वेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वेदाः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

वेदः स्वरूपभेदात् त्रिविधः — ऋग्वेदः, यजुर्वेदः सामवेदश्चेति । यत्रार्थवशेन पादव्यवस्थाऽस्ति तेषां छन्दोबद्धानां मन्त्राणां नाम ‘ऋक्’ इति वेद्यम् । ऋचां समूह एव ‘ऋग्वेद' इति पदेन व्यवह्रियते । यजुः इत्येतत्पदं यज् धातोः उसि प्रत्यये कृते निष्पद्यते । यस्मिन् वेदे यज्ञयागादिक्रियाकलापानुरोधेन मन्त्राणां सन्निवेशोऽस्ति स ‘यजुःवेद' इति निगद्यते । यत्र गीतिरूपा मन्त्राः विद्यन्ते स उपासनाकाण्डपरो वेदः ‘सामवेद' इति गीयते । मन्त्राणां त्रिविधत्वात् वेदाः ‘त्रयी' इति नाम्ना प्रसिद्धाः सन्ति । मन्त्राणां समूहः ‘संहिता' इत्येतेन व्यपदेशेन व्यपदिश्यते । यज्ञानुष्ठानं दृष्टौ निधाय विभिन्नर्त्विजां कृते संहितानां सङ्कलनं वेदव्यासश्वकार । मन्त्रसंहितानां सङ्कलनं चतुविधतया कृतं, तस्मात् संहिताः सन्ति चतस्रः - ऋक्संहिता, यजुःसंहिता, सामसंहिता, अथर्वसंहिताश्चेति । अत एव वेदाश्चत्वारः स्मृताः ।

एकैवासीद् यजुरवेदः चतुर्धाः व्यभजत् पुनः ||- गरुडपुराण | संरचनागत स्वरुपेण वेदाः त्रयीति शब्देन कथ्यते | वेदत्रयी-ऋक्सामयजुरेव च | येतन्मण्डलं तपति ......स ऋचां लोकः| .......तानि सामानि स साम्नां लोकः | ........स यजुषां लोकः | इति शतपथे मण्डलब्राह्मणे | चत्वारः वेदाः भवन्ति । ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदश्चेति । एकैकस्यापि संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषत् इत्येवं विभागाः सन्ति । वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति । तानि च सूक्तानि प्रतिभावतां ऋषीणां योगदानानि भवन्ति । एकैकस्यापि सूक्तस्य ऋषिः, छन्दः, देवता इति त्रितयमस्ति । संस्कृतसाहित्ये वेदानां स्थानं सर्वोपरि वर्त्तते । भारते धर्मव्यवस्था वेदायत्तैव । वेदो धर्मनिरूपणे स्वतन्त्रभावनप्रमाणम्, स्मृत्यादयस्तु तन्मूलकतया । श्रुतिस्मृत्योर्विरोधे तु श्रुतिरेव गरीयसी । न केवलं धर्ममूलतयैव वेदाः समादृताः, अपि तु विश्वस्मिन् सर्वप्राचीनग्रन्थतयाऽपि । प्राचीनानि धर्मसमाज –व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते । मन्त्रश्च ब्राह्मणश्चैव द्वावेतौ वेदसंज्ञकौ | कण्ठं भित्वाविनिर्यातौब्रह्मण उत्तमांगतः|| इति| प्रधानतया वेदो द्विविधः मन्त्ररूपो ब्राह्मणरूपश्च । मन्त्रसमुदाय एव संहिताशब्देन व्यवहृतः । ब्राह्मणरूपो वेदभागस्तु संहिताभागस्य व्याख्यारूप एव । स चायं ब्राह्मणभागो यागस्वरूप बोधकतया वैदिकविधिप्रयोगविवरणया च प्रथितः । ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति- ब्राह्मणम्, आरण्यकम् उपनिषदश्च । यज्ञस्वरूपप्रतिपादको ब्राह्मणभागः । अरण्ये पठिताः यज्ञस्याध्यात्मिकं रूपं विवेचयन्तो वेदभाग आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरूपतया वेदान्त इत्युच्यते । संहिताभागः ब्रह्मचारिणामुपयोगी, ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम्, उपनिषद्भागश्च संन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते ।

अनादिनिधनाः वेदाः ब्रह्मणः चतुर्भ्य मुखेभ्यः निःस्सृता इति प्राक्तनैः निरूपितम् । अकारात् भूः ऋक्, उकारात् भुवः यजुः,मकाराच्च स्वः सामः ,इति च | त्रयीं तिस्रो वृत्तिः त्रिभुवनमथो त्रीनपि सुरानकाराद्यैः वर्णै .....इति पुष्पन्ताचार्यै ओंकारवर्णनप्रसंगे |

वेदानां रचना कालः[सम्पादयतु]

वेदानां वेदाविर्भावकालमधिकृत्य वैदिकविद्वत्सु गम्भीरो मतभेदो दृश्यते। भारतीयसभ्यतायाः प्राचीनतमं रूपं विज्ञातुं वैदिकग्रन्थानामुपयोगिता नितान्तं माननीयाऽस्ति, सिद्धान्तस्यास्य स्वीकरणे केषाचिदपि विदुषां केनाऽपि प्रकारेणापत्तिर्नास्ति । किश्चास्याः वैदिकसभ्यतायाः ज्योतिः कदाऽस्यार्यावर्त्तस्य पवित्रभूमिमालोकितामकरोत् ? कस्मिन् काले पावनचरितानाम् ऋषीणां चित्ते आध्यात्मिकज्ञानस्य दिव्यसन्देशं दातुमियं कामना जागृताऽभवत् ? कदा तैरलोकसामान्यगूढार्थविजृम्भितमन्त्राः अरच्यन्त ? एतेषां प्रश्नानां समुचितोत्तरमधुना न कोऽपि दातुं समर्थः, न चाऽपि भविष्यतिकाले कोऽपि दातुं समर्थो भविष्यति।

भारतीयदृष्टयां ये विद्वांसः श्रद्धां निदधति, तेषां समक्षे तु वेदकालनिर्णयस्य प्रश्न एव नोत्तिष्ठति । तेषां दृष्टया तु वेदाः सन्ति अनादयः । सन्ति ते नित्याः कालापरिच्छिन्नाः । परं पाश्चात्यानां वेदज्ञानां पण्डितानां किञ्च तदनुयायिनां केषाञ्चन भारतीयानां सम्मत्यां तदाविर्भावकालसम्बन्धी प्रश्नो विद्यत एव समाधेयः । प्राचीनभारतीयाः विद्वासो वेदान् अपौरुषेयान् मन्यन्ते, तेषां मते तु वेदरचनाकालविचारो निरर्थको दुरर्थकश्च । पाश्चात्याः विद्वासो यथाबुद्धिवैभवं वेदरचनाकालं निर्धारयन्ति । पाश्चात्यविचारसरणिविदो भारतीयाः अनुसन्धित्सवोऽपि तेनैव मार्गेण वेदकालं निर्णेतुं यतन्ते ।

डॉ० मैक्समूलरस्य मतम्[सम्पादयतु]

डॉ० मैक्समूलरमहोदयः १८५९ ख्रीष्टाब्दे स्वकीये प्राचीनसंस्कृतसाहित्याभिधाने ग्रन्थे वेदानां कालं निर्णेतुं प्रयासं विहितवान् । तस्य सम्मतौ वेदेषु प्राचीनतमस्य ऋग्वेदस्य रचना १२०० वि० पू० काले सम्पन्नाऽभवत् । अनेन तस्य मतेन ऋग्वेदस्य रचना ११५० ई० पू० समीपे जाता इति। मानवकल्याणार्थम् अस्मिन्देशे अभिनवबौद्धधर्मस्योदयः समस्तवैदिकवाङमयस्यास्तित्वमङ्गीकरोति । किञ्चास्य बौद्धधर्मस्योदयात् प्रागेव च ब्राह्मणग्रन्था अपि व्यरच्यन्त । बुद्धेन ब्राह्मणग्रन्थेषु विवेचितानामेव यागविधीनां कष्ट्वी अलोचना क्रियते स्म, अपि च उपनिषत्समर्थितं कतिपयतत्त्वजातम् आत्मसात् क्रियते स्म । अतो बुद्धात् पूर्वतना (५०० ई० पू०) एव ब्राह्मणोपनिषद्भागाः सम्भवन्ति । वैदिकसाहित्ये चत्वारि युगानि सन्ति - छन्दोयुगम्, मन्त्रयुगम्, ब्राह्मणयुगम्, सूत्रयुगञ्चेति । प्रत्येकं युगस्य विकासे तेन वर्षशतद्वयात्मकः कालः कल्पितः, तदनुसारेण बुद्धात् ६०० वर्षतः पूर्वं छन्दोयुगस्यास्तित्वं समायाति । अतः ऋग्वेदस्य रचना ११५० ई० पू० समयात् पश्चात्कालिकी न सम्भवतीति। सम्प्रति जातस्य ऋग्वेदस्य ३२०० वर्षाणि जातानि इति कथयितुं शक्यमिति तदाशयः ।

डा० मैक्समूलरमहोदयः ऋग्वेदस्योदयविषये कांश्चन बिन्दून् आधृत्यैवोक्तां सम्भावनाञ्चकार । न स स्वाङ्गीकृते वेदाविर्भावविषये वस्तुतो निश्चयं गत आसीत् । यतो हि स एकस्मिन् समये भाषमाणः स्वयमेव अभिदधौ यत्, नात्र भूतले काऽपि शक्तिरीदृशी या वैदिकमन्त्ररचनायाः कालं वक्तुं शक्नुयात् निश्चप्रचतया । स इमं विचारं १८८९ शततमे ईशवीयेऽब्दे भौतिकधर्माख्यायां जिफोर्ड-व्याख्यानमालायां प्रकटीचकार । किञ्च तदनुसारिणः पाश्चात्यास्तदीयैरेव तर्कैः कालममुं निश्चयरूपेण कथयितुं प्रवृत्ताः ।

डा अविनाशचन्द्रदासमतम्[सम्पादयतु]

अयं महानुभावः वेदे निर्दिष्टानि अनेकानि भूगर्भशास्त्रीयतत्त्वानि विशेषतः आर्यावर्त्ततश्चतुर्दिक्षु चतुः समुद्रीस्थितिमाधारीकृत्य गणनाद्वारा वेदस्य समयं २५ सहस्रसंवत्सरपूर्वं मन्यते । इदमीयं मतम् ‘ऋग्वेदिक इण्डिया’ (RigVedic India) नामके पुस्तके व्यक्ततयाऽनेन प्रतिपादितम् ।

वेदस्थितज्यौतिषतत्त्वाधारं मतम्[सम्पादयतु]

भारते षड् ऋतवो भवन्ति । अमी ऋतवः सायन- निरयण सूर्यसंक्रमण निमित्तकाः । सायनचान्द्रमासद्वयात्मिका च |यथा- विष्णुपराणे २|८|८१ तपस्तपस्यौ मधुमाधवौ च शुक्रश्शुचिश्चायनमुत्तरं स्यात् | नभोनभस्यौ च इषोर्जसंज्ञौ सहस्सहस्याविति दक्षिणं च| उक्तं सुश्रुतसंहितायां- तपस् तपस्यौ शिशिरः,मधुमाधवौ वसन्तः,शुचिशुक्रौ ग्रीष्मः ,नभोनभस्यौ वर्षा ,इषोर्जौ शरत्,सहस्सहस्यौ हेमन्तः इति |शिशिराद्युत्तरायणम् ,वर्षादिदक्षिणायनम्,द्व्ययने युगपत्संवत्सरो भवति| ते तु पञ्च युगमिति संज्ञां लभन्ते तदेतन्निमेषादियुगपर्यन्तः कालश्चक्रवत् परिभ्रमति |उक्तं वेदांगज्योतिषे माघशुक्लप्रपन्नस्य पौषकृष्णसमापिनः| युगस्यपञ्चवर्षस्य कालज्ञानं प्रचक्षते || सायनसौर उत्तरायणारम्भदिन सन्निकटशुक्ल प्रतिपद्यां अमान्तचान्द्र माघमास आरम्भ भवति|स एव वेदोक्त तपोमासः | ततः पञ्चवर्षात्मकयुगस्य नववर्षारम्भ भवतिव| वर्षान्तं च पौषकृष्णअमावास्यां भवतीति शेषः | इति लगधप्रोक्त वेदांगज्योतिष विषयः | लोके इदमपि प्रसिद्धं यत् प्राचीनकालादधुनापर्यन्तममी ऋतवः पश्चात्सर्पन्ति, अर्थात् पूर्व यत्र नक्षत्रे यस्यर्त्तोरुदयो जायते स्म सम्प्रति स एवर्त्तुस्ततः पूर्ववर्तिनि नक्षत्रान्तरे उदितो भवति । पुराकाले वसन्तो वर्षादिरभवत्, अत एव तस्य प्रशस्ततया भगवद्विभूतिभाव उक्तो गीतायां- ‘ऋतूनां कुसुमाकरः’ इति । सम्प्रति वसन्तसम्पातः मीनसङ्क्रान्तिकालादारभते, मीनसङ्क्रान्तिश्च पूर्वभाद्रपदनक्षत्रस्य चतुर्थचरणे भवति । सेयं स्थितिर्नक्षत्राणां क्रमशः पश्चात्सर्पणेनोत्पन्ना । पूर्वं कदाचिद् वसन्तसम्पातः उत्तरभाद्रपदरेवती-अश्विनी- भरणी –कृत्तिका- मृगशिरः प्रभृतिषु नक्षत्रेष्वासीत्, ततः पश्चात्सर्पन्नयं वसन्तसम्पातः साम्प्रतिकीं स्थितिमनुप्रपन्नः ।

 डॉ० अविनाशचन्द्रदासस्य मतम्[सम्पादयतु]

अयं हि महानुभावः वेदे निर्दिष्टानि अनेकानि भूगर्भशास्त्रीयतत्त्वानि विशेषतः आर्यावर्त्ततश्चतुर्दिक्षु चतुःसमुद्रीयां स्थितिमाधारीकृत्य गणनाद्वारा वेदस्य समयं २७ सहस्रसंवत्सरपूर्वं मन्यते। स्वकीये 'ऋग्वेदिक इण्डिया' (Rigvedic India) नामके पुस्तके अयम् अलिखत् यत्, भौगोलिकीः किञ्च भूगर्भसम्बन्धिन्यो घटनाः अवलम्ब्य ऋग्वेदीयाः रचनायाः अथ च तत्कालवर्त्तिन्याः सभ्यतायाः प्रादुर्भूतायाः प्रायेण सप्तविंश तिसहस्राब्दा अतिक्रान्ताः इति।[१]

ज्योतिविदः सूर्यस्य सङ्क्रमणवृत्तं २७ नक्षत्रेषु विभजन्ति, पूर्णसङ्क्रमणवृत्तम् ३६० अंशानामस्ति । तत् प्रत्येकं नक्षत्रम् ३६०२७ = १३३ अंशानां चापं निर्माति । सङ्क्रमणबिन्दुश्च ७२ वर्षेषु एकमंशं विहायापरमंशं प्रसर्पति । एवम् एकस्मान्नक्षत्रात् सङ्क्रमणबिन्दुः परं नक्षत्रं याति, तत्र ७२ x १३३ = ९७२ वर्षात्मकः कालो भवति। सम्प्रति वसन्तसम्पातः पूर्वभाद्रपदनक्षत्रस्य चतुर्थचरणे भवति, यदा चायं कृत्तिकानक्षत्रे भवति स्म, ततो वर्त्तमानस्थितेः प्राप्तये ४ नक्षत्राणि लङ्घितानि, यदि एकत्र नक्षत्रे लङ्घनीय ९७२ वर्षात्मककालापेक्षा तदा ४ नक्षत्रातिक्रमे ९७२×४=४३७४ वर्षात्मिकः कालोऽवश्यमपेक्षितः स्यात् । तदेवं वेदोक्तज्यौतिषतत्त्वानुसारेण वेदानां २५०० ईo पूर्व-पूर्वकालिकता प्रतीता भवति ।

शङ्करबालकृष्णदीक्षितस्य मतम्[सम्पादयतु]

महाराष्ट्रस्य पण्डितः ज्योतिर्विच्छ्रीशङ्करबालकृष्णदीक्षितमहोदयः शतपथब्राह्मणात् महत्त्वपूर्णवर्णनमेकमन्वेषितवान् । तेन तस्य ग्रन्थस्य रचनाकालविषये प्रयासप्रकाशो प्राप्यते। वैदिकीय संहितासु नक्षत्रनिर्देशकानि बहूनि वर्णनानि प्राप्यन्ते । शतपथब्राह्मणस्य अस्मिन् सन्दर्भे कथनमिदं द्रष्टव्यम्-

'एकं द्वे त्रीणि चत्वारि वा अन्यानि नक्षत्राणि, अथैता एव भूयिष्ठा यत् कृत्तिकास्तद् भूमानमेव एतदुपैति, तस्मात्कृत्तिकास्वादधीत ॥ एताहवै प्राच्या दिशो न च्यवन्ते सर्वाणि ह वां अन्यानि नक्षत्राणि प्राच्यादिशश्च्यवन्ते।" [२]

एतेनेदमुक्तं भवति यत्, शतपथब्राह्मणरचनाकाले कृतिकानियमेन प्राच्यामासन्, सम्प्रत्येताः कृत्तिकाः पूर्वदिग्बिन्दुतः ईषदुत्तरस्यां दिशि उदयं यान्ति । दीक्षितमहोदयस्य गणनया तादृशी ग्रहस्थितिः ३००० ई० पू० काले सम्भवति । अतः स एव शतपथस्य निर्माणकालः । तैत्तिरीयसंहिता शतपथात् प्राचीना, ऋग्वेदश्च तैत्तिरीयसंहिताया अपि प्राचीनः, ऋग्वेदः ३५०० ई० पू० काले प्रणीत इति सम्भवति । एवञ्च सम्प्रति ऋग्वेदः ५५०० वर्षप्राचीन इति निश्चीयते। शङ्करबालकृष्णदीक्षितस्य भारतीय ज्योतिःशास्त्र-पुस्तके यत् पूना-तः सं० १८९६ ई० मध्ये प्रकाशितं तस्मिन् विवरणमिदं प्राप्यते।[३]

बालगङ्गाधरतिलकस्य मतम्[सम्पादयतु]

तिलकस्य मते वेदकाल इतोऽपि किञ्चित् प्राचीनः सिद्धयति । तेन हि मृगशिरोनक्षत्रे वसन्तसम्पातस्य साधकानि बहूनि वेदवाक्यानि सङ्गृहीतानि । तैत्तिरीयसंहितायामुच्यते फाल्गुनी पूर्णिमावर्षादिः । तिलकमतं इदमनुकूलं यतो, यदि पूर्णचन्द्रः फल्गुन्यां, तदा सूर्येण मृगशिरसि भवितव्यमेव, तदेव च वसन्तसम्पातोे भावी।

मृगशिरसि वसन्तसम्पातस्य कालः पूर्वोक्तकृत्तिकाकालात् प्रायः २००० वर्षपूर्वं सम्भवति, यतो मृगशिरसः कृत्तिकापर्यन्तं पश्चात् सर्पणे सहस्रद्वयाब्दी अपेक्ष्यते। एकस्मान्नक्षत्रात् नक्षत्रान्तरोपसर्पणे ९७० वर्षाणि भवन्तीति उक्तमस्ति। अतो येषु मन्त्रेषु मृगशिरसि वसन्तसम्पातस्य उल्लेखो विद्यते, ते मन्त्राः ४५०० ई० पू० समयतोऽर्वाचीना न सम्भवन्ति । तिलकेन मृगशिरसोऽपि पूर्वं पुनर्वसौ वसन्तसम्पातस्य बोधकानि वेदवचनानि प्राप्तानि ततस्ततोऽपि पूवतनः कालो वेदमन्त्राणां साधयितुं शक्यते । सर्वमिदं विचार्य तिलकमहोदयेन वैदिककालश्चतुर्धा विभक्तः । डॉ० याकोबी-नामा जर्मनीयो विद्वांश्चाविर्भूतस्य वेदस्य चतुविंशतिशतवर्षाणि यातानि इति मन्येते । तेन हि गृह्यसूत्रेषूल्लिखितस्य ध्रुवदर्शनस्याधारे स्वतन्त्ररूपेण वेदानां कालो निर्धारितः।[४]

लोकमान्यतिलकमतानुसारेण -

( १ ) अदितिकालः - ६००० ई० पूर्वतः ४००० पूर्वपर्यन्तम् । अत्र काले उपास्यदेवनाम् अगुणं मुख्यचरितादिबोधकाः गद्यपद्यमयाः मन्त्राः रचिताः ये यज्ञेषु प्रयुज्यन्ते स्म ।

(२) मृगशिरःकालः - ४००० ई० पूर्वतः २५०० इ० पू० पर्यन्तम् । अत्रैव महत्त्वशालिनि काले भूयांसो ऋग्वेदमन्त्रा व्यरच्यन्त ।

( ३ ) कृत्तिकाकालः - २५०० ई० पूर्वतः १४०० ई० पू० पर्यन्तम् । अस्मिन् काले शतपथब्राह्मण-तैत्तिरीयसंहितयोः प्रणयनमजायत ।

( ४ ) अन्तिमः कालः - १४०० ई० पूर्वतः ५०० ई० पूर्वपर्यन्तम् । अत्र काले श्रौतसूत्रगृह्यसूत्रदर्शनसूत्रादीनामार्षग्रन्थानां रचना जाता । तानेव विरोद्धुं प्रतिक्रियारूपेण बौद्धधर्म उदितो बभूव ।

शिलालेखानुसारम्[सम्पादयतु]

साम्प्रतिकानि शोधकार्यफलान्यपि तिलकमहोदयस्य मतं पुष्टं कुर्वन्ति । समाधिकैकोनविंशतिशततमेशवीये ( १९०७ ई० ) अब्दे डॉ० हूगोविन्कलर ‘बोधाज कोड्' नामके स्थाने वर्तमानकाले टर्की-नाम्ना प्रसिद्धस्य देशस्य अन्तर्गते खननकार्ये प्राचीनः कश्चन शिलालेखः प्राप्तः। तेन शिलालेखेन ज्ञायते यत् पश्चिम-एशिया-अवयवभूते तत्र टर्की-देशे द्वयोः कयोश्चित् प्राचीनजात्योर्निवासः आसीत् । तत्र एकस्याः जातेर्नाम 'हित्तिति' इति अपरस्याश्च 'मितानि' इत्यासीत् । अनयोर्द्धयोरपि जात्यो राजानौ पारस्परिककलहस्य निवारणाय सन्धिं चक्रतुः। तत्र सन्धौ द्वावपि पक्षौ सन्धिसंरक्षकतया देवनामानि निर्दिष्टवन्तौ तत्र ‘मितानि' जातेर्देवेषु मित्रः, वरुणः, इन्द्रः, नासत्यौ च विशिष्टाः अमी देवा अार्याणामेव । अतः प्रतीयते यत् आर्या एव केचन तत्राप्यवसन्।

अस्य शिलालेखस्य समयः १४०० ई० पू० विद्यते । आर्याः प्राग् आर्यावर्त्ते स्वधर्मवेदांश्च स्थिरयित्वैव क्वचन गता भवेयुः, अतः १४०० ई० पूर्वतः प्रागेव वैदिकसभ्यतायाः उदयो मन्तव्यः, तदानीन्तनश्चैव वेदः सम्भवति । इत्थं वेदानां कालः २००० ई० पू० सिद्धयति । अयं कालनिश्चयो तिलकस्य मतं सन्निकृष्टं करोति। वस्तुतस्तु सर्वमपीदं सम्प्रत्यवधिः न निर्णीतः, केवलमाशास्यते यत्, यदा कदाचिदपि जाते निश्चये वेदाः पूर्वोदीरितकालतोऽपि पूर्वकालिका एव सेत्स्यन्तीति।

भूगर्भायवैदिकतथ्यम्[सम्पादयतु]

भूगर्भसम्बन्धिनी घटना अवलम्ब्य ऋग्वेदीया रचनाया अथ च तत्कालवर्त्तिन्याः सभ्यतायाः प्रादुर्भूतायाः समयस्य निरूपणं कत्तुं शक्यते । तात्कालिकयुगे सिन्धुनद्यास्तटे अार्याणां यज्ञविधानं विशेषरूपेणाभवत् । अस्याः नद्याः विषये ऋग्वेदस्य कथनमस्ति यत्, नदीषु पवित्रतमा नदी सरस्वती उन्नतगिरिशृङ्गान्निःसृत्य समुद्रे पतति

'एका चैतत्सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात्।' [५][६]

अपरस्मिन् मन्त्रे ( ३ ।। ३३ । २ ) सरस्वती-शुतुद्रिनद्योः गर्जयन्तीं सागरे पतनस्योल्लेखो लभते। ऋग्वेदस्यानुशीलनेन प्रतीतो भवति यत्, सम्प्रति यत्राधुनिकमेवाडप्रान्तस्य मरुभूमिरस्ति, तत्र प्राचीनकाले एकः समुद्रः आसीत् । तस्मिन्नेव समुद्रे हिमालयात् निःसृत्य सरस्वती एवं शुतुद्रिः नद्यौ न्यपतताम् । ताण्ड्यब्राह्मणेन ( २५ । १० । ६ ) स्पष्टो भवति यत्, सरस्वती 'विनाशने' विलुप्तो भूत्वा पुनः ‘प्लक्षप्रस्रवणे’ आविर्भूताऽभवत् । ऋग्वेदस्यानुशीलनेन ज्ञातो भवति यदार्याणां निवासभूमिः सप्तसिन्धुनाम्ना ख्याताऽऽसीत्। तेषां वासभूमिमभितः समुद्राः सन्ति । ऋग्वेदस्यैकस्मिन् मन्त्रे (१० ।। १३६ । ५) सप्तसिन्धोः पूर्वस्यां पश्चिमायां च दिशि समुद्रद्वयस्योल्लेखो लभते । येषु प्रतीच्यसागरः अद्यापि वर्त्तते किञ्च पूर्वीयसागरस्य अस्तित्वबोधो न भवति । ऋग्वेदस्य द्वयोः मन्त्रयोश्चतुःसमुद्राणां निःसन्दिग्धरूपेण निर्देशो लभते। प्रथममन्त्रे—

'रायः समुद्राँश्चतुरोऽस्मभ्यं सोम विश्वतः आ पवस्व सहस्रिणः।।' (ऋ. ९/३३/६)

अपस्मिन् मन्त्रे -

'स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम्।।' (ऋ. १०/४७/२)

अल्मिन् मन्त्रे स्पष्टतया चतुःसमुद्राणां उल्लेखो भवति। अनेन ज्ञातो भवति यत्, आर्यप्रदेशं परितः समुद्राः वर्त्तन्ते ऋग्वेदीययेुगे। एतेषु पूर्वीयसागरः आधुनिकबिहारोत्तरप्रदेशे आसीत्, दक्षिणसागरश्च राजस्थानस्य मरुभूमौ आसीत्। पश्चिमीयसागरः अद्यापि वर्त्तमानोऽस्ति। उत्तरीयसागरस्य स्थितिरुत्तरस्यां दिशि आसीत्। भूगर्भवेतृृणां मतानुसारं एशियामहाद्वीपस्योत्तरस्यां दिशि बलखसागरस्य तथा परसीक(फारस) देशस्योत्तरस्यां दिशि विशालसागरस्य सत्ता आसीत् । सागरोऽयं ‘जम्बूद्वीय-भूमध्य-सागर’ इति नाम्ना ख्यातः अासीत् । उत्तरस्यां दिशि आर्कटिकमहासागरेण सह अयं सम्बद्धः आसीत् । अस्यैव अवशिष्टरूपेणाधुना कृष्णसागर; अरालसागरस्तथा बाल्कशह्रद इति नाम्ना ख्याताः सन्ति ।

तेषु दिनेषु समस्तगङ्गप्रदेशः, हिमवतः पादभूमौ तथा असमप्रदेशस्य विस्तृतपर्वतीयक्षेत्रस्य सागरगर्भ आसीत् । कालान्तरे गङ्गा हिमालयात् निःसृत्य सामान्यनदीरूपेण हरिद्वारसमीपे पूर्वीयसागरे पतति स्म । अनेनैव कारणेन ऋग्वेदस्य प्रसिद्धनदीसूक्ते ( १०॥७५ ) गङ्गाया अतिसङ्क्षप्तवर्णनमस्ति । तस्मिन् काले पञ्चनदप्रदेशस्य दक्षिणपूर्वस्यां दिशि समुद्रः अासीत्, येन कारणेन दक्षिणभारतः पृथक् पृथ्वीखण्ड इव प्रतीतोऽभवत् । तदा पञ्चनदप्रदेशे शीतस्य प्राबल्यमासीत् । अतः ऋग्वेदे वर्षस्य नाम ‘हिमः' इत्यासीत् । ‘‘त्वभिड़ा ‘शतहिमासि' ‘दक्षसे त्वं वृत्रहा वसुपते सरस्वती' (१।६४।।१४।२।१।११), एवं ‘विद्वेषांसीनुहि वर्धयेडां मदेम ‘शतहिमाः' सुवीराः'' ( ६॥१०॥७) । भूतत्त्वज्ञानां विचारे भूसलिलयोरेते विभिन्नविभागास्तथा पञ्चनदप्रदेशे शीतकालस्य प्राबल्यं प्रमाणयन्ति यदियं वार्ता पूर्वपाषाणयुगस्य (Pre-palaeostocin) वा पाषाणयुगस्याऽस्ति । कालोऽयं ख्रीष्टात् पञ्चाशत्सहस्रादारभ्य पञ्चविंशतिसहस्रमभिव्याप्य वर्त्तते । भूतत्त्वज्ञाः इदमपि स्वीकृतवन्तः यदस्मात्कालादनन्तरमेव सागरः राजस्थानं परित्यज्य बहिर्गतः । तदनन्तरमेव हिमनदीभिः समाहृतमृत्तिकाभिः गङ्गाप्रदेशस्य समतलभूमेः निर्माणमभवत् । पञ्चनदप्रदेशस्य जलवायौ उष्णता समागतेति । उपरि निर्दिष्टानां भौगोलिकीनां तथा भूगर्भसम्बन्धिनीनां घटनाम् आधारेण ऋग्वेदस्य रचनायास्तथा तात्कालिकसभ्यतायाः अाविर्भावकालः पञ्चविंशतिसहस्रसंवत्सरपूर्वं निश्चीयते।

निष्कर्षः - पण्डितदीनानाथशास्त्रीचुलेटस्तु स्वकीये 'वेदकालनिर्णय'संज्ञके ज्योतिस्तत्त्वमीमांसकग्रन्थे वेदकालमतितरां प्राचीनं साधयितुं प्रयत्नं विदधानः समवाप्यते । तद्विचारेण क्षितौ वेदाख्यस्य प्रकाशस्य अवतीर्णस्य लक्षत्रयसंवत्सराः व्यतीयुः । इत्थं वेदकालनिर्धारणे हि विदुषां विचारा विद्यन्ते, तेषु नितान्तमेव भिन्नत्वं समुपलभ्यते।

वेदशब्दस्य अर्थः[सम्पादयतु]

‘विद्यन्ते धर्मादयः पुरुषार्था यैस्ते वेदाः’ – इति बह्वृक्प्रातिशाख्यम्, सायणस्तु अपौरुषेयं वाक्यं वेद इत्याह । इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो वेदयति स वेद इति भाष्यभूमिकायामुक्तम् । प्रमाणमपि तत्रैवोक्तम् —

‘प्रत्यक्षेणानुमित्या वा यस्तूपायो न विद्यते ।

एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता ॥'

अम्नायः, अागमः, श्रुतिः, वेदः इति सर्वे शब्दाः पर्यायाः । वैयाकरणसिद्धान्तकौमुद्यां तु चुरादिप्रकरणे चतुर्ष्वर्थेषु विद्धातोः प्रयोगोऽस्ति । तद्यथा—

'सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे ।

विन्दते विन्दति प्राप्तौ श्यन्लुक्श्नम्शेष्विदं क्रमात् ॥'

उक्तार्थानां वाचकात् विद्धातोः वेद इत्येतत्पदस्य निष्पादनो भवति ।

सत्तार्थक-विद्धातोः घञ्प्रत्ययान्निष्पन्नस्य ‘वेद’ इत्येतत्पदस्याऽर्थो भवति ‘विद्यते सत्तां गृह्णाति वस्तु अनेन इति वेदः।'
ज्ञानार्थकात् विद्धातोः घञ्प्रत्ययान्निष्पन्नस्य वेद इत्येतत्पदस्यार्थोऽस्ति ‘विदन्त्येभिः धर्मब्रह्मणी क्रियाज्ञानमयं ब्रह्म वा इति वेदः ॥'
विचारार्थकात् विद्धातोः 'अच्'-प्रत्ययान्निष्पन्नस्य वेदशब्दस्यार्थस्तु 'विन्ते विचारयति धर्मब्रह्मणी क्रियाज्ञानमयं ब्रह्म वेति वेद इति ।' अस्मिन् पक्षे पञ्चादित्वात् विद्धातोः अच्प्रत्ययाद्वेदशब्दस्य सिद्धिर्भवेत् ।
लाभार्थकात् विद्धातोः घञ्प्रत्ययान्निष्पन्नस्य वेद इत्येतत्पदस्यार्थस्तु 'विदन्ते स्वरूपं लभन्ते वस्तु अनेनेति वेद:।'
ऋग्वेदभाष्यभूमिकायान्तु 'विदन्ति जानन्ति, विद्यन्ते, भवन्ति, विन्ते, विचारयति, विदन्ते, लभन्ते सर्वे मनुष्याः सत्त्वविद्यां यैर्येषु वा तथा विद्वांसश्च भवन्ति ते वेदाः ॥'

वेदे ब्रह्मविषयकविचारस्य उदाहरणमेकं द्रष्टव्यम्-

'किंस्विद्वनं क उत वृक्ष आस यतो द्यावापृथिवीनिष्टतक्षुः।

मनीषिणो मनसा पृच्छतेदुतद्यदध्यतिष्ठत् भुवनानि धारयन्।। [७]

अस्योत्तरमपि द्रष्टव्यम् —

‘ब्रह्मवनं स ब्रह्म स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः ॥ मनीषिणो मनसा विब्रवीमि वो ब्रह्माधितिष्ठत् भुवनानि धारयन् ।'[८]

वेद इत्येतत्पदेन ऋग्-यजुरादिपद्यगद्यगीतिनिबद्धस्य ग्रन्थात्मकस्य पदार्थस्यैव बोधो भवति, अथवा एतदतिरिक्तस्य ऋगादिपदेन कस्याप्यन्यपदार्थस्याऽपि बोधो भवति ? अस्योत्तरं तु स्पष्टमेव –

‘यदेतन्मण्डलं तपति तन्महदुक्थम्, ता ऋचः स ऋचां लोकः। अथ यदेतद् अर्चिर्दीप्यते, तन्महाव्रतं, तानि सामानि, स साम्नां लोकः। अथ य एष एतस्मिन् मण्डले पुरुषः सोऽग्निः तानि यजूंषि, स यजुषां लोकः। सैषा त्रय्येव विद्या तपति।'[९]

एवं ग्रन्थात्मकऋगाद्यतिरिक्तोऽपि ऋगादिसंज्ञकपदार्थस्यास्तित्वमस्ति । पदार्थोऽयम् ‘वेद' इति पदेन व्यपदिश्यते । ऋगाद्यर्थमेव ‘त्रयं ब्रह्म सनातनम्' (मनुस्मृती), 'सैषा त्रय्येव विद्या तपति' (शतपथब्राह्मणे), ‘इति वेदास्त्रयस्त्रयी' ( अमरकोषे ) । इत्यादिवचनानुसारेण 'ब्रह्म', 'विद्या' एवं ‘वेद' इति त्रयाणां शब्दानां प्रयोगो भवति । अस्यैवार्थस्य सम्पुष्टौ तैत्तिरीयब्राह्मणस्यापीय मुक्तिः द्रष्टव्या-

‘ऋग्भ्यो जातां सर्वशो मूक्तिमाहुः सर्वागतिर्गायुषी हैव शश्वत्।

सर्वं तेजः सामरूपं हि शश्वत् सर्व हीद ब्रह्मणा हैव सृष्टम्।'[१०]

‘ऋच वाचं प्रपद्ये' अनेन वेदवाक्येन ‘ऋक्'-पदमपि ‘वाक्' इत्येतत्पदेन व्यपदिश्यते । तेन हि 'वाचीमा विश्वा भुवनाव्यर्पिताः' एवं कथ्यते । ऋगात्मकवाचा एव त्रिभुवनस्योत्पत्तिरभूत् । 'मनो ययुः प्रपद्ये' इत्यनेन वेदवाक्येन ‘यजुः' मनःस्वरूपोऽस्ति । इदं मनः स्थितिगतिशीलतत्त्वमस्ति ।

'अयं वाव यजुर्योऽयं पवते, एष हि यन्नेवेदं सर्वं जनयति, एवं यन्तमिदमनु प्रजायते, तस्मात् वायुरेव यजुः (अयं वायुः पञ्चभूतान्तर्गतः स्थूलवायुः नास्ति) अयमेवाकाशोजूः। (अाकाशोऽपि षड्भूतान्तर्गतः आकाशो नास्ति यदिदमन्तरिक्षं एवं ह्याकाशमनुजवते), तदेतत् यजुर्वायुश्चान्तरिक्षं च, यच्च जूश्च। तस्मात् एव यजुरेष एव ह्येति।'[११]

अत एवेदं कथितम् - यजुः रूपाग्निः ऋक्-सामयोः प्रतिष्ठितोऽस्ति। भावोऽयं ऋग्वेदस्य इयमृच् प्रकटयति -

'अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति । 

अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥१५॥'[१२]

अत एव सोमप्रधानाथर्ववेदस्यान्तर्भावः त्रयीवेदेष्वेव 'सैषा त्रय्येव विद्या तपति' एवं कथितम् । वस्तुतः तु अथर्वानामकस्य सोमस्य तत्रोपस्थितिरस्ति तं विना क्षणार्द्धमपि सूर्यः तप्तुं न शक्यते ।

ऋग्वेदस्याथर्ववेदस्य च रचनायाः सम्बन्धं याज्ञिकानुष्ठानेन सह भवतु वा न भवतु किञ्च सामसंहितायाः यजुसंहितायाश्च निर्माणं तु यज्ञयागविधानाय अभवत्। यज्ञ-यजनहेतवे चतुर्णामृत्विजाम् आवश्यकता वरीवर्त्ति। हौत्रकर्मसम्पादनस्य श्रेयो 'होता'-नाम्नः ऋत्विजं भवति । अयं होता ऋग्वेदस्य ऋचां पठित्वा समुपयुतान् देवान् यज्ञे आह्वाहनं करोति। अयं ‘याज्या' तथा 'अनुवाक्या' ऋचं पठति । अस्य पारिभाषिकं नाम ‘शस्त्रम'स्ति (अप्रगीत-मन्त्रसाध्यास्तुतिः शस्त्रम्)। औद्गात्रकर्मसम्पादनाय ‘उद्गाता'-नाम्नः ऋत्विजः विशिष्टकार्यमस्ति । अयमुद्गाता तत्तद्देवतानां स्तुतौ सामगायनं करोति । अस्य पारिभाषिकं नाम स्तोत्रमस्ति । अस्योद्गातुः सम्बन्धः सामवेदेन सहास्ति । उद्गात्रे अावश्यकानामृचां सङ्कलनं सामवेदसंहितायामस्ति । अस्य पारिभाषिकसंज्ञा ‘योनिरि’त्यस्ति । उद्गातुर्विशिष्टकार्यस्य सिद्ध्यर्थं सामसंहितायां सङ्कलनमस्ति एतेषां मन्त्राणाम् । अध्वर्युरेव याज्ञिकमुख्यकर्मणः निष्पादकः प्रधानऋत्विग् भवति । तस्यैवाध्वर्यवकर्मणे यजुर्वेदसंहिता विभिन्नासु शाखासु सङ्कलिताऽस्ति । अध्वर्युः गद्यात्मकमन्त्राणामर्थात् यजुषामुपांशुरूपेणोच्चारणं कुर्वन् स्वविशिष्टकार्यस्य सम्पादनं करोति । ‘ब्रह्मा'नाम्नः ऋत्विजः कार्यं यस्य बाह्यविघ्नेभ्यः त्राणमस्ति । अयं हि स्वराणां सम्भाव्यस्खलनस्य परिमार्जनं करोति। विविधदोषाणां दूरीकरणाय प्रायश्चित्तस्य विधानं करोति । अत एव ब्रह्मा यज्ञानामध्यक्षो भवति । अस्य प्रमुखकार्यं यज्ञानुष्ठानस्य पूर्णनिरीक्षणं त्रुटिपरिमार्जनञ्च भवति । अत एव सर्वत्र ब्रह्मणः गौरवं विशेषरूपेणोद्घोषितोऽभवत् । छान्दोग्ये ब्रह्मा यागाय “भिषक्’ इत्येतत्पदेन विभूषितोऽस्ति (भेषजकृतो ह वा एष यज्ञो यत्रैवं विद ब्रह्मा भवति)[१३] । यज्ञनिरीक्षणस्य प्रधानोऽयमभवत् । अयं वेदत्रयाणां ज्ञाता च। अस्य विशिष्टवेदस्त्वथर्ववेद एव। अनेन प्रकारेणैतेषां चतुर्णामृत्विजां विशिष्टकर्मणे आवश्यकमन्त्राणां सङ्कलनं, चतुर्षु वैदिकसंहितासु भवति । ऋग्वेदस्यैकस्मिन् मन्त्रे अस्य सिद्धान्तस्य सूचना लभते

‘ऋचां त्वः पोषमास्ते पुपुष्वान्

गायत्रं त्वो गायति शक्वरीषु ॥

ब्रह्मा त्वो वदति जातविद्यां

यज्ञस्य मात्रां विमिमीत उत्वः॥'[१४]

वेदस्य स्वरूपम्[सम्पादयतु]

प्रधानरूपेण वेदो द्विविधः — मन्त्ररूपो ब्राह्मणरूपश्चेति। तदयं ब्राह्मणभागोऽपि वेद एव। मन्त्रसमुदाय एव संहिताशब्देन व्यवहृतः । ब्राह्मणरूपो वेदभागस्तु संहिताभागस्य व्याख्यारूप एव । स चायं ब्राह्मणभागो यागस्वरूप बोधकतया प्रथितः ।

'वेद' इत्येतस्य पदस्य प्रयोगो मन्त्र ब्राह्मणयोर्निमित्तेन विधीयते । आपस्तम्बे प्रोक्तञ्च - ‘मन्त्रब्राह्मणयोर्वेदनामघेयम्'।[१५] येन हि यज्ञयागानामनुष्ठानं निष्पन्नतामुपैति देवतानाञ्च स्तुतिविधानं यत्रोल्लिखितमस्ति स ‘मन्त्र' इति ( मननात् मन्त्रः ) इति प्रोच्यते । ‘ब्राह्मणम्' इत्येतत्पदं ग्रन्थविशेषवाचकम् । यज्ञानां विविधक्रियाकलापप्रतिपादकग्रन्थाः 'ब्राह्मणम्' इत्येतां सज्ञां भजन्ते । तेन हि प्रधानतया द्विविधो वेदः -मन्त्ररूपो ब्राह्मणरूपश्च। मन्त्रसमुदाय एवात्र संहितापदेन व्यवहृतः । ब्राह्मणरूपो वेदभागस्तु संहिताभागस्य व्याख्यारूप एव । स चायं ब्राह्मणभागो यागस्वरूपबोधकतया प्रथितः ।

'ब्राह्मणम्' इत्येतस्य पदस्य विविधार्थेषु — एकोऽर्थस्तु ‘यज्ञः' ‘बृह वर्धने' धातोः निष्पन्नस्य ब्राह्मणशब्दस्यार्थोऽस्ति — वर्धनं, विस्तारो वा वितानो वा यज्ञ इति । ब्राह्मणमपि भागत्रये विभक्तमस्ति — प्रथमो भागः ‘ब्राह्मणमि’ति, द्वितीयो भागः ‘आरण्यकमि’ति किञ्च तृतीयो भाग ‘उपनिषदि’ति कथ्यते । यज्ञस्वरूपप्रतिपादको ब्राह्मणभागः । अरण्ये पठिताः यज्ञस्याध्यात्मिकं रूप विवेचयन्तो वेदभागाः आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरूपतया 'वेदान्त' इत्युच्यते। ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम्, उपनिषद्भागश्च संन्यस्तानामुपयोगीत्यपि प्रसिद्धम्।

वेदत्रयी[सम्पादयतु]

वेदस्तु वस्तुतः एक एवास्ति । किञ्च स्वरूपभेदात् त्रिविधोऽस्ति — ऋग्वेदः, यजुर्वेदः, सामवेदश्चेति । ‘वेदे तावदेकं सन्तम् अतिमहत्त्वाद् दुरध्येयमनेकशाखाभेदेन समाम्नासिषुः । सुखग्रहणाय व्यासेन समाम्नातवन्तः।[१६] सोऽयं वेदत्रयीति पदेन व्यवह्रियते, वेदरचनायास्त्रिप्रकारकत्वेन त्रयीति कथ्यते । या खलु रचना पद्यमयी सा ऋक्, या गद्यमयी सा यजुः, या पुनः समग्रा गानमयी रचना सा सामेति कथ्यते । तदुक्तं जैमिनिना - 'तेषामृग् यत्रार्थवशेन पादव्यवस्था । गीतिषु सामाख्या । शेषे यजुः शब्दः इति।[१७] यास्कस्तु - ‘ता ऋचः परोक्षकृताः प्रत्यक्षकृताः अाध्यात्मिक्यश्चेति भेदात् त्रिविधा । ऋक्शब्दोऽत्र मन्त्रवचनः ।। यासु प्रथमपुरुषक्रियास्ताः परोक्षकृताः यासु मूध्यमपुरुषक्रियास्तास्तु प्रत्यक्षकृताः यासु चोत्तमपुरुषक्रियास्त अाध्यात्मिक्यः इति।'

अतः यत्र कुत्राऽपि प्राचीनग्रन्थे वेदार्थे ‘त्रयी’ति पदं प्रयुक्तं तत्र सर्वत्र रचनात्रैविध्यं बोध्यम्।

यत्तु केचन ‘ऋग्यजुःसामाख्यास्त्रय एव वेदाः पूर्वमासन्' । तद्यथा - 'अग्नेऋचो वायोर्यजूषि सामादित्यात्'[१८]

'अग्निवायुरविभ्यस्तु त्रयं ब्रह्मसनातनम्।

दुदोह यशसिद्ध्यर्थमृग्यजुःसामलक्षणम् ॥' [१९][२०]

अतो वेदानां त्रित्वादेव तत्र त्रयीति व्यवहारो वास्तवो न प्रकारभेदकृतः । किञ्च छान्दोग्योपनिषदि सनत्कुमारं प्रति नारदस्येयमुक्तिरपि द्रष्टव्या —

‘ऋग्वेदं भगवोऽध्येमि, यजुर्वेदं सामवेदमाथर्वणं चतुर्थम् ॥' [२१]

अनेन वचनेन वेदस्य चतुर्थत्वमपि सिद्धयति । ऋग्वेदेऽपि अथर्ववेदस्य नामोल्लेखमस्ति । भगवता पतञ्जलिनाऽपि ‘चत्वारो वेदाः साङ्गाः सरहस्याः' इति पस्पशाह्निके स्पष्टमुक्तम् । छान्दोग्यब्राह्मणे मनुस्मृतौ च यज्ञोपयोगिनो वेदा एव परामृष्टाः, नाभिचारिकसामवेद इति त्रित्वमेवोक्तम्, एवं परत्राऽपि । जैमिनिस्तु मन्त्राणां विप्रकारकतामेव लक्षितवान्, न वेदसंख्यां व्यवस्थापितवान् । अतो वेदाश्चत्वार एव, त्रयीति व्यवहारस्तु प्रकारकृतः । अथर्ववेदीयमन्त्रा अपि पूर्वोत्तप्रकारत्रयान्यतमरूपा एवेति । यज्ञानुष्ठानं दृष्टौ निधाय विभिन्नर्त्विजां कृते संहितानां सङ्कलनं वेदव्यासश्चकार। 'वेदान् विव्यास यस्मात् स वेदव्यास इति स्मृतः' (महाभारतम्)।[२२] मन्त्रसंहितानां सङ्कलनं चतुर्विधतया कृतम् । तस्मात् संहिताः सन्ति चतस्रः - ऋक्संहिता, यजुःसंहिता, सामसंहिता अथर्वसंहिता च । अत एव वेदाश्चत्वारः स्मृताः । 

ब्राह्मणम्[सम्पादयतु]

वेदशेषभूताः ब्राह्मणग्रन्थाः यज्ञानुष्ठानस्य विस्तृतं वर्णनं कुर्वन्ति। काश्चन कथा अपि ब्राह्मग्रन्थेषु प्राप्यन्ते। प्रत्येकवेदशाखानुसारेण ब्राह्मणाः, आरण्यकग्रन्थाश्च भिन्नाः सन्ति। ब्रह्म वेदः, तदाख्या ब्राह्मण इति केचित्। ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति - ब्राह्मणम्, आरण्यकम्, उपनिषदश्च । यज्ञस्वरूपप्रतिपादको ब्राह्मणभागश्च। अरण्ये पठिताः यज्ञस्याध्यात्मिकं रूपं विवेचयन्तो वेदभागाः आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरूपतया वेदान्त इत्युच्यते । ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम् उपनिषद्भागश्च संन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते।

बाह्मणानां विभाजनम्[सम्पादयतु]

  • ऋग्वेदस्य ऐतरेयब्राह्मण-कौषीतकिब्राह्मणञ्चेति ब्राह्मणद्वयम्। अनयोरैतरेये ब्राह्मणमिति प्रथिते। अत्र अष्टौ पञ्चिकाः, प्रतिपञ्चिकं पश्चाध्याया इति आहत्य चत्वारिंशदध्यायाः सन्ति। कौषीतकिब्राह्मणे केवलं त्रिशदध्यायाः।
  • सामवेदस्य बहवो ब्राह्मणभागाः सन्ति, येषु ताण्ड्यब्राह्मणं प्रसिद्धतरम्। अयं ग्रन्थः पञ्चविंशदध्यायशाली, अत एव पञ्चविंशब्राह्मणसंज्ञयाऽपि प्रसिद्ध्यति।
  • कृष्णयजुर्वेदस्य तैत्तिरीयब्राह्मणानामा ब्राह्मणभागो विद्यते।
  • शुक्लयजुर्वेदस्य शतपथब्राह्मणं नितान्तं प्रसिद्धम्, अत्र शतमध्यायाः विद्यन्ते।
  • अथर्ववेदस्य गोपथब्राह्मणम्। अत्र खण्डद्वयमेव, प्रथमखण्डे पञ्चाध्यायाः, द्वितीये च षट्। ब्राह्मणग्रन्थेषु सर्वतो नवोऽयं ग्रन्थः कथ्यते।

आरण्यकानां विभाजनम्[सम्पादयतु]

  • ऋग्वेदस्याऽऽरण्यकद्वयम् - ऐतरेयारण्यकम्, शाङ्खायनारण्यकञ्च ।
  • कृष्णयजुर्वेदस्य तैत्तिरीयमारण्यकम् ।
  • सामवेदस्य जैमिनीयशाखायाः जैमिनीयोपनिषद्ब्राह्मणमेव तवलकाराण्यकमिति नाम्ना प्रसिद्धम्। अस्मिन् साममन्त्राणा शोभना व्याख्या १ता । इयं सामवेदारण्यसंहिता सत्यव्रतसामश्रमिष्णा १८७८ ई० वर्षे मुद्रापयित्या प्रकाशिता ।

वेदाः[सम्पादयतु]

भारतीयानां समस्तं साहित्यं वेदैरेव परिबृंहितम् अस्ति। महर्षिः बादरायणिः अत एव वेदव्यासनाम्ना सम्मानभागभवत् । यत्तेन महात्मना वेदानामेव व्याख्यानम् अष्टादशपुराणानां रूपेण विहितम् । मीमांसाशास्त्रे पुराणानां महन्महत्त्वं वणितमस्ति । ‘भारतं पञ्चमो वेदः' इति आकारिकासूक्तिः तु प्रसिद्धा एव। यद्यपि भारतीया विद्वांसो वेदानाम् अपौरुषेयत्वं साटोपं (आत्मतृप्त्यै) स्वीकुर्वन्ति, तथापि वेदानां मन्त्राः, तेषामुपदेशाश्च अपौरुषेयत्वेऽपि ईश्वरोक्तत्वाद् आप्तप्रमाणत्वेन स्वीक्रियन्त एव। अन्यत्रापि ‘वेदो नित्यमधीयतां तदुदितं कर्मस्वनुष्ठीयताम्'[२३] इत्यादीनि वचांसि वेदोक्तीनां प्रामाण्यमेव साधयन्ति।

अपरत्रापि दृगुन्मेषोविधीयतां यद्यपि वेदाश्वत्वार एव केचित् वेदत्रयीमपि स्वीकुर्वन्ति । इत्याकारकविवादस्य विचारो सुधिया ग्रन्थकर्त्रा विस्तृतरूपेण यथास्थानं समुपन्यस्तः । तथापि आयुर्वेदः, धनुर्वेदः, गान्धर्ववेदः इत्यादीनां वेदानां गणना केवलं तेषां तेषां विषयाणां प्रामाणिकतां स्वीकारणार्थ तत् तद् ग्रन्थकर्तृभिः महर्षिभिः कृतेति निश्चप्रचम् (निश्चितं प्रचितम्)।

विदन्त्येव सर्वे विद्वांसो यद्, वेदा एव भारतवर्षस्य भारतीयसंस्कृतेश्व मुख्यमवलम्बनमिति। ते च भगवता कृष्णद्वैपायनेन शिष्याणां ग्रहणसौकर्य्याय ऋग्यजुःसामाथर्वभेदेन चतुर्धा विभज्य यथाक्रमं पैल-वैशम्पायन-जैमिनि-सुमन्तुभ्यः प्रदत्ताः । कालक्रमेण शिष्योपशिष्यैः गृहीतास्ते बहुशाखात्वम् आपन्नाः। तदुक्तं व्याकरणमहाभाष्ये पस्पशाह्निके भगवता पतञ्जलिना-

'एकशतमध्वर्युशाखाः, सहस्रवर्त्मा सामवेदः ॥

एकविशतिधा बाह्वृच्यं , नवधा आथर्वणो वेदः ॥' इति ॥

तत्रायं वेदः भारतीयसंस्कृत्याः मूलस्रोतमस्ति। विश्वस्यागमेषु वेदाः प्राचीनतमाः,[२४] अत एव नृशास्त्रज्ञानां, मानवप्रकृतेः अध्येतॄणां जगतो विभिन्नेषु धर्मेषु सश्रद्धं प्रवर्त्तमानानाच्च जनानां सानुरागविषया इमे वेदाः। ये जना वेदानाम् अभ्यन्तरे सांसारिकसमस्तैश्वर्याणाम् अन्वेषणम् अक्लान्तपरिश्रमेण कुर्वन्ति, ते न जानन्ति वेद-ज्ञानयोर्मध्येऽन्तरमस्ति इति। विद्-धातौ तथा ज्ञा-धातौ सामान्यतः एकत्वे सत्यपि मूलतः पार्थक्यम् अस्ति। भौतिकविद्यायाम् अभिज्ञतायाः नाम अस्ति ज्ञानं, तथा च अध्यात्मशास्त्रस्य तथ्यानाम् अवगत्याः नाम अस्ति वेद इति । एकस्य लक्ष्यं बाह्यविषयाणाम्, अपरस्य च अभ्यन्तर-विषयाणां विश्लेषणमस्ति । वेदज्ञानशब्दयोः पार्थक्यं संस्कृतेन सम्बद्धानाम् अनेकयूरोपीयभाषागतशब्दानाम् अनुशीलनेनापि ज्ञायते। जर्मनभाषायां द्वौ सम्बद्धौ धातू स्तः - केन्नेन (Kennon) तथा वाइसेन ( Weisen) इति। आङ्ग्लभाषायामपि द्वौ सम्बद्धौ शब्दौ स्तः - नालेज ( Knowledge ) तथा विजडम (Wisdom) इति। अनयोः 'केन्नेन' तथा 'नालेज' इत्यनयोः शब्दयोः साक्षात्सम्बन्धमस्ति संस्कृतस्य ‘ज्ञा'-धातुना सह तथा ‘वाइसेज' एवं 'विजडम' इत्यनयोः शब्दयोः सम्बन्धमस्ति ‘विद्'धातुना सह। अतः ‘वेद' इत्यस्य शब्दस्य मौलिकतात्पर्यमस्ति अध्यात्मविषयाणामन्वेषणम् इति।

सायणाचार्यानुसारेण वेदस्य वेदत्वं प्रत्यक्षेणानुमानेन च अगम्योपायस्य बोधने एवाऽस्ति।

'प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुद्ध्यते ।

एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥'

रॉय-मैक्समूलर-वेवर-आउफ्रक्ट-गेल्डनर-स्टीवेन्सन-श्रोदर-वेनफी-ह्विटनी-ब्लूमफील्ड-गार्वे-लिण्डनर-वर्नेल-एर्टल-कैलेण्ड-गास्ट्रा-हिलेब्राण्ट-क्नाउएरो-विल्सन-ओल्डनवर्ग-कीथ-लेनमेन-ग्रिफिथ-एगलिग-मैकडोनलप्रभृतयः अनेके पाश्चात्यविपश्चितः अप्येतेषां सम्यगध्ययनाय समाकृष्टा इव प्रवृत्ताः। पाश्चात्याः इमे विद्वांसः अधीत्येमं वेदराशिं बहुकिमपि गभीरमुल्लिखितवन्तः। वैदिकधर्मस्य धर्मान्तरेण तुलनां विधाय ते तुलनाप्रधानवैदिकधर्मविषयकान् ग्रन्थान् बहून् लिखितवन्तः । अस्मिन् क्षेत्रे मैक्समूलर-मैक्डोनल-हिलेब्राण्टमहाभागानां नामानि सन्त्युल्लेखनीयानि । हिलेब्राण्ट इत्यस्य 'वेदिशे मायोलोजी' मैक्डोनलस्य च 'वैदिकमाथोलोजी' व्यापकत्वात् प्रामाणिकत्वाच्चोपादेये स्तः । फ्रेञ्चविदुषाश्च श्रौतसम्बन्धिनोऽनेके ग्रन्था दृश्यन्ते ।

चत्वारोऽपि वेदाः साधारण्येन मन्त्रब्राह्मणयोर्द्वयोर्भागयोविभक्ताः । वेदपदवाच्याः संहितारूपा एव वेदा इत्यपि नास्ति भारतीयपरम्परानुरूपी न्याय्यश्च विचारः । तत्र ऋग्वेदस्य, सामवेदस्य, शुक्लयजुर्वेदस्य, अथर्वणश्च मन्त्रभागाः संहितापदवाच्याः, किन्तु कृष्णे यजुर्वेदे संहितायामथवा ब्राह्मणे मन्त्राः ब्राह्मणानि इत्येतौ उवुभावपि सम्मिलितौ वर्तते ।

ऋग्वेदः[सम्पादयतु]

मुख्यलेखः : ऋग्वेदः
ऋग्वेदस्य पदपाठः

वेदेषु आदिमः ऋग्वेदः हिन्दुधर्मस्य मूलग्रन्थः अस्ति । ऋग्वेदः ४५०० वर्षेभ्यः प्राक् संग्रथित: इति मन्यन्ते । अस्य १०१७ सूक्तानि सन्ति । तस्य श्लोकाः विविधदेवानां सम्बद्धा: - यथा इन्द्रः, अग्निः, वायुः इत्यादयः । ऋग्वेदस्य १०५८९ संहिताः, १०२८ सूक्तानि च १० मण्डलै: विभाजिता: सन्ति । महामुने: व्यासस्य निर्देशे पैलः ऋग्वेदस्य संहितानां निर्माणम् अकरोत् ।

यजुर्वेदः[सम्पादयतु]

मुख्यलेखः : यजुर्वेदः

आर्याणां कुरुषु अधिनिवेशकाले संग्रथितो यजुर्वेद: इति अभिप्रायः । यजुर्वेदस्य अध्वरवेद इति नामान्तरमस्ति । यजुषः एकोत्तरशतं शाखाः सन्ति इति पतञ्जलिः प्रपञ्चहृदयकारः च प्रस्तौति । वाजसनेयापरनामा कृष्णयजुवेदः गद्यपद्यात्मक: । यदीया रचना विश्ववश्या देदीप्यते ।

सामवेदः[सम्पादयतु]

मुख्यलेखः : सामवेदः

साम- सान्त्वेन इति धातोः निष्पन्नं सामपदम् । सा इति ऋक्सूचकतया अम इति गानम् । हराबिव्यञ्गकतया च व्याख्यां केचिद् वदन्ति । सामवेदस्य एकसहस्रं शाखा असन् किल । प्रपञहृदयकारस्यकाले द्वादशशाखाभ्यः अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते । सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते । सामगानेऽ पि सप्तस्वरा: एव भवन्ति । ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते । खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वार्यं(षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः ।सामगानालापने गायकैः हस्ताङ्गुलिभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते ।

अथर्ववेदः[सम्पादयतु]

मुख्यलेखः : अथर्ववेदः

ब्रह्मपुत्रेण अथर्वेण समाहृतम् इति अथर्ववेदः । अथर्वाङ्गिराः, ब्रह्मवेदः इत्येते नामान्तरे । आथर्वसंहितायाः द्वे शाखे स्तः । शौनकीयशाखा, पैप्पलादशाखा चेति । भूर्जपत्रेषु शारदालिप्यां लिखितस्य अथर्ववेदस्य पुरातनं पुस्तकं काश्मीरेभ्यः सम्पादितम्। तद् अधुना ट्यूबि़ञ्जन् सर्वकलाशालायाः ग्रन्थशेखरे अस्ति ।

वेदरक्षा[सम्पादयतु]

वेदास्त्वाचूलमूलं धर्म्यप्रवृत्तिकम्। अतो वेदानां परमोपादेयत्वाद्, अतिशयतममहत्त्वशालित्वाच्च महर्षयस्तान् रक्षितुमपि पूर्णमुपायञ्चक्रुः । वेदा एतावद्दीर्घकालानन्तरमपि लोके समवाप्ताः सन्तीत्यत्र कारणमेव महर्षिकृतः प्रयत्नः। महर्षयो हि वेदरक्षार्थम् अष्टविकृतीनां व्यवस्थां विदधुः। ताः विकृतयः अधःस्थितेन शलोकेनाभिव्यक्तीक्रियन्ते -

'जटा माला शिखा रेखा ध्वजो दण्डो रथो घनः ।

अष्टौ विकृतयः प्रोक्ताः क्रमपूर्वा महर्षिभिः ॥'

मन्त्राणां प्रकृतोपलब्धः पाठः 'संहितापाठ’-पदेन व्यवह्रियते । अत्र कतिपया एव विकृतयो हि वर्ण्यन्ते । पदच्छेदपूर्वकपाठः 'पदपाठ' इत्युच्यते । क्रमपाठः स भवति यत्र पदपाठगतं प्रतिपदं पूर्वोत्तरपदाभ्यां सङ्गमय्य द्विरुच्चार्यते। जटापाठः स भवति यत्र क्रमपाठम् आलम्ब्य प्रतिपदयुगलं त्रिरुच्चार्यते। एतावान् भेदो यच्छिखायाम् अन्यच्चैकं पदमग्ने संश्लिष्टतां याति। उक्तञ्च -

'पदोत्तरं जटामेव शिखामार्याः प्रचक्षते।'

घनपाठो नितरां विलक्षणः क्लिष्टश्च । तत्र पदानाम् आवृत्तिः अनुलोमविलोमक्रमेण आसकृज्जायते । घनस्तु चतुर्विधः भवति। तत्र प्रथमप्रकारको वदति -

‘शिखामुक्त्वा विपर्यस्य तत्पदानि पुनः पठेत् । अयं घन इति प्रोक्तः।'

प्रक्षेप-च्युत-व्यवसादादि-विकारेभ्यः परित्रातुं श्रुतिं पद-क्रम-घनजटादिपाठाः अाविष्कृताः । एषां सद्भावेन न श्रुतिषु अद्यपर्यन्तम् अणुमात्रमपि दोषलेशः प्रविष्टो भवितुम् अशकत्। प्रातिशाख्यग्रन्था अपि वेदपाठस्य रक्षणार्थं विरचिता अभूवन्।

संहितापाठः[सम्पादयतु]

ओषधयः संवदन्ते सोमेन सह राज्ञा ॥ ऋ० १०॥९७॥२२ ॥

पदपाठः

ओषधयः सं । वदन्ते । सोमेन । सह राज्ञा

क्रमपाठः

ओषधयः सं । सं वदन्ते । वदन्ते सोमेन । सोमेन सह । सह राज्ञा । राज्ञेति राज्ञा।

जटापाठः

अोषधयः सं, समोषधयः, ओषधयस्, सम् ।

सं वदन्ते, वदन्ते, सं, सं, वदन्ते ।

शिखापाठः

अोषधयः सं, समोषधय, ओषधयेः सं — वदन्ते।

संवदन्ते, वदन्ते सं, संवदन्ते-सोमेन ।

धनपाठः

ओषधयः सं, समोषधय ओषधयः संवदन्ते,

वदन्ते समोषधय अोषधयः संवदन्ते ॥

संवदन्ते वदन्ते सं संवदन्ते सोमेन,

सोमेन वदन्ते सं, संवदन्ते सोमेन ॥

अस्य घनपाठस्य परीक्षणेन ज्ञातो भवति यत्, प्रथमपदन्तु पञ्चवारं, द्वितीयपदन्तु दशवारं, तृतीयपदं त्रयोदशवारं, चतुर्थपदमपि त्रयोदशवारं समायाति इति। इयं हि मेधाशक्तेः पराकाष्ठा वर्त्तते । मेधाविनो मुनेः ज्ञानस्योत्कर्ष एवाऽस्ति ।

सामवेदस्य मन्त्रस्थस्वराणां गणनासङ्केतस्तु अतीव प्रमाणिकतयैव त्रिविष्टो भवति । अस्मिन् स्वरे स्तोकमपि स्खलनस्य सम्भावना न वर्त्तते । इयं स्वरगणना समीचीनाऽस्ति। निम्नलिखितोदाहरणेनेयं वैज्ञानिकपरिगणना स्पष्टतया परिलक्षिता भवति -

रेवतीर्न सं ध मा द इन्द्र सन्तु तु विवाजाः

क्षुमन्तो याभिमदेम

अा द्य त्वावान त्मना युक्तः स्तोतृभ्यो घृष्णवियानः

ऋणोरक्षं नु चक्र्यौः ॥

अा यद् दुर्वेः शतक्रतवा कामं जरि नृणाम्

ऋणो रक्षं न शचीभिः'।। ३।१४ ठी ( धा० १८उ० २। स्व० ४ )

अस्ति सामवेदस्य उत्तराचिकस्येयं ऋच् । एतस्याः ऋचामुपर्युदात्तादि त्रयाणां स्वराणां विशिष्टचिह्नानि भवन्ति। ऋग्वेदे तूदातस्वराः तथा प्रचयस्वराः चिह्नरहिता एव भवन्ति । अनुदात्तस्याधोभागे लम्बरेखा (—) तथा स्वरितस्योपरिभागे ऊर्ध्वगा रेखा (।) भवति। तद्यथा -

अग्नि मी ले पु रो हि तम् अ उ स्व प्र अ उ व प्र

किश्च सामवेदस्य स्वराङ्कनप्रकारः भिन्नरूपेण भवति । अत्रोदात्तस्योपरि —

१, स्वरितोपरि —

२, तथाऽनुदात्तोपरि - ३, अङ्कानां सङ्केतो भवति ।

कदाचिदेतद्भिन्नोऽपि चिह्नो भवति-

१. अन्तिमोदात्तस्योपरि - २ चिह्रो भवति । यथा – गि रा (साम. ८) ।

२. २र, विशिष्टोऽयं चिह्नः ।

(क) यदा एककालावच्छेदेन उदात्तद्वयस्य प्रयोगो भवति, तदा प्रथमोदात्तोपरि - १, तथा द्वितीयोदात्तस्तु चिह्नविरहितो भवति । एवं तत्परे स्वरितोपरि २र चिह्रो भवति । यथा —

‘उत द्विषो मर्त्यस्य' ( साम. ६ ) ।

अस्मिन् मन्त्रे 'षो' एवं ‘म' उदात्तद्वयमस्ति । अत्र प्रथमोदात्ततोपरि - १ चिह्रस्तथा द्वितीयोदात्तः 'म'त्वचिह्नितमेव । तत्परे 'र्य' स्वरितोपरि '२ र' चिह्रो भवति ।

(ख) अनुदात्तात्परे स्वरितोपरि '२ र' चिह्रो भवति तथा पूर्वोऽनुदात्तोपरि '३ क' चिह्नितो भवति । यथा -

त न्वा (साम. ५२) च म्बोः । अर्थात् जात्यस्वरितोपरि “२ र' चिह्नो भवति।

३ - ‘२ उ, यदोदात्तद्वयस्य युगपदेव प्रयोगो भवति तथा तत्पश्वादनुदात्तः समायाति तदा प्रथमोदात्तोपरि ‘२ उ' चिह्नितो भवति, द्वितीयस्त्वर २ऊउ विहित एव भवति । यथा - ऊ त्या व सो (साम. ४१) अत्र 'त्या' एवं 'व' इति उदात्तद्वयस्य पश्चात् ‘सो' इत्यनुदात्तः अस्ति । फलतः प्रथमोदात्तः 'त्या' इत्युपरि '२ ऊ' इति सङ्केतः अस्ति ।

सामवेदे एतस्याः विशेषगणनायाः व्यवस्था विशेषरूपेण भवति । उपरिनिर्दिष्ट ऋचि अष्टादशाक्षराणि अचिह्नितानि सन्ति । प्रथम ऋचि अचिह्नितान्यक्षराणि चत्वारि सन्ति। द्वितीयेऽपि ऋच्यचिह्नितानि चत्वारि एवाक्षराणि सन्ति । तृतीये ऋचि दशाक्षराण्यचिह्नितानि सन्ति । एतेषां सङ्कलनमष्टादशाक्षराणि भवन्ति । यत् धा. '१८' धारी इति पदेन सूचितो भवति। '२ उ' इति संकेतेन चिह्नितमक्षरद्वयमस्ति । (= उ. २ ) । ‘रकारचिह्नितस्वरितः (२ र) संख्यायां चत्वारः सन्ति । (=स्व. ४ ) । एतेषां त्रयाणां सूचना 'ठी' सङ्केतेन प्राप्यते। ठी = ठ् + ई । 'ई' चतुर्थस्वरो भवति । तेनायं चतुर्णां सूचको भवति । ठकारस्तु टवर्गस्य द्वितीयवर्णोऽस्ति । अतोऽयं ( उ २ ) पदस्य संकेतं करोति । इयं व्यवस्था मात्रोत्तरार्चिकमन्त्राणां कृते एवाऽस्ति । पूर्वार्चिके तु स्वरितः, उदात्तस्तथा धारीपदानाञ्च क्रमः पूर्वक्रमात् विपरीतो भवतीति ।

वेददुर्गस्य रक्षार्थमियं दुर्भेद्या पंक्तिरस्ति । तेन हि अद्याऽपि वेदानां विशुद्धता प्रामाणिकता चाक्षुण्णा एवाऽस्ति ।

वेदानां वैशिष्टयम्[सम्पादयतु]

वेदेषु ज्ञान-विज्ञान-धर्म-दर्शन-सदाचार-संस्कृति-नैतिक-सामाजिक-राजनैतिकप्रभृतीनां जीवनोपयोगिविषयाणां सन्निवेशोऽस्ति । यत्र प्रत्यक्षस्य न चानुमानस्य प्रवेशस्तत्रापि ते प्रविशन्ति। स्मृतिपुराणादीनां मान्यत्वं तदनुगामित्वम् एवावतिष्ठते । प्राचीनानि धर्म-समाज-व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते । वेदास्तु धर्ममूलतयैव सर्वथा समादृताः सन्ति । मनुना प्रोक्तश्च - ‘वेदोऽखिलो धर्ममूलम्' तथा ‘वेदाद्धर्मो हि निर्बभौ' इति। एवञ्च महाभाष्यकृता पतञ्जलिना ब्राह्मणेन षडङ्गवेदाध्ययनस्यानिवार्यत्वमुच्यते स्म । तथाहि-

‘ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च॥'[२५]

वेदेषु अध्यात्मदर्शनस्य उत्कृष्टभाण्डागारं निक्षिप्तमस्ति । किञ्च तेषां प्रतिपादनरीतिः अर्वाचीनप्रतिपादनशैलीतः सर्वथा भिन्ना एव ।

वेदे सर्वाङ्गपूर्णतया मानवजीवनोद्देश्यभूताः धर्मार्थकाममोक्षाख्याश्चत्वारोऽपि पुरुषार्थाः विवेचिताः, अतः वैदिकवाङ्मये मानवजीवनोपयोगिनः सर्वेऽपि विषयाः साधु विवेचिताः। अत एव देवेभ्यः अपि तत् आदृतं भवति । सर्वेऽपि वेदाः मन्त्ररूपाः एव । यज्ञादिषु अवसरेषु ब्राह्मणप्रयुक्तैः तैः मन्त्रैः आवाहनादिविधिना अावाहिताः देवाः तत्र तत्र अायान्त्यैव इत्यत्र श्रुतिरेव प्रमाणम्।[२६] वेदोक्तमन्त्राणाम् आश्चर्यकरः प्रभावो। यतो हि एतेषां विलक्षणप्रभावान् दृष्ट्वा, विचार्य, संश्रुत्य च भारतीयैः किं वा वैदेशिकैश्च विद्वद्भिः एतेषां संरक्षणाय, सम्यग्ज्ञानाय च समये-समये बहुकिमपि कृतम् अस्ति। वैदिकवाङ्मयस्य संरक्षणे, समुपबृंहणे च पाश्चात्यविपश्चितां यावान् श्रमो दृष्टिपथम् आयाति, न तावान् भारतीयानाम् । प्राचीनासु भारतीयभाषासु यथा संस्कृतं सर्वातिशायि अस्ति, तथैव सर्वेषु वाङ्मयेषु वैदिकवाङ्मयं प्रामाणिकरूपेण स्वीक्रियते। सर्वत्र ‘वेदाः प्रमाणम्' इति मतं समानतयाङ्गीक्रियते। सर्वेऽपि मतावलम्बिनः स्वं मतं वेदोक्तैः प्रमाणैः परिपुष्टतां गमयित्वा स्वां कृतिं धन्यां, स्वं च घन्यं कलयन्ति। विषयेऽस्मिन् न केवलं भारतीया एव श्रद्धालवः, अपि तु पाश्चात्या अपि विद्वांसः श्रद्धावद्धावधाना दृश्यन्ते । अत्र प्रेयःशास्त्रं श्रेयःशास्त्रश्चोभयं समभावेन समेधितम् । अतः एवात्र भोगमोक्षयोः उभयोः सत्तायाः सकलवाङ्मयापेक्षया विशिष्टता विद्यते। तस्याऽध्ययनमिहापरिहार्यत्वेन अनिवार्यत्वेन चाभ्युपगतम् । योहि द्विजो वेदमनधीत्यान्यत्र श्रमं विदधाति स इह शूद्रो मतः ।[२७] [२८] भारतीयविचारधाराया द्रढीयानयं विश्वासो यद्वेदतत्त्वज्ञ एव जनो ब्रह्म ज्ञातुमर्हति ।[२९] अस्मदीयाः पूर्वजाः केन प्रकारेण जीवनं यापयामासुः ? काभिः क्रीडाभिस्ते स्वकीयं मनो मोदयामासुः ? का देवतास्ते पूजयामासुः ? विवाहसम्बन्धस्योद्देश्यं किन्ते निर्धारयामासुः ? केन च विधिना ते प्रभाते अग्नावाहुतिं समर्पयामासुः ? एव लब्धुं शक्यमस्ति । अध्यात्मदर्शनस्य भारतीयदर्शनानाश्च रहस्यं तेषां विकासस्य वैशिष्टयञ्च मूलतः वेदसाहाय्येनैव ज्ञेयं भवति । वेदानां वैविध्यश्चापि अस्यैव साहाय्येनैव ज्ञेयं भवितुमर्हति । वेदोत्तरकालिकसाहित्ये - ब्राह्मणग्रन्थोऽयमेवं वदति, दर्शनशास्त्रमिदं ब्रवीति, वेदाङ्गभूतमिदं शंसति, अमुकः स्मृतिरिदं कथयति इत्येवंविधायां स्थित्यां किं कार्यं, किं न कार्यम् इत्यस्य कृते वेदं शरणं यान्तु । तत्तच्छास्त्रादीनां तत्तत्कथनस्य रहस्यं वेदे एव उन्मीलयिष्यति । तदेव तद्विधां शङ्कामपनोदयति । भाषादृष्ट्या अपि वेदानां महत्त्वं वर्तते। वैदिकभाषेवेयं वर्तते या साम्प्रतिक-भाषाविज्ञानं द्रढीयसीं भूमिमध्यासयति स्म, इयं वैदिकभाषेवाऽस्ति या भाषाविदां मध्ये प्रसृतं प्राचीनभाषाविषयकमतभेदं निराकृतवती । ज्ञास्यन्तीदंश्च भौतिकेऽर्थेषु प्रयुज्यमानानि पदानि युगान्तरेण कस्मादाध्यात्मिकेऽर्थ प्रयुक्तानि भवितुमारभन्ते। भूयिष्ठप्रयोजनेन साधकत्वात् वस्तुतो वेदाः सन्ति परममहत्त्वभाजो ग्रन्थाः।

अपौरुषेयाः वेदाः[सम्पादयतु]

प्रतीच्याः (पाश्चात्याः) विपश्चितो वेदान् ऋषिप्रणीतान् मन्यन्ते । तेषां हि आधिभौतिकीदृष्टिस्तान् शब्दराशिमेव सामान्यग्रन्थमेवावगच्छति। फलतः यः ऋषि येन मन्त्रविशेषेण सम्बद्धोऽस्ति स तस्य कर्ता । ऋग्वेदेऽपि कर्तृत्वपदस्य स्पष्टत उल्लेखो प्राप्यते - ‘इदं ब्रह्मक्रियमाणं नवीयः’ (ऋ० ७॥३५॥ १४), ‘ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः' (ऋ० ७॥३७॥४), ‘ब्रह्मेन्द्राय वत्रिणे अकारि’ (ऋ० ७॥९७॥९ ) प्रभृतिमन्त्रेषु ‘ऋषिप्रणीता एव वेदमन्त्राः सन्ति' अस्य कथनस्योल्लेखः स्पष्टतया प्रतिभाति ।

परन्तु भारतीयानां मते ऋषयो वैदिकमन्त्राणां द्रष्टारः सन्ति न तु कर्तारः । 'ऋषि' इत्येतस्य पदस्य व्युपत्तिलभ्यः ‘ऋषति पश्यति इति ऋषिः' इत्यर्थ एव 'मन्त्रद्रष्टा' इत्यस्ति एव ऋषिः शब्दः इगुपधात् किदित्यनेनौणादिकेन सूत्रेण इनि कृते निष्पद्यते । निरुक्ते च विद्युमानाः – ‘तद्येनास्तपस्यमानन् ब्रह्मस्वयम्भ्वभ्यानर्षत्॥' इत्यादिकाः पङ्क्तयः ऋषेर्मन्त्रद्रष्टृत्वमुपपादयन्ति। असङ्खयेयवैदिकमन्त्राणामनुशीलनेन प्रतीतो भवति यद्, अलौकिकसामर्थ्यशालिनः ऋषयो दिव्यया प्रतिभया मन्त्राणां दर्शनं लब्धवन्तः (द्रष्टव्यः - ऋ० ७॥३३, ७॥१३ मन्त्राः) इति। कतिपयेषु मन्त्रेषु मुनिवसिष्ठम् अलौकिकदृष्ट्या प्रदत्तज्ञानस्य उल्लेखः दृश्यते (ऋ. ७/८७/४ - ७/८८/४)। ऋग्वेदेऽनेकत्र वाचः भव्यास्तुतिः दृग्गोचरी भवति। मन्त्राणां प्रकाशस्तद्धियि अवततार । तद्यथा -

‘यज्ञेन वाचः पदवीयमायन्, तामन्वविन्दन् ऋषिषु प्रवीष्टान्' - ऋ० १०॥७१॥३

ऋषिदृष्टप्रार्थनायाः अलौकिकफलस्य निर्देशोऽपि वेदे एव लभ्यते ( ऋ० ३॥५३॥१२, ॥७॥३३॥३ ) मन्त्रेष्वेव वैदिकवाण्याः नित्यतायाः प्रमाणम् अस्ति। तेषु प्रमाणेषु ‘वाचा विरूपनित्यया' ( ऋ० ८॥७५॥६) मुख्योऽस्ति ‘ऋषि' इत्येतस्य पदस्य व्युत्पत्तिलभ्यः ( ऋषति पश्यति इति ऋषिः ) अर्थ एव मन्त्रद्रष्टा इत्यस्ति।

एष 'ऋषि'-शब्द इगुपधात् कित् इत्यनेनौणादिकेन सूत्रेण इनि कृते निष्पद्यते । निरुक्ते च विद्यमानात् ‘तद्येनास्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यानर्षत्...॥ इत्यादिकाः पङ्क्तयः ऋषेर्मन्त्रद्रष्टृत्वमुपपादयन्ति । अत ऋषयः मन्त्राणां द्रष्टारः सन्ति न च कत्तारः ।

“ऋषिर्मन्त्रद्रष्टा ॥ गत्यर्थत्वात् ऋषेर्ज्ञानार्थत्वात् मन्त्रं दृष्टवन्तः ऋषयः ॥' ( श्वेतवनवासिरचितवृत्तौ उणादिसूत्रं ४॥१२९ द्रष्टव्यम् ) एवञ्च निरुक्तेऽपि ‘तद्यदेनांस्तपस्यमानां ब्राह्मस्वयम्भ्वभ्यानर्षत् त ऋषयोऽभवंस्तदृषीणामृषित्वमिति विज्ञायते ऋषिदर्शनात् ॥ मन्त्रान् ददर्श इत्यौपमन्यवः ॥'

न्यायवैशेषिकयोर्मतेन वेदाः पौरुषेयाः नित्याश्च सन्ति । परं सांख्य-वेदान्तमीमांसानाश्च मतेन ते अपौरुषेयाः सन्ति । नित्यत्वञ्च तेषां दर्शनानीमानि स्वीकुर्वन्ति स्मृतिपुराणेषु च वेदसम्बन्धिनी भावना तादृश्येव प्रायेण, यादृशी मीमांसायां विभावितास्ति। मनुर्वेदान् नित्यान् अपौरुषेयांश्व मन्यते । [३०] उद्धवोऽपि वेदान् नित्यान् अपौरुषेयांश्व मन्यते। [३१]

अधिकारः[सम्पादयतु]

शास्त्रम् तु अष्टमे ब्राह्मणम् उपनयीत इति उक्त्वा आनन्तरं सः वेदाध्ययनार्थम् अधिकारत्वं प्राप्नोति इति वदति ।

सनातन धर्मस्य प्राणवत्, विश्वस्य महानतमः आदिग्रन्थः वेद न केवलं हिन्दुधर्मस्य अपितु सर्वेषां धर्माणां मूलम् अस्ति । वेदोखिलो धर्ममूलम् अर्थात् समेषां धर्माणाम् उत्पत्तिः अनेन एव अभवत् इति ।

उक्तमेव अस्ति- धर्मजिज्ञासमानानां प्रमाणं परमं श्रुति:

वस्तुतः वेदानां प्रादुर्भावः सृष्ट्यारम्भे एव अभवत् किन्तु केचन पाश्चात्यीयानाम् अभिप्रायम् अनुमन्यमानाः एव अस्माकं विद्वांसः अपि वेदानां रचनाकालं केवलं विगत चतुर्पंच सहस्र वर्षाणि एव मन्यन्ते । ते अवधानं न ददति यत् वेदानां परम्परा अपि वर्णिता अस्ति । अनेन क्रमेण ईश्वरेण ब्रह्मा, तेन वशिष्ठ अपि च अनेनेव क्रमेण शक्ति, पराशर , द्वैपायनः च वेदानां ज्ञानं प्राप्तवान् । वेदानां विस्तारकारणात् एव तस्य नाम वेदव्यासः इति अभवत् ।

वेदेषु प्राचीनतमः ऋग्वेदः अस्ति । इत्यपि प्राप्यते यत् सर्वप्रथमः केवलं ऋग्वेदः एव आसीत् , पठन-पाठनसारल्यहेतुः एव द्वैपायनः अस्य विस्तारं चतुर्षु वेदेषु कृतवान् अतः तस्य नाम व्यास इति अभवत् ।

महाभाष्यस्य (पश्पसाह्निक) अनुसारम् ऋग्वेदस्य एकविंशतिः (21) शाखाः आसन् । एतासु शाखासु चरणव्यूह ग्रन्थानुसारं पंच (5) शाखाः (शाकल, बाश्कल, आश्वलायन, शांखायन, माण्डूकायन) मुख्याः सन्ति । यासु साम्प्रतं केवलं शाकल शाखा एव प्राप्यते । ऋग्वेदस्य (शाकल शाखा) विभाजनं द्विधा, अष्टक क्रमेण, मण्डल क्रमेण च कृतं अस्ति । अष्टक क्रमे, अष्ट अष्टकेषु अष्ट-2 अध्यायाः, प्रत्येकस्मिन् अध्याये केचन वर्गाः, प्रत्येकवर्गे केचन ऋचाः सन्ति । अनेन क्रमेण सम्पूर्ण 2006 वर्गाः 10417 ऋचाः च सन्ति । शौनकाचार्यस्य अनुक्रमण्याम् अस्य पूर्णसंख्या 10580-1/4 इति अस्ति । ऋचां दशसहस्राणि ऋचां पंचशतानि च, ऋचामशीतिः पादश्च पारणं सम्प्रकीर्तितम् । मण्डल क्रमः अतिप्रचलितः अस्ति । एतस्यानुसारं ऋग्वेदः दश मण्डलेषु विभक्तः अस्ति । प्रत्येकेषु मण्डलेषु विभिन्न अनुवाकाः, तेषु कानिचन सूक्तानि, प्रत्येकेषु सूक्तेषु केचन मन्त्राः सन्ति । औसतसंख्या पंच अस्ति । एवं विधा सम्पूर्णं 1028 सूक्तानि सन्ति येषु 11 खिल सूक्तानि सन्ति । प्रथम मण्डलस्य द्रष्टारः शतार्चिननामधारिणः सन्ति । 2 तः 8 पर्यन्तं वंशमण्डल इति संज्ञया अभिहिताः । नवम मण्डलं सोम, पवमान मण्डलं वा कथ्यते । अस्य मण्डलस्य सर्वाणि सूक्तानि सोम देवाय समर्पितमस्ति । दशम मण्डलस्य नासदीय सूक्तपर्यन्तं सूक्तानि महासूक्तानि, अनन्तरं क्षुद्रसूक्तानि इति अथ च एतेषां द्रष्टारः अपि एतया संज्ञया एव अभिहिताः । ऋग्वेदस्य प्रधानदेवः इन्द्रः अस्ति । अस्य 250 सम्पूर्णसूक्तेषु अपि च अन्येषु आंशिकरूपेण अर्चना कृता अस्ति । ऋग्वेदे समस्तमण्डलानां प्रारम्भिकसूक्तानि अग्नये समर्पितमस्ति । अग्निः ऋग्वेदस्य द्वितीयः प्रधानदेवः अस्ति । अस्य 200 सम्पूर्ण सूक्तेषु अन्यत्र च आंशिकरूपेण अर्चना कृतास्ति । ऋग्वेदस्य रक्षार्थं, अपरिवर्तनीयं भूयात् अतः अपि सूक्तानां शब्दानाम् अपि गणना कृतास्ति । शौनकानुक्रमणी मध्ये एषा संख्या 153826 अस्ति । शाकल्यदृष्टेः पदलक्षमेकं सार्धं च वेदे त्रिसहसयुक्तम्, शतानि चाष्टौ दशकद्वयं च पदानि षट् चेति हि चर्चितानि । (अनुक्रमणी 45) शब्दानां एव न अपितु वर्णानाम् अपि गणना कृता अस्ति । अनुक्रमणी अनुसारं एषा संख्या 432000 अस्ति । वृहतीसहस्राण्येतावत्यो हर्चो या: प्रजापति सृष्टा: (शत0 ब्रा0-10,4,2,23), चत्वारिंशतसहस्राणि द्वात्रिंशच्चाक्षरसहस्राणि - (शौनक-वाकानुक्रमणी) ऋग्वेदस्य प्रथम अध्यापनं वेदव्यासः स्वशिष्यं पैलं प्रति कृतवान् । तत्रगर्वेदधरः पैलः । ऋग्वेदस्य दशममण्डलस्य ऋषयः एव तस्य देवताः अपि सन्ति । मन्त्राणां दर्शने महिलानाम् अपि सहयोगः अस्ति । तासु अगस्त्यपत्नी लोपामुद्रा, महर्षि अम्भृणपुत्री वाक् इत्ययोः नाम विशेषतया उल्लेखनीयम् अस्ति ।

पश्यतु[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. https://archive.org/stream/in.ernet.dli.2015.70129/2015.70129.Rigvedic-India#page/n23/mode/1up/search/india
  2. ( शतपथ० २ ।। १ । २ )
  3. https://archive.org/stream/BharatiyaJyotishSastra1/Bharatiya%20Jyotish%20Sastra-1#page/n169/mode/2up पृ० १३६-१४०
  4. History of Indian Literature. First part. Page 296-297 by writer
  5. ( ऋग्वे० ७ । ९५॥|२ )
  6. https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_७.९५
  7. (ऋ. ११ । ६ । ८१ । ४ । )
  8. (तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०८)
  9. शतपथब्राह्मणम् १० ॥ ५
  10. तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः ३/प्रपाठकः १२
  11. शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ३/यजुस्तद्विधायक ब्राह्मणम्
  12. (ऋग्वेदः ५॥४४॥१५ )
  13. छान्दो० ४ । १७ । ८
  14. (ऋ० १० ॥ ७१ ॥ ११)
  15. (आप० परिभाषा० ३१ )
  16. (दुर्गाचार्यः निरुक्तवृत्तिः १।२० )
  17. (द्वितीयाध्याये प्रथमपादे ३२॥३३॥३८ सूत्राणि )
  18. (छा० ब्रा० ६। १७ )
  19. ( मनु० १ ।। १३ )
  20. https://sa.wikisource.org/wiki/मनुस्मृतिः/प्रथमोध्यायः
  21. https://sa.wikisource.org/wiki/छान्दोग्योपनिषद्_४
  22. https://sa.wikisource.org/wiki/महाभारततात्पर्यनिर्णयः
  23. https://sa.wikisource.org/wiki/साधकपञ्चकम्
  24. p. 126, History of British Folklore, Richard Mercer Dorson, 1999, ISBN 9780415204774
  25. https://sa.wikisource.org/wiki/महाभाष्यम्/पस्पशाह्निकम्
  26. ‘देवाधीनं जगत्सर्वं मन्त्राधीनाश्च देवताः'
  27. योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥' -मनु०
  28. https://sa.wikisource.org/wiki/महाभाष्यम्/पस्पशाह्निकम्
  29. 'वेदशास्त्रार्थतत्त्वजो यत्र कुत्राश्रमे वसन् । इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते ॥'
  30. ‘पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् ॥ अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः ॥'
  31. उद्धवगीता_४/विंशः अध्यायः/श्लो. ४
"https://sa.wikipedia.org/w/index.php?title=वेदः&oldid=426605" इत्यस्माद् पुनः प्राप्तिः