सामग्री पर जाएँ

लक्ष्मीः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रविवर्मणा चित्रिता लक्ष्मीः

देवी लक्ष्मीः - सम्पदधिदेवता लक्ष्मीः विष्णोः पत्नी । त्रिमूर्तिषु विष्णुः जगतः स्थितिकारकः अर्थात् रक्षकः । जगद्रक्षणाय सम्पद् / ऐश्वर्यम् अपेक्षितम् भवति । उचितमेव यत् ऐश्वर्यदेवता लक्ष्मीः एव अस्य पत्नी अस्तीति।

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

एषा देवी स्वर्णहस्ता जनेभ्यः सम्पदं वर्षति । लक्ष्मीः यत्र तत्र सम्पद् भवति । सा च सम्पद् बहुविधा भवति - धनसम्पत्तिः, बुद्धिसम्पत्तिः, धर्मसम्पत्तिः इत्यादि । किं बहुना, लोके यद्यदपेक्षणीयं तत्सर्वं लक्ष्म्याः अनुग्रहेण एव सिध्यति । आत्मज्ञानार्थिना सर्वेणापि बुद्धिसम्पत् अवश्यं सम्पादनीया । एतस्मात् कारणाद् एव नवरात्रोत्सवे सरस्वतीपूजायाः पूर्वं लक्ष्मीपूजा प्रवर्तते ।
अद्यत्वे तु लक्ष्मीपूजा केवलम् ऐहिकसम्पदं प्राप्तुं क्रियमाणा दृश्यते । चञ्चलां लक्ष्मीं यः अनुधावति तस्य सा दूरे एव तिष्ठति । न तस्य वशमेति । यस्तु पुरुषः सत्त्वगुणसम्पन्नः तस्य वशे भवति सा । शुद्धेन मनसा यदा पुरुषः अध्यात्मरतिः भवति तदा सः शान्तिम् ऐश्वर्यं सम्पदं च प्राप्नोति । सात्त्विकस्य मनसः द्योतकः क्षीरसागरः । तस्माद् उत्थिता लक्ष्मीः अस्य एव तत्त्वस्य निरूपणम् करोतीव । लक्ष्म्याः प्रसादेन अस्माभिः सर्वविधा सम्पत् प्राप्तुं शक्या । इममेवार्थं विशदयति अयं श्लोकः ।

रतिर्मतिसरस्वतीधृतिसमृद्धिसिद्धिश्रियः
सुधसखि! यतोमुखं चिचलिषेत् तव भ्रूलता ।
ततोमुखमथेन्दिरे बहुमुखीमहम्पूर्विकां
विगाह्य च वशंवदाः परिवहन्ति कूलङ्कषाः ॥

श्रीः इति नामान्तरं लक्ष्म्याः । प्रथमं सा भृगुमुनेः ख्यात्यां पुत्रीरूपेण अवातरत् । ततः परं क्षीरसागरे मथ्यमाने सा ततः सञ्जाता । यदा यदा विष्णुः भूलोके अवतरति तदा सापि तेन सह अनुरूपेण रूपेण अवतरति एव ।

राघवत्वेऽभवत् सीता रुक्मिणी कृष्णजन्मनि ।
अन्येषु चावतारेषु विष्णोः एषा अनपायिनी ॥

यथा अर्थः - वाक् च, ज्ञानं - बुद्धिः च, तद्वत् विष्णुः श्रीश्च अपृथक्सिद्धौ । लोके यद्यत् पुंवाचकं तत्तद् विष्णुरिति यद्यत् स्त्रीवाचकं तत्तत् लक्ष्मीरिति च व्यपदिश्यते । अनयोः परं न विद्यते ।

.... पुंनामा भगवान् हरिः ।
स्त्रीनाम्नी लक्ष्मीर्मैत्रेय नानयोर्विद्यते परम् ।

लक्ष्म्याः चत्वारो हस्ताः । तयोर्द्वाभ्यां पद्मे धरति सा । पद्मा कमला इत्यपि तस्याः नाम्नी । बिल्वनिलया इत्यपि एषा कीर्त्यते । अस्याः अर्चामूर्तेः पार्श्वयोः क्वचित् गजौ दृश्येते । एषा हिरण्यवर्णा कथ्यते । देवालयेषु एषा पद्मे आसीना भवति । अस्याः चत्वारो हस्ताः देवी एषा चतुर्वर्गपुरुषार्थप्रदायिनी इति सूचयन्ति ।
लक्ष्मीः अष्टसु रूपेषु पूज्यते । तानि च आदिलक्ष्मीः, गजलक्ष्मीः, धनलक्ष्मीः, धान्यलक्ष्मीः, सन्तानलक्ष्मीः, वीरलक्ष्मीः, विजयलक्ष्मीः, धैर्यलक्ष्मीः, च । बहुषु देवालयेषु अष्टौ लक्ष्मीमूर्तयः प्रतिष्ठापिताः पूज्यन्ते । चेन्नैनगरे समुद्रतीरे प्रसिद्धः अष्टलक्ष्मीदेवालयः वर्तते ।

पश्यतु

[सम्पादयतु]

श्रियः रूपवैविध्यम्

[सम्पादयतु]
# रूपाणि भावः
आदिलक्ष्मीः मूलदेवी
धान्यलक्ष्मीः धन्यानि अनुगृह्णाति ।
धैर्यलक्ष्मीः धैर्यस्य अधिदेवी
गजलक्ष्मीः गजस्यरूपवती देवी
सन्तानलक्ष्मीः सन्तनम् अनुगृह्णाति
विजयलक्ष्मीः विज्यस्य अधिदेवी
विद्यालक्ष्मीः विद्यायाः अधिष्ठात्री
धनलक्ष्मीः सम्पदः देवी

वीथिका

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=लक्ष्मीः&oldid=479031" इत्यस्माद् प्रतिप्राप्तम्