सामग्री पर जाएँ

रामानुजाचार्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रामानुजाचार्यः ।
रामानुजाचार्यः ।
जन्मतिथिः क्रि.श. १०१७ ।
जन्मस्थानम् श्रीपेरुम्बुदार्, तमिळुनाडुराज्यम्, भारतम्
पूर्वाश्रमनाम लक्ष्मणः/ इळेय पेरुमाळ्
मृत्युतिथिः क्रि.श. ११३७ ।
मृत्युस्थानम् श्रीरङ्गम्, तमिळुनाडुराज्यम्, भारतम्
गुरुः/गुरवः यमुनाचार्यः
तत्त्वचिन्तनम् विशिष्टाद्वैतम् ।
सम्मानाः श्रीवैष्णवतत्त्वशास्त्रस्य आचार्यः ।
साहित्यिककृतयः वेदान्तसङ्ग्रहम्, श्रीभाष्यम्, गीताभाष्यम्, वेदन्तदीपम्, वेदान्तसारम्, शरणागतिगद्यम्,श्रीरङ्गगद्यम्, श्रीवैकुण्ठगद्यम्, नित्यग्रन्थम्,

रामानुजाचार्यः (क्रि.श.१०१७तः११३७पर्यन्तम्) विशिष्टाद्वैतस्य आद्यः प्रवर्तकः । अस्य वैष्ण्वस्य भक्तिपरम्परायां प्रभावः अस्ति । वैष्णवाचार्याणां परम्परायाम् एव रामानुजाचार्यस्य शिष्यः रामानन्दः आगतः यस्य शिष्यौ कबीरः सूरदासः च आस्ताम् । रामानुजः वेदान्तदर्शनाधारितं स्वस्य नूतनं विशिष्टाद्वैतवेदन्तं लिखितवान् । वेदान्तम् अतिरिच्य श्रीरामानुजः ६-१०शताब्दस्य रहस्यवादिनां भक्तिमार्गिणाम् आल्वार् सताम् भक्तिमार्गं, दक्षिणस्य पञ्चरात्रपरम्परां स्वस्य विचाराणाम् आधारम् अकरोत् ।

जीवनम्

[सम्पादयतु]

क्रि.श. १०१७तमे वर्षे दक्षिणभारतस्य तमिळुनाडुराज्यस्य पेरम्बदूरुक्षेत्रस्य तिरुकुदूरुग्रामे अस्य जन्म अभवत् । रामानुजः बाल्ये काञ्चीप्रदेशे प्रकाशगुरुणा वैदिकशिक्षां प्राप्तवान् । पश्चात् आलवन्दार् यामुनाचर्यस्य प्रधानशिष्यः अभवत् । गुरोः इच्छानुसारं ब्रह्मसूत्रस्य, विष्णुसहस्रनाम्नः, दिव्यप्रबन्धनस्य च टिकां लेखितुं सङ्कल्पितवान् । क्रमेण गृहस्थाश्रमं त्यक्त्वा श्रीरङ्गस्य यतिराजयतिना सन्न्यासदीक्षां प्राप्तवान् । मैसूरुप्रान्तस्य श्रीरङ्गतः चलन् रामानुजः शालग्रामं प्राप्य तत्र वासम् अकरोत् । तस्मिन् प्रदेशे द्वादशवर्षाणि वैष्णवमतस्य प्राचारम् अकरोत् । पश्चात् अस्य प्रचारार्थमेव समग्रदेशस्य भ्रमणम् अकरोत् । क्रि.श. ११३७तमे वर्षे रामानुजाचार्यः ब्रह्मलीनः अभवत् ।

विशिष्टाद्वैतदर्शनम्

[सम्पादयतु]

रामानुजाचार्यस्य दर्शने परमस्त् सम्बन्धे स्तरत्रयं विस्वस्तम् । ब्रह्म अर्थात् ईश्वरः, चित् अर्थात् आत्मा, अचित् अर्थात् प्रकृतिः । वस्तुतः चित् इत्युक्ते आत्मतत्त्वम्, अचित् इत्युक्ते प्रकृतितत्त्वम्, ईश्वरेण पृथक् न भवन्ति । विशिष्टरूपेण ब्रह्मणः एव रूपाणि भवन्ति ईश्वरेण आधारितानि च भवन्ति इति एव रामानुजाचार्यस्य विशिष्टाद्वैतसिद्धान्तः । यथा शरीरम् आत्मा च पृथक् न स्तः तथैव आत्मनः उद्देशं पूरयितुं शारीरं कार्यं करोति । एवमेव ब्रह्मणः पृथक् चित् अथवा अचित् तत्त्वस्य न किमपि अस्तित्वं भवति । रामानुजाचार्यस्य मतानुगुणं भक्तिः नाम पूजा, भजनं कीर्तनम् नास्ति । किन्तु भक्तिः नाम ईश्वरस्य ध्यानम् अथवा प्रार्थना एव । सामाजिकपरिप्रेक्ष्येण रामानुजाचार्यः भक्तिं जातिवर्गतः पृथक् न कृतवान् सर्वेषां भक्तिः साध्या इति दर्शितवान् ।

बाह्यनुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=रामानुजाचार्यः&oldid=480882" इत्यस्माद् प्रतिप्राप्तम्