उपनिषद्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(उपनिषदः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

उपनिषदः तालपत्रम्

उपनिषद् पराविद्या इति पदेन व्यपदिश्यते । वेदान्तिभिः उपनिषद् इत्य आख्यायते । उपनिषच्छब्दस्य रहस्यमर्थः, अध्यात्मविद्यारहस्यप्रतिपादकाः वेदभागाः उपनिषदः कथ्यन्ते । तासु महर्षयः आध्यात्मिक्या विद्यया गूढतमानां रहस्याणां विशदतया विचारं कुर्वाणाः प्राप्यन्ते । भारतीयदर्शनसाहित्ये सन्ति त्रयः। प्रस्थानग्रन्थाः । ते वेदान् अवलम्बमानाः मानवजीवनस्य चरमं लक्ष्यं तत्प्राप्तिसाधनञ्च उपदिशन्ति । भारतीयविचारशास्त्रस्य श्रेष्ठोपजीव्यग्रन्थत्वादुपनिषदः प्रस्थानत्रय्यां प्रथमप्रस्थानत्वेन गृह्यन्ते। श्रीमद्भगवद्गीता द्वितीयं प्रस्थानमिति। गीतायाः द्वितीयप्रस्थानत्वम् तस्यामेव प्रकटितम् अस्ति। यथा -

'सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः।

पार्थो वत्सः सुधीर्भोत्ता दुग्धं गीतामृतं महत्।।'

बादरायणव्यासप्रणीतं ब्रह्मसूत्रं तृतीयप्रस्थानमस्ति । तत्र आपाततो विरोधिभूतानाम् उपनिषद्वाक्यानां समन्वयस्तथा कृतः, येन ज्ञातं स्यात् तेषां सर्वेषामपि वाक्यानां ब्रह्मनिष्ठत्वम्। अथ च तत्र तार्किकाणां युक्तयः अपि प्राबल्येन निराकृताः सन्ति । भारतीयाः वैदिकधर्मग्रन्थाः, दर्शनानि च इमामेव प्रस्थानत्रयीमवलम्बन्ति । उपनिषदां गीताब्रह्मसूत्रयोराश्रयप्रदायिनीत्वात् ताः सन्ति महनीयतमाः ।

अन्तर्विषयाः

शब्दार्थः[सम्पादयतु]

उप-नि-पूर्वकस्य विशरणगत्यवसादनार्थकस्य ‘षद्लृ'-धातोः क्विबन्तस्य रूपमिदमुपनिषदिति । उपनिषदाम् अध्ययनेन दृष्टानुश्रविकविषयवितृष्णमुमुक्षूणां संसारस्य बीजभूता विद्या नश्यति, ब्रह्म प्राप्तं भवति दुःखानि च क्षीणानि भवन्ति । ब्रह्मणः स्वरूपस्य तदवाप्त्युपायस्य जीवस्य जगतश्च किञ्चात्मादिविषयाणां सविस्तरं वर्णनपरत्वात् ‘उपनिषद्' इति संज्ञा।

सङ्ख्या[सम्पादयतु]

'सर्वोपनिषदां मध्ये सारमष्टोत्तरं शतम्' इत्येतत् मुक्तिकोपनिषद्वाक्येन उपनिषदष्टोत्तरशततोऽप्यधिकाः अासन् इति ज्ञायते। प्राप्तासु अष्टोत्तरशतसंख्याकासु उपनिषत्सु प्रायेण द्वादश उपनिषदः प्राचीनत्वाद् विशदतया च विषयस्य प्रतिपादकत्वाद् अतितरां प्रामाणिकाः मताः भवन्ति । तत्र १० उपनिषदः ऋग्वेदसम्बद्धाः, १९ उपनिषदः शुक्लयजुर्वेदसम्बद्धाः, ३२ कृष्णयजुर्वेदसम्बद्धाः, १६ सामवेदसम्बद्धाः, ३१ अथर्ववेदसम्बद्धाः । वेदान्ताचार्या एतासु उपनिषत्सु कतिचनोपनिषदः स्वमतानुसारिण्यया व्याख्यया भूषितवन्तः । तासु दशोपनिषदः प्रसिद्धाः।

ऋग्वेदीयोपनिषत्सु ऐतरेय-कौषीतकी, सामपरकोपनिषत्सु छान्दोग्यकेनोपनिषदौ, कृष्णयजुर्विषयाकासूपनिषत्सु तैत्तिरीय-महानारायण-कठ-श्वेताश्वतरमैत्रायण्युपनिषदः, शुक्लयजुरधिकृत्य लिखिता ईशावास्योपनिषद् बृहदारण्यकं, किञ्चाथर्वनिष्ठासु मुण्डक-माण्डूक्य-प्रश्नोपनिषदश्च नितरां प्रथिताः प्राचीनाः प्रमाणप्राप्ताः सन्ति । मुण्डिकोपनिषदि उपनिषदां संख्या निम्नरूपेण वर्णिताऽस्ति

‘ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तित्तिरिः।

ऐतरेयं च छान्दोग्यं वृहदारण्यक दश।।'

एतासु दश उपनिषत्सु प्रसिद्धाः — ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तैत्तिरीयऐतरेय-छान्दोग्य-बृहदारण्यकोपनिषदः । श्वेताश्वतरोपनिषदेकादश्यपि प्रसिद्धा ।

शैली, कालश्च[सम्पादयतु]

काश्चन उपनिषदः गद्यात्मिकाः, काश्चन पद्यात्मिकाः काश्चन गद्यपद्योभयात्मिकाश्च । अासाम् उपनिषदां कालो भिन्न-भिन्नः, परं प्रसिद्धाः काश्चन उपनिषदः बुद्धकालात्प्राचीना एवेति संस्कृतसाहित्येतिहासलेखकानां मतम्।

महर्षयो भारयीयाध्यात्मविद्यायाः यानि आध्यात्मिकतत्त्वानि ज्ञानदृशा साक्षादकुर्वन्, तानि सर्वाणि तत्त्वानि उपनिषत्सु वर्णितानि सन्ति । उपनिषदोऽतिसरलशैल्यां तत्त्वं ग्राहयन्ति, तेन तासां महत्त्वं लोकप्रियत्वं चानुदिनमवर्धत । आसां तत्त्वप्रकाशनशैली यथा कठोपनिषदि –

‘अात्मानं रथिनं विद्धि शरीरं रथमेव तु।

बुद्धिं तु सारथि विद्धि मनः प्रग्रहमेव च॥

इन्द्रियाणि हयानाहुर्विषयास्तेषु गोचरान्।

अात्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः॥'

इमाः उपनिषदो नैकस्मिन् काले प्रणीता अजायन्त अपि तु काले काले ता रचिता अभूवन् । प्रधानोपनिषदो बुद्धात्प्रागेव अवतेरुरिति । आसामुपनिषर्दा कालनिरूपणाय, पारस्परिकसम्बन्धनिर्धारणाय च अर्वाचीनविद्वांसः अतीवोद्योगं कृतवन्तः ।

विदुषां मतानि[सम्पादयतु]

जर्मनविद्वान् डायसन-महोदयस्तु उपनिषदः चतुर्षु स्तरेषु विभक्ताः कृतवान् ।

(क) प्राचीनगद्योपनिषदः - यासां गद्य ब्राह्मण-गद्यमिवं प्राचीनं, लघुकायं सरलञ्चास्ति । यथा— (१) बृहदारण्यकोपनिषद्, (२) छान्दोग्योपनिषद्, (३) तैत्तिरीयोपनिषद्, (४) ऐतरेयोपनिषद्, (५) कौषीतकि-उपनिषद् (६) केनोपनिषच्चेति ।

(ख) प्राचीनपद्योपनिषदः - यासां पद्यं प्राचीनं, सरलं तथा वैदिकपद्यमिवास्ति । यथा - (७) कठोपनिषद्, (८) ईशोपनिषद्, (९) श्वेताश्वतरोपनिषद् (१०) महानारायणोपनिषच्चेति ।

(ग) उत्तरकालिकगद्योपनिषदः — (११) प्रश्नोपनिषद्, (१२) मैत्रायेणीयोपनिषद्, (१३) माण्डूक्योपनिषच्चेति ।

(घ) आथर्वणोपनिषद्, यासामुपयोगः तान्त्रिकोपासनायां विशिष्टरूपेण स्वीकृतः अस्ति - (१) सामान्योपनिषद्, (२) योगोपनिषद्, (३) साङ्ख्यवेदान्तोपनिषद्, (४) शैवोपनिषद्, (५) वैष्णवोनिषद् (६) शाक्तोपनिषच्चेति ।

अस्मिन् क्रमसाधने बहुदोषान् सम्भाव्य तांश्व दर्शयित्वा डॉ० बेलवेलकर-राणाडेमहोदयाभ्याम् एका अभिनवा योजना प्रस्तुता इति।[१] [२] तयोः मते ईशावास्योपनिषद् द्वितीयस्तरे स्थापनं कदापि न्यायसङ्गतं न भवति । यतो ह्यस्मिन् यज्ञस्य महत्त्वं ब्राह्मणकालमिव स्वीकृतमस्ति ( 'कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः' ) तथा बृहदारण्यकेन उद्घोषिता कर्मसंन्यासभावनायाः घोषणा नास्त्येवेति ('पुत्रैषणायाश्च लोकैषणायाश्च ह्युत्थाय भिक्षाचर्य चरन्ति' - बृहदारण्य०)। अन्योपनिषदाम् इव आरण्यकस्या अंशो न भूत्वा ईशोपनिषद् माध्यन्दिनसंहिताया भागोऽस्ति तथा मुक्तिकोपनिषदः मान्यपरम्परानुसारेणेय समस्तोपनिषदां गणनायां प्रथमस्तरीयेवेति ।

श्रीचिन्तामणिविनायकवैद्योऽपि स्वग्रन्थे उपनिषदां प्राचीनतां प्रमाणयितुं साधनद्वयं समुपस्थापयति। विष्णोः शिवस्य च परदेवस्वरूपे वर्णनम्। प्रकृति-पुरुषयोः तथा सत्त्व-रजस्तमसां त्रिविधगुणानां साङ्ख्यसिद्धान्तस्य प्रतिपादनं युक्ततरोऽयं सिद्धान्तः तस्य मते उचितः। तिलकमहोदयानुसारेण उपनिषत्कालः १९०० वि० पूर्वं शतकं भवितव्यम् । अनेन प्रकारेण उपनिषत्कालस्य समारम्भः २५०० वि० पूर्व शतकं मन्यते।

अनुवादाः[सम्पादयतु]

सप्तदशशतके दाराशिकोहनामा शाहजहाँ-नाम्नः सम्राजः पुत्रः ५० संख्याकाः उपनिषदः पारसीभाषायां ब्राह्मणपण्डितानां साहाय्येनानूदितवान् । शोपेन हावेर( Shopen Howers )-नामा प्रसिद्धो वैदेशिको दार्शनिक उपनिषदः स्वगुरुषु गणयति स्म ।

विषयवस्तु[सम्पादयतु]

उपनिषत्सु अद्वैतविशिष्टाद्वैतश्रुतीनां सद्भावो भाति । अाचार्यैः स्वसिद्धान्तप्रतिष्ठापिकाः श्रुतयः प्रधानत्वेन स्वीकृताः, अन्यासां श्रुतीनां गौणत्वञ्च तैरुपपादितम्। शङ्करः स्वभाष्येण अद्वैतं, श्रीरामानुजाचार्यानुगा विशिष्टाद्वैतं तत्र प्रतिपादयन्ति । वस्तुतः उपनिषत्सु दर्शनानां सर्वेषामपि बीजानि निहितानि सन्ति । न केवलम् आस्तिकदर्शनानामपि तु नास्तिकदर्शनानामपि मूलसिद्धान्ताः समुपलभ्यन्ते ।

आत्मतत्त्वस्य प्रतिपादनम्[सम्पादयतु]

उपनिषदां प्रधानत्वेन प्रतिपाद्यो विषयोऽस्त्यात्मा । संहितातः आरण्यकं यावत् तद्ब्रह्म आत्मनो भिन्नमित्येतेन रूपेण प्रतिपादितमस्ति । तदुपनिषत्सु ततो न भिन्नमित्येतेन प्रकारेण व्याख्यातमस्ति । द्वयोरप्यभिन्नत्वाद् दैवाध्यात्मिकतत्त्वयोः एकत्वात् च आत्मा एवैकः सर्वत्र न च तं विहाय कोऽप्यन्यः पदार्थ इत्युपनिषद्भिर्युक्तिभिः साधु निरणायि । तच्चात्मारण्यं तत्त्वं पूर्णमस्ति । तदेव तत्त्वं दृष्टिः तदेव च दृश्यम् । न द्रष्टृदृश्ययोः भिन्नतां वस्तुतः श्रयतः । आत्मैव सर्वव्यापी वर्त्तते । विश्वस्य सर्वेष्वपि पदार्थेषु स एव व्याप्तोऽस्ति । तस्मिन्नेव समग्रस्याऽपि प्रपञ्चस्य लयो भवति । ततो व्यतिरिक्तं न किमपि । अत एव बृहदारण्यकोऽप्याह-

‘स वायमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽकोधमयो धर्ममयोऽधर्ममयः सर्वमयः ॥'

अर्थात् संसारस्य यावन्तोऽपि सन्ति स्थूला वा सूक्ष्माः पदार्थाः सर्वेऽपि नात्मनो भिन्नाः । ते सर्वे आत्मत्वेनैव वेदितव्याः, नात्मनः परं किमपि प्रियतरम् । ऋषिभिर्बहुधा स आत्मा वर्णितः । कथयन्ति ते यद् आत्मैव प्राणापानव्यानोदानवायुरूपेण अस्मच्छरीरम् अवन्ति । आत्मैव क्षुत्-पिपासाशोकमोहजरामरणेभ्यः अस्मान्नुद्धरति । आत्मनो ज्ञानानन्तरमेव मानवः सुतसम्पत्सुन्दरीस्वर्गादिसमवाप्तीच्छतो विरतो भूत्वा परिव्राजो जीवनं वहति । पूर्णत्वाद्, अखण्डत्वाच्च आत्मा सदसदौ, लघुगुरू, दूरादूरं अन्तर्बहिः आदिसकलविरुद्धधर्माणामेकाधारः । सर्वेऽपि दर्शनकाराः अत एव इदं परमतत्वम् आत्माभिधेयं विभिन्नरूपेण स्वस्वमूलतत्त्वं मत्वा भिन्नभिन्नया दृष्टिसरण्या भिन्नभिन्नानि दर्शनानि व्यरचयन् ।

ब्रह्मतत्त्वं यः कोऽपि – जिज्ञासति, ज्ञातुं शक्नुते; यः कोऽपि मानवस्तत् लिप्सति लब्धुं प्रभवति। तदर्थं तपस्या काम्यते अभिलष्यते सत्यानुरागी बलिष्ठा निष्ठा विमलञ्च ज्ञानम् । नायमात्मा वेदाध्ययनेन लब्धुं शक्यो न च सद्धारणाशक्त्यैव । साधको हि यम् आत्मानं वृणुते तेनैव स तमवाप्तुमीष्टे । सम्प्रति हि स्वयमेवात्मा स्वकीयं रूपमभिव्यनक्ति । उपनिषदः आहुः -

'नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुधा श्रुतेन।

यमेवैष वृणुते तेन लभ्यस्तस्यैव आत्मा विवृणुते तनूं स्वाम्॥'

ब्रह्मणो मूर्त्तामूर्तभेदेन रूपद्वयम् । तदस्ति मत्यममत्यञ्च । स्वलक्षणं लक्षणातीतञ्च । तत् परमात्मेत्येतदप्युच्यते । अयमेव परमात्मा अविद्याहेतोर्बन्धने निपत्य जीवात्मेत्येतदपि निगद्यते । गतजनुः कर्मवशात् सुखानि च भोक्तुं जगति जन्म गृह्णाति । पुनः पुनः जायते म्रियते च । संसारागमनानेहसि भोगानुकूलं स्थूलं वपुः बिभर्ति। स लोके परलोके च भ्रमति; स्वप्नावस्थायां लोकद्वयस्य अपि ज्ञानमाप्नुते । स्वप्ने च सुखं दुःखञ्च विन्दति । स्वप्ने स्वप्नगतविषयदर्शनार्हशरीरं धारयति । भवति च तच्छरीरं स्थूलाद् भिन्नम् । उपनिषदो वदन्ति यद्, जीवो भोगनिमित्तेन स्वप्ने स्वयं नवनवविषयाणां सृष्टिं कुरुते । परं वस्तुतः स्वप्नस्यापि सृष्टिरस्ति ब्रह्मणा एव । जीवात्मब्रह्मणोः एकत्वात् ।

यथा जाग्रदवस्थातः जीवः स्वप्नावस्थायां प्रविशति तथैव च नैजं स्थूलं शरीरं हित्वा अविद्याप्रभावात् शरीरान्तरं धारयति । शरीरत्याग एव मरणमिति कथ्यते । जीवमरणसमयावस्थां वर्णयन्ता उपनिषदः शंसन्ति यत्, जीवस्तदा दुर्बलतां संज्ञाशून्यताञ्च प्रयाति हृदयञ्च अधितिष्ठति । प्रथमं तस्य रूपज्ञानं नश्यति, इन्द्रियैः सार्धमन्तःकरणमपि श्लथतामुपैति । तदानीं हृदयबाह्यभागः प्रकाशितो जायेत । तं प्रकाशमेवाश्रित्य जीवः स्वकर्मप्रभावात् शरीरस्य भिन्नभिन्नछिद्रमार्गेण निर्गच्छति । तस्मिन्नपि समये जीवे वासना स्फुटतया एव विभासते । तस्याः वासनायाः एव सामर्थ्यात् जीवस्य भाविनो जीवनस्य स्वरूपं निर्णीयते ।

उपनिषदां कथनमेतत् — वर्त्तमानसमये जीवाः स्वकीये जीवने यादृशं कर्म आचरन्ति, ते भाविनिकाले तादृशमेव जीवनमपि लप्स्यन्ते। सन्ति कर्माण्येव जीवनघटकानि । जीवनं ह्यत्तमं सर्वविधतया समुन्नतञ्च कर्तुं सततं शुभान्येव कर्माणि कर्त्तव्यानि । ज्ञानात् ऋते न मुक्तिः तस्मात् ज्ञानमर्जनीयम् । ज्ञानाधिगमनं योगाभ्यासेन सम्भवम्। सत्कर्मकर्ता जीव उपरते सति सत्स्वरूपं सद्देशं, सच्छरीरम् अश्नुते । एतेनैव स्फुटं जीवस्यास्मात् लोकात् परलोकगमनं तत् तद् भोगाधिगमनञ्च । तपश्चरणात्पुण्यानां हु अभ्युदयाच्च ज्ञानबलेन वासना विनश्यति, क्रियमाणानि कर्माणि विलीयन्ते, सञ्चितानि कर्माणि हतशक्तिकानि जायन्ते । एवंविधां दशां प्रपन्नाः जनाः एव जीवनमुक्ताः उच्यन्ते । जीवनमुक्तेषु प्रारब्धकर्मानुरूपं जीवस्य स्थूलं शरीरं सन्तिष्ठते, नष्टे च सति प्रारब्धकर्मणि शरीरमपि निपतति । ततश्च जीवः स्वकीयस्य रूपस्य प्रत्यक्षभावेन अनुभूतिं कुरुते ।

सृष्टिवर्णनम्[सम्पादयतु]

तत्रोक्तमादौ सृष्टिर्नासीत् किमपि, केवलं मृत्युरवर्त्तत । ततश्च मनः मनःसलिलानलभुवः समुद्भूताः । प्रजापतेः अनन्तरं सुरासुराश्च उद्बभूवुः। क्वचिद् इदमप्यभिहितं प्रथमं पुरुषस्य ततश्च स्त्रियाः उत्पत्तिरभवत् । ताभ्याञ्च विश्वस्य सृष्टिरभूत् । एतद्विधायाः वर्णनं छान्दोग्योपनिषदि बृहदारण्यके च दृष्टं भवति । उपनिषत्सु उल्लिखितम् अस्ति यत्, सर्वतः प्रथममेकम् अव्यक्तं रूपमासीत् । तस्मादेव व्यक्तमिदं जगत् सृष्टमभूत् । इदमव्यक्तं रूपं हि ‘परब्रह्म' अस्ति । समस्तमपि जगत् तस्मादेव प्रादुर्बभूव अन्ततश्च तत् तस्मिन्नेव लीयते -

'यतो वा इमानि भूतानि जायन्ते । तेन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद् ब्रह्य एव जगतो निमित्तकारणमुपादानकारणञ्चास्ति।'

कर्मगतिः[सम्पादयतु]

तत्र देवयानपितृयानयोः निरूपणम् आलोक्यते । पुण्यकर्मभ्यः पुरुषः सुयोनिमध्ये पापेभ्यश्च कर्मभ्यः कुत्सितायां योन्यां जननम् उपाददाति।

आात्मानं द्रष्टुं किंवा ब्रह्म ज्ञातुं जीवस्य कर्त्तव्यमिदं यत्, सः कायं वाचं मानसञ्च संयच्छेत् । किञ्च ब्रह्मणः साक्षात्काराय सत्यस्य आचरणं, न कस्याऽपि वस्तुनः अपहरणं, ब्रह्मचर्यस्य रक्षणम्, इन्द्रियाणां निग्रहणं, हिंसायाः परित्यजनम्, मातृ-पितृदेवातिथिगुरुजनानाम् अभ्यर्चनं, निन्दनीयकर्मपरिवर्त्तनं, सांसारिकेषु विषयेषु विरजनम्, अन्तःकरणस्य परिक्षालनमेतानि कर्माण्यतितरामपेक्ष्यन्ते ।

परिशुद्धेन कायेन वचनेन हृदयेन अहंभावरूपस्थितम्, प्रत्यक्चेतनमवबोद्धुं प्रयतेत जीवः । तदर्थं निदिध्यासनम् अपेक्षितमस्ति । योगशास्त्रोक्तसाधनानि साधनीयानि । एतस्मिन्नध्यवसाये तदैव सफलता भवति, यदा श्रद्धा भवति गुरुम्प्रति स्वसमर्पणं कृतं जायते । अहम्भावविनाशाय सर्वाण्यप्येतानि कार्याणि कर्त्तव्यानि सन्ति । गुरुस्तत्त्वं प्रहीणदोषायैव प्रददाति । उक्तञ्च —

'प्रशान्तचित्ताय जितेन्द्रियाय च

प्रहीणदोषाय यथोक्तकारिणे।

गुणान्वितायानुगताय सर्वदा

प्रदेयमेतत् सततं मुमुक्षवे ॥'

गुरुजिज्ञासवे ‘तत् त्वमसि' इत्येतदुपदिशति । शान्तोदान्तः शुद्धान्तःकरणः साधकः ‘अहं ब्रह्मास्मि' इत्येतं गुरूपदेशं निशम्य स्वयमेवात्मनि ब्रह्मणोऽनुभूतिं कर्तुमारभते । साधकोऽभ्यासवशात् शनैः शनैः ‘तत्’ ‘त्वम्’ ‘अहम्’ ‘अयम्' इत्यनयोर्मध्ये ऐक्यमेवानुभवति। स न स्वकीयं रूपमात्मनो भिन्नत्वेन जानाति। ‘एकेन विज्ञानेन सर्वं विज्ञातं भवति' इत्येतदुपनिषद्वचसः अनुसारेण स साधकः सर्वपदार्थावबोधानन्तरं 'सर्वं खल्विदं ब्रह्म' इत्येतत् साक्षाद्भावेनानुभवति । ततश्चासौ संसार-बन्धनान्मुक्तिमवाप्य अनामयं सच्चिदानन्दपदं प्रपद्यते । न पुनः संसारेऽस्मिन् स निवर्तते । उक्तञ्च गीतायाम्-

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्।

यं प्राप्य न निवर्त्तन्ते तद्धाम परमं मम॥

न तद्भासयते सूर्यो न शशाङ्को न पावकः।

यद् गत्वा न निवर्त्तन्ते तद्धाम परमं मम॥'

इत्थं ह्यपनिषदुपदेशनिष्कर्षोऽयं यदेकमेव तत्त्वमस्ति। तस्मादेव समग्रोऽपि संसारः समुत्पद्यते पुनश्चान्ततस्तत्रैव लीयते इति।

श्रुतिश्चामनुते - ‘वाचारम्भणं विकारो नामधेयं मृतिकेत्येव सत्यम्।' निर्गुण-सगुणभेदेन ब्रह्म द्विविधम् । तत्र निर्गुणं ब्रह्म न वक्तुं शक्यम् । तदस्ति सर्वथैव वागगोचरम् । न तत् केनाऽपि प्रकारेण गातुं शक्यं यत् तत् एवंविधम् । निर्विकल्पत्वान्निरुपाधित्वाच्च तदस्त्यनिर्देश्यम्। अत एव तु बाष्कलिना ब्रह्मणि पृष्टो बाध्वो मौनमालम्ब्यैव तत्कृतप्रश्नमुक्ततार । निषेधमुखेनैव तद् वर्ण्यते यत् तदिदं न । अत एव श्रुतयो नेति नेतीत्युक्त्वा तद्गायन्ति । कठोपनिषदाह-

‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्॥

अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते ॥'

बृहदारण्यकोपनिषदि याज्ञवल्क्यः तदधिकृत्य गार्गीम् इत्थमुपदिशति 'गार्गि ! न तदक्षरं ब्रह्म स्थूलं नाणु न ह्रस्वं न दीर्घम् । तद असङ्गं रस-गन्धरहितम् । न तच्चक्षुःश्रोत्रमनोवाणीगम्यम्' इति। केनोपनिषद् तन्निष्प्रपञ्चं ब्रह्म वर्णयत्येव —

‘यद् वाचाऽनभ्युदितं येन वागभ्युद्यते।

तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते।।'

देशकालनिमित्तातीतत्वात् तद् भवति सर्वथैव विचित्रम् । प्रमाणातीतत्वात् तदप्रमेयमस्ति किञ्च चैतन्यात्मकत्वात् स्वयमेव विषयि । कठोपनिषत्तन्महीयस्कतायामाह-

‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः।

तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति।।'

मुण्डकोपनिषदेवमुद्गायति तत्-

‘यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति।

यथासतः पुरुषात् केशलोमानि तथाक्षरात् सम्भवतीह विश्वम्॥'

कस्यचन वस्तुनो बोधाय तल्लक्षणमपेक्ष्यते । लक्षणञ्च तटस्थस्वरूपभेदेन द्विविधं भवति । तटस्थलक्षणेन वस्तुनो स्थायिपरिवर्तनशीलगुणाः वर्ण्यन्ते । स्वरूपलक्षणेन च वस्तुनः शुद्धं रूपं तात्विकञ्च रूपमुपलभ्यते । सगुणब्रह्मणः उभयविधं लक्षणं ह्यपनिषत्सु प्राप्यते । स्वरूपलक्षणेन ब्रह्म सत्यं ज्ञानम् अथ च अनन्तरूपमस्ति । उक्तञ्च तैत्तिरीयोपनिषदा‘सत्यं ज्ञानमनन्तं ब्रह्म।' तच्च ब्रह्मविज्ञानमानन्दञ्च अस्ति । बृहदारण्यकोपनिषदाह - ‘विज्ञानमानन्दं ब्रह्म'। उपनिषत्सु ब्रह्मणः तिसृणां स्वाभाविकशक्तीनाम् उल्लेखः कृतोऽस्ति । श्वेताश्वतरोपनिषदाह- 'परास्य शतिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च'। सगुणब्रह्मणः तटस्थलक्षणं छान्दोग्योपनिषदेवं प्रस्तौति- 'तज्जलानीति शान्त उपासीत।'

उक्तं हि सिद्धान्तं तैत्तिरीयोपनिषल्ललितशब्दावलिना व्याख्याति —

'यतो वा इमानि भूतानि जायन्ते, यतो जातानि जीवन्ति, यत् प्रयन्त्यभिविशन्ति तद् विजिज्ञासस्व तद्ब्रह्म॥' ‘जन्माद्यस्य यतः॥'

इत्येतस्मिन् ब्रह्मसूत्रेऽपि ब्रह्मणः तटस्थलक्षणं दर्शितम्। माण्डूक्योपनिषदपि तत् ताटस्थ्येन वर्णयति -

‘एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवोऽप्यसौ हि भूतानाम् ।'

सगुणं ब्रह्म संसारस्यास्य शास्तृ निखिलस्यापि जगतः हि जीवानां भाग्यस्य विधातृ वर्त्तते । शुभकार्यकत्तृृणां जीवानां तत् कल्याणसम्पादयितृ, मुक्तिभुक्तिप्रदातृ, अशुभकर्मकारि, प्राणिनिगृहीतृ च । तदेव सगुणं ब्रह्म ईश्वर-विराट्हिरण्यगर्भसंज्ञया व्यपदिश्यते । अस्य विश्वस्य सर्वेऽपि प्राणिनः तस्य एव शरीरमिति कथ्यन्ते। सगुणत्वात् तत् पादाभ्यां चलति, हस्ताभ्यां कार्यं करोति, नेत्राभ्यां पश्यति, कर्णाभ्याञ्च शृणोति ।

ब्रह्मणः शक्त्या एव देवतासु शक्तिः सञ्चरति । तस्य एव शक्तिभूतत्वेन जगतः पदार्थाः जायन्ते शक्तिमन्तः । तस्मात् न केनापि पदार्थेन स्वशक्तौ गर्वः कार्यः, इत्येतद् उपदेष्टुकामा केनोपनिषद् उमाहेमवतीनामकम् उपाख्यानं प्रस्तौति ।

उपनिषदां व्यवहारविषयकः पक्षो नितरां मनोभिरामः । दार्शनिकानि तत्त्वानि व्यवहारे प्रयुज्य उपनिषद्विद्या मानवीयजीवनम् अतितरां रमयति, इत्येतद्धि तदीयं ललितं वैशिष्ट्यम् । उन्नतं समृद्धञ्च आध्यात्मिकपथमारोढुं बहवः सद्गुणाः सन्त्यपेक्षिताः । अतः उपनिषदो मनोरमाख्यायिकां निधाय जनसमुदायं तान् सद्गुणान् वरीतुम् उपदिशन्ति । आत्मसंयम-तपोदानार्जवाहिंसासत्यादिसद्गुणाः जीवनं निःसन्दिग्धतया समुन्नमयन्ति तस्मात् ते उत्तमा गुणा उपनिषद्भिः तथाऽऽलेखिताः यद् अवलोक्य जनमानसं झटिति तान् स्वीकर्तुम् उपक्रमते । तैत्तिरीयोपनिषत् ‘सत्यं वद, धर्मं चर' इत्यादिना, छान्दोग्योपनिषद् सत्यकाम-जाबालकथादिभिः, प्रश्नोपनिषद् अवृतनिन्दादिना, मुण्डकोपनिषद् च सत्यश्लाघादिना संसारं सन्मार्गं प्रदर्शयन्ति।

ज्ञानस्य सिद्धिर्विवेकवैराग्याधीना । ब्रह्मावाप्त्यर्थं तावज्जीवो न प्रवर्त्तते, यावत् तत्र विवेक-वैराग्ययोः उदयो न सञ्जायते । मुण्डकोपनिषद् एतद्गुणद्वितयं प्रत्येकं पुमान् गृहणीयादेतदर्थं पूर्णबलेन प्रयतमानास्ते । कर्मभिः प्रासालोकाः सन्ति विनश्वराः इत्येतद् विज्ञाय एव ब्राह्मणस्य मानसं निर्विण्णतामुपैति । विवेको बोधयतीदं यत्, कृतेन ( कर्मणा ) अकृतस्य ( नित्यब्रह्मणः ) समुपलब्धिर्न भवितुं शक्यास्ति इति।

कर्मानुष्ठाने प्राणी सर्वथा स्वतन्त्रोऽस्ति । उपनिषदाम् अभिधानमिदं यज्जीवः कर्माचरणेऽस्ति स्वाधीनः । पुरुषः काममयोऽस्ति यादृशी तदीयेच्छा भवति, तादृश एव तस्य सङ्गल्पो भवति । बृहदारण्यके प्रोक्तम् – 'अथो खल्वाहुः काममय एवायं पुरुष इति । स यथा कामो भवति तत्कर्त्तुर्भवति तत्कर्म कुरुते तदभिसम्पद्यते ।' अात्मज्ञानलाभानन्तरमेव मानवः सर्वेष्वपि लोकेषु पर्यटितुं प्रभवति । स यत् कामयते, तत् सङ्कल्पमात्रेण लभते । उपनिषदः पुरुषार्थोपदेशिकाः सन्ति । मुक्तिकोपनिषद् वक्ति -

'शुभाशुभाभ्यां वहन्ती मार्गाभ्यां वासना सरित्।

पौरुषेण प्रयत्नेन योजनीया शुभे पथि ।

अशुभेषु समाविष्टं शुभेष्वेषावतारयेत् ॥'

मानवस्य कर्त्तव्यमस्ति यद्, असौ समुद्धर्त्तुं शुभवासनाभिः स्वकीयं मनो विभूषयेत् न सः अशुभवासनासु निपतेत् । ताभिः मनो भवत्यपवित्रं दूषितञ्च । ‘ओ३म् यज्जाग्रतो दूरमुपैती'त्यादिभिः मन्त्रैः श्रुतयो मानवं शिवसङ्कल्पशीलं स्वान्तं विधातुं प्रेरयन्ति । मनुष्यमात्रस्य धर्मोऽयं यद् असौ उच्चोद्देश्यवान् भवेत्। स स्वकीयं बहुमूल्यं जीवनं साधारणवस्तूपलब्धौ न योजयित्वाऽऽत्मसमवाप्त्यां योजयेत् इति। श्वेताश्वतरोपनिषद् उपदिशति सस्नेहम् -

‘तमेव विदित्वाऽतिमृत्युमेति ॥ नान्यः पन्था विद्यतेऽयनाय ॥'

उपनिषदः अन्त्यलक्ष्यं नास्ति आत्मतत्त्वविषयकं ज्ञानम् । तच्चरमलक्ष्यं तु अस्ति आत्मनः अपरोक्षानुभूतिः । परोक्षानुभूत्या न सिद्धयति स्वार्थः । स्वतात्त्विकरूपावगमनं स्वकीयस्य रूपस्य साक्षाद् अनुभवनमेव अपेक्ष्यते । अत एव मानवस्य यत् कर्त्तव्यं मुख्यमस्ति, तदिदमेव यत् स स्वरूपेऽवतिष्ठेत ।

अात्मनो दर्शनेन, अात्मनि अवस्थानेन, अात्माधिगमनेन हि स्वराज्यं भवत्युपलब्धम् । जन आत्मनि रमते, आत्मनि क्रीडति, आत्मनि विहरति, आत्मनि नन्दति च । अात्मनो ही आनन्दमयत्वाद् असौ जीवो निरतिशयानन्दम् आस्वदते । न लौकिकेन दृष्टान्तेन न तदानन्दस्य लवोऽपि प्राप्यो भवति। बृहदारण्यकोपनिषद् लौकिकोदाहरणद्वारेण तदानन्दस्य तुच्छतराभासमात्रं प्रस्तुतीकरोति । सा प्राह-

'तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किञ्चन वेद, नान्तरम्, एवमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरं तद् वा अस्य एतदाप्तकामम् अात्मकामम् अकामं रूपम्॥'

अात्मवेत्ता जन एव तं लोकोत्तरं निरतिशयमानन्दमनुभवति । परं तमानन्दमध्यारूढो हि पुरुषो भवति अवरुद्धवाग्व्यापारः । वस्तुतः स आनन्दो न वाग्भ्यः नान्येनापि केनापि साधनेन लभ्यः । स तु स्वानुभूत्यैव गम्यो वेद्यो ज्ञेयश्च जायते । एतस्या एवापरोक्षानुभूतेः प्रतिपादनम् एव उपनिषदाम् अभीष्टमन्त्यम् । अन्येषां सिद्धान्तानां प्रतिपादनन्तु एतस्मात् प्रयोजनाद् विहितं यत्, तत् सहायतया सा लब्धा स्यात् ।

उपनिषदां भाषान्तरेष्वनुवादः[सम्पादयतु]

शाहजहाँसुतस्य दाराशिकोहस्य उपनिषत्प्रेम जगति विदितमेव। १६५७ ख्रीष्टाब्दे दिल्लीनगरस्य निगमबोधनामकस्थाने षण्मासाभ्यन्तर एव अश्रान्तपरिश्रमेण अयं पञ्चाशद् उपनिषदा् अनुवादं संस्कृतपण्डितानां साहाय्येन कारितवान् ।

१७७५ ख्रीष्टाब्दे एक्वेटिलडुपेरनो लैटिनभाषायाम् अनूदितवानुपनिषदः। ओथमरफ्रांकमहाभागः १८०१ ख्रीष्टाब्दे उपनिषद्ग्रन्थानधीत्य तान् संक्षेपेण प्रकाशमानिनाय । तत्प्रकाशितग्रन्थान् इमान् पठित्वा उपनिषदज्ञानं प्रति प्रतीच्यानां पण्डितानामुत्सुकता वृद्धि ययौ । औपनिषत्के साहित्ये जे० डी० लुजुईनामो यत्कार्यं श्रमञ्च चकार तस्य प्रसिद्धिः अस्ति । वेवरमहोदयस्य उद्योगेन तु उपनिषद्ज्ञानस्य प्रचारः समग्रेऽपि पश्चिमीये संसारे जातः इति मन्यते । उपनिषदाम् अनुवादः तेन १८०२ ख्रीष्टाब्दे जर्मनभाषायां कृतः । 'इडिस्केन स्टडियन' इत्येतेन नाम्ना स उपनिषदविषयकं ग्रन्थम् अजग्रन्थत् । मैक्समूलरः उपनिषदः आङ्ग्लभाषायाम् अनुववाद। अन्ये च लडयूसन आर० ई० ह्युम-प्रभृतिविद्वांसः उपषदां विषये कार्यं कृतवन्तः।

ईशोपनिषद्[सम्पादयतु]

माध्यन्दिनशाखीयेयं यजुर्वेदसंहितायाः चत्वारिंशत्तमाध्यायोऽस्ति । 'ईशावास्यमिदं सर्व'मित्यादिपदस्य आधारोपरि अस्या नामकरणमस्ति । ग्रन्थेऽस्मिन् अष्टादशमन्त्रा एव सन्ति । अस्मिन् ज्ञानदृष्ट्या कर्मोपासनायाः रहस्यं वर्णितमस्ति । उपनिषदियं कर्मसंन्यासस्य पक्षपातिनी न भूत्वा यावज्जीवनं निष्कामकर्मभावेन कर्मसम्पादनस्य अनुरागिणी वर्तते । अत्र अद्वैतभावनायाः स्पष्टं प्रतिपादनमस्ति । अत्र ब्रह्मणः स्वरूपवर्णनानन्तरं विद्या-अविद्या-सम्भूति-असम्भूत्यादीनां विवेचनमस्ति।

केनोपनिषद्[सम्पादयतु]

'केनेषितं पतती'त्यादि स्वकीयप्रारम्भिकपदस्य आधारोपरि अस्याः उपनिषद: नाम 'केन' तथा स्वशाखानामोपर्यस्याः नाम तवलकारोपनिषदित्यस्ति । लघुस्वरूपेयं परममार्मिकोपनिषदस्ति । अस्याम् उपनिषदि चत्वारः खण्डा एव सन्ति । प्रथमखण्डे उपास्यब्रह्म-निर्गुणब्रह्मणोर्मध्ये अन्तरं दर्शितमस्ति । द्वितीयखण्डे ब्रह्मणः रहस्यमयस्वरूपस्य वर्णनमस्ति । तृतीय एवं चतुर्थखण्डे उमाहेमवत्या रोचकमाख्यानेन परब्रह्मणः सर्वशक्तिमता तथा देवतानाम् अल्पशक्तिमत्तायाः सुष्ठु निदर्शनमस्ति ।

कठोपनिषद्[सम्पादयतु]

कृष्णयजुर्वेदस्य कठशाखानुयायिनी इयमुपनिषद् स्वगम्भीराद्वैततत्त्वाय प्रख्याताऽस्ति । अस्यां द्वौ अध्यायौ स्तः । प्रत्यध्यायं त्रयो वल्लयः सन्ति । तैत्तिरीयाऽरण्यके नचिकेतोपाख्यानेन इयमारब्धाऽभवत् । यमेन प्रोक्तः अद्वैततत्त्वस्य मार्मिकोपदेशोऽत्र दर्शनीयोऽस्ति । ‘नेह नानाऽस्ति किञ्चन' इत्यस्याः उपनिषदः गम्भीरः शङ्खनादोऽस्ति । नित्येषु नित्यं चेतनेषु चेतनम् एकमेव असौ ब्रह्म सर्वेषां जीवानामात्मनि निवसति, तस्यैव दर्शनं शान्त्या एकमात्रं साधनमस्ति।[३] योग एव तस्य साक्षात्कारस्य प्रधानसाधनम् अस्ति । मौञ्जेः इषीकावत् अस्य शरीरस्य आभ्यन्तरे विद्यमानस्य आत्मन उपलब्धिः योगद्वारेणेव कर्त्तव्या अयमेव कठोपनिषदः व्यावहारिकोपदेशोऽस्ति।

'न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्।

अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे।।'

प्रश्नोपनिषद्[सम्पादयतु]

अस्याम् उपनिषदि ब्रह्मविद्यामन्वेष्टुं षड्ऋषयः महर्षिपिप्पलादस्य पार्श्वे गताः । तत्र ते तम् आध्यात्मिकप्रश्नानां समुचितमुत्तरं पृच्छन्ति । प्रश्नोत्तरेषु निबद्धोऽयं ग्रन्थः, तेनास्य नाम प्रश्नोपनिषदिति। अाध्यात्मिकजगतः समस्याः एव एतेषां प्रश्नानां विषयोऽस्ति । स्वकीयसमीक्षणेन पिप्पलादः अत्र विशिष्टतत्त्वज्ञानिस्वरूपेण समायाति । तत्र मीमांस्यप्रश्नाः सन्ति—

(१) प्रजायाः उत्पत्तिः कस्मात्स्थानाद्भवति?

(२) प्रजानां धारणं कि संख्यकाः देवताः कुर्वन्ति ? कतमः प्रकाशयन्त्येतान् ? एतेषु कतमः श्रेष्ठतमोऽस्ति ?

(३) प्राणानामुत्पत्तिः, शरीरेषु तेषामागमनमुपक्रमणञ्च इत्यादिविषयकानां प्रश्नाः

(४) स्वप्न-जागरण-स्वप्नदर्शनादिविषयकादीनां प्रश्नाः

(५) ओङ्कारपुरुषस्य उपासना तथा तेन लोकानां विजयः

(६) षोडशकलासम्पन्नस्य पुरुषस्य विवेचना। एतेषां प्रश्नानामुत्तरेषु हि आध्यात्मस्य अखिलसमस्यानां विवेचनम् अतिगम्भीरतया प्रतिपादितमस्ति। अक्षरब्रह्म एवास्य जगतः प्रदर्शिताऽस्ति॥

मुण्डकोपनिषद्[सम्पादयतु]

अथर्ववेदीयोपनिषदियं मुण्डक-निमित्ताय निर्मिताऽस्ति । मुण्डकपदस्य अर्थो भवति मुण्डन-सम्पन्नो जन इति । अस्याम् उपनिषदि स्वज्येष्ठसुतायाथर्वणे ब्रह्मणा प्रदत्तं ब्रह्मविद्यायाः उपदेशः अस्ति । यज्ञीयानुष्ठानम् अदृढरूपप्लवोऽस्ति, येन संसार-सन्तरणं कदापि भवितुं न शक्यते । इष्टापूर्तम्-यागाद्यनुष्ठानमेव सर्वश्रेष्ठं मन्तारो जनाः स्वर्गलोकं सम्प्राप्य अपि अस्मिन् भूतले अन्ततः समागच्छन्त्येवेति।[४] अनेन प्रकारेण अत्र कर्मकाण्डस्य हीनता तथा दोषाणामनन्तरं ब्रह्मज्ञानस्य श्रेष्ठता प्रतिपादितास्ति । द्वैतवादस्य प्रधानस्तम्भरूपो मन्त्रः — ‘द्वा सुपर्णा सयुजा सखाया'[५] अस्यामुपनिषदि समायाति । वेदान्तशब्दस्य अपि सर्वप्रथमप्रयोगः अत्रैव उपलब्धो भवति।[६] ब्रह्मज्ञानिनो ब्रह्मणि विलीनस्य तुलना नाम-रूपं परित्यज्य नदीनां समुद्रे विलयनेन सह कृताऽस्ति । अस्यामुपनिषदि सांख्य-वेदान्तयोः तथ्यानामपि यत्किञ्चित्प्रभावः परिलक्ष्यते ।

माण्डूक्योपनिषद्[सम्पादयतु]

उपनिषद् इयम् आकारे स्वल्पकायिकाऽस्ति, सिद्धान्ते विशालाऽस्ति । अस्यां केवलं द्वादशखण्डानि किंवा वाक्यानि च सन्ति, यस्मिन् चतुष्पादात्मनः अतीव मार्मिकं रहस्यमयञ्च विवेचनमस्ति । ओंकारस्य मार्मिकव्याख्याकरणस्य श्रेयः इमाम् एव उपनिषदमस्ति । अोंकारे तिस्रो मात्रा भवन्ति, तथा चतुर्थोऽंशः ‘अमात्र' एव भवति । चैतन्यस्य तदनुरूपेणैव चतस्रः अवस्था भवन्ति - जागर्या, स्वप्न:, सुषुप्तिस्तथा चैतन्यस्य अव्यवहार्यतुरीया दशा । आसामाधिपत्यधारणकर्त्ता आत्माऽपि क्रमशः चतुर्धा भवति — वैश्वानरः, तैजसः, प्राज्ञस्तथा प्रपञ्चोपशमरूपी शिवः, येषु अन्तिम एव चैतन्यात्मनो विशुद्धरूपमस्ति । अस्योपरि गौडपादाचार्यः माण्डूक्यकारिकाख्यां व्याख्यां लिलेख । कारिकेयं मायावादिनः अद्वैतवेदान्तस्य पूर्णप्रतिष्ठा मन्यते।

तैत्तिरीयोपनिषद्[सम्पादयतु]

उपनिषदियं तैत्तिरीयारण्यकस्य सप्तम-अष्टम-नवमखण्डानाम् एव सम्मिलितांशोऽस्ति । अस्य अरण्यकस्य सप्तमप्रपाठकस्य नामाऽस्ति ‘संहिती उपनिषदि’ति या अत्र ‘शिक्षावल्ली’ नाम्ना ख्याताऽस्ति । आरण्यकस्य वारुणी-उपनिषद् भृगुवल्ली च नाम्ना प्रख्याताऽस्ति । अतो ब्रह्मविद्याया दृष्ट्या वारुणी-उपनिषद एव प्राधान्यमस्ति, किञ्च चित्तशुद्ध्यर्थं तथा गुरुकृपाप्राप्त्यर्थं शिक्षावल्या अपि गौणरूपेणोपयोगः अस्ति । अस्मिन् कतिधाः उपासनाः गुरुशिष्यसम्बन्धिनः शिष्टाचारस्य निरूपणमस्ति । एकादशतमे अनुवाके स्नातकेभ्य उपयोगिनः शिक्षाया एकत्र निरूपणमस्ति । अनेन निरूपणेन शिक्षाया उच्चादर्शस्य पूर्णपरिचयः प्राप्तो भवति । ब्रह्मानन्दवल्ल्यां ब्रह्मविद्यायाः निरूपणमस्ति । तदनन्तरं भृगुवल्ल्यां ब्रह्मप्राप्तेः मुख्यसाधनस्य वर्णनमस्ति । वर्णनमिदं भृगु-वरुणयोः संवादरूपेण 'पञ्चक्रोश'-नाम्ना विख्यातमस्ति ।

ऐतरेयोपनिषद्[सम्पादयतु]

ऐतरेयारण्यकस्य द्वितीयारण्यकान्तर्गततया आचतुर्थात् षष्ठाध्यायपर्यन्तस्य नाम ऐतरेयोपनिषदस्ति । अस्यामुपनिषदि त्रयोऽध्यायाः सन्ति, येषु द्वितीय-तृतीयाध्यायौ तु एकैकस्य खण्डस्यैवस्तः । प्रथमाध्याये द्वौ खण्डौ स्तः, ययोः सृष्टितत्त्वस्य मार्मिकविवेचनमस्ति । मानव-शरीरमेव षुरुषाय उपयुक्तायतनं प्रमाणीकृतमत्र, यस्य विभिन्नावयवेषु देवताः प्रवेशमाप्नुवन्, तदनन्तरं परमात्मा तस्य मूर्धसीमां विदार्य प्रवेशं करोति तथा जीवभावं सम्प्राप्य भूतैः सह तादात्म्यं स्थापयति । तदनन्तरं गुरुकृपया बोधानन्तरं सर्वव्यापकस्य तस्य शुद्धस्वरूपस्य साक्षात्कारो भवति । अन्तिमाऽध्याये प्रज्ञानस्य विशिष्टा महिमा प्रदर्शिताऽस्ति ।

छान्दोग्योपनिषद्[सम्पादयतु]

सामवेदीयोपनिषदियं प्रौढा, प्रामाणिका, प्रमेयबहुला चाऽस्ति। अस्यामष्टाध्यायाः किंवा प्रपाठकाः सन्ति । अस्य ग्रन्थस्य अन्तिमाः त्रयोऽध्याया अाध्यात्मिकज्ञानदृष्ट्या महत्त्वपूर्णाः मन्यन्ते। प्रारम्भिकाऽध्यायेषु अनेकविधानाम् ओङ्कारस्य साम्नः च गूढस्वरूपस्य विवेचनमस्ति । द्वितीयाध्यायस्य अन्ते ‘शौव' उद्गीथोऽस्ति, यः केवलं भौतिकस्वार्थपूर्त्यर्थं यागानुष्ठानस्य सामगायनस्य कतृृणामुपरि मार्मिकव्यङ्गयं करोति। तृतीयाध्याये सूर्यस्य देवमधुनः रूपे उपासनाऽस्ति । गायत्रीवर्णनम्, घोराङ्गिरसद्वारेण देवकीसुतं श्रीकृष्णमाध्यात्मिकशिक्षाप्रदानम्,[७] अन्ते सूर्यप्रादुर्भावस्य[८] सुष्ठु विवेचनमस्ति । अस्य अध्यायस्य प्रसिद्धोऽयं सिद्धान्तः ‘सर्वं खल्विदं ब्रह्म'[९] अद्वैतवादस्य विजयघोषोऽस्ति । चतुर्थाध्याये रैक्वस्य दार्शनिकतत्त्व-विवेचनं, सत्यकाम-जाबालस्तथा तस्य मातुः कथा,[१०] सत्यकामजाबालेनोपकोशलं ब्रह्मज्ञानस्य प्राप्तिः[११] विवेचिता अस्ति ।

पञ्चमप्रपाठके प्रवाहणजैबालेः दार्शनिकसिद्धान्तस्य केकयाश्वपतेः सृष्टिविषयकतथ्यानां विशदं वर्णनमस्ति । अस्मिन् वर्णने षड्दार्शनिकानां सिद्धान्तस्य समन्वयः कृतः अस्ति।[१२] षष्ठप्रपाठके महर्षिअारुणेः ऐक्यप्रतिपादकसिद्धान्तस्य व्याख्याऽस्ति । ‘तत्त्वमसि' अारुणेरध्यात्मशिक्षायाः पीठस्थानीयो मन्त्रोऽस्ति । सप्तमप्रपाठके सनत्कुमार-नारदयोः विश्रुतवृत्तान्तमस्ति । अस्य उपदेशस्य पर्यवसानमस्ति - 'यो वै भूमा तदमृतम्, अथ यदल्पं तन्मर्त्यम्' । अन्तिमप्रपाठके इन्द्र-विरोचनयोः कथाऽस्ति । अात्मप्राप्तेः व्यावहारिकोपायस्य सङ्केतः अस्ति ।

बृहदारण्यकोपनिषद्[सम्पादयतु]

न केवलमियं परिमाणे विशालाऽस्ति, प्रत्युत तत्त्वज्ञानस्य प्रतिपादनेऽपि गम्भीरा प्रामणिका चास्ति । अस्यां षडध्यायाः सन्ति । अस्याः उपनिषदः सर्वस्वं दार्शनिकः याज्ञवल्क्यः अस्ति, यस्य उदात्ताध्यात्मिकशिक्षातः अोतप्रोता इयमस्ति । प्रथमाध्याये प्राणानां श्रेष्ठतायाः तथा सृष्टिविषयकसिद्धान्तानाञ्च वर्णनमस्ति । द्वितीयाध्यायस्य आरम्भे अभिमानिनः गार्ग्यस्य तथा शान्तस्वभावस्य काशीराज्ञः अजातशत्रोः रोचकसंवादोऽस्ति । अस्मिन्नेव अध्याये याज्ञवल्क्येन सह साक्षात्कारो भवति, यः स्वपत्न्यौ मैत्रेयी-कात्यायन्योर्मध्ये स्वकीयं धनं विभाज्य वनं गतः । अत्रैव मैत्रेयीम्प्रति तस्य दिव्यदार्शनिकसन्देशः श्रवणगोचरो भवति।

तृतीये चतुर्थे चाध्याये जनक-याज्ञवल्क्ययोराख्यानमस्ति। पञ्चमाध्याये नानाविधानां दार्शनिकविषयाणां विवेचनमस्ति । षष्ठाध्याये प्रवहणजैबलेस्तथा श्वेतकेतु-अारुणेयस्य दार्शनिकसंवादोऽस्ति । अस्मिन् जैबलिः पञ्चाग्निविद्यायाः विशदविवेचनं कृतवान् । उपनिषद्युगस्य याज्ञवल्क्यः सर्वमान्यतत्त्वज्ञः आसीत्, यस्य सम्मुखे तत्त्वविद्जनकोऽपि नतमस्तको भूत्वाऽभ्यासेन ज्ञानार्जनात्पराङ्मुखो नाऽभवत् । न केवलमसौ सिद्धान्तवादी आसीदपितु व्यवहारे तत्त्वज्ञानस्य अप्युपदेशकः आसीत् । तस्य अयम् उपदेशो बृहदारण्यकस्य आध्यात्मिकशिक्षायाः महत्त्वपूर्णमङ्गमस्ति -

‘अात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि'[१३][१४]

श्वेताश्वतरोपनिषद्[सम्पादयतु]

उपनिषदियं शैवधर्मस्य गौरवप्रतिपादनाय एव निर्मितेति मन्यते। द्वितीयाध्याये योगस्य विशदं प्राचीनं च विवेचनमस्ति । तृतीयाध्यायादारभ्य पञ्चमाध्यायपर्यन्तं शैव-साङ्ख्यसिद्धान्तयोः प्रतिपादनमस्ति । अन्तिमाध्याये गुरुभक्तितत्त्वं वर्णितमस्ति । गुरुभक्तिः देवभक्त्याः रूपमेवास्ति - ‘देवे नराभक्तिर्यथा देवे तथा गुरौ'[१५]। भक्तितत्त्वस्य प्रथम-प्रतिपादनम् अस्याः उपनिषदः प्रमुखविशेषताऽस्ति । त्रिगुणानां साम्यावस्थारूपायाः प्रकृत्याः विवेचनमत्राऽस्ति (अजामेकां लोहितकृष्णशुक्लाम्)[१६]। क्षर-प्रधान-अक्षरादितत्त्वानां समावेशः गीतायाम् अत्रत एवाऽस्ति।[१७] शिवः परमात्मतत्त्वरूपेण अनेकशः वर्णितोऽस्ति (अमृताक्षरं हरः)।[१८] अनेन प्रकारेण साङ्ख्यवेदान्ततत्त्वयोः उदयकालिकसिद्धान्तस्य परिचयार्थम् इयमुपनिषद् महत्त्वपूर्णाऽस्ति ।

कौषीतक्युपनिषद्[सम्पादयतु]

शाङ्ख्यायनारण्यकस्य चतुर्षु अध्यायेषु आतृतीयाध्यायात्षष्ठाध्यायपर्यन्तस्य भागः कौषीतकि-उपनिषद् नाम्ना ख्यातोऽस्ति । अत्र प्रजानां प्राणानाञ्च महत्ता वर्णिताऽस्ति । प्रज्ञया जीवः नानालोकेषु भ्रमणं कृत्वा ऊर्ध्वतमब्रह्मलोकं गच्छति (प्र० अ०) । अनन्तराध्यायेषु कौषीतकि-ऋषिः प्राणस्य श्रेष्ठतां निरूपयति । इन्द्रोपदेशस्य मुख्यरूपमस्ति - प्राणस्य प्रज्ञायाश्च महत्ता । प्राणेन अयोः, प्रज्ञया सत्यसङ्कल्पस्य च प्राप्तिर्भवति । इन्द्रेण प्रदत्तः तदुपदेशोऽस्ति, यज्ज्ञात्वा आत्मज्ञानस्य उपलब्धिर्भवति -

एता भूतमात्राः प्रज्ञामात्रास्वर्पिताः । प्रज्ञामात्राः प्राणेऽर्पिताः। स एव प्राण एव प्रज्ञात्मानन्तोऽजरोऽमृतो न साधुना कर्मणा भूयान् भवति नो एवासाधुना कनीयान्॥[१९]

संहितोपनिषद्[सम्पादयतु]

इयमुक्तोपनिषदा सम्बद्धाऽस्ति । यज्ञस्य आध्यात्मिकस्वरूपस्य वर्णनप्रसङ्गे अत्र अनेकानि आध्यात्मिकसमीकरणानि प्रदत्तानि सन्ति । तत्तदृषीणां नामानि अपि तत्र निर्दिष्टानि सन्ति। एतेषां तथ्यानां परिचयार्थमस्याः उपनिषदः महत्ताऽस्ति ।

पुरुषवर्णनम्[सम्पादयतु]

अस्याम् चत्वारः पुरुषाः निर्दिष्टाः सन्ति ।[२०] शरीरपुरुषः (वैहिकी अात्मा यस्य अशरीरप्रज्ञात्मा एव रसोऽस्ति ), छन्दः पुरुषः (अक्षरसमाम्नायरूपं यस्याकार एव रसोऽस्ति ), वेदपुरुषः (येन वेदस्य ज्ञानं भवति, अस्य ब्रह्म एव रसोऽस्ति ), महापुरुषः (संवत्सररूपं यस्यादित्य एव रसोऽस्ति) । एतेषु चतुर्षु एकत्वं स्थापितमस्ति । यो हि अशरीरप्रज्ञात्माऽस्ति, सः एव आदित्योऽस्ति । उभयोः एक एव मन्तव्यम् । अस्य तथ्यस्य सम्पुष्टौ — ‘चित्रं देवानामुदगादनीकं'[२१] मन्त्रोऽयं प्रमाणरूपेण उद्धृतवान् । अत्रैव दैवी-मानुषीवाण्योः अपि परस्परं साम्यं दर्शितम्।[२२] अस्याः उपनिषदः अन्ते हवनस्य मुख्यतात्पर्यं प्रदर्शितम् । अस्यां हवनवाचिनः प्राणस्य हवनमस्ति तथा प्राणेः वाचः हवनमस्ति (वाचि हि प्राणं जुहुमः, प्राणो वाचम्)[२३]। अस्यामुपनिषदि नानाप्रकाराणां संहितानां कल्पनाऽस्ति । अस्याः उपनिषदः चतुर्थाध्याये गार्ग्यबालाकिमुनेः अावासस्य वर्णनं निर्दिष्टमस्ति । अस्मिन् प्रसङ्गे उशीनर-मत्स्य-कुरु-पाञ्चाल-काशी-विदेहादीनां नामानि प्रदत्तानि सन्ति। अनेन कौषीतकि-उपनिषदः भौगोलिक-क्षेत्रमुत्तरीयभारत एव मन्यते।

मैत्रायण्युपनिषद्[सम्पादयतु]

स्वविशिष्टसिद्धान्ताय एव इयमुपनिषत् सदा प्रख्याता। अस्यामुपनिषदि सप्तप्रपाठकाः सन्ति । सम्पूर्णोपनिषद् गद्यात्मिकैवास्ति किञ्च स्थाने स्थाने पद्यमपि प्रदत्तमस्ति । अन्यासाम् उपनिषदाम् अपि उद्धरणानि अत्र प्राप्यन्ते। यथा - विद्वान् पुण्यपापे विधूय;[२४] शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति;[२५] यदा पञ्चावतिष्ठन्ते;[२६] सर्वं मम एव[२७] इत्यादि। ईश-कठयोः द्वे द्वे उद्धरणे प्राप्येते। त्रयोदशोपनिषत्सु इयमपेक्षाकृतम् अर्वाचीना मन्यते।

महानारायणोपनिषद्[सम्पादयतु]

सायणभाष्येण सह प्रकाशितः तैत्तिरीयारण्यकस्य दशमप्रपाठकस्तथा तत्पूर्ववर्तिनो भट्टभास्करस्य भाष्येण सह प्रकाशितस्तद्ग्रन्थस्य षष्ठप्रपाठकः, महानारायणोपनिषद्, याज्ञिकोपनिषद् किंवा केवलं नारायणीयोपनिषदिति नाम्ना अभिहितोऽस्ति । पाठस्य अनेकरूपतां दृष्ट्वा तथा वेदान्त-संन्यास-दुर्गा-नारायण-महादेव-दन्ति-गरुडादिशब्दानामत्र सङ्कलनं दृष्ट्वा च उपनिषद् इयम् प्राचीना इति मन्यते। परन्तु विण्टरनित्समहोदयः तु इयमुपनिषद् मैत्र्युपनिषदः प्राचीनतरं मन्यते । बौधायनसूत्रेष्वस्या विवरणं प्राप्यते, तेन इमाम् अत्यर्वाचीनामपि कथयितुं न शक्यते । अस्यां नारायणस्य उल्लेखः परमात्मतत्त्वरूपेण बहुशो लभते। यथा - ६४ अनु० ११ प्रपा० अनु० १-५ मन्त्रैः सह एव स्नानाचमनहोमादिभ्यः उपयुक्तमन्त्राणां तत्र सत्ता, एवं च अन्ते तत्त्वज्ञपुरुषजीवनस्य यज्ञरूपेण चित्रणमस्ति । एतेषामेव तथ्यानाम् आधारोपरि अस्याः नाम नारायणीयोपनिषत् किंवा याज्ञकी-उपनिषदिति पदेन स्मर्यते । अस्याम् आत्मतत्त्वस्य निरूपणम् अस्ति । एकैव परमसत्ताऽस्ति, सैव सर्वरूपभागिति —

‘यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्॥

वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णपुरुषेण सर्वम् ॥'[२८]

एवंविध-निरूपणेन सह तस्य परमात्मनः अभिव्यक्तिः अनेकशो लभते। मेघार्थं प्रार्थना, पापनिवृत्त्यर्थं त्रिसुपर्णमन्त्राः, पुण्यकर्मणः प्रशंसा च लभन्ते —

‘यथा वृक्षस्य सम्पुष्पितस्य दूराद् गन्धो वात्येवं पुण्यस्य कर्मणो दूराद् गन्धो वाति।'[२९]

सत्यादीनाम् अपि वर्णनं कृतम् अस्ति। यथा -

'सत्येन वायुरावाति सत्येनादित्यो रोचते दिवि।

सत्यं वाचः प्रतिष्ठा सत्ये सर्वं प्रतिष्ठितम् ॥

तस्मात्सत्यं परमं वदन्ति ॥'

वाष्कलमन्त्रोपनिषद्[सम्पादयतु]

उपनिषदियं तासु चतसृषु नवप्राप्तोपनिषत्सु अन्यतमाऽस्ति, या केवलं पारसीलैटिन-जर्मनाद्यनुवादानां माध्यमेनैव अनुमीयन्ते, किञ्च सम्प्रत्यस्या एकः मातृताग्रन्थः आडयार-पुस्तकालये प्राप्यते। अस्याः प्रकाशनं वारत्रयमभवत्। (1) मद्रासनगरीतः, (२) डॉ० बेल्वेलकरेण, (३) अष्टादशोपनिषदामन्तर्गते वैदिकसंशोधनमण्डले पूनानगरीतः ।

ऋग्वेदस्य तद्वाष्कलशाखान्तर्गता इयमिति यत्सम्प्रति अप्राप्याऽस्ति । अस्यां पञ्चविंशतिः मन्त्रा एव सन्ति । अस्याः प्रतिपाद्यविषय अात्मतत्त्वमस्ति । यथा —

‘अहं वेदानामुत यज्ञानामहं छन्दसामविदं रयीणाम्॥

अहं पचामि सरसः परस्य यदि देतीव सरिरस्य मध्ये॥ १४ ॥

या अहं चरामि भुवनस्य मध्ये पुनरुच्चावचं व्यश्नुवानः॥

यो मां वेद निहितं गुहाचित् स इदित्त्था बोभवीदाशयध्यै॥ १८ ॥

अहमस्मि जरिता सर्वतोमुखः पर्यारणः परमेष्ठी नृचक्षाः॥

अहं विष्वङ्ङहमस्मि प्रसात्वानहमेकोऽस्मि यदिदं नु किञ्च' ॥२५॥

छागलेयोपनिषद्[सम्पादयतु]

अस्याः मातृकाग्रन्थः आडयार-पुस्तकालये लभते। अस्याः प्रकाशनमपि अभवत्। अतिलघ्वीयमुपनिषदस्ति। अस्याः अन्ते सकृदेव 'छागलेयः' इति नाम अायाति । सरस्वतीनद्यास्तटे ऋषीणां सत्रस्य उल्लेखो लभते। तैः कवष-ऐलूषस्य निन्दा ‘दास्याः पुत्र’ इति कथयित्वा कृता । ‘कवष-ऐलूषः' पार्श्ववर्ति आत्रेयस्य शवं प्रति सङ्केतयित्वा अपृच्छत् – यो हि आत्रेयः शुनकानां सत्रे 'अच्छावाक्'-रूपेण महायज्ञीयकार्यमकरोत्, तस्य तत्सर्वज्ञानं किमभवत् ? ऋषिः प्रत्युक्तरयितुं नाशक्नोत् । तेन प्रार्थितः कवष-ऐलूषः तमृषिं कुरुक्षेत्रे बालिशनामकस्य ऋषेः पार्श्वे तदर्थं प्रेषितः । तत्र तेन वर्षमधीतम् । ततः तैः अप्यस्य दृष्टान्तेन स उपदिष्टः -

'यथैतत्कूवरस्तक्ष्णायोज्झितो नेङ्गते मनाक्।

परित्यक्तोऽयमात्मना तद्वदेहो विरोचते ॥'

अार्षेयोपनिषद्[सम्पादयतु]

इयमपि उपर्युक्ते द्वे उपनिषदाविव मातृकाग्रन्थेन एव ज्ञाता प्रकाशिता चाऽस्ति । अस्यामपि मात्रानुच्छेद एवास्ति । ऋषीणां ब्रह्मविचारः पारस्परिकविमर्शनं वर्णितमस्ति। अत्र विश्वामित्र-जमदग्नि-भरद्वाज-गौतम-वशिष्ठादिप्रमुखऋषयः सन्ति । एतेषामृषीणां विचारविमर्शस्य विवरणमत्रास्ति । अनेनैव कारणेनास्य नाम्नः अार्षेयम् इति।

शौनकोपनिषद्[सम्पादयतु]

उपर्युतानां तिसृणामुपनिषदां कोटौ शौनकोपनिषदपि आडयारपुस्तकालयस्थेन मातृकाग्रन्थेन ज्ञाता प्रकाशिता चास्ति। एतावता एतस्याः उपनिषदः किमपि भाष्यं विवरणं वा नैव मुद्रितम् । आडयारग्रन्थालये उपलभ्यते केनाऽपि ऋषिणा निर्मितः परं प्रसन्नगम्भीरः हस्तलिखितः मातृकाग्रन्थः। तथैव ए० वी० कीथ-नामकेन विपश्चिता कृतं तस्य आङ्ग्लभाषान्तरमपि न अविदितं विदुषा ह्यन्ते च तस्य मातृकाग्रन्थस्य उपदेष्टृरूपेण शौनकस्योल्लेखो लभते, तेन अस्याः नाम शौनकोपनिषदित्यस्ति । असुराणामुपरि देवानां विजयः एवमिन्द्रस्य महत्त्वपूर्णवर्णनेन सह छन्दसामप्युल्लेखः कुर्वन् एकाक्षरोङ्कारस्य उपासनाकरणस्य उपदेशः प्रदत्तोऽस्ति ।

उपनिषदां भाष्यप्रणेता सशिष्यः शङ्कराचार्यः

उपनिषत् सूची १०८[सम्पादयतु]

  1. ईश = शुक्लयजुर्वेदः, मुख्य उपनिषत्
  2. केनोपनिषत् = सामवेदः, मुख्य उपनिषत्
  3. कठोपनिषत् = कृष्णयजुर्वेदः, मुख्य उपनिषत्
  4. प्रश्‍नोपनिषत् = अथर्ववेदः, मुख्य उपनिषत्
  5. मुण्डकोपनिषत् = अथर्ववेदः, मुख्य उपनिषत्
  6. माण्डुक्योपनिषत् = अथर्ववेदः, मुख्य उपनिषत्
  7. तैत्तिरीयोपनिषत् = कृष्णयजुर्वेदः, मुख्य उपनिषत्
  8. ऐतरेयोपनिषत् = ऋग्वेदः, मुख्य उपनिषत्
  9. छान्दोग्योपनिषत् = सामवेदः, मुख्य उपनिषत्
  10. बृहदारण्यकोपनिषत् = शुक्लयजुर्वेदः, मुख्य उपनिषत्
  11. ब्रह्म-उपनिषत् = कृष्णयजुर्वेदः, संन्यास उपनिषत्
  12. कैवल्य-उपनिषत् = कृष्णयजुर्वेदः, शैव उपनिषत्
  13. जाबाल उपनिषत् (यजुर्वेद) = शुक्लयजुर्वेदः, संन्यास उपनिषत्
  14. श्वेताश्वतर-उपनिषत् = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  15. हंस उपनिषत् = शुक्लयजुर्वेदः, योग उपनिषत्
  16. आरुणेय-उपनिषत् = सामवेदः, संन्यास उपनिषत्
  17. गर्भ-उपनिषत् = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  18. नारायण-उपनिषत् = कृष्णयजुर्वेदः, वैष्णव उपनिषत्
  19. परमहंस-उपनिषत् = शुक्लयजुर्वेदः, संन्यास उपनिषत्
  20. अमृत-बिन्दूपनिषत् = कृष्णयजुर्वेदः, योग उपनिषत्
  21. अमृत-नादोपनिषत् = कृष्णयजुर्वेदः, योग उपनिषत्
  22. अथर्व-शिरोपनिषत् = अथर्ववेदः, शैव उपनिषत्
  23. अथर्व-शिखोपनिषत् =अथर्ववेदः, शैव उपनिषत्
  24. मैत्रायणि-पनिषत् = सामवेदः, सामान्य उपनिषत्
  25. कौषीतकि-उपनिषत् = ऋग्वेदः, सामान्य उपनिषत्
  26. बृहज्जाबाल-उपनिषत् = अथर्ववेदः, शैव उपनिषत्
  27. नृसिंहतापनी-उपनिषत् = अथर्ववेदः, वैष्णव उपनिषत्
  28. कालाग्निरुद्र-उपनिषत् = कृष्णयजुर्वेदः, शैव उपनिषत्
  29. मैत्रेयि-उपनिषत् = सामवेदः, संन्यास उपनिषत्
  30. सुबाल-उपनिषत् = शुक्लयजुर्वेदः, सामान्य उपनिषत्
  31. क्षुरिक-उपनिषत् = कृष्णयजुर्वेदः, योग उपनिषत्
  32. मान्त्रिक-उपनिषत् = शुक्लयजुर्वेदः, सामान्य उपनिषत्
  33. सर्व-सारोपनिषत् = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  34. निरालम्ब-उपनिषत् = शुक्लयजुर्वेदः, सामान्य उपनिषत्
  35. शुक-रहस्य उपनिषत् = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  36. वज्रसूचि उपनिषत् = सामवेदः, सामान्य उपनिषत्
  37. तेजो-बिन्दु उपनिषत् = कृष्णयजुर्वेदः, संन्यास उपनिषत्
  38. नाद-बिन्दु उपनिषत् = ऋग्वेदः, योग उपनिषत्
  39. ध्यानबिन्दु उ-पनिषत् = कृष्णयजुर्वेदः, योग उपनिषत्
  40. ब्रह्मविद्या-उपनिषत् = कृष्णयजुर्वेदः, योग उपनिषत्
  41. योगतत्त्व-उपनिषत् = कृष्णयजुर्वेदः, योग उपनिषत्
  42. आत्मबोध-उपनिषत् = ऋग्वेदः, सामान्य उपनिषत्
  43. परिव्रात्-उपनिषत् (नारदपरिव्राजक) = अथर्ववेदः, संन्यास उपनिषत्
  44. त्रिषिखि-उपनिषत् = शुक्लयजुर्वेदः, योग उपनिषत्
  45. सीता-उपनिषत् = अथर्ववेदः, शाक्त उपनिषत्
  46. योगचूडामणि उपनिषत् = सामवेदः, योग उपनिषत्
  47. निर्वाण-उपनिषत् = ऋग्वेदः, संन्यास उपनिषत्
  48. मण्डलब्राह्मण-उपनिषत् = शुक्लयजुर्वेदः, योग उपनिषत्
  49. दक्षिणामूर्ति-उपनिषत् = कृष्णयजुर्वेदः, शैव उपनिषत्
  50. शरभ-उपनिषत् = अथर्ववेदः, शैव उपनिषत्
  51. स्कन्द-उपनिषत् (त्रिपाड्विभूटि) = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  52. महानारायण-उपनिषत् = अथर्ववेदः, वैष्णव उपनिषत्
  53. अद्वयतारक-उपनिषत् = शुक्लयजुर्वेदः, संन्यास उपनिषत्
  54. रामरहस्य-उपनिषत् = अथर्ववेदः, वैष्णव उपनिषत्
  55. रामतापणि-उपनिषत् = अथर्ववेदः, वैष्णव उपनिषत्
  56. वासुदेव-उपनिषत् = सामवेदः, वैष्णव उपनिषत्
  57. मुद्गल-उपनिषत् = ऋग्वेदः, सामान्य उपनिषत्
  58. शाण्डिल्य-उपनिषत् = अथर्ववेदः, योग उपनिषत्
  59. पैंगल-उपनिषत् = शुक्लयजुर्वेदः, सामान्य उपनिषत्
  60. भिक्षुक-उपनिषत् = शुक्लयजुर्वेदः, संन्यास उपनिषत्
  61. महत्-उपनिषत् = सामवेदः, सामान्य उपनिषत्
  62. शारीरक-उपनिषत् = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  63. योगशिखा-उपनिषत् = कृष्णयजुर्वेदः, योग उपनिषत्
  64. तुरीयातीत-उपनिषत् = शुक्लयजुर्वेदः, संन्यास उपनिषत्
  65. संन्यास-उपनिषत् = सामवेदः, संन्यास उपनिषत्
  66. परमहंस-परिव्राजक उपनिषत् = अथर्ववेदः, संन्यास उपनिषत्
  67. अक्षमालिक-उपनिषत् = ऋग्वेदः, शैव उपनिषत्
  68. अव्यक्त-उपनिषत् = सामवेदः, वैष्णव उपनिषत्
  69. एकाक्षर-उपनिषत् = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  70. अन्नपूर्ण-उपनिषत् = अथर्ववेदः, शाक्त उपनिषत्
  71. सूर्य-उपनिषत् = अथर्ववेदः, सामान्य उपनिषत्
  72. अक्षि-उपनिषत् = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  73. अध्यात्मा-उपनिषत् = शुक्लयजुर्वेदः, सामान्य उपनिषत्
  74. कुण्डिक-उपनिषत् = सामवेदः, संन्यास उपनिषत्
  75. सावित्री-उपनिषत् = सामवेदः, सामान्य उपनिषत्
  76. आत्मा-उपनिषत् = अथर्ववेदः, सामान्य उपनिषत्
  77. पाशुपत-उपनिषत् = अथर्ववेदः, योग उपनिषत्
  78. परब्रह्म-उपनिषत् = अथर्ववेदः, संन्यास उपनिषत्
  79. अवधूत-उपनिषत् = कृष्णयजुर्वेदः, संन्यास उपनिषत्
  80. त्रिपुरातपनि-उपनिषत् = अथर्ववेदः, शाक्त उपनिषत्
  81. देवि-उपनिषत् = अथर्ववेदः, शाक्त उपनिषत्
  82. त्रिपुर-उपनिषत् = ऋग्वेदः, शाक्त उपनिषत्
  83. कठरुद्र-उपनिषत् = कृष्णयजुर्वेदः, संन्यास उपनिषत्
  84. भावन-उपनिषत् = अथर्ववेदः, शाक्त उपनिषत्
  85. रुद्र-हृदय-उपनिषत् = कृष्णयजुर्वेदः, शैव उपनिषत्
  86. योग-कुण्डलिनि-उपनिषत् = कृष्णयजुर्वेदः, योग उपनिषत्
  87. भस्म-उपनिषत् = अथर्ववेदः, शैव उपनिषत्
  88. रुद्राक्ष-उपनिषत् = सामवेदः, शैव उपनिषत्
  89. गणपति-उपनिषत् = अथर्ववेदः, शैव उपनिषत्
  90. दर्शन-उपनिषत् = सामवेदः, योग उपनिषत्
  91. तारसार-उपनिषत् = शुक्लयजुर्वेदः, वैष्णव उपनिषत्
  92. महावाक्य-उपनिषत् = अथर्ववेदः, योग उपनिषत्
  93. पञ्च-ब्रह्म -उपनिषत् = कृष्णयजुर्वेदः, शैव उपनिषत्
  94. प्राणाग्नि-होत्र-उपनिषत् = कृष्णयजुर्वेदः, सामान्य उपनिषत्
  95. गोपाल-तपणि उपनिषत् = अथर्ववेदः, वैष्णव उपनिषत्
  96. कृष्ण-उपनिषत् = अथर्ववेदः, वैष्णव उपनिषत्
  97. याज्ञवल्क्य-उपनिषत् = शुक्लयजुर्वेदः, संन्यास उपनिषत्
  98. वराह-उपनिषत् = कृष्णयजुर्वेदः, संन्यास उपनिषत्
  99. शात्यायनि-उपनिषत् = शुक्लयजुर्वेदः, संन्यास उपनिषत्
  100. हयग्रीव-उपनिषत् (१००) = अथर्ववेदः, वैष्णव उपनिषत्
  101. दत्तात्रेय-उपनिषत् = अथर्ववेदः, वैष्णव उपनिषत्
  102. गारुड-उपनिषत् = अथर्ववेदः, वैष्णव उपनिषत्
  103. कलि-सण्टारण उपनिषत् = कृष्णयजुर्वेदः, वैष्णव उपनिषत्
  104. जाबाल उपनिषत् (सामवेद) = सामवेदः, शैव उपनिषत्
  105. सौभाग्य-उपनिषत् = ऋग्वेदः, शाक्त उपनिषत्
  106. सरस्वती-रहस्य उपनिषत् = कृष्णयजुर्वेदः, शाक्त उपनिषत्
  107. बह्वृच-उपनिषत् = ऋग्वेदः, शाक्त उपनिषत्
  108. मुक्तिक-उपनिषत् (१०८) = शुक्लयजुर्वेदः, सामान्य उपनिषत्

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. Belvelkar and Ranade-History of Indian Philosophy. Vol 2 p.p. 87-90
  2. https://archive.org/stream/in.ernet.dli.2015.150677/2015.150677.History-Of-Indian-Philosophy#page/n134/mode/1up
  3. (२॥२१३)
  4. (१।२।१०)
  5. ( ३।१।१)
  6. ( ३॥२॥६ )
  7. (३।१७)
  8. ( ३॥१९ )
  9. ( ३॥१४॥१ )
  10. ( ४॥४॥९ )
  11. (४॥१०-१७)
  12. ( ५॥११-२४ )
  13. https://sa.wikiquote.org/s/18t
  14. ( बृहदा० ४।।५।।६ )
  15. ( ६-२३ )
  16. ४॥५
  17. ( १।१० )
  18. १॥१०
  19. ( ५॥८ )
  20. (८/४)
  21. (ऋ० १॥११५॥१)
  22. (८॥९)
  23. ८।११
  24. ( मै० ६॥१८ = मुण्डकः ३।१।। ३ )
  25. ( मै० ६॥२२=ब्रह्मबिन्दु उप० १७ )
  26. ( मै० ६॥३० =कठ० ६॥१० )
  27. ( मै० ६॥३० = बृहदा० १।५।।३ )
  28. ( अनु० १० मन्त्रः २० )
  29. अनु० ९
"https://sa.wikipedia.org/w/index.php?title=उपनिषद्&oldid=425422" इत्यस्माद् पुनः प्राप्तिः