्यते, यस्यार्थः बुद्धोपदेशाः बुद्धवचनानि वा इति भवति। कश्यपस्य मतेन अस्मादेव पलियायशब्दात् पालिरिति जातः।


मूलेषु त्रिपिटकेषु भाषायाः नाम न लभ्यते। परन्तु बुद्धघोषाद्याचार्यैः बुद्धोपदेशानां भाषा मागधी इति उक्ता। विसुद्धिमग्ग इत्यस्मिन्, महावंस इत्यस्मिँश्च एषा मागधी सर्वेषां प्राणिनां मूलभाषात्वेन उक्ता। तस्य स्थाने पालिशब्दस्य प्रयोगस्तु 14 तमशताब्दात् पूर्वे न दृश्यते। आम्, बुद्धघोषेन स्वकीयासु अट्ठकथा इत्याख्यासु पालिशब्दः प्रयुक्तं नूनम्, परमेतत् न भाषायाः अर्थे, प्रत्युत बुद्धवचनार्थे अथवा मूलत्रिपिटकपाठार्थे प्रयुक्तः। तत्रापि तत् तं पाठं अट्ठकथातः पृथक्कृत्य दर्शयितुं प्रयुक्तः। एवं तेन क्वचिदुक्तं- एतस्य पालिरेवमस्ति, किन्तु अट्ठकथायाम् एवमस्ति। अथवा, न पाल्यामस्ति न अट्ठकथायामस्ति इति। बुद्धघोषात् किञ्चित्कालपूर्वे लिखिते दीपवंशे (परीक्षितव्यम्) ततश्च पश्चाद्रचिते महवंशेऽपि पालिशब्दस्य एतयोः द्वयोरर्थयोः प्रयोगो दृश्यते। अनेनैव च अर्थप्रयोगेन पालिशब्दः तत्साहित्यार्थे तद्भाषाऽर्थेऽपि प्रयोक्तुमारब्धः।

पालि-प्राकृत-व्याकरणम्[सम्पादयतु]

संस्कृतनैकटयदृष्ट्या प्राकृतापेक्षया पालिः पूर्ववर्तनी भाषा। पालिभाषायामपि कतिपयैविपश्चिद्भिर्याकरणग्रन्थाः प्रणीताः सन्ति । पालिशब्दस्य व्युत्पत्तिः केचित् पाठात्, केचित्तु पङ्क्तिशब्दतो मन्यन्ते । एवमेव परियायशब्दात् पालिशब्दस्य व्युत्पत्तिर्मता दृश्यते । अस्माकं मते तु पालिशब्दस्य योनिः पल्लि: पल्लवशब्दो वा सम्भवति । पल्लिशब्दो हि ग्रामवाचकः, ग्रामीणैर्भाषितत्वात् पल्लिभाषा :- क्रमशो लकारलोपेन पूर्वस्वरदीचें पालिः सम्भवति । अपरञ्च प्रथमाचार्यों भरतो निर्दशति ।

मागध्यवन्तिजा प्राच्या सूरसेन्यर्द्धमागधी ।

वाह्रीका दाक्षिणात्याश्च सप्त भाषाः प्रकीर्तिताः ।।

इति । एवमेव-

योधनागरिकादीनां दाक्षिणात्याऽथ दीव्यताम् ।।

वाह्नीकभाषोदीच्यानां खसानाञ्च स्वदेशजा ।।

तथैव महाभारते भारतीयनदीदेशादिनामकथनप्रसङ्ग : भीष्मपर्वणि नवमेऽध्याये उक्तमस्ति -

शूद्राभीराश्च दरदाः काश्मीराः पशुभिः सह । (६७)

खाशीराश्चान्तचाराश्च पह्नवा गिरिगह्वराः ।' (६८) ।

अत्र हि भरतस्य कथनानुसार दीव्यतामुदीच्यानां वाह्नीकभाषा पह्नवनरेशस्य गिरिगह्वरस्य देशभाषा सम्भवतीत्यपि प्रबलस्तर्कः । भौगोलिकदृष्टयाऽपि पह्लवजनपदो गिरिगह्वरः कपिलवस्तुजनपदश्च नातिदूरे स्तोऽधुनाऽपि । पह्लवजनपदो हि सम्प्रति ‘पालपा' इति कथ्यते जनैः। तत्र हि पालसेनवंश्या राजानः शतश आसन् । राज्यमिदं १८४२ वैक्रमाब्दे नेपालाधिराज्येऽन्तर्भावितम् । पालपा हि पर्वतीयराज्येषु सदैव शक्तिसमृद्धं राज्यमासीदिति तदितिहासतो ज्ञायते । तदीयेन राज्ञा मुकुन्दसेनेन नेपालेश्वरो रत्नमल्लो.. भोटशाकातिचारान्मोचित आसीदिति नेपालदेशेतिहासे पठ्यते । पालपावसिन एव भरतशास्त्रे वाह्लीकपदेन व्यवहृताः। तेषामेव भाषा पह्नवी कालान्तरे। पालिः सजाता यस्या नवीनतमं रूपं नवपालिः सम्प्रति नेसालीतिसंज्ञया. नेपालदेशस्य राजभाषाऽस्ति ।

मतमिदमपि यद्यपि चिन्त्यमेव यतो हि शाक्यमुनिना स्वमतोपदेशाय प्रयुक्ता भाषाऽवश्यमेव कोसलव्यापिनी तुः स्यादेव ।। स्वयमेव शाक्यसिंहः कोसलराजवंश्यः पह्लवी हि पह्नवानां भाषा तदा कोसलमूलभाषाऽऽसीदिति न शक्योमिञ्च तुम् । तथापि भरतशासनानुसारेण मागधीअवन्तिजा - प्राच्या - सूरसेनी - अर्द्धमागधी - बाह्रीका-दाक्षिणात्यासुपलिशब्दो। वाह्लीकशब्दमेव नैकटचेन स्पृशति । अपरञ्च तेन बाह्निकभाषा दीव्यतामुदीच्यानां भाषा कथिता पालिसंशयमेवौदीच्या भाषा कपिलवस्तु-मल्लपुरी-.. वैशाली-प्रभृतिजनपदातां राजभाषाऽपि । तेन वयं पालिशदं पहलवेन वा. बाह्लीकेन सहैव संयोजयितुं विवशाः स्मः । तथाचिन्तनयास्मान् विष्णुिपुराणमपि बलान्नियोजयति । तत्रोक्त यत्सगरेणं शकयवनकाम्बोजपारदपह्नवाः हुन्यमाना वसिष्ठं शरणं जग्मुः ।

ते च तेन सगरसङ्गरपरिपालनाय निजधर्मद्विजसंगपरित्यागं कारिताः ते तथा स्वसंस्कृतितश्च्याविता निश्चयमेव कालान्तरे मूलभाषां विस्मृत्य असंस्कृतामेव भाषामशिश्रियन्निति किमाश्चर्यम् । सैव भाषा स्थाननैकटयेन शाक्यै हीतेति च न तथाऽसङ्गतम् । ते च शाक्याः कपिलवस्तुतो मागधेन न अजातशत्रुणा प्रताडिताः स्थानमुत्सृज्य गिरिकन्दरासु प्रविष्टाः सन्तः पश्चिमतः समागतानां खसानां सङ्गत्या भाषाविकारमभंजन्त नवपालिरिति संज्ञिता ' साम्प्रतिकनेपालीभाषाया योनिरिति च सुसङ्गतमेव । प्रतिभाति । स्यादपि यद्वा तद्वा । बुद्धकालात्पूर्वमेव पालिभाषया साहित्यिक रूपं गृहीतमासीदिति तु सर्वसम्मतमेव । तेन तस्य व्याकरणसाहित्यमपि निश्चयमेव सुसम्बद्धमासीदित्यनुमीयते । सम्प्रेयस्याः पञ्च व्याकरणसम्प्रदायाः । स्मृता दृश्यन्ते-कच्चायन-बोधिसत्त : सव्वंगुणाकरमोग्गल्लान -सद्दनीतिभेदात् ।

तत्र कच्चायनं हि व्याकरणं कात्यायनप्रणीतं मन्यते । किन्तु कोऽसौ कात्यायन् इति तु न शक्यते । इदमित्थन्तया वक्तम् । केचित्पाणिनिशिष्यं कात्यायनमेव कच्चायनस्य कर्तारं मन्यन्ते । अपरे तु तमशोकसमकालिकम् । केचितु कञ्चायने चान्द्रव्याकरणकाशिकयोः प्रभावमालक्ष्य तत्काशिकान्तरवत इत्यपि मन्यन्ते - यथार्थस्तु गुहायां निहितः । अश्वघोषस्यास्मरणादेव कच्चायनकारस्य तदवरवर्तित्वं तु नैव सिध्यति । प्राकृतप्रकाशस्तु वाररुच एव मन्यते । वररुचिना हि पालिप्रकृतिकशब्दाः किमर्थ न निरूपिता इति विषयोऽयमन्वेषणस्य । स हि महाराष्ट्री-पैशाची-शौरसेनी-मागधी प्राकृतान्येन व्याकरोति । असौ हि विक्रमसमकालिकत्रिपिटकस्य सङ्कलनं वा प्रणयनमशोकात्प्रागेव सम्पन्नमासीदिति तु - तस्यं श्रमणेभ्यः ‘अप्पमादवग्गो' श्रवणादेव ज्ञायते ।

सामान्यतो धम्मपदस्य सङ्कलनं बुद्धमहानिर्वाणोत्सद्योऽनन्तरमेव राजगृहसभायां सम्पन्नमिति जना विश्वसन्ति । वैशालीपाटलिपुत्रसम्मेलनयोस्तस्य व्याख्या प्रवतता । पालिभाषा यस्यां छम्मपदंसदृशग्रन्थः प्रणीत आसीत् सहस्राधिकवर्षपर्यन्तमपि अव्याकृतैवासीदिति न शक्यते विश्वसितुम् । यद्यपि बुद्धघोषो महाकच्चायन चरितप्रसङ्ग तं वैयाकरणत्वेन नैव स्मरति तथापि न तावदेव पुष्टं प्रमाणं महाकच्चायनस्य कच्चायनव्याकरणकर्तृत्वनिरसनाय (अधिकांशैतिह्यविदः कच्चयनव्याकरणं बुद्धशिष्यमहाकच्चायनप्रोक्तमेव मन्यन्ते । पूर्वव्याख्यातत्वादेव प्राकृतप्रकाशकारस्तन्नानुवदति ग्रन्थे । कच्चानशब्दो वा कच्चायनशब्दः कात्यायनमेव सङ्केतयति। ग्रन्थगौर्वदृष्ट्या कच्चायनं हि व्याकरणं महाकच्चायन प्रणीतमेव सुम्भवति कामं बुद्धघोषेण वा अश्वघोषेण नैवापि स्मृतं स्यात् ।

कच्चायनो हि केवलं सूत्राणां कर्ता। तस्य च वृत्तिभागः सङ्घनन्दिना प्रणीतः, प्रयोगश्च ब्रह्मदतेन, न्यासस्तु विमलबुद्धिनेति । उक्तमेव -

कच्चायनेन कर्ता योगो वृत्ति चं 'संघनन्दिनो ।

पयोगो वम्मदत्तेनः न्यासो विमलबुद्धिना।।

तत्र हि सुत्राणां सङ्ख्या ६७५ मता यद्यपि न्यासे ७१० सूत्राणि । व्याख्यातानि । सूत्रसंहतिरियं चतुषु कल्पेषु विभक्तम्-सन्धि-नाम-आख्यात- कृद्विधानाख्येषु । बुद्धधियदीपङ्रेण तत्र सन्धि-नाम-कारक-समास-तद्धितःआख्यात-कृदिति सप्तकोण्डान्यस्यः स्मृतानि ।

विमलबुद्धेः न्यासः मुख्यदत्तदीपनीतिसंज्ञितः छपदभिक्षोन्यसप्रदीपःतस्यैत्र कच्चायनसुत्तनिश; धम्मसेनापतेः ५६८ कारिकात्मिका कच्चायनकारिका, स्थविरसंघरक्खितस्य सम्बन्धचिन्ता, स्थविरसद्धम्मसिरि 'इत्येतस्य सद्दत्थभेदचिन्ता,बुद्धधियदीपङ्करस्य रूपसिद्धिः धम्मकीत्तेर्बालावतारः, भदन्तनागिनोख्यस्य सद्दसारथजालिनी,स्थविरमहामसाख्यस्थ कच्चायनभेदः तस्यैव कच्चायनसारः, क्यच्वाऽऽख्यस्य सद्दविन्दुः, महायिजितावी इत्येतस्य कञ्चायनवण्णना, तस्यैव वाचकोपदेसाख्यः, सिरिसद्धम्भालं कारस्य (?) अभिनवचुलिनिरुत्तिः, अज्ञातकर्तृकं वलित्पबोधन, अज्ञातकर्तृ का धातुमंजूषाख्या च कच्चायनव्याकणमधिकृत्य कृताः पालिव्याकरणग्रन्थाः ।

अपरश्च वैयाकरणसम्प्रदायो मोग्गलायनस्य । अयं हि ‘मागधसदृलक्खण इत्यष्यभिधीयते । अस्य प्रणेता महाथेरमोग्गलायनाख्यनो मोग्गल्लायाख्यो वा। मोग्गल्लानस्य स्थितिकालोऽपि न विवादबाह्यः । स हि लङ्कनस्थितस्य अनुराधापुरस्य यूपारामविहार निवासी राज्ञः परक्कमभुजस्य समकालिक राजाऽसौ वैक्न मद्वादशतकोत्तरार्द्धस्थितिमानिनित्यनुमितः । ग्रन्थोऽयं भदन्तैन । आनन्दकौसल्यायनेन भाषान्तरितम् । अत्र हि ८१७ सूत्राणि सन्ति । एषां हि । सूत्राणां वृत्तिः सूत्रकोरेणैव प्रणीता तेषां पञ्चिका च। सर्वाङ्गपूर्णेऽस्मिन् । व्याकरणे सूत्रपाठातिरिक्त उणादिपाठ गणपणप्रभृत्यङ्गान्यपि लभ्यन्ते।

पियदस्सी इत्येतस्य पदसाधनं, वनरत्नमेघंकरोख्यस्य प्रयोगसिद्धिः वाचिस्सरराहुलस्य सोग्गल्लानपञ्चिकाप्रदीपः, अज्ञातकर्तृ को धातुपाठेश्व मोग्गल्लायनव्याकरणसम्बद्धग्रन्थाः ।

सद्यनीतिश्च पालिव्याकरण सम्प्रदायेऽपरः । अस्य च प्रणयनं भिक्खु अगवंस इत्याख्येन कृतम् । स हि ब्रह्मदेशीयस्य राज्ञां नरपतिसिन्धोगु रुरिति स्मृतः । अस्य च स्थितिकालः १२२४-१२६० मितवैक्रमाब्दाभितः। अत्र हि २७ अध्यायाः पदधातुसुत्तमालाख्येषु त्रिषु भागेषु विभक्तः । सुत्तमालायां हि १३९१ सूत्राणि सन्ति । इदं हि मनासद्दनीतिश्कुल्लकसद्दनीतिश्चेति द्वयोविभागयोविभक्तम् । तत्र हि प्रथमेऽष्टादशाध्यायाः महासहनीतिरित्याख्याता. शेष नवाध्यायाचे चुल्लकेसनीतिसंज्ञिताः ।

हिंगुलबलजिनरतनभिक्षुप्रणीतो,' धात्वत्थदीपनी, व्याकर सम्बद्धग्रन्थः । बोधिसत्तव्याकरण-सव्वगुणाकरव्याकरणविषये न तथा किमपि सम्प्रत्यपि शांतम् एतदतिरिक्तमपि सन्त्यन्येऽपि स्फुटव्याकरणग्रन्थाः पालिभाषासम्बद्धाः । ते चेत्थम् -

सामणरधम्मदस्सी इत्तेतस्य वच्चवाचकाख्यग्रन्थः, तस्योपरि सद्धम्मनन्दिनष्टीका, मंगलभिक्षो गन्धद्विसंज्ञिनः, ब्रह्मदेशनरेशस्य क्यच्वाऽऽख्यस्य सुवया प्रणीतः विमत्यत्थप्पकरणाख्यो ग्रन्थः, अरियवंसप्रणीतं गन्धाभरणं, ज़म्बुधनप्रणीता संवण्णनानयदीपनी, कीत्तिसिरराजसिंहस्य कारकपुष्ठमञ्जरी, सद्धम्मपालस्य सद्दवृत्तिः अज्ञातकर्तृकं सुधीरमुखमण्डनं, भिक्खुविचित्ताचारस्य नयंलक्खणविभावनी, सद्दविन्दुः, सद्दकलिका, सद्दविनिच्छयश्च ।

अंभूतवादो। निरयं उपेति

यो वा पि कत्वा न करोमी चाह ।

उमो पि ते पेच्च समा भवन्ति

निहीनकामा मनुजा परत्थ ।।

प्राकृतभाषोत्पत्तिविषये पण्डिता नैकमत्यं भजन्ते । केचन प्राकृतं प्रकृतिः संस्कृतं तत आगतं प्राकृतमिति वदन्ति, अपरे तु प्रकृत्या स्वभावेन सिद्धं " प्रकृतं प्रकृतीनां साधारणजनानामिदं प्राकृतमित्यपि कथयन्ति । पूर्वपक्षे * प्रकृतिसंस्कृतशब्दयोः समन्वयो नैव तिष्ठति, अपरपक्षे च स्वभावस्य लक्षणं नैव । स्पष्टम् । अतो द्वावेव पक्षौ चित्यो दृश्येते । समाधानपक्षधरास्तु विश्वसन्ति यत्प्राकृतस्य साहित्यिक रूप संस्कृतं संस्कृतस्य सामान्यरूपं प्राकृतमिति ।

अनादिकालादेव द्विविधैव भाषा प्रचलिता दृश्यते, एका शिष्टसम्मता स्थिरप्रकृतिका अपरा जनमामान्यभाषिता तदपेक्षया अस्थिरप्रकृतिका । प्रथमा हि साहित्यिकस्वरूपा अपरा च भाषिता । भाषिता हि आषा देशकालजनानुरूपं भिद्यत एव । यदा हि ऋषिभिर्वेदमन्त्री दृष्टास्तदापि भाषितभाषाया पृथगस्तित्वं नैव प्रत्याख्यातुं शक्यते । संस्कृतं हि देववाणी प्राकृतश्च मनुष्यवाक् । अधुनाऽपि कस्याश्चिदपि 'देशभाषाया द्वे, रूपे दृश्येते शिष्टं सामान्यभाषितञ्च । तथैव संस्कृतप्राकृतविषयेऽपि । शिष्टैर्यत्प्रवर्तितमा यच्च सामान्यजनैः प्रवर्ततमिति समानप्रकृतिकाया अपि भाषाया द्वे धारे भवत एव । तेन न तु सर्वतः संस्कृतमेव प्राकृतत्वेन परिणतं सम्भवति न हि प्राकृतमेव संस्कारं लब्ध्वा संस्कृतभाषारूपेण प्रचलितमित्यपि । उभे एव धारे अनादिकालादेव प्रचलिते आस्तां शिष्टा सामान्या एकस्या एव नद्या द्वे धारे इवे । शिष्टा हि स्वं रूपं यथावद्रक्षतुं समर्थाऽभवत् सामान्य तु जनजिह्वागनुसारेणानेकधाऽत्मानं व्यभजत् ।

यकारस्य जकारोच्चारणम्-यो देवानां प्रथमं, यो देवेभ्य आतपति इति वैदेः प्राकृतेऽपि जं भंट्टा आणवेदि, जह, जेण। तथैव षकारस्य खकारो चारण-षण्मुखः खण्मुखः । वर्षा इत्यस्य वरेखा वरिखा वा वरखा। ऋकारस्य वेदे 'रे' इत्युच्चारणम् यथा ‘अमृतस्य' इत्यस्य अम्र तस्य इति प्राकृते । 'रि' इति यंथा ऋषिरित्यस्य रिखि वा रिसि । वेदे हिस' च्छ' इत्युच्चारणम् यथा तत्सवितुरित्यस्यं तच्छवितुरिति । प्राकृतेऽपि तथैव वच्छाओ। वेदे हि । इनार्थं प्रयुक्तो “न' शब्दः प्राकृते विशेषतोऽपभ्रंशोऽपि तस्मिन्नेवार्थे प्रयुज्यते ।

तेनैव प्रकृतिर्न तु संस्कृतं. न तु स्वभाव एवं अपितु प्रकृतिभाषितं प्राकृतं । . संस्कृतजनभाषितं संस्कृतमिति । रामायणे हि वाल्मीकीये सुन्दरकाण्डे -

अंहं हृद्यतितनुश्व व वानरश्न विशेषतः ।

वाचं चौदाहरिष्यामि मानुषीमिह संस्कृताम् ।।

यदि वाचं प्रदास्यामि द्विजातिरिव, संस्कृताम् ।

रावणं मन्यमानी मां सीता भीता भविष्यति ।।[१]

इत्युक्त्वां' शिष्टसामान्यभाषाद्वयस्यावस्थितिः स्वीकृताऽस्ति । तदाऽपि द्विजातिवाक् तदितरवाक् च भिन्नैवाऽऽसीत् । :: प्राकृतस्य हि प्राचीनतमत्वेनास्माभिर्जातं रूपं हि पालिरेवः। तेनैव पालिभाषा शेषप्राकृतभाषांभ्यः शिष्टैं: पृथंगेव व्यवहृता दश्यते । प्राकृतेषु च यद्यपि । साहित्यिकदृष्ट्या महाराष्ट्री सर्वोत्कृष्टा मता। वैयाकरणैश्च तामेव प्रथम विविच्य शौरसेनीं 'शेषमहाराष्ट्रीवत्' इति निर्दिष्टा तथैव ‘महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः' इति चोपदिष्टं शिष्टः । तथापि स्वरूपदृष्टया तु प्राकृतक़मश्वत्थं मतः शिष्टः- पैशाची, चूलिका पैशाची, शौरसेनी, मागधी, महाराष्ट्री अर्द्धमागधी च । किन्तु क्रमोऽयं न सर्वसम्मतः । भरताचार्यस्तु ।

माध्यन्तिजा प्राच्या सागधी वर्दमागधी।

बाहिलकी दाक्षिणात्या च सप्त भाषाः प्रकीर्तिताः।।

हेमचन्द्राचार्यसदृशीर्वाचीनाचार्यास्तु प्राकृतं (महाराष्ट्री)शौरसेनी,मागधी,पैशाची, चूलिका पैशाची,अपभ्रंशश्चेति षडेव भाषा इति । तत्रापि महाराष्ट्रीशौरसेन्योः प्रकृतिः संस्कृतं शेषाणां तु शौरसेन्येवेति प्राकृतप्रकाशे स्पष्टम् । सूक्ष्मभेदावेधारणे तु भेदास्त्वनेके सम्भवन्ति किन्तु भाषिक संरचना दृटष्चा पञ्च एवं भाषाः संस्कृतं,पालिःप्राकृतम्,अपभ्रंशः मिश्रश्च । संस्कृतं हि वैदिक-लौकिक भेदेन द्विविधम् - पालिस्तुः प्राचीनार्वाचीनभेदेन द्विविधः, प्राकृतश्च पैशाची-शौरसेनी-मागधी महाराष्ट्रीभेदेन चतुर्विधा, अर्द्धमागधी हि मागधी-शौरसेन्योरन्तर्वैतन्येव । अपभ्रंशश्च देशभेदादनेकविधाः । एवं मित्रं तु देशभाषा: हिन्दीनेपालीप्रभृतयः ।

प्राकृतस्य हि सन्त्यनेके व्याकरणग्रंथाः शिष्टसम्मताः । तेषु कतम आद्य. इति विषये पण्डितानां नैकमत्यम् । केचिद् वररुचिकृतः ‘प्राकृतप्रकाश एवाद्यव्याकरणं इत्यामनन्ति । अपरे तु चण्डप्रोक्त ‘प्राकृतलक्षणम्' एवाद्यव्याकरणं. मन्यन्ते । ऐतिहासिकक़मेण वाररुचमेव व्याकरणमाद्य मतम् । अपरञ्च चॅण्डौं हि अपभ्रंशमपि. स्मरति न तु वररुचिः । वाररुचस्य व्याख्या भीमहेन कृता प्राकृतलक्षणस्य तु व्याख्याने षड्भीषाचन्द्रिकाऽपि स्मृतेति ।

वररुचेः प्राकृतप्रकाशः चण्डाख्यस्य प्राकृतलक्षणं, हेमचन्द्रस्य- सिद्धहैमशब्दानुशासनम्, क्रमदीश्वरस्य संक्षिप्तसारः, मलयगिरेः शब्दानुशासन, त्रिविक्रमदेवस्य प्राकृतव्याकरणं, सिंहराजस्य प्राकृतरूपावतारः, लक्ष्मीधरस्थ षड्भाषाचन्द्रिका, मार्कण्डेयस्य षड्भाषचंद्रिका, रामचंद्रतर्कवागीशस्य प्राकृतः । कल्पतरुश्च प्राकृतव्याकरणग्रंथाः । एवमेव लङ्कश्वरस्य प्राकृतकामधेनुः सामंतभद्रस्य प्राकृतव्याकरणं, नरचंद्रस्य प्राकृतप्रबोधः, शेषकृष्णस्य प्राकृतेः । चंद्रिका, वामनाचार्यस्य प्राकृतचंद्रिका, रघुनाथंशर्मणः प्राकृतानन्दः, नृसिंहस्य प्राकृतप्रदीपिका, चिब्नबोम्मभूपालस्य प्राकृतमणिदीपिका, अययदीक्षितस्य प्राकृतमणिदीपः, 'भीमकवेः षड्भाषाचंद्रिका, दुर्गुणाचार्यस्यः षड्भाषरूपमालिका, नामोवाख्यस्य षड्भाषासुबंतल्यादर्शः, षड्भाषामञ्जरी, षड्भाषीवातकम्, षड्भाषासुबंतादर्शःशुभचंद्रस्य प्राकृतव्याकरणे, श्रुतसागरस्य औदार्यचिंतामणिः, भोजस्य प्राकृतव्याकरणम्, पुष्पवननाथस्य प्राकृतव्याकरणम् चेति प्राकृतव्याकरणानि श्रुतानि ।

तत्रापि वररुचेः प्राकृतप्रकाशः प्राकृतव्याकरणस्यादर्शो ग्रन्थः । तत्र हि द्वादशाध्यायाः यत्र प्रथतनवाध्यायाः प्राकृतसामांन्यसम्बद्धाः दशमोऽध्यायः पैशाचीसम्बद्धः, चरमौ द्वौ मागधीशौरसेनीसम्बद्धौ। महाराष्ट्री हि प्राकृतशब्देनापि व्यवह्रियते । अस्य हि कात्यायनस्य प्राकृतमञ्जरी भामहस्य मनोरमा, वसंतराजस्य प्राकृतसञ्जीवनी, सदानंदस्य सुबोधिनी, मथुराप्रसाददीक्षितस्य चंद्रिका, उदयरामडबरालस्य टिप्पणी परिशिष्टञ्चास्य ख्याख्याग्रंथाः ।

चण्डाख्यस्य - प्राकृतलक्षणं हि अपभ्र शमपि व्यवहरति । अत्र हिः । विभक्तिस्वरव्यञ्जनविधानाख्यास्त्रयः पादाः । अस्प ग्रंथकतुरेव वृत्तिः । समुपलभ्यते । हेमचन्द्रस्य सिद्धहमशब्दानुशासने सप्तमाष्टमाध्यायी प्राकृतसम्बद्धौ । अत्र हिं. चूलिकाप्राकृतम् आर्षप्राकृतञ्चेति द्वौ भेदावधिकौ । अत्र हि ग्रंथकर्तुरेव । स्वोपज्ञवृत्त्यतिरिक्तम् उदयसौभाग्यगणिनः ढुण्ढिकापरपर्याया प्राकृतप्रक्रियावृत्तिः प्रसिद्धा। ग्रंथस्यास्य प्रणयनकालः १२२९ मितवैक्रमाब्दः । एवमेव क्रमदीश्वरकृतस्य संक्षिप्तसाराख्यस्य शब्दानुशासनस्य चरमो भागः प्राकृतसम्बद्धो यस्य ग्रंथकर्तुरेव स्वोपज्ञवृत्यतिरिक्त जूमरनन्दिकृता रसवती, चण्डीदेवशर्मकृता प्राकृतदीपिका, विद्याविनोदाचार्यकृता प्राकृतापादटीकाः " प्रसिद्धाः ।

त्रिविक्रमदेवस्य प्राकृतव्याकरणं हि केचिद् वाल्मीकिसूत्रव्याख्यामामनन्ति । अपरे तु स्वसूत्रव्याख्यामिति वदन्ति,अन्ये तु हेमचंद्रसूत्रवृत्तिरित्यपि कथयन्ति है:षड्भाषाचंद्रिकाकारोऽपि प्रथममेव मतं समर्थयति । अस्य च कालः १९९३१३५७ मितवैक्रमाब्दानभितोऽनुमितः । सिंहराजस्य प्राकृतरूपावतारस्त्रिविक्रमसूत्रानुयायी । अस्य प्रणयनकाल% १३०० मितवैक्रमाब्दमभितः । लक्ष्मीधरस्य षड्भाषचंद्रिका त्रिविक्रमव्याख्यातसूत्राण्येव ; व्याख्याति है । अस्य समयस्तु १६१० वैक्रमाब्दमभितः ।

मार्कण्डेयस्य प्राकृतसर्वस्वमार्याच्छन्दोमयं स्वोपज्ञवृत्तिसहितम् ।

रामशर्मतर्कवागीशस्य प्राकृतकपतृङ्गः पद्यमयो लक्क धकृतकृतकामधेनु:मनुवृत्य कृतः ।। . प्राकृतलक्षणकारेण.. अपभ्रंशादीनां लक्षणमित्थं निर्दिष्टम्, अपभ्रशंस्य यथा—न लोपोऽपभ्र शेऽधोरेफस्य यथा वस्तु आमी : पैशांच्या यथा ‘पैशाचिक्यां रणयोनौ यथा अले अले, मागध्या यथा- मागधियां रस्योलशी । यथा शेशे शौरसेन्या यथा-शौरसेन्यां तकारस्य दकारो वा भवति । यथा-- गदं गयं। अपभ्रंशे लिङ्गमतन्त्र भवति । प्राकृतविषये सङ्ग्रहश्लोकाः ।

सिद्धिः संस्कृतशब्दानां भवेत् पञ्चाशदक्षः ।

प्राकृतानान्तु सिद्धिः स्यात्तैश्चत्वारिंशदूक्षरैः ।।

ऋलू वर्षी विनैकारौकाराभ्यां च दश स्वराः ।

शषावसंयुक्तौ विनै बान्ये हलो मताः ॥

नयोः स्थाने णलौ स्यातां ङौ वर्गयुजौ क्वचित् ।

क्वचिदुष्माऽन्ययुक्प्रायोऽन्यवर्गीयुंजोऽत्रंन ।।

कु, क़, क्त, क्य, क, क, क्व, के, इत्येतेषां क इत्ययुम् ।

ङ्ग ग ग्न ग्य, ग्र, गं लगानां ग्ग इत्यादेश इष्यते ॥

प्राकृते न द्विवच्ते: सुप्तिां चोपपद्यते ।

यस्साहि वचनस्याने बहुखं सूत्रचोदितम् ।।

हलन्तता नास्ताहलां सूत्रैलपादिशासनात् ।

लिङ्गानां वैपरीत्यञ्च संस्कृतात् प्राकृते भवेत् ।।

द्वितीयादिविभक्तीनां स्थाने षष्ठी क्वचिद् भवेत् ।

चतुथ्र्यो अपि षष्ठी स्यानित्यमेकबहुत्वयोः ।।

तादर्थे तु चतुथ्यः स्यादेकत्वे सा विकल्पिता।

वधात् परस्य ङे स्थाने षष्ठी ङयि च वा भवेत् ।

द्वितीया सप्तमीस्थाने कुत्रचित् सूत्रचोदिता ।।

नियमो नात्मनेभाषा प्रस्मैपदिनोरिह।

शबादिप्रत्ययानान्तु प्रयोगो नात्र सम्मतः ।।

एतत् सर्वं बहून् ग्रंथान् सूत्राण्यालोच्य निश्चितम् ॥

देशभाषासु नेपालीभाषायाः राजगुरोः हेमराजपण्डितस्य चंद्रिका हिन्दीभाषायां पण्डितकामताप्रसादगुरोः हिन्दी व्याकरणञ्च प्रसिद्धग्रंथाः ।

अपि दर्शनीयम्[सम्पादयतु]

बाह्यतन्तूनि[सम्पादयतु]

शब्दकोशाः :

ग्रन्थाः :

पालेः अध्ययनम् :

चर्चासमूहाः :

पालिक्रमादेशाः उपकरणानि च :

श्रेणी:भारतस्य भाषाः

  1. ३०।१७,१८
"https://sa.wikipedia.org/w/index.php?title=पालिभाषा&oldid=451367" इत्यस्माद् पुनः प्राप्तिः