सामग्री पर जाएँ

स्कन्दपुराणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्कन्दपुराणम्  
लेखक वेदव्यासः
देश भारतम्
भाषा संस्कृतम्
शृंखला पुराणम्
विषय शैवः, स्कन्द भक्तिः
प्रकार प्रमुखः शैवः तथा कार्तिकेयलीलाप्रधानग्रन्थः
पृष्ठ ८१,१०० श्लोकाः

॥ अथ श्रीस्कान्दे महापुराणे प्रथमं माहेश्वरखण्डं प्रारभ्यते॥ ॥श्रीगणेशाय नमः॥ ॐनमो भगवते वासुदेवाय॥ ॐनारायणं नमस्कृत्य नरं चैव नरोत्तमम्॥ देवीं सरस्वती चैव ततो जयमुदीरयेत्॥ १.१ ॥

॥व्यास उवाच॥ यस्याज्ञया जगत्स्रष्टाविरिंचिः पालको हरिः॥ संहर्ता कालरुद्राख्यो नमस्तस्मै पिनाकिने। १.१ ॥

तीर्थानामुत्तमं तीर्थं क्षेत्राणां क्षेत्रमुत्तमम्॥ तत्रैव नैमिषारण्ये सौनकाद्यास्तपोधनाः॥ दीर्घसत्रं प्रकुर्वंतः सत्रिणः कर्मचेतसः॥ १.२ ॥

तेषां सदर्शनौत्सुक्यादागतो हि महा तपाः॥ व्यासशिष्योमहाप्राज्ञो लोमशोनाम नामतः॥ १.३ ॥

तत्रागतं ते ददृशुर्मुनयो दीर्घसत्रिणः॥ उत्तस्थुर्युगपत्सर्वे सार्घ्यहस्ताः समुत्सुकाः॥ १.४ ॥

दत्त्वार्घ्यपाद्यं सत्कृत्य मुनयो वीतकल्मषाः॥ तं पप्रच्छुर्महाभागाः शिवधर्मं सविस्तरम्॥ १.५ ॥

॥ऋषय ऊचुः॥ कथयस्व महाप्राज्ञ देवदेवस्य शूलिनः॥ महिमानं महाभाग ध्यानार्चनसमन्वितम्॥ १.६ ॥

संमार्जने किं फलं स्यात्तथा रंगावलीषुच॥ प्रदाने दर्पणस्याथ तथा वै चामरस्य च॥ १.७ ॥

प्रदाने च वितानस्य तथा धारागृहस्य च॥ दीपदाने किं फलं स्यात्पूजायां किं फलं भवेत्॥ १.८ ॥

कानिकानि च पुण्यानि कथ्यतां शिवपूजने॥ इतिहासपुराणानि वेदाध्ययनमेव च॥ १.९ ॥

शिवस्याग्रे प्रकुर्वंति कारयन्त्यथवानराः॥ किं फलं च नृणां तेषां कथ्यतां विस्तरेण हि॥ १.१० ॥

शिवाख्यानपरोलोके त्वत्तो नान्योऽस्ति वै मुने॥ १.११ ॥

इति श्रुत्वा वचस्तेषां मुनीनां भावितात्मनाम्॥ उवाच व्यासशिष्योऽसौ शिवमाहात्म्यमुत्तमम्॥ १.१२ ॥

॥लोमश उवाच॥ अष्टादशपुराणेषु गीयते वै परःशिवः॥ तस्माच्छिवस्य माहात्म्यं वक्तुं कोऽपि न पार्यते॥ १.१३ ॥

शिवेति द्व्यक्षरं नाम व्याहरिइष्यंति ये जनाः॥ तेषां स्वर्गश्च मोक्षश्च भविष्यति न चान्यथा॥ १.१४ ॥

उदारो हि महादेवो देवानां पतिरिश्वरः॥ येन सर्वं प्रदत्तं हि तस्मात्सर्व इति स्मृतः॥ १.१५ ॥

ते धन्यास्ते महात्मानो ये भजंति सदा शिवम्॥ १.१६ ॥

विना सदाशिवं योहि संसारं तर्तुमिच्छति॥ स मूढो हि महापापः शिवद्वेषी न संशयः॥ १.१७ ॥

भक्षितं हि गरं येन दक्षयज्ञो विनाशितः॥ कालस्य दहनं येन कृतं राज्ञः प्रमोचनम्॥ १.१८ ॥

॥ऋषय ऊचुः॥ यथा गरं भक्षितं च यथा यज्ञो विनाशितः॥ दक्षस्य च तथा ब्रूहि परं कौतूहलं हि नः॥ १.१९ ॥

॥सूत उवाच॥ दाक्षायणी पुरा दत्ता शंकराय महात्मने॥ वचनाद्ब्रह्मणो विप्रा दक्षेण परमेष्ठिनः॥ १.२० ॥

एकदा हि स दक्षो वै नैमिषारण्यमागतः॥ यदृच्छावशमापन्न ऋषिभिः परिपूजितः॥ १.२१ ॥

स्तुतिभिः प्रणिपातैश्च तथा सर्वैः सुरासुरैः॥ तत्र स्थितो महादेवो नाभ्युत्थानाभिवादने॥ चकारास्य ततः क्रुद्धो दक्षो वचनब्रवीत्॥ १.२२ ॥

सर्वत्र सर्वे हि सुरासुरा भृशं नमंति मांविप्रवराः समुत्सुकाः॥ कथं ह्यसौ दुर्जनवन्महात्मा भूतादिभिः प्रेतपिशाचयुक्तः॥ श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना॥ १.२३ ॥

पाखंडिनो दुर्जनाः पापशीला विप्रं दृष्ट्वा चोद्धता उन्मदाश्च॥ वध्यास्त्याज्याः सद्भिरेवंविधा हि तस्मादेनं शापितुं चोद्यतोऽस्मि॥ १.२४ ॥

इत्येवमुक्त्वा स महातपास्तदा रुषान्वितो रुद्रमिदं बभाषे॥ १.२५ ॥

श्रृण्वं त्वमी विप्रतमा इदानीं वचो हि मे कर्तुमिहार्हथैतत्॥ रुद्रो ह्ययं यज्ञबाह्यो वृतो मे वर्णातीतो वर्णपरो यतश्च॥ १.२६ ॥

नंदी निशम्य तद्वाक्यं शैलादो हि रुषान्वितः॥ अब्रवीत्त्वरितो दक्षं शापदं तं महाप्रभम्॥ १.२७ ॥

॥नन्द्युवाच॥ यज्ञबाह्यो हि मे स्वामी महेशोऽयं कृतः कथम्॥ यस्य स्मरणमात्रेण यज्ञाश्च सफला ह्यमी॥ १.२८ ॥

यज्ञो दानं तपश्चैव तीर्थानि विविधानि च॥ यस्य नाम्ना पवित्राणि सोयं शप्तोऽधुना कथम्॥ १.२९ ॥

वृथा ते ब्रह्मचापल्याच्छप्तोऽयं दक्ष दुर्मते॥ येनेदं पालितं विश्वं सर्वेण च महात्मना॥ शप्तोऽयं स कथं पाप रुद्रोऽयं ब्राह्मणाधम॥ १.३० ॥

एवं निर्भार्त्सितस्तेन नंदिना हि प्रजापतिः॥ नंदिनं च शशापाथ दक्षो रोषसमन्वितः॥ १.३१ ॥

यूयं सर्वे रुद्रवरा वेदबाह्याश्च वै भृशम्॥ शप्ताहि वेदमार्गैश्च तथा त्यक्ता महर्षिभिः॥ १.३२ ॥

पाषंडवादसंयुक्ताः शिष्टऽऽचारबहिष्कृताः॥ कपालिनः पानरतास्तथा कालमुखा ह्यमी॥ १.३३ ॥

इति शप्तास्तदा तेन दक्षेण शिवकिंकराः॥ तदा प्रकुपितो नंदी दक्षं शप्तुं प्रचक्रमे॥ १.३४ ॥

शप्ता वयं त्वया विप्र साधवः शिवकिंकराः॥ वृथैव ब्रह्मचापल्यादहं शापं ददामि ते॥ १.३५ ॥

वेदवादरता यूयं नान्यदस्तीतिवादिनः॥ कामात्मानः स्वर्गपरा लोभमोहसमन्विताः॥ १.३६ ॥

वैदिकं च पुरस्कृत्य ब्राह्मणाः शूद्रयाजकाः॥ दरिद्रिणो भविष्यंति प्रतिग्रहरताः सदा॥ १.३७ ॥

दक्ष केचिद्भविष्यन्ति ब्राह्मणा ब्रह्मराक्षसाः॥ ॥लोमश उवाच॥ विप्रास्ते शपितास्तेन नंदिना कोपिना भृशम्॥ १.३८ ॥

अथाकर्ण्येश्वरो वाक्यं नंदिनः प्रहसन्निव॥ उवाच वाक्यं मधुरं बोधययुक्तं सदाशिवः॥ १.३९ ॥

॥महादेव उवाच॥ कोपं नार्हसि वै कर्तुं ब्राह्मणान्प्रति वै सदा॥ ब्राह्मणागुरवो ह्येते वेदवादरताः सदा॥ १.४० ॥

वेदो मंत्रमयः माक्षात्तथा सूक्तमयो भृशम्॥ सूक्ते प्रतिष्ठितो ह्यात्मा सर्वेषामपि देहिनाम्॥ १.४१ ॥

तस्मान्नात्मविदो निन्द्या आत्मैवाहं न चेतरः॥ कोऽयं कस्त्वं क्व चाहं वै कस्माच्छप्ता हि वै द्विजाः॥ १.४२ ॥

प्रपंचरचनां हित्वा बुद्धो भव महामते॥ तत्त्वज्ञानेन निर्वर्त्य स्वस्थः क्रोधादिवर्जितः॥ १.४३ ॥

एवं प्रबोधितस्तेन शंभुना परमेष्ठिना॥ विवेकपरमो भूत्वा शैलादो हि महातपाः॥ शिवेन सह संगम्य परमानंदसंप्लुतः॥ १.४४ ॥

दक्षोपि हि रुषाऽऽविष्टऋषिभिः परिवारितः॥ ययौ स्थानं स्वकं तत्र प्रविवेश रुषाऽन्वितः॥ १.४५ ॥

श्रद्धां विहाय परमां शिवपूजकानां निंदापरः स हि बभूव नराधमश्च॥ सर्वैर्महर्षिभिरुपेत्य स तत्र शर्वं देवं निनिन्द न बभूव कदापि शान्तः॥ १.४६ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे केदारखण्डे पुराणप्रस्तावदक्षवृत्तान्तवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥ छ ॥ अष्टादषपुराणेष्वन्यतमम् इदं पुराणस्य पञ्चलक्षणमपि सन्ति।अत्र पद्मकल्पविषयकं निरूपितमस्ति।

बाह्यसम्पर्कतन्तु

[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=स्कन्दपुराणम्&oldid=339434" इत्यस्माद् प्रतिप्राप्तम्