स्वामी अखण्डानन्द सरस्वती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


स्वामी अखण्डानन्द सरस्वती ।
जन्मतिथिः क्रि.श. १९११ तमवर्षम् ।
मृत्युतिथिः क्रि.श. १९८७ तमवर्षम् ।
तत्त्वचिन्तनम् अध्यात्म

स्वामी अखण्डानन्द सरस्वती (महाराजश्री इति अनुयायिभिः आहूयते) (१९११-१९८७) कश्चन महान् पण्डितः आसीत् । शास्त्रवेदान्तादिषु विषयेषु सः बहु ज्ञातवान् आसीत् । भागवतपुराणविषये समीचीनप्रवचनं तेन क्रियते स्म । सः १९११ तमे वर्षे जुलैमासस्य २५ तमे दिनाङ्के वाराणसिमण्डलस्य महारैग्रामे जातः । तस्य पितामहः एतं प्राप्तुं वृन्दावनस्य भगवन्तं श्रीशन्तनुबेहारीं प्रार्थितवान् आसीत् । श्रावणमासे अमावास्यायां ब्राह्मणकुले अयं जातः । भगवतः शन्तनुबिहारेः अनुग्रहेण जातः इत्यतः शन्तनु बेहारी इत्येव नामकरणं कृतवन्तः ।

अध्यात्मासक्तिः[सम्पादयतु]

श्रीगीतरसरत्नाकरनामके पुस्तके उल्लिखितमस्ति यत् अखण्डानन्दस्य जन्मनः अवसरे प्रसिद्धाः ज्योतिषिकाः अवदन् यत् अयं बालकः नवदशवर्षाणिमात्रं जीवति इति । मरणभयात् एव अखण्डानन्दः अध्यात्ममार्गम् आश्रितवान् । अस्मद्पूर्वजैः ऋषिभिः ज्ञातम् आसीत् यत् निश्चितात् मरणात् कश्चित् रक्षितुं न शक्यः चेत् ज्ञानं प्रदाय सः मरणभयात् मोचनीयः इति । अखण्डानन्दस्य जीवने तदेव अभवत् । ब्रह्मानुभवप्राप्तितः सः मरणभयात् शाश्वतरूपेण मुक्तः जातः । अयं दशवर्षीयः यदा आसीत् तदा तस्य पितामहः मूलभागवतं पठितुं प्रेरितवान् । ततः आरभ्य भागवतं तस्य विश्वासयोग्यः सहवर्ती जातम् ।

साहित्यकृषिः[सम्पादयतु]

संन्यासस्वीकरणतः पूर्वं १९३४ तः १९४२ तमवर्षपर्यन्तं अयं गीताप्रेस्तः प्रकाशमानायाः 'कल्याण'पत्रिकायाः सम्पादकमण्डल्याः सदस्यः आसीत् । सः भागवतपुराणस्य अनुवादं हिन्दीभाषया अकरोत् । सः अनुवादः गीताप्रेस्-द्वारा प्रकाशितः । तेन १८० पुस्तकानि लिखितानि - भगवद्गीता, रामचरितमानस, उपनिषत् इत्यादीनां विषये ।

संन्यासाश्रमस्वीकरणम्[सम्पादयतु]

युवकः अयं कदाचित् प्रसिद्धं ब्रह्मचारीप्रभुदत्तं द्रष्टुं गतवान् । तत्र उदियबाबाजिमहाराजः अमिलत् । तेन सह वेदान्तविषये चर्चाम् अकरोत् । अद्वैतविषये तदीयां श्रद्धां निर्मलचित्तं दृष्ट्वा ततः नितराम् आकृष्टः अभवत् अयम् । उदियबाबाजि एतं नितरां प्रीत्या अपश्यत् । तस्य प्रेरणातः एव युवकः संन्यासस्वीकरणे मनः अकरोत् । ज्योतिष्पीठाधीश्वरः शङ्कराचार्यः स्वामी श्री ब्रन्मानन्दजी सरस्वतीवर्यः एतस्मै संन्यासदीक्षाम् अयच्छत् । ततः पण्डित शन्तनुबिहारीद्विवेदी स्वामी अखण्डानन्दसरस्वती जातः ।

बाल्यतः अध्यात्मे आसक्तः अखण्डानन्दः बहुभिः महापुरुषैः अमिलत् - उदियाबाबा, हरिबाबा, आनन्दमायि मा । १९६० तमे वर्षे सः 'भारतसाधुसमाजस्य' अध्यक्षत्वेन चितः जातः । अयं भारतीयविद्याभवनस्य गौरवसदस्य आसीत् । एतादृशः अवसरः दलैलामा, मदर् तेरेसा, प्रिन्स् चार्ल्स्, भारतस्य राष्ट्रपति, प्रधानमन्त्री इत्यादिभिः एव प्राप्यते । मुम्बयी-भारतीयविद्याभवने, प्रेमपुरि अध्यात्ममन्दिरे, बिर्लाभवने, बिर्लामन्दिरे, जे के मन्दिरे च सः प्रवचनाय आहूयते स्म ।

आनन्दवृन्दावनाश्रमः[सम्पादयतु]

भारतस्य उत्तरप्रदेशे मथुरामण्डले वृन्दावने अयम् आश्रमः विद्यते । अयम् आश्रमः अखण्डानन्दवर्येण संस्थापितम् । अत्र कर्म-भक्ति-ज्ञानयोगानां सम्मिलनमस्ति इत्यतः तीर्थराजप्रयागसदृशः मन्यते । अत्र सत्सङ्गः, देवपूजा, गोसेवा, छात्रेभ्यः वेदपाठनम्, इत्यादीनि कार्याणि प्रचलन्ति । आश्रमेण विद्यालयः, वैद्यकीयसेवा च प्रचाल्यते । स्वामी ओङ्कारानन्द सरस्वती महाराजः १९८७ तः २००८ पर्यन्तम् आनन्दवृन्दावनाश्रमस्य मार्गदर्शनम् अकरोत् । अद्यत्वे स्वामी सच्चिदानन्दवर्यः मार्गदर्शनं कुर्वन् अस्ति ।

१९८७ तमे वर्षे नवम्बर्मासस्य १९ दिनाङ्के तन्नाम मार्गशीर्षकृष्णत्रयोदश्याम् अखण्डानन्दसरस्वती भगवति लीनः जातः ।

बाह्यशृङ्खला[सम्पादयतु]