सामग्री पर जाएँ

महाभाष्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

महाभाष्यं पतञ्जलिना रचित: व्याकरणस्य ग्रन्थ: अस्ति। पाणिनिमुनिः व्याकरणस्य अभूतपूर्वं ग्रन्थम् ’अष्टाध्यायीं’ रचितवान्, यश्च ग्रन्थः सूत्ररूपेण अस्ति। तस्याः वाक्यरूपेण व्याख्या कात्यायनेन कृता । पतञ्जलिः द्वयोः विस्तृतां व्याख्यां महाभाष्ये कृतवान्।

महत्त्वम्

[सम्पादयतु]

संस्कृतव्याकरणक्षेत्रे पातञ्जलमहाभाष्यस्य मूर्धाभिषिक्तं स्थानं वर्तते। यथोत्तरं मुनीनां प्रामाण्यम् इत्यादिभिः आभाणकैः इदं प्रमाणितं भवति। महान् शब्दयोगी, वाग्योगवित्, सङ्ग्रहप्रतिकञ्चुकः भाष्यकारः पतञ्जलिः वदति - इष्टमेवैतत् सङ्गृहीतं भवति इति। इष्टमित्युक्त्वा तेन ये प्रयोगाः दर्शिताः ते संस्कृतव्याकरणजगति ग्राह्याः जाताः। इष्टमिति ये प्रयोगाः न निर्दिष्टाः ते लोके प्रचारे विद्यन्ते चेदपि साधुत्वं न भजन्ते । महाराज्यं वा पालनीयम्, महाभाष्यं वा पठनीयम् इत्येतत् प्रसिद्धं वचनम् अस्य ग्रन्थस्य श्रेष्ठतां सुष्ठु ज्ञापयति । अस्मिन् व्याकरणदर्शने भाष्यकारः सूक्ष्म-गम्भीर-रूक्षणां विषयाणामपि विवरणं गुडजिह्विकान्यायेन रोचकया, आसेचनकया, सरसया, मधुरया च शैल्या कृतवान् अस्ति। लौकिकैः उपमानैः युक्ता संवादशैली, नितरां सुरक्षिता, स्तुत्या च शैली आधृता अस्ति ।

व्याकरणाध्ययनस्य आवश्यकता

[सम्पादयतु]

वेदान्तो वैदिकाः शब्दा लोकान्नो लौकिकाः । किमर्थमघ्येयं व्याकरणम् इत्येतत् भाष्यकारस्य वचनं सूचयति यत् तस्मिन् अपि काले संस्कृतस्य अध्ययने व्याकरणस्य महत्त्वं न ज्ञातवन्तः आसन् इति । भर्तृहरिः अपि इदम् ऐतिहासिकसत्यं सूचयति । व्याकरणज्ञानस्य अभावेन भविष्यति काले संस्कृतस्य (वैदिक-लौकिकयोः) शुद्धतायाः रक्षणे कियान् क्लेशः भवेत् इत्येतत् भाष्यकारेण अवगतम् आसीत् । अतः सुहृद्भूतेन तेन आगमवचनपरिपालनार्थं ब्राह्मणेन निष्कारणो धर्मः षड्ङ्गो वेदोऽध्येयो ज्ञेयश्च इति घोषितम् ।

व्याख्यानशैली

[सम्पादयतु]

भाष्यकारः पतञ्जलिः सवस्य स्वोपज्ञप्रज्ञया अद्भुतेन चित्र-विचित्रेण प्रतिभाबलेन शब्दप्रयोगद्वारा सूत्रकारनिर्दिष्टपद्धतिम् अनुसरन् प्रभूतानुभूतिसम्भूतया अद्भुतसूक्ष्मबुद्ध्या शब्दसिद्धेः सुगमं मार्गं बोधयति । तदीया शैली नवनवोन्मेषशालिनी, नानाविधतर्कसमन्विता, महत्सूक्ष्मेक्षिकयुता च । शास्त्रीयसिद्धान्तं सः यथोचितरीत्या प्रतिपादयति । अस्मिन् सिद्धान्तप्रतिपादनप्रक्रियायां सः स्वस्य परिष्कृतमस्तिष्कात् उद्भूताः चिररुचिरानल्पाः कल्पनाः अपि समायोजयति । एताः निगूढाकूतिकल्पनाः गूढाशयम् अवगन्तुं न केवलं पेलावधी अपि तु व्युत्पन्नमतिः अपि कष्टम् अनुभवति । अतः एव टीकाकाराणामपि अनेकत्र मतभेदाः दृश्यन्ते ।

भाष्यकारः अनुभवी न्यायवादी इव अद्भुततर्कैः स्वस्य वादं प्रतिपादयति । अतः पूर्वपक्षस्य उपस्थापनावसरे तदीयं प्रबलं तर्कं दृष्ट्वा अप्रबुद्धः पाठकः कदाचित् चिन्तयेत् अयमेव उत्तरपक्षः इति । अग्रे उत्तरपक्षस्य उपस्थापनावसरे सः पूर्वोक्तानां तर्काणां सर्वेषां कृते समीचीनं प्रत्युत्तरं यच्छति । शिष्यबुद्धिपरीक्षार्थं व्युत्पादनार्थं वा भाष्यकारः सूत्रं विभिन्नदृष्ट्या प्रत्येकपक्षेण च दर्शयति विवृणोति च । तस्मिन् क्षणे यत् सूत्रं योग्यं भवेत् तस्य खण्डनं मण्डनं वा कृत्वा अन्तिमं निर्णयं पाठकानां कृते त्यजति । भाष्यकारस्य वैज्ञानिकी व्याख्यानशैली अत्युत्कृष्टा अस्ति यत् पूर्वपक्ष-उत्तरपक्षयोः समर्थने प्रबलतमां युक्तिं प्रदर्श्य अपि निर्णयावसरे मौनम् आश्रयति । भाष्यकारः वदति - एते दोषाः समा भूयांसो वा । तस्मान्नार्थोऽनया परिभाषया... दोषाः खल्वपि साकल्येन परिगणिताः । प्रयोजनानामुदाहरणमात्रम् । कुत एतत् । न हि दोषाणां लक्षणमस्ति । तस्माद्यान्येतस्याः परिभाषायाः प्रयोजनानि तदर्थमेषा परिभाषा कर्त्तव्या, प्रतिविधेयं च दोषेषु । (पा १ १ ३९) - एवं वदन् अप्रत्यक्षरूपेण स्वस्य अभिमतं प्रकाशयति । तस्मादस्तु स एव मध्यमः पक्षः (पा १ १ ११) इति स्पष्टरूपेण अभिप्रायकथनं तु अतिविरलतया एव दृश्यते । पाठकैः शब्दरूपसिद्धिप्रक्रिया पूर्णरूपेण शङ्कासमाधानपूर्वकम् अवगता स्यात् इति धिया एव भाष्यकारेण निर्णयाः न श्राव्यन्ते इति भासते ।

ये अन्वाख्यान-प्रत्याख्यानपराः अन्तर्विरोधाः आपाततः दृश्यन्ते तस्य निगूढरहस्यस्य उत्तरं स्वयं भाष्यकारः वदति यत् - न हि दोषाः सन्तीति परिभाषा न कर्त्तव्या, सूत्रं वा न प्रणेयम् । न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते । न च मृगाः सन्तीति यवा नोप्यन्ते (पा १ १ ३९) इति । अतः एव अनेकेषां सूत्राणां प्रत्याख्यानं ज्ञात्वा अपि भाष्यकारस्य इदं कथनं सुसङ्गतं भासते - प्रमाणभूत आचार्यो दर्भपवित्रपाणिः शुचाववकाशे प्राङ्मुख उपविश्य महता प्रयत्नेन सूत्राणि प्रणयति स्म । तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्, किम्पुनरियता सूत्रेण (पा १ १ १) । अपि च सामर्थ्ययोगान्न हि किञ्चिदस्मिन्शास्त्रे पश्यामि यदनर्थकं स्यात् (पा ६ १ ७७) ।

अस्य व्याख्यानशैली अत्यन्तं वैचित्रपूर्णा । यथाप्रसङ्गं यथाभिमतं समाधानस्य दाने तस्य क्षमता अपूर्वा । किन्तु इदं सर्वं सः पाणिनिव्याकरणस्य परिधौ एव करोति इत्येतत् स्मर्तव्यम् । भाष्यकारः सूत्रन्यासे किमपि परिवर्तनं कृत्वा लाघवेण दोषाणां परिहारं दर्शयेद् चेदपि अन्ते इदं दृढं कथयति - सिध्यत्येवं, सूत्रं तु भिद्यते । अपाणिनीयं तु भवति । यथान्यासमेवास्तु इति ।

एतदवधेयं यत् भाष्यकारः यावच्छक्यं सः पाणिनिसूत्रैः एव सर्वं निर्वहति । निरर्थकं सूत्रस्य परिवर्तनं वार्तिकानां योजनं वा सः न सहते । वार्तिककारः क्ङिति च (पा १ १ ४) सूत्रस्य क्ङितिप्रतिषेधे तन्निमित्तग्रहणस्योपसंख्यानम्, उपधारोरवीत्यर्थम् इत्युक्त्वा तन्निमित्तग्रहण इति यद्वदति तत्सर्वम् अनावश्यकं मन्यमानः भाष्यकारः - उपधार्थेन तावन्नार्थस्तन्निमित्तग्रहणेन इति वदन् उक्तस्य प्रस्तावस्य खण्डनं करोति । किन्तु यदा पाणिनिसूत्रेण विशेषयुक्तिप्रयुक्तिभिः अन्यथासिद्धं भवेत् तत्र भाष्यकारः वार्तिककारेण सह सूत्रकारस्य अपि कदाचित् विरोधं करोति । किन्तु अयं विरोधः ईर्ष्यामूलः न अपि तु समन्वयमूलः - नासूया कर्त्तव्या यत्रानुगम आचार्येण क्रियते (पा ५ १ ५९)

प्रत्याहारकल्पनायाः विषये अपि भाष्यकारस्य स्वीया धारणा विद्यते । तदनुसारं माहेश्वरसूत्राणां पाणिनिप्रोक्तानां प्रत्ययानां धातूनामपि कदाचित् नेदं प्रत्ययग्रहणं, किन्तर्हि, प्रत्याहारग्रहणम् इति प्रत्याहारं मन्यमानः इष्टं साधयति । मात्रच् प्रत्याहारः अस्य उत्तमं निदर्शनम् ।

सूत्राणां सन्धिच्छेदविषये अपि भाष्यकारस्य कौशलम् अत्यपूर्वम् । लक्ष्यानुरोधेन यत्र यथा आवश्यकं तत्र तथैव सूत्रस्य विभागं कुर्वन् इष्टसिद्धिं सम्पादयति । किन्तु कुत्रापि दोषः यथा न स्यात् तथा साधयति इत्येतत् अवधेयम् । गर्गादिभ्यो यञ् (पा ४ १ १०५), टाङ् सिङ्सामिनात्स्याः (पा ७ १ १२) - इत्येतेषां सूत्राणां भाष्यम् अस्य प्रमाणम् । लक्ष्यदर्शनवशेन सूत्राणां न्यासपरिवर्तने योगविभागे चापि भाष्यकारस्य अपूर्वा कल्पनाशक्तिः वर्तते । ई च खनः (पा ३ १ १११) इत्येतत् सूत्रम् अस्य उदाहरणम् । भाष्यकारः अत्र ह्रस्वम् इकारं मन्यते ।

इमान्यपि दृश्यताम्

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=महाभाष्यम्&oldid=436728" इत्यस्माद् प्रतिप्राप्तम्