अव्यक्तोऽक्षर इत्युक्तः...
दिखावट
श्लोकः
[सम्पादयतु]- अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
- यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥
अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य एखविंशतितमः(२१) श्लोकः ।
पदच्छेदः
[सम्पादयतु]अव्यक्तः अक्षर इति उक्तः तम् आहुः परमां गतिम् यं प्राप्य न निवर्तन्ते तत् धाम परमं मम ॥ २१ ॥
अन्वयः
[सम्पादयतु]अव्यक्तः अक्षरः इति उक्तः तं परमां गतिम् आहुः । यं प्राप्य न निवर्तन्ते तत् मम परमं धाम ।
शब्दार्थः
[सम्पादयतु]- अव्यक्तः = परमात्मा
- अक्षरः = इति
- उक्तः = कथितः
- तम् = अक्षरम्
- परमम् = उत्तमाम्
- गतिम् = स्थानम्
- आहुः = वर्णयन्ति
- यम् = अक्षरम्
- प्राप्य = गत्वा
- न निवर्तन्ते = न प्रत्यागच्छन्ति
- तत् मम = तत् मे
- परमम् = उत्कृष्टम्
- धाम = स्थानम् ।
अर्थः
[सम्पादयतु]परमात्मा अक्षरः इति कथितः । तम् उत्तमा गतिरिति वर्णयन्ति । तम् अक्षरं प्राप्य पुरुषाः न पुनः आगच्छन्ति तदेव मम उत्कृष्टं स्थानम् ।