स्वामी दयानन्दसरस्वती

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
 Broom icon.svg  अस्य लेखस्य संशोधनम् अपेक्षते।.
लेखोऽयं विशोधयतु।
स्वामी दयानन्दसरस्वती

१८२४ तमे क्रिस्ताब्दे गुर्जरप्रदेशस्य सौराष्ट्रभागे टङ्काराग्रामे
जन्मतिथिः क्रि.श.१८२४ तमवर्षः,
जन्मस्थानम् टङ्काराग्रामः गुजरात्राज्यम् भारतम्
पूर्वाश्रमनाम मूलशङ्करः
तत्त्वचिन्तनम् वेदान्तः


स्वामी दयानन्दसरस्वती महान् वेदवेत्ता, समाजपरिवर्तकः, आर्यसमाजस्य स्थापकः च । वैदेशिकैः आक्रान्ते भारतवर्षे सः सर्वप्रथमतः स्वतन्त्रतायाः आवश्यकताम् अवगतवान् । स्वातन्त्र्यस्य प्राप्त्यर्थं सः प्रयासम् आरब्धवान् । यदा भारते वेदानां विषये महत् अज्ञानम्, उपेक्षा, अन्यथा अर्थग्रहणं च आसीत्, तदा सः चतुर्णाम् अपि वेदानाम् बोधनं कृतवान् । विधवास्त्रीणाम् पुनर्विवाहः, गोरक्षणं, अग्निहोत्रस्य पुनरुज्जीवनम् इत्येतेषु विषयेषु तेन महान् प्रचारः कृतः । तस्य सत्यार्थप्रकाशः इति युगपरिवर्तके ग्रन्थे सः वर्तमानान् अनेकान् अन्धविश्वासान् समूलम् उत्पाटितवान् अस्ति । सः ऋषिभिः प्रणीतानाम् आर्षग्रन्थानां महत्त्वं प्रतिपादितवान् । अनार्षग्रन्थाः त्याज्याः यतो हि तेषाम् अध्ययनाय परिश्रमः अधिकः अपेक्षितः अस्ति परन्तु लाभः न्यूनः एव अस्ति इति तस्य दृढं मतम् आसीत् । अतः सः पाणिनेः अष्टध्यायी, यास्कस्य निरुक्तं, दर्शनग्रन्थाः इत्यादीन् समर्थितवान्, न तु सिद्धान्तकौमुदीं, नवन्यायं वा । तस्मिन् संस्कृतविषये विशेषा प्रीतिः आसीत् । प्रायः तस्य प्रवचनानि सरलसंस्कृतेन एव भवति स्म । संस्कृताज्ञानिनः जनाः अपि तान् अवगन्तुं समर्थाः आसन्, सन्तोषम् अपि अनुभूतवन्तः । संस्कृतपठनपाठनविषये सः विशेषं प्रयत्नं कृतवान् । तस्य रक्षणार्थं, वेदानाम् अध्ययनस्य च रक्षणार्थं, सः अनेकान् गुरुकुलान् स्थापितवान् । व्याकरणस्य, सरलप्रयोगसंस्कृतस्य च सः अनेकानि पुस्तकानि स्वयं रचितवान् । तस्य प्रयासेन, न केवलं भारतवर्षे अपि तु समग्रे संसारे, अष्टाध्यायीपद्धत्या संस्कृतपठनपाठनं पुनरुज्जीवितम् अभवत्, तत्र न अतिशयोक्तिः ।

बाल्यघटना[सम्पादयतु]

आसीदिदं महाशिवरात्रेः पावनं पर्व । अथ प्रदोषकाले गुर्जरदेशवास्तव्यः मूलशङ्करो नाम कश्चिद बालकः शिवार्चनाय शिवालयम् उपागतः । शिवार्चनं कृत्वा प्रतिमायाः समीप एव जपतत्पराः स तत्रैव अतिष्ठत् । सहसा एका मूषिका देवमूर्तिम आरुह्य तत्रस्थं नैवएद्यं सुखेन अभक्षयत् । इदं विलोक्य स बालकः अचिन्तयत् "अहो ! का शक्तिः अस्य महादेवस्य यदयमिमां मूषिकामपि वारयितुं न शक्नोतीति ! " ततः स्वजनकम् उपगम्य मूलशंकरः इमां शकां तस्मै न्यवेदयत्, किन्तु तस्योस्तरेण् कथमपि सन्तोषम् नालभत । फ्लतः प्रतिमापूजनात् स विमुखो जातः किन्तु देवस्य वास्तविकं रुपं तु भूयोऽपि अचिन्तयत् । अन्यस्मिन्नहनि स शिवस्य वास्तविकं रुपं विज्ञातु सहसा गृहान्निष्क्रान्तः इतस्ततः परिभ्रमन् स मयुरानगरीम उपागमत । तत्र महर्षेः विरजानन्दस्य चरणयोः समुपविश्य स व्याकरणादीनि शास्त्राणि वेदांश्च सम्यग् अधीतवान् । अथ ब्रहमचर्यमाचरन् संयतेन्द्रियः पुष्टगात्रः विलक्शणो मेधावी च संजातः । गुरोः प्रसादांच्च स शिवस्य स्वरुपं विज्ञातवान् । शिष्यस्य लोकोत्तरां प्रतिभां विलोक्य महर्षिः विरजानन्दः तम् आशीर्भिः अभ्यनन्दयत् , आदिशच्च, "वत्स ! इतो गत्वा लोके सत्यस्य प्रचारम् आर्यजातेश्च समुद्धारं कुरु" इति । अनन्तरम् अयम् एव् बालकः महर्षिः दयानन्द इति नाम्ना विख्यातोऽभवत् । गुरोरादेशात् स लोके संस्कृतवाङ्मयस्य आर्यधर्मस्य च प्रसाराय अनेकान् ग्रन्थान् व्यरचयत् , येषु सत्यार्थप्रकाशः प्रमुखो ग्रन्थः । महर्षिः दयानन्दः वेदानां, पाणिनीयव्याकरणस्य च हिन्दीभाषायां व्याख्यानमकरोत् । एवं स निखिलेऽपि भारतवर्षे वैदिकवाङ्मयस्य आर्यध्र्मस्य च भूयोभू?यः प्रचारम् अकरोत् । अचिरादेव अनेके धनिकाः, महाराजाः, विद्वांसश्च तेन अतितरां प्रभाविताः अभवन् । महर्षिः दयानन्दः ततः परम् आर्यजातेः समुद्धाराय "आर्थसमाजस्य" संस्थापनकरोत् । अस्य प्रचाराय स नगरे-नगरे स्थाने-स्थाने च पर्यटत् । विधवानाम् अबलानां, दलितजातीनां च समुद्धाराय स सदैव प्रायतत् । स्वराज्यभावनापि अनेन महर्षिणा अस्मअकं हृदयेषु जागरिता । एवम् अस्य महर्षेः ख्यातिः प्रतिष्ठा च अनुदिनम् अवर्धत् । यद्यपि महर्षिः दयानन्दः पार्थिवशरीरेण अस्माकं मद्ये न् वोद्यते तथापि कीर्तिशरीरेण सोऽध्यापि जीवत्येव ।

जीवनविवरणम्[सम्पादयतु]

सः १८२४ तमे क्रिस्ताब्दे गुर्जरप्रदेशस्य सौराष्ट्रभागे टङ्काराग्रामे जन्म लब्धवान् । तस्य पितुः नाम करसनजी लालजी तिवारिः आसीत् । सम्पन्नः कुलः आसीत् । तस्य बालनाम मूलशङ्करः । मेधावी बालकः सः संस्कृतव्याकरणं, वेदांशान् च शीघ्रं ज्ञातवान् । परिवारः शिवभक्तः आसीत् । यदा सः त्रयोदश वर्षीयः जातः तदा तस्य पिता महाशिवरात्रिपर्वणि तं शिवमन्दिरं नीतवान्, व्रतं च आचारितवान् । मध्यरात्रौ सर्वे सुप्ताः । परन्तु जागरितः मूलशङ्करः शिवमूर्तौ मूषकाणाम् उपद्रवं दृष्टवान् । तस्य दर्शनेन तस्मिन् विवेकः उत्पन्नः ।

मुख्यकृतयः[सम्पादयतु]

  • सत्यार्थप्रकाशः
  • ऋग्वेदादिभाष्यभूमिका
  • ऋग्वेदस्य यजुर्वेदस्य च भाष्ये
  • चतुर्वेदविषयसूची
  • संस्कारविधिः
  • पञ्चमहायज्ञविधिः
  • आर्याभिविनयः
  • गोकरुणानिधिः
  • आर्योद्देश्यरत्नमाला
  • भ्रान्तिनिवारणम्
  • अष्टाध्यायीभाष्यम्
  • वेदा़ङ्गप्रकाशः
  • संस्कृतवाक्यप्रबोधः
  • व्यवहारभानुः