अग्निपुराणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


अग्निपुराणम्
अग्निपुराणम्
अग्निपुराणम्
अग्निपुराणम्  
लेखक वेदव्यासः
देश भारत
भाषा संस्कृतम्
शृंखला पुराणम्
विषय विष्णुः, अग्निः, विद्यास्थानानि
प्रकार पुराणम्
पृष्ठ ३८३ अध्यायाः

अग्निपुराणम् (AgniPurana) अष्टादशपुराणेषु अन्यतमः । संस्कृतविश्वकोशेषु भजते प्रधानं स्थानम् । स्वयं पुराणमिदं स्वस्मिन् अग्निपुराणे सर्वासां विद्यानां स्थानमस्तीति विस्फुटं ब्रूते । इयं हि सर्वेषां पुराणानां प्रस्तुतिभङ्गी यत् सर्वमपि विषयजातं द्वयोः संभाषणैः स्फोर्यते, एकस्यर्षस्य पर्यनुयोगम् अन्य उत्तरयतीति च । पुराणमिदमग्निनामकमपि संभाषणैरेव संघटितम् । तानि च सम्भाषणान्यग्निवसिष्ठयोः

पुराणमिति शब्दाकर्णनमनु सृष्टिः प्रतिसृष्टिरित्यादि वस्तुपूगं किलानुसन्दधति विमर्शनविचक्षणाः । अत्रापि सर्गस्य (सृष्टेः)विचारः १७-२० एतेष्वध्यायेषु वर्तते । प्रतिसर्गस्य तु पुनः ३३८ संख्याङ्कितस्याध्यायस्याननन्तरम् । वांशो नाम राजीयानामथवा ऋषियाणां नाम्नां पट्टिका । मन्वन्तरो नाम शासनपरिपाटयां मनूनां कालिकं क्रमिकं च परिवर्त्तनम् । राजर्षिणां चरित्राण्येव वंशानुचरितपदाभिलप्यानि । कल्पमन्वन्तरवर्णनम् अग्निपुराणे बहुषु स्थलेष्वक्षिलक्षीक्रियते । विशेषतः १५० संख्याङ्कितेऽध्याये चतुर्दशमन्वन्तराणां वर्णनं वर्तते । वंशानुचरितं तु भूयोभूयः समायाति ।

यदि केवलमेतावदभविष्यत्, पुराणमिदं भारतीयानां श्रध्दा-विश्वासभावनानां चिन्तनपरंपरायाश्च प्राचीनं लिखितसाक्ष्यं समभविष्यत् । विश्वकोशत्वरुपेणा धर्मेण महत्त्वमेतदीयम् । साहित्यशास्त्रम्, आयुर्वेदः, अश्वायुर्वेदः, गजायुर्वेदः, वृक्षायुर्वेदः, वास्तुविद्या, राजनीतिः, शस्त्रविद्या एतदादीनि वस्तूनि पर्याप्तमात्रयात्र कलृप्तस्थलावकाशानि ।

अध्याय्यानुसारं विचाराः[सम्पादयतु]

  • ११-१६ अवतारकथाः
  • १८-२० वंशानां वर्णनं-सृष्टिः ।
  • २१-१०३ सांप्रदायिक्यः पूजाः गृहे निर्वर्त्यानि पूजादिकानि, देवस्थाने विधेयानि कैङ्कर्याणि, विविधानां देवतामूर्तीनां परिमाणं,मूर्तिलक्षणानि, देवताप्रतिष्ठा, वस्तुपूजा, जीर्णोद्धारश्च ।
  • १०४- १४९ भुवनकोशः (संप्रदायमनपहाय भूम्यादिलोकानां वर्णनं)कासांचन पवित्राणां नदीनां माहात्म्यं ज्योतिश्शास्त्रविचारः नक्षत्रनिर्णयः युध्दे जयं प्राप्तुमुच्चारणीया मन्त्राः, चक्राणि, अनेकानि तान्त्रिकाणि विधानानि च ।
  • १५०. - मन्वन्तराणि ।
  • १५१-१७४. वर्णाश्रमधर्माः, प्रायश्चित्तानि श्राध्दं च ।
  • १७५-२०८. व्रतपरिभाषा, पुष्पाध्यायः (विविधानां पुष्पाणां पूजायोग्यत्वायोग्यत्वे) पुष्पेण पूजायाः फलं च ।
  • २०९-२१७. दानमाहात्म्यं, विविधानि दानानि, मन्त्रमाहात्म्यं, गायत्रीध्यानपध्दतिः, शिवस्त्रोत्रं च (एते विपयाः पुराणमिति शब्दश्रवणमनु सुज्ञेया एव )।
  • २१८-२४२.राजकीया विचाराः –राज्ञां कर्तव्यानि । अभिषेकविधिः –युध्दक्रमाः रणदीक्षा, स्वप्नशुकनादिविचारः, दुर्गनिर्माणविधिः दुर्गप्रभेदाश्च ।
  • २४३-२४४. पुरुषाणां स्त्रीणां च दैहिकानि लक्षणानि ।
  • २८८-२४५. चामरखड्गधनुषां लक्षणम् ।
  • २४६.- रत्नपरीक्षा ।
  • २४७.- वास्तुलक्षणम् ।
  • २४८.- पुष्पादिपूजा-फलम् ।
  • २४९-२५२. धनुर्वेदः ।
  • २५३.-२५८ .अधिकरणस्य (न्यायालयस्य) व्यवहाराः ।
  • २५३-२७८. चतुर्णां वेदानां मन्त्रप्रयोगैर्जायमानानि विविधानि फलानि, वेदशाखानां विचारः, राज्ञां वंशस्य वर्णनम् ।
  • २७९-२८१. रसायुर्वेदस्य काश्चन प्रक्रियाः ।
  • २८२-२२९ वृक्षायुर्वेदः, गजचिकित्सा, गजशान्तिः, अश्वशान्तिः (गजाश्वयोः कोऽपि रोगो न भूयादिति हेतोरनुष्ठातव्याः सांप्रदायिका आचाराः)
  • २९८ -३७२ विविधदेवताकाः मन्त्र-शान्ति-पूजाः, देवालयमाहात्म्यं च ।
  • २९८-३७२ छन्दश्शास्त्रं वर्णाच्चारणशिक्षा च ।
  • ३३७-३४७ साहित्यरसालङ्कारकाव्यदोषरीरिनृत्यानि
  • ३४८- एकाक्षरी कोशः ।
  • ३४९-३५९ व्याकरणप्रतिपाद्या विविधा विषयाः ।
  • ४६०-३६७ पर्यायशब्दकोशः ।
  • ३६८-३६९ प्रलयनिरुपणम् ।
  • ३७०- शारीरकम् (शरीरस्य तदवयवानां चायुर्वेदसम्मतं निरुपणम् )।
  • ३७१- नरकनिरुपणम् ।
  • ३७२-३७६ योगशास्त्रप्रतिपाद्या विचाराः ।
  • ३७७-३८० वेदान्तज्ञानम् ।
  • ३८१- गीतासारः ।
  • ३८२- यमगीता ।
  • ३८३- अग्निपुराणमाहात्म्यम् ।

पूर्वोक्ते विचारवैविध्ये दृष्टे पुराणस्यास्य पौराणिका एव विषयाः प्रधानप्रतिपाद्या इति सुविस्पष्टं भवति । अत्रत्यस्य साहित्यशास्त्रीय विचारस्येतरेषामपि विषयाणां संशोधनमनेकैः कृतपूर्वम् । परन्तु धनुर्वेदादयोऽत्र ये प्रतिपादितास्तत्रैतन्न सत्यमिति प्रतिभाति । अन्यच्च-अत्रत्यः पर्यायकोशो वस्तुतोऽमरकोशस्यैव संग्रहः । संस्कृतशिक्षणस्य नवीनता सांप्रदायिकीमप्यभिरुचिम् आदध्यादिति प्रतिपादनकुतूहलिभिरमरकोशस्य संक्षिप्तामावृत्तिमेतां कुत्रापि संस्कृतपाठयग्रन्थे समावेशयितुं शक्यते वेति विचारणीयम् । एतेन समाविष्टेन कोषभागेन साकमेव साहित्यात् तत्प्रयोगोदाहरणानि देयानि । एवं विहिते संस्कृतशिक्षणं दृढायते, भाषादृष्टया संस्कृतस्य यो नाडीपरिस्पन्दः स आकर्ण्यते विद्यार्थिभिः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अग्निपुराणम्&oldid=395066" इत्यस्माद् पुनः प्राप्तिः