पतञ्जलिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हरिद्वारे पतञ्जलियोगपीठे पतञ्जलिशिल्पम्

पतञ्जलिः(Patanjali) कश्चन प्रसिद्धः वैयाकरणः अस्ति ।

योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन।
योपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोस्मि॥

महामुनेः पतञ्जलेः विषये उक्तं सुप्रसिद्धं पद्यम् इदम् । एतेन ज्ञायते यत् सः योगशास्त्रे, व्याकरणशास्त्रे, वैद्यकशास्त्रे च ग्रन्थरचनां कृतवान् आसीत् इति । एषः महाभाष्यकाररूपेण प्रसिद्धः अस्ति ।

देशकालविषयः[सम्पादयतु]

पतञ्जलेः देशकालविषये दृढ: मानदण्ड: विद्यते । अस्य देशः 'गोनर्दः' इति ज्ञायते यतः तेन एव उच्यते - 'गोनर्दीयत्वाह' इति । तत्र भाष्ये 'पुष्यमित्रं याजयामहे' इति दत्तात् उदाहरणात् पतञ्जलिः पुष्यमित्रस्य पुरोहितः इत्यपि केचन वदन्ति । पुष्यमित्रस्य प्रधानभूता राजधानी पाटलीपुत्रम् आसीत् । तथापि अयोध्या उपराजधानी आसीत् इति वदन्ति इतिहासकाराः। अतः गोनर्द(गोण्डा)देशवासिनः पतञ्जलेः पुष्यमित्रेण सह सम्बन्धः स्यात् एव | पतञ्जलिः क्रि०पू० २ शतके आसीत् इति पण्डिताः मन्यन्ते।

भाषाशैली[सम्पादयतु]

पाणिनिमुनिना प्रणीतस्य व्याकरणग्रन्थस्य अष्टाध्याय्याः महद्व्याख्यानम् एतेन रचितम् । तत् भाष्यं वार्तिककारस्य कात्यायनस्य वार्तिकम् अधिकृत्य अपि लिखितम् आसीत् । अस्य भाष्यस्य नाम - 'महाभाष्यम्'। इदं नाम तस्य आकारस्य, माहात्म्यस्य च परिचायकम् अस्ति। महाभाष्यस्य अध्ययनं विना संस्कृतव्याकरणस्य ज्ञानम् अपूर्णम् एव। अत एव पतञ्जलिः व्याकरणस्य 'मुनित्रये' अन्यतम: इति परिगणितः । अष्टाध्याय्यां विषयाः सूक्ष्मतया वर्णिताः सन्ति। उदाहरणप्रत्युदाहरणै: शङ्कासमाधानपद्धत्या विषयस्य स्पष्टीकरणं पतञ्जलिना कृतम्। । लौकिकैः उदाहरणैः, लघुकथाभिः, विनोदवचनैः च नीरसः व्याकरणविषयः अपि मनोरञ्जकः जातः। अत एव भाष्यविषये एका प्रशंसोक्तिः श्रूयते - "महाभाष्यं वा पठनीयं, महाराज्यं वा पालनीयम्" इति। भविष्यपुराणे प्रतिसर्गपर्वणि पतञ्जलेः भाष्यविशारदत्वम् उत्कर्षेण प्रतिपादितम् अस्ति -

चित्रकूटे गिरौ रम्ये, नानाधातुविचित्रिते ।
तत्रावसन्महाप्राज्ञ: उपाध्यायः पतञ्जलिः ॥
वेदवेदाङ्गतत्त्वज्ञो, गीताशास्त्रपरायणः ।
विष्णुभक्तः सत्यसन्धो, भाष्यशास्त्रविशारदः॥३५/१-२

महाभाष्यकारस्य पतञ्जलेः शैली वैदर्भी अस्ति ।यस्याः स्वरूपम् अधोलिखितमस्ति -

अकठोराक्षरं स्वल्पसमासं चूर्णकं विदुः ।
तत्तु वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥

समासरहितं गद्यं चूर्णकम् इति कथ्यते । पतञ्जलेः एतादृशी चूर्णकगद्यशैली अस्ति । एषा गद्यशैली विषयनिरूपणदृष्ट्या अतीव सरला सम्भाषणात्मिका च अस्ति । तत्र कठिनविषयाणाम् उपक्रमे मध्ये मध्ये 'किं वक्तव्यमेतत्', 'कथम् अनुच्यमानं गंस्यते' इति, 'अहोस्वित्', 'अस्ति प्रयोजनमेतत्', 'कथं तर्हि' इत्येतादृशैः सम्भाषणात्मकैः वचनैः पाठकानां मनः लक्ष्यं प्रति समाकृष्यते ।

श्रेणी:जीवनचरित्रम्

"http://sa.wikipedia.org/w/index.php?title=पतञ्जलिः&oldid=247655" इत्यस्माद् पुनः प्राप्तिः