सामग्री पर जाएँ

शिवपुराणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शिवपुराणम्  
लेखक वेदव्यासः
देश भारतम्
भाषा संस्कृतम्
शृंखला पुराणम्
विषय विष्णुः
प्रकार वैष्णव ग्रन्थः
पृष्ठ ४८,००० श्लोकाः
पार्वतीसमेतशिवः
इतिहासपुराणाभ्यां वेदं समुपबृहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥

भारतीय परम्परायां वेदाः नितराम् इतराणामपेक्षया स्वस्व महोन्नतस्थानं भजन्ते। वेदे निहितार्थान् स्मृतिपुराणादयः स्फुटयन्ति। वेदे निहितार्थान् पामराः अवगन्तुम् आशक्ताः इत्यतः महर्षयः वेदार्थधारां पुराणादिषु प्रवहितं हितं दृष्यते। अत्र “शृतेरिवार्थं स्मृतिरन्वगच्छत्” इति, कालिदासोक्तिः एव प्रमाणम्। जगति भासमाने भारते प्रसिद्धानि अष्टादशपुराणानि व्यासरचितानि राराजन्ते। तानि,
मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् ।

अनापलिंगकूस्कानि पुराणानि प्रचक्षते ॥ इति,

उक्तानि विहाय अन्यानि पुराणानि अपि परम्परायां दरीदृश्यन्ते। तेषु शिवपुराणमपि एकम्। सामान्यतः पुराणेषु त्रयो विभागाः दृश्यन्ते। ते क्रमशः कथाभागः, कर्म उत उपासनाभागः, तत्वनिरूपणाभागश्च भवन्ति। अस्मिन् शिवपुराणेऽपि एते विभागाः सन्ति। व्यासरचितं सुन्दरं पुराणं भवति।

विभागाः

[सम्पादयतु]

अस्मिन् शिवपुराणे ७ संहिताः सन्ति।

  • विद्येश्वरसंहिता – अस्यां संहितायां शिवाराधनक्रमविषये निरूपितं भवति।
  • रुद्रसंहिता – अस्यां संहितायां शिवकथा निरूपिता अस्ति।
  • शतरुद्रसंहिता – अस्यां संहितायां शिवशतावतारनिरूपणम् अस्ति।
  • कोटिरुद्रसंहिता – अस्यां संहितायां शैवसम्बन्धिततीर्थक्षेत्राणां स्वरूपनिरूपणम् अस्ति।
  • उमासंहिता – अस्यां संहितायां नरकस्वर्गादीनां विषये स्फुटतया निरूपितं दृश्यते।
  • कैलाससंहिता-
  • वायवीयसंहिता- अस्यां संहितायां प्रणवस्वरूपम्, तत्वमस्यादिमहावाक्यानां निरूपणम्, नैकानां उपनिषद् वाक्यानाम् अर्थादीनां निरूपणं कृतं दृश्यते। एवं सत्कर्मानुष्ठानम्, वेदान्तविचारान् च निरूपितं दृश्यते।
क्रमसङ्ख्यासंहिताअध्यायाःश्लोकसङ्ख्या
विद्येश्वरसंहिता२५१०,०००
रुद्रसंहिता१९७८,०००
शतरुद्रसंहिता४२३,०००
कोटिरुद्रसंहिता४३९,०००
उमासंहिता५१८,०००
कैलाससंहिता२३६,०००
वायवीयसंहिता७६४,०००

वैशिष्ट्यम्

[सम्पादयतु]

श्रीमत् शङ्करभगवत्पादः स्वसूत्रभाष्ये अस्मिन् पुराणे विद्यमानान् श्लोकान् प्रमाणत्वेन उदाहरति। अनेनैव ज्ञायते अस्य पुराणस्य माहात्म्यम्। एव अन्ये ग्रन्थकाराः अपि स्व स्व ग्रन्थेषु प्रमाणत्वेन उदाहरन्ति।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=शिवपुराणम्&oldid=481019" इत्यस्माद् प्रतिप्राप्तम्