सामग्री पर जाएँ

भक्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


`भक्तिरेव मोक्षसाधनसामग्र्यां गरीयसी’ इति शङ्करभगवत्पादीयं वचनं भक्तेरावश्यकत्वं साधानन्तरेभ्यस्तस्याः वैशिष्ट्यं च प्रद्योयतयति । आह च भगवान् कृष्णः –‘भक्त्या त्वनन्यया शक्यः अहमेव विधोऽर्जुन’ (भ.गी.११.५४) इति । ‘न जन्म नूनं महतो न् सौभगं ……. भक्त्या तुतोष भगवान् ननु यूथपाय ’ (श्रीमद्भा. ७.९.९) इति ‘सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा’ (श्रीमद्भा.११.२०.३३) इति च भागवतवचनमप्येतमेवार्थं दृढयति । एवं च साधकैर्वश्यं भक्तिः सम्पादनीया इत्युक्तं भवति ।

तथापि भक्तिस्वरुपनिरुपणविषयेऽस्ति विप्रतिपत्तिः दर्शनाचार्याणाम् । एवं ज्ञानेनैव मुक्तिरिति वादोऽपि दृश्यते । अत्र प्रमाणानि-‘तमेवं विदित्वाऽतिमृत्युमेति’ ‘तमेवं विद्वान्’ इत्यादीनि । मुक्तेः कर्मज्ञानं च उभयमपि हेतुभूतमित्यपि केचन प्रवदन्ति ।

अन्ये पुनर्वदन्ति – न भक्तिरेव मुक्तिसाधिका अपि तु कामद्वेषादिभिरपि भवति बन्धध्वंसः । अत एवोक्तं भागवते- ‘गोप्यः कामात् भयात् कंसः द्वेषात् चैद्यादयो नृपाः (श्रीमद्भा.७.१.३२) इति । अतोऽत्र विप्रतिपत्तिबाहुल्यात् विमर्शः कर्तव्यः ।

भक्तिर्नाम का ?

[सम्पादयतु]

शाङ्करनये

[सम्पादयतु]

‘मोक्षसाधनसामग्य्रां भक्तिरेव गरीयसि (वि.चू.) इति वदद्भिः शङ्कराचार्यैः भक्तेर्मुक्त्युपायत्वं कण्ठत एवाघोषितम् । यद्यपि भज- सेवायाम् इति धातुना निष्पन्नः भक्तिशब्दः सेव्यसेवकसापेक्षः सन् जीवब्रह्मणोर्भेदमेव प्रतिपादयतीवभाति । तथापि भक्तिशब्दः ज्ञानमात्रवाचकः सन् निर्विशेषचैतन्यमात्राभिधायको ज्ञेयः । अत्र स्वस्वरुपानुसन्धानं नाम जीवस्य ब्रह्मताविज्ञानमेव । तदुक्तं भागवते – ‘विद्या आत्मनि भिदाबोधः’ इति । तदुक्तं शङ्कराचार्यैः – ‘स्वस्वरुपानुसन्धानं भक्तिरित्युच्यते बुधैः (वि.चू.) इति । अनेन चैतन्याभेदविज्ञप्तिरेव भक्तिरित्युक्तं भवति ।

विमर्शः

[सम्पादयतु]

भक्तिशब्दः ज्ञानविशिष्ट स्नेहवाचक एव पुराणेषु प्रमितः । अपि च सेवनार्थकस्य भजधातुना निष्पन्नस्य भक्तिशब्दस्य आत्मैक्यज्ञानरुपार्थस्वीकारे लक्षणा स्वीकृता भवतीति वाच्यार्थाबाधे लक्षणास्वीकारस्य जघन्यत्वात् अद्वैतव्याख्यानं न समञ्जसमिति विज्ञेयम् । ‘विद्या आत्मनि भिदाबोधः ( श्रीमद्भा. ११.१९.४१) इति भगवान् बादरायणः जीवपरमात्मनोर्भेदबुध्दिमेव विद्यामाचक्षते । अत्र ‘आत्मनि’ इति जात्येकवचनम् । आत्मसु सर्वचेतनेषु भेदधीः कार्येत्यर्थः । न चात्र ‘भिदायाः अबोधः’ इति छेदः । अबोधस्य विद्यात्वाभावात् । सम्भवति तत्पुरुषे नाश्रयणीयो जघन्यो बहुव्रीहिः । भिदायाः अबोधो यस्याः सा भिदाबोधा (अविद्या) इत्येवाभिहितं स्यात् । तथाच बहुव्रीहेर्विशेषणपदत्वेन विशेष्य समानलिङ्गवत्त्वस्य नियतेः, भिदायाः अबोधो यस्याः सा भिदाबोधा अविद्येत्येव । न पुनः भिदाबोध इति ।

किञ्च तृतीयस्कन्धे भेददृष्टिरेव मुक्तिसाधिका, भेददृष्ट्या भगवान् विरिञ्चः तदीयैः सह अनपगतजीवभाव एव परं ब्रह्मापेति श्रूयते ।

ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ।
आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः ॥
योगेश्वरैः कुमाराद्यैः सिध्दैर्योगप्रवर्तकैः ।
भेददृष्टयाऽभिमानेन निस्सङ्गेनापि कर्मणा ॥
कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ।
स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिना ॥
जाते गुणव्यतिकरे यथापूर्वं प्रजायते । (भाग्. ३.३३. ११.१३)

'अत्र कर्तृत्वात् सगुणं ब्रह्म पुरुषर्षभम्’ इति ‘ब्रह्म प्रधनम्’ इति च जगज्जन्मादिकारणं ब्रह्मैव प्रधानमित्यघोषयता भगवता बादरायणेन अद्वैत्यभिमतं निर्गुणं ब्रह्म न प्रधानमिति समर्थैतम् । ‘उपयान्त्यगताभिमाना’ इति जीवत्वमविहाय परं ब्रह्म प्रविशन्ति इति वचनेन जीवैक्यं निराकृतम् । ‘भेददृष्टया’ इति भेदधीरेव ब्रह्मप्राप्तिहेतुभूता सैव विद्या इति च प्रतिपादिता । तेन विज्ञायते भिदाबोधो वा भिदाबाधो वा न विद्या इति ।

रामानुजनये

[सम्पादयतु]

कर्मयोगः ज्ञानयोगः भक्तियोगः शरणागतिः इति चतुर्विधो मोक्षोपायः । तत्राद्यौ द्वौ भक्तियोगद्वारैअ उपायभूतौ । तृटीयस्तु साक्षादेव । तुरीयः पुनः साक्षात् परम्परया चोपायः । यदेयं प्रपत्तिः कर्मयोगादित्रयस्याङ्गभूता तदा परम्परया मुक्तिसाधिका । यदा स्वरन्त्रैव सकृत् क्रियते तदा साक्षान्मुक्तिसाधिका । तदुक्तं वेदान्तदेशिकचरणैः –

कर्मज्ञानमुपासनं च शरणव्रज्येति चावस्थितान्
सन्मार्गानपवर्गसाधनविधौ सद्वारकाद्वारकान् ।
एकद्वयाकृतियोगस्म्भृतपृथग्भावानुभावानिमान्
सम्यक् प्रेक्ष्य शरण्यसारथिगिरामन्ते रमन्ते बुधाः ॥ (र.त्र. सा.)

(कर्मयोगज्ञानयोगयोः अपवर्गोपायभूतयोः परम्परयैव साधनत्वमित्येकस्यैवाकारस्य योगः सम्बन्धः, भक्तियोगस्य तु साक्षादेव मोक्षाङ्गत्वमेवं प्रपत्तेरपीति उभयोरपि पृथक् स्वातन्त्र्येण मुक्तिहेतुत्वमिति पादत्रयकारिकार्थः ।)

रामानुजनये भक्तियोगः- यम-नियम-आसन- प्राणायाम-प्रत्याहार-ध्यान-धारणा-समाधिरुपाष्टाङ्गवान् तैलधारावदविच्छिन्न-स्मृतिसन्तानरुपभक्तियोगः । स च विवेक- विमोक- अभ्यास –क्रिया- कल्याण –अनवसाद् अनुध्दर्षरुप साधनसप्तकजन्यः ।

भक्तेः मुक्तिसाधनत्वं रामानुजार्यैरेअमुपवर्णितम् । ब्रह्मप्राप्त्युपायश्च शास्त्राधिगततत्त्वज्ञानपूर्वकस्वकर्मानुगृहीतभक्ति निष्ठा साध्यानवधिकातिशयप्रियविशदतमप्रत्यक्षतापान्नानुध्यानरुपभक्तिरित्येवेत्युक्तम् । भक्तिशब्दश्च प्रीतिविशॆषे वर्तते, प्रीतिश्च ज्ञानविशेष एव ।’ इति (वे.सं.पृ २५९) दर्शनेऽस्मिन वेदन- ध्यान –उपासनापर्यायो भक्तिशब्दः । तदुक्तं रामानुजार्यैः ‘अनुध्यानरुपभक्तयेकलम्यः ’ (वे. सं.पृ. १४९) ‘ब्रह्मविद् ब्रह्मैव भवति ’ इत्यादौ वेदनशब्देन ध्यानमेवाभिहितम् निदिध्यासितव्य इत्यादिनैकार्थ्यात् ’। (वे. सं. पृ.१५१) ‘भक्तिरुपापन्नानुध्यानेनैव लभ्यते न केवलं वेदनमात्रेण न मेधयेति केवलस्य निषेधात्’ । (वे. सं.पृ. १५१) इति ।

प्रपत्तेः स्वरुपम्

[सम्पादयतु]

‘आनुकूल्यस्य सङ्कल्पः,प्रातिकूल्यस्य वर्जनम्, रक्शिष्यतीति विश्वासः, गोप्तृत्ववरणम्, आत्मनिक्षेपकार्पण्ये इत्यङ्गषट्कयुक्ता एतद्देहावसाने मोक्षप्रदा सकृत् कर्तव्या । न्यासः शरणागतिरित्यादिशब्दवेद्या ज्ञानविशेषरुपा एषा प्रपत्तिः ।

एवं भक्तिप्रपत्ती स्वातन्त्र्येण मुक्तिहेतू । तत्र कर्मयोगज्ञानयोगौ पुनर्भक्त्यङ्गौ । भक्तियोगो नाम- यमनियमाद्यष्टङ्गविशिष्ट अविच्छिन्नस्मृतिसन्तान एव साधनसप्तकजन्य इत्युक्तम् । तदुक्तम्- ‘भक्तियोगो नाम यम- नियम- आसन-प्राणायाम-प्रत्याहार-ध्यान-धारणा-समाधिरुपाष्टाङ्गवान् तैलधारावदविच्छिन्नस्मृतिसन्तानरुपः । स च विवेक –विमोक – अभ्यास क्रिया-कल्याण-अनवसाद् –अनुध्दर्षरुपसाधनसप्तकजन्यः’ इति (य.म.दी. पृ. २८ ) तत्र

  1. विवेकः – अदुष्टान्नात् कायशुध्दिः
  2. विमोकः – कामानभिष्वङ्गः
  3. अभ्यासः – पुनः पुनरालम्बनसंशीलनम्
  4. क्रिया –पञ्चमहायज्ञानुष्ठानम्
  5. कल्याणम् –सत्यार्जवदयाऽहिंसादिरुपम्
  6. अनवसादः – दैन्याभावः
  7. अनुध्दर्षः – तुष्ट्यभावः

एवमनेन भक्तियोगेन भगवान् लभ्यते ।

प्रपत्तेः असाधारण्वैशिष्ट्यम्

[सम्पादयतु]

प्रपत्तिर्नाम शरणागतिः न्यास इत्यनर्थान्तरम् । सेयं शरणागतिः षडङ्गयुता इत्युक्तमहिर्गुध्नसंहितायाम्-

  1. आनुकूल्यस्य सङ्कल्पः
  2. प्रातिकूल्यस्य वर्जनम्
  3. रक्षिष्यतीति विश्वासः
  4. गोप्तृत्ववरणं तथा ।
  5. आत्मनिक्षेप
  6. कार्पण्ये षड्विधा शरणागतिः ॥ ( अ. स. ३७. २८-२९) इति ।

अत्र आत्मनिक्षेपो नाम फलस्य भगवति समर्पणम् । तदुक्तम्-

तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता ।
केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते ॥

गर्वत्यागः कार्पण्यम् । तदुक्तम्-

त्यागो गर्वस्य कार्पण्यं श्रुतशीलादिजन्मनः। इति ।

सर्वपापनिवृत्त्यर्थं मुक्त्यर्थं चोपायभूतेयं प्रपत्तिः सकृदेव कार्या । ‘सकृदेव प्रपन्नाय’ (वा. सं.) इति श्रीरामोक्तेः । प्रपत्तेः सर्वाशुभनिवर्तकता गीतासिध्दा । उक्तं भगवता कृष्णेन-

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ (भ.गी. ) इति ।

सरलभूतस्य सर्वसाध्यस्य प्रपत्तिमार्गस्य मानवाः पशवः अन्त्यजाः दैत्यरक्षः पिशाचादायः सर्वेऽप्यधिकारिणः । नात्र कुलं शीलं विद्या वापेक्ष्यते । तदुक्तम्

सर्वे प्रपत्तेरधिकारिणो मता शक्ता अशक्ता पदयोर्जगत्प्रभोः ।
नापेक्ष्यते तत्र कुलं बलं न वा न चाऽपि कालो न च शुध्दताऽपि ॥ ( वै. म.भा.)

प्रपत्तिमार्गावलम्बिनो महदिदं वैसिष्ट्यं यत् तेषां प्रारब्धं कर्माऽपि न मुक्तिप्रपतिबन्धकं भवति । एतद्देहावसान् एव भवति मुक्तिः । उपाय (साधन) भक्तिः प्रारब्धव्यतिरिक्ताघनाशिका । बहुदेहजकर्मसम्पादितस्य प्रारब्धानुभवेनैव मोक्षः ।

तदुक्तम् – १.उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी ।
साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी ॥
उपायभक्तिरित्युक्तो भक्तियोगो हि साङ्गकः ।
बहुदेहेनिमित्तं हि प्रारब्धं न स नाशयेत् ॥
साध्यभक्तिरिति प्रोक्ता प्रपत्तिर्मोक्षरुपिणी ।
आर्तानां भूयसि सा तु प्रारब्धमपि नाशयेत् ॥
२.साधनं भगवत्प्राप्तौ सा एवेति स्थिरा मतिः ।
साध्यभक्तिस्तथा सैव प्रपत्तिरिति गीयते ॥
उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी ॥
साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी ॥ (न्या. सि. पृ. ७२)
३.प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे ।
मामेकां देवदेवस्य महिषीं शरणं व्रजेत् ॥
तस्मात् प्रमादात् बुध्दया वा यत्प्रपन्नस्य दुष्कृतम् ।
तत्सर्वं शमयत्याशु शरणागतिरेव सा ॥ (प्र.पा. – श्लो . १०७)
४.आर्तानां तु मतो न्यासः प्रारब्धस्यापि नाशकः ।
विद्वद्भिः सम्मतो न्यासेऽधिकारः सकलात्मनाम् ॥ इति ॥ (सि. सा.)
एवं च भक्तिमार्गात् अष्टाङ्गपरिनिष्ठि तयोगसाध्यात् प्रपत्तिमार्ग एव श्रेयस्करः ।

विमर्शः

[सम्पादयतु]
  1. शरणागतिरुपप्रपत्तेः भक्त्यङ्गत्वमेवाभ्युपेयम् । न स्वातन्त्र्येण मोक्षसाधनत्वम् । ‘शरणमहं प्रपद्ये’ इत्यादिवाक्यानां ज्ञानादपवर्गप्रतिपादकवाक्यानामिव ज्ञान-शरणागतिसाध्यमक्त्या मुक्तिरित्येवार्थः ।
  2. ‘सर्वधर्मान् परित्यज्य’ ‘दैवी ह्येषा गुणमयी’ इत्यादौ रामानुजैः प्रपत्तेः भक्त्यङ्गत्वमेवोक्तं भाष्ये, न तु स्वातन्त्र्येण मोक्षसाधनत्वम् ।
  3. मोक्षे आनन्दतारतम्याभावात् ‘अर्के चेदिति’ न्यायेन प्रपत्त्या मोक्षो सम्भवति कुतो वा भक्तिमार्गानुसरणम् ।
  4. ऋष्याद्युत्तमानां सत्य-शम-दम-दान-धर्म –प्रजनन- अग्निहोत्रयज्ञाद्यष्टाङ्गसम्पन्नानामेव भक्तावधिकारः । अन्येषां प्रपत्ताविति तु प्रमाणविरुध्दम् । भक्तावधिकारः सर्वेषामस्ति, उक्तं च भगवते- ‘आभीकङ्कायवनाः शकादयः’ ‘भक्त्या तुतोष भगवान् ननु यूथपाय’ ‘नालं द्विजत्वं देवत्वं ऋषित्वं वासुरात्मजाः । प्रीणनाय मुकुन्दस्य…. । प्रीयतेऽमलया भक्त्या हरिरन्यद् विडम्बनमिति’ इति प्रह्लादोक्तेश्च भक्तौ न सर्वेऽधिकारिण इति शास्त्रविरुध्दं वचः ।
  5. प्रपत्तेः प्रारब्धनाशकत्वं बहुप्रमाणविरुध्दम् ‘अनारब्धे एव तु पूर्वे तदवधेः (४. १.१५) इति सूत्रे अनारब्धकार्ये एव पूर्वे पुण्यपापे नश्यत इति प्रतिपादितत्वात् । उक्तं च नारायणतन्त्रे –‘यदनारब्धपापं स्यात् तद्विनश्यति निश्चयात् । तस्याप्यारब्धकार्यस्य न विनाशोऽस्ति कुत्रचित् ॥’ तस्य तावदेव चिरम्’ इति श्रुतिरपि एतमेवार्थमवबोधयति ।

मध्वनये

[सम्पादयतु]

महात्म्यज्ञानपूर्वकः सुदृढः स्नेहः भक्तिरित्युच्यते । तदुक्तं भगवत्पादाचार्यैः

माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः ।
स्नेहो भक्तिरिति प्रोक्तः तया मुक्तिर्न चान्यथा ॥’ इति । (मभा.ता.न १.८५.पृ.८)

अस्याः कारिकाया आशयविशेष आविष्कृतः श्रीमट्टीकाकृत्पादैः –

‘परमेश्वरे भक्तिर्नाम अनवधिकानन्तकल्याणागुणत्वज्ञानपूर्वकः स्वात्मात्मीयसमस्तवस्तुभ्यः अनेकगुणाधिकः अन्तरायसहस्रेणाप्यप्रतिबध्दः निरन्तरप्रेमप्रवाहः । (न्या. सु.पृ. २४४) इति । श्रुतिस्मृत्याद्यनुगृहीतेयं भगवत्पादीया निरुक्तिः । अक्तोऽयमर्थः शाण्डि ल्यसंहितायाम् –

सर्वात्मनाऽनिमित्तैव स्नेहधारानुकारिणी ।
वृत्तिः प्रेमपरिष्वक्ता भक्तिर्माहात्म्यबोधजा ॥ इति ।

स्निग्धतामनापादयत् शुष्कं ज्ञानं, ज्ञानविहीना अपूर्णा चादृढा प्रीतिः न विमुक्तये भवति । अतः उभयोः समावेश एव भक्तिः तथैव विमुक्तिश्च इति ।


ज्ञानादेवापवर्ग इति वचनगतिः

[सम्पादयतु]

ज्ञानादेव अपवर्ग इति प्रमाणवचनानामपि ज्ञानसाध्यभक्त्यैव मोक्ष इत्यभिप्रायः । तथा हि – ‘तरति शोकमात्मवित्’ ‘तमेवं विदित्वा’ ज्ञानादेव स्वर्गः ज्ञानादेवापवर्गः’ ‘पुरुषार्थोऽतः शब्दात्’ इत्यादौ ज्ञानस्य मोक्षसाधनत्वमुक्तम् । अत्र न ज्ञानपदं अवबोधमात्रपरम् । ज्ञानस्य भक्तिभागत्वात् भक्तिरेव ज्ञानमित्युच्यते । अतोऽस्मिन् शास्त्रे यत्र यत्र ज्ञानस्य मोक्षसाधनत्वमुच्यते तत्र तत्र ज्ञानपदे ज्ञानसाध्या भक्तिरीर्यते (लक्ष्यते) । कुतः ? भक्तेर्ज्ञानविशेषत्वात् ‘लाङ्गलेन जीवाम्’ इतिवत् । ज्ञानं स्नेहश्च भक्तेरंशौ । तत्रैकांशेनांशान्तरस्योपलक्षणम् । तथा चाजहल्लक्षणया भक्तिरेव सिध्द्यतीति ।

यत्र भक्तिज्ञाने सहोच्येते तदा पुनरुक्तिप्रसङ्गात् भक्तिपदं स्वार्थैकदेशत्यागेन स्नेहांशस्य लक्षकम् । नतु मुख्यार्थनिष्ठम् । ज्ञानपदं चानुपपत्त्यभावात् मुख्यार्थमेव न तु लक्षकम् । तदेत्सर्वमुक्तं भगवत्पादैः

ज्ञानस्य भक्तिभागत्वात् भक्तिर्ज्ञानमितीर्यते ।
ज्ञानस्यैव विशेषो यद् भक्तिरित्यभिधीयते ॥ (अनु.३.४.१९९)

भक्तिः कथं जायते

[सम्पादयतु]

यथेच्छा वस्तुसौन्दर्याधीना तथा प्रीतिरपीति, न सा विधेया । यदि वस्तुनि गुणाः प्रतीयन्ते तदा गुणग्रहणपरायणस्य जायते तत्र प्रीतिः । तथैव भवति जिहासा द्वेषो वा यदि दृश्यन्ते दोषाः । एवं च भक्तेरविधेयत्वात् कथं सोत्पाद्या इत्याकाङ्क्षा स्वारसिकी । अत्रेयं समाधिरभिहिता नारदभक्तिसूत्रे-भगवद्गुणशवणकीर्तनात् (ना. भ.सू.१.३७) इति अयमाशयः । वस्तुनि दृष्टे तन्निष्ठ गुणश्रवणे च भवति प्रीतिरित्यानुभविकम् । प्रीत्युत्पादनार्थं माहात्म्यविज्ञानमावश्यकं, तदर्थं च श्रवणमिति गुणश्रवणकीर्तनादिभिर्भवति भक्तिः । विष्णुमहिमाश्रवणं यथाऽभिवर्धते तथा भक्तिरपि विष्णावभिवर्धते । क्षीरे प्रीतिमतः, तस्मिन् एला-शर्करा –केसरादिसमाविशिष्ट त्वज्ञाने यथा भवति अधिका प्रीतिः उपादेयताबुध्दिश्च जायते तथैव विष्णुविषयकमाहात्म्यातिशयश्रवणादिनाऽपि भवत्यतिशायिनी प्रीतिः । विवृतोऽयमर्थः वादिराजश्रीमच्चरणैः –

क्षीरादौ स्वादुत्वादितद्गुणकीर्तनेनैव स्नेहोत्पत्तिदर्शनात् स्नेहरुपभक्तेः प्रकारान्तरेणोत्पादयितुमशक्यत्वात् भक्त्यर्थं भगवन्महिमोच्यते इति ।’ (त.प्र.गु.दी. ३२. १- पृ. १३०) उक्तोऽयमर्थः श्रीमद्भागवतेऽपि –

१.श्रुण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः
हृद्यन्तस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥
नष्ट प्रायेष्वभद्रेषु नित्यं भागवतसेवया ।
भगवत्युत्तमश्लेके भक्तिर्भवति नैष्ठि की ॥
भिद्यते हृदयग्रन्थिः छि द्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ (भाग.१.२.१७-२१)
२.सतां प्रसङ्गान्मम वीर्यसम्पदः भवन्ति हृत्कर्णरसायनाः कथाः ।
तज्जोषणादाश्वपर्गवर्त्मनि श्रध्दावती भक्तिरनुक्रमिष्यति ॥ (भाग. ३. २६.२५)
३.पानेन ते देव कथासुधायाः विवृध्दभक्त्या विशदाशया ये ।
वैराग्यसारं प्रतिलभ्य बोधं यथाऽञ्जसा त्वापुरकुण्ठ धिष्ण्यम् ॥( भाग. ३.६.२४)
४.मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये ।
मनोगतिरविच्छि न्ना यथा गङ्गाम्भसोऽम्बुधौ ॥(भाग. ३. २६. ११)

भक्तिर्नवविधद्वेषरहिता

[सम्पादयतु]

भक्तिर्निर्मला निरवधिका च भगवति कार्येत्युक्तं प्राक् । यदि भगवति महत्त्वविनाशका अपूर्णतापादाकाः भक्तयादयो गुणाः दोषा वा चिन्त्यन्ते तर्हि तत्र क्रियमाणा भक्तिर्दुष्ट । भवेदिति सुविदितमेव । अतोऽत्र भक्तैरवहितैर्भाव्यम् । यदि भक्तौ ईषद्दोष्स्पृष्टि र्द्दष्टि र्वा भवति सुराबिन्दुस्पृष्ट ।आप इव भक्तिरपि परित्याज्या भवति । भक्तेरपरिपूर्णतापादकाः दोषा अन्ते द्वेषोत्पादका एवमनुसन्धेयाः –

जीवाभेदः निर्गुणत्वम् अपूर्णगुणता तथा ।
साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च ॥
प्रादुर्भावविपर्यासः तद्भक्तद्वेष एव च ।
तत्प्रमाणस्य निन्दा च द्वेषा एतेऽखिला मताः ॥ (म. ता. नि. I.112-113)

भक्तिर्नवलक्षणा

[सम्पादयतु]

भक्तेर्नवविधत्वमुक्तं भागवते यथा –

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥
इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ।
क्रियते भगवत्यध्दा तन्मन्येऽधीतमुत्तमम् ॥ (भाग. VII. 5.23-25)

दुराचारिणो न भक्ताः

[सम्पादयतु]

‘अपि चेत् सुदुराचारः भजते मामन्यभाक्’ ( भ.गी.) इति गीतायाम् अनन्यभजकः क्वचिद् दुराचारी भवति तदा स साधुरेव मन्तव्य इत्युक्तम् । अत्रेदं विचिन्तनीयम् । भगवद्भक्ताश्चेत् भगवदुक्तश्रुतिस्मृत्यानुगुण्येन सदैव सदाचारपरायणा एव भवेयुः न दूराचारिणः (निषिध्दचारिणः) । यदि कुत्सितचरणा भवेयुस्तर्हि हरेराज्ञाभङ्गकरणेन हरिद्रोहिण एव भवेयुः न् भक्ताः । अत एव कठ श्रुतिरपि ‘नाविरतो दुश्चरितात् ’ इति कुत्सिताचरवतः भगवत्साक्षात्कारं प्रतिषेधति । उक्तं च भागवतेऽपि- (१०.९४.४०)

यदि न समुच्चरन्ति यतयोऽपि हृदि कामजडाः ।
दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठ मणिः ॥ इति ।

एवं तर्हि न गीताऽऽपातप्रतीतार्था इति वक्तव्यम् । कस्तर्हि गीतार्थः । उच्यते –यदि अनन्यभजकाः ऋषिगन्धर्वदेवादयः स्वयोग्याधिकाप्तपुण्यापगमाय वा प्रारब्धवशा वा यदि कुत्सितं कर्म कुर्युः तदा स्वभावतस्तेषां हरिगुणाविष्ट चित्तत्वात् भक्तत्वं न हीयते । तादृशा उत्तमाधिकारिणः पापमाचरन्तोऽपि स्वभावतोऽदुष्टा इति साधव एवोच्यन्ते इति । यतस्तेऽनन्यभक्ता अत एव ते हरिमेवाप्नुवन्ति ।

कामद्वेषादिभिर्न मुक्तिः

[सम्पादयतु]

श्रीमद्भागवते मोहकौ श्लोकौ एवं विद्येते-

तस्माद् वैरानुबन्धेन निर्वैरेण भयेन वा ।
स्नेहात् कामेन वा युञ्ज्यात् कथञ्चिन्नेक्षते पृथक् ॥ ( भाग. ७.१-२७) इति ।
गोप्यः कामात् भयात् कंसः द्वेषाच्चैद्यादयो नृपाः ।
सम्बन्धाद् वृष्णयः स्नेहात् यूयं भक्त्या वयं विभो ॥ ( भाग. ७.१.३२) इति ।

आपाततः, कामद्वेषादिभिरपि भवति मुक्तिरिति प्रतीयते । न ह्यापातप्रतीत एवात्र वाक्यार्थः । किन्त्वन्य एव । यदि द्वेषान्मुक्तिर्भविष्यति तर्हि किमिति भगवान् व्यासः ‘कतमोऽपि न वेनस्य’ इति वेनस्य मुक्तिं प्रत्यषेधयत् । हरिद्विषा चैद्येन यदि मोक्ष आप्येत् किं तर्ह्यपराद्धं वेनेन, द्वेषस्य उभयत्र साम्यात् । अत्रेदं रहस्यमुध्दाटि तं मध्वभगवत्पादैः –हिरण्यक-कंस-चैद्य-गोपिकासु विद्यतेऽन्यजीवावेशः । तत्र सात्त्विको जीवः मोहात् कदाचित् हरिं द्विषन्नपि अन्ते जातविज्ञानः भक्त्या हरिं भजन् तमेवाप्नोति । तस्मिन्नेव शरीरे विद्यमानः तमोयोग्यजीवस्तु द्वेषमात्रेण तम एवाम्नोति ।

श्रुतश्चायमंशः पुराणे

[सम्पादयतु]

कंसाविष्टः स्वयं भृगुः । ज्ञेयो भययुतो भक्तः चैद्यादिस्था जयादयः । विद्वेषसंयुता भक्ता वृष्णयो बन्धुतायुताः (VII. 1.31.ब्रह्मतर्कवचनं भा.ता.) मधुकैट भौ भक्त्यभावदूरौ भगवतो मृतौ । तम एव क्रमादाप्तौ भक्त्या चैद्यो हरिं यथा । (VII. 10.23. स्कान्द. भा.ता. )पौण्ड्रके नरके चैव साल्वे कंसे च रुग्मिणि । आविष्टास्तु हरेर्भक्तास्तद्भक्तया हरिमीयिरे – असुरास्तु स्वयं ते तु महातमसि पातिताः ॥ (VII.10.40. भा.ता. स्कां)

तस्मात् कंसादौ विद्यमानः सात्विकचेतनः दुष्टसङ्गात् यत्पापमाचरत् तमगणय्य भगवान् तदीयस्वाभाविकभक्तिं हृदि निधायानुजग्राह । जीवान्तरावेशविधुरे वेने तु केवलं द्वेष एवास्ति न भक्तिः । शिशुपाले विद्यमानो जयः मुक्तिमाप यतः तस्मिन् द्वेषमिश्रितभक्तिसद्भावात् अन्ते द्वेषं परित्यज्य केवलभक्तेरेव करणात् । वेने च शुध्दद्वेषस्यैव सत्त्वात् स तम एवावाप । द्वेषान्नैव मुक्तिर्भवतीत्युक्तं शाण्डिल्यसूत्रेऽपि –‘द्वेषादयस्तु नैवम्’ (शां. सू. – १.३७)

यस्मात् भक्तानां द्वेषादयोऽसम्भाविताः अतो द्वेषभयछ लादयस्तु न भक्तिलिङ्गानि भक्तानां द्वेषाद्यभाव उक्तो भारते – ‘ न क्रोधो न च मात्सर्यं पुरुषोत्तमे’ इति । एवं च शुध्दभक्तेरेव मुक्तिहेतुत्वं द्वेषादीनां तदहेतुत्वं च निश्चप्रचम् । यथाशास्त्रमियं भक्तिः भगवति कार्या मुमुक्षुभिरिति सर्वमवदातम् ।

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=भक्तिः&oldid=482489" इत्यस्माद् प्रतिप्राप्तम्