वैदिकसाहित्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

वैदिकसाहित्यम् उत वैदिकवाङ्मयं समुद्रवद् अपारम्, अगाधं, हिमालयवत् ससारञ्च च वर्तते। अत एव देवेभ्यः अपि तत् आदृतं भवति । सर्वेऽपि वेदाः मन्त्ररूपाः एव । यज्ञादिषु अवसरेषु ब्राह्मणप्रयुक्तैः तैः मन्त्रैः आवाहनादिविधिना अावाहिताः देवाः तत्र तत्र अायान्त्यैव इत्यत्र श्रुतिरेव प्रमाणम्।[१] वेदोक्तमन्त्राणाम् आश्चर्यकरः प्रभावो। यतो हि एतेषां विलक्षणप्रभावान् दृष्ट्वा, विचार्य, संश्रुत्य च भारतीयैः किं वा वैदेशिकैश्च विद्वद्भिः एतेषां संरक्षणाय, सम्यग्ज्ञानाय च समये-समये बहुकिमपि कृतम् अस्ति। वैदिकवाङ्मयस्य संरक्षणे, समुपबृंहणे च पाश्चात्यविपश्चितां यावान् श्रमो दृष्टिपथम् आयाति, न तावान् भारतीयानाम् । प्राचीनासु भारतीयभाषासु यथा संस्कृतं सर्वातिशायि अस्ति, तथैव सर्वेषु वाङ्मयेषु वैदिकवाङ्मयं प्रामाणिकरूपेण स्वीक्रियते। सर्वत्र ‘वेदाः प्रमाणम्' इति मतं समानतयाङ्गीक्रियते। सर्वेऽपि मतावलम्बिनः स्वं मतं वेदोक्तैः प्रमाणैः परिपुष्टतां गमयित्वा स्वां कृतिं धन्यां, स्वं च घन्यं कलयन्ति। विषयेऽस्मिन् न केवलं भारतीया एव श्रद्धालवः, अपि तु पाश्चात्या अपि विद्वांसः श्रद्धावद्धावधाना दृश्यन्ते ।

भारतीयानां समस्तं साहित्यं वेदैरेव परिबृंहितम् अस्ति। महर्षिः बादरायणिः अत एव वेदव्यासनाम्ना सम्मानभागभवत् । यत्तेन महात्मना वेदानामेव व्याख्यानम् अष्टादशपुराणानां रूपेण विहितम् । मीमांसाशास्त्रे पुराणानां महन्महत्त्वं वणितमस्ति । ‘भारतं पञ्चमो वेदः' इति आकारिकासूक्तिः तु प्रसिद्धा एव। यद्यपि भारतीया विद्वांसो वेदानाम् अपौरुषेयत्वं साटोपं (आत्मतृप्त्यै) स्वीकुर्वन्ति, तथापि वेदानां मन्त्राः, तेषामुपदेशाश्च अपौरुषेयत्वेऽपि ईश्वरोक्तत्वाद् आप्तप्रमाणत्वेन स्वीक्रियन्त एव। अन्यत्रापि ‘वेदो नित्यमधीयतां तदुदितं कर्मस्वनुष्ठीयताम्'[२] इत्यादीनि वचांसि वेदोक्तीनां प्रामाण्यमेव साधयन्ति।

अपरत्रापि दृगुन्मेषोविधीयतां यद्यपि वेदाश्वत्वार एव केचित् वेदत्रयीमपि स्वीकुर्वन्ति । इत्याकारकविवादस्य विचारो सुधिया ग्रन्थकर्त्रा विस्तृतरूपेण यथास्थानं समुपन्यस्तः । तथापि आयुर्वेदः, धनुर्वेदः, गान्धर्ववेदः इत्यादीनां वेदानां गणना केवलं तेषां तेषां विषयाणां प्रामाणिकतां स्वीकारणार्थ तत् तद् ग्रन्थकर्तृभिः महर्षिभिः कृतेति निश्चप्रचम् (निश्चितं प्रचितम्)।

विदन्त्येव सर्वे विद्वांसो यद्, वेदा एव भारतवर्षस्य भारतीयसंस्कृतेश्व मुख्यमवलम्बनमिति। ते च भगवता कृष्णद्वैपायनेन शिष्याणां ग्रहणसौकर्य्याय ऋग्यजुःसामाथर्वभेदेन चतुर्धा विभज्य यथाक्रमं पैल-वैशम्पायन-जैमिनि-सुमन्तुभ्यः प्रदत्ताः । कालक्रमेण शिष्योपशिष्यैः गृहीतास्ते बहुशाखात्वम् आपन्नाः। तदुक्तं व्याकरणमहाभाष्ये पस्पशाह्निके भगवता पतञ्जलिना-

'एकशतमध्वर्युशाखाः, सहस्रधत्मा सामवेदः ॥

एकविशतिधाबह्वृचं, नवधा आथर्वणो वेदः ॥' इति ॥

तत्रायं वेदः भारतीयसंस्कृत्याः मूलस्रोतमस्ति। विश्वस्यागमेषु वेदाः प्राचीनतमाः,[३] अत एव नृशास्त्रज्ञानां, मानवप्रकृतेः अध्येतॄणां जगतो विभिन्नेषु धर्मेषु सश्रद्धं प्रवर्त्तमानानाच्च जनानां सानुरागविषया इमे वेदाः। ये जना वेदानाम् अभ्यन्तरे सांसारिकसमस्तैश्वर्याणाम् अन्वेषणम् अक्लान्तपरिश्रमेण कुर्वन्ति, ते न जानन्ति वेद-ज्ञानयोर्मध्येऽन्तरमस्ति इति। विद्-धातौ तथा ज्ञा-धातौ सामान्यतः एकत्वे सत्यपि मूलतः पार्थक्यम् अस्ति। भौतिकविद्यायाम् अभिज्ञतायाः नाम अस्ति ज्ञानं, तथा च अध्यात्मशास्त्रस्य तथ्यानाम् अवगत्याः नाम अस्ति वेद इति । एकस्य लक्ष्यं बाह्यविषयाणाम्, अपरस्य च अभ्यन्तर-विषयाणां विश्लेषणमस्ति । वेदज्ञानशब्दयोः पार्थक्यं संस्कृतेन सम्बद्धानाम् अनेकयूरोपीयभाषागतशब्दानाम् अनुशीलनेनापि ज्ञायते। जर्मनभाषायां द्वौ सम्बद्धौ धातू स्तः - केन्नेन (Kennon) तथा वाइसेन ( Weisen) इति। आङ्ग्लभाषायामपि द्वौ सम्बद्धौ शब्दौ स्तः - नालेज ( Knowledge ) तथा विजडम (Wisdom) इति। अनयोः 'केन्नेन' तथा 'नालेज' इत्यनयोः शब्दयोः साक्षात्सम्बन्धमस्ति संस्कृतस्य ‘ज्ञा'-धातुना सह तथा ‘वाइसेज' एवं 'विजडम' इत्यनयोः शब्दयोः सम्बन्धमस्ति ‘विद्'धातुना सह। अतः ‘वेद' इत्यस्य शब्दस्य मौलिकतात्पर्यमस्ति अध्यात्मविषयाणामन्वेषणम् इति।

सायणाचार्यानुसारेण वेदस्य वेदत्वं प्रत्यक्षेणानुमानेन च अगम्योपायस्य बोधने एवाऽस्ति।

'प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुद्ध्यते ।

एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥'

रॉय-मैक्समूलर-वेवर-आउफ्रक्ट-गेल्डनर-स्टीवेन्सन-श्रोदर-वेनफी-ह्विटनी-ब्लूमफील्ड-गार्वे-लिण्डनर-वर्नेल-एर्टल-कैलेण्ड-गास्ट्रा-हिलेब्राण्ट-क्नाउएरो-विल्सन-ओल्डनवर्ग-कीथ-लेनमेन-ग्रिफिथ-एगलिग-मैकडोनलप्रभृतयः अनेके पाश्चात्यविपश्चितः अप्येतेषां सम्यगध्ययनाय समाकृष्टा इव प्रवृत्ताः। पाश्चात्याः इमे विद्वांसः अधीत्येमं वेदराशिं बहुकिमपि गभीरमुल्लिखितवन्तः। वैदिकधर्मस्य धर्मान्तरेण तुलनां विधाय ते तुलनाप्रधानवैदिकधर्मविषयकान् ग्रन्थान् बहून् लिखितवन्तः । अस्मिन् क्षेत्रे मैक्समूलर-मैक्डोनल-हिलेब्राण्टमहाभागानां नामानि सन्त्युल्लेखनीयानि । हिलेब्राण्ट इत्यस्य 'वेदिशे मायोलोजी' मैक्डोनलस्य च 'वैदिकमाथोलोजी' व्यापकत्वात् प्रामाणिकत्वाच्चोपादेये स्तः । फ्रेञ्चविदुषाश्च श्रौतसम्बन्धिनोऽनेके ग्रन्था दृश्यन्ते ।

चत्वारोऽपि वेदाः साधारण्येन मन्त्रब्राह्मणयोर्द्वयोर्भागयोविभक्ताः । वेदपदवाच्याः संहितारूपा एव वेदा इत्यपि नास्ति भारतीयपरम्परानुरूपी न्याय्यश्च विचारः । तत्र ऋग्वेदस्य, सामवेदस्य, शुक्लयजुर्वेदस्य, अथर्वणश्च मन्त्रभागाः संहितापदवाच्याः, किन्तु कृष्णे यजुर्वेदे संहितायामथवा ब्राह्मणे मन्त्राः ब्राह्मणानि इत्येतौ उवुभावपि सम्मिलितौ वर्तते ।

वेदेषु ज्ञान-विज्ञान-धर्म-दर्शन-सदाचार-संस्कृति-नैतिक-सामाजिक-राजनैतिकप्रभृतीनां जीवनोपयोगिविषयाणां सन्निवेशोऽस्ति । यत्र प्रत्यक्षस्य न चानुमानस्य प्रवेशस्तत्रापि ते प्रविशन्ति। स्मृतिपुराणादीनां मान्यत्वं तदनुगामित्वम् एवावतिष्ठते । प्राचीनानि धर्म-समाज-व्यवहारप्रभृतीनि वस्तुजातानि बोधयितुं श्रुतय एव क्षमन्ते । वेदास्तु धर्ममूलतयैव सर्वथा समादृताः सन्ति । मनुना प्रोक्तश्च - ‘वेदोऽखिलो धर्ममूलम्' तथा ‘वेदाद्धर्मो हि निर्बभौ' इति। एवञ्च महाभाष्यकृता पतञ्जलिना ब्राह्मणेन षडङ्गवेदाध्ययनस्यानिवार्यत्वमुच्यते स्म । तथाहि-

‘ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्च॥'[४]

वेदेषु अध्यात्मदर्शनस्य उत्कृष्टभाण्डागारं निक्षिप्तमस्ति । किञ्च तेषां प्रतिपादनरीतिः अर्वाचीनप्रतिपादनशैलीतः सर्वथा भिन्ना एव । 

अन्तर्विषयाः

 इतिहासः[सम्पादयतु]

वेदाः भारतीयानां हि अाद्या धर्मग्रन्थाः सन्ति। तेषामाज्ञाऽत्र देशे धर्मत्वेन मताऽस्ति। को हि धर्मः ? इति यदि जिज्ञासाऽस्ति तदा वेदास्तन्निमित्तेन द्रष्टव्याः।[५] वर्त्तमाने भारते यावन्त्यपि मतान्युपमतानि भिन्नभिन्नानि प्रसूतानि सन्ति, तेषां मूलस्रोतो वेदेभ्य एव निर्गतमस्ति। तदर्थं पुनः पुनः अस्माभिर्वेदाः अध्ययनीयाः अनुशीलनीयाश्च। अनेन कारणेन संहितानां रचनायाः पश्चात् जनेषु वैदिकमन्त्राणाम् अर्थावबोधनस्य प्रवृत्तिः परिलक्षिताऽभवत्। ब्राह्मणग्रन्थेष्वस्याः प्रवृत्त्याः प्रथमः प्रयासः दृग्गोचरो भवति। ब्राह्मणग्रन्थेषु यज्ञस्य विस्तृतवर्णनं तु अस्त्येव, मन्त्राणामप्यर्थस्य यत्र कुत्राऽपि स्पष्टीकरणमपि समुपलभते। तत्र शब्दानां व्युत्पत्तिरपि वर्त्तते। एताः प्रवृत्तिरत्यादरेण यास्केन ‘इति ह विज्ञायते' एवमुक्त्वा निरुक्ते समुद्धृतः। वेदार्थानुशीलनस्य प्रथमः सोपानः पदपाठ एवाऽस्ति। वैदिकमन्त्राणां पदपाठं विना तेषामर्थज्ञानं कदापि भवितु न शक्नोति। अस्मै पदपाठाय व्याकरणस्य नियमानामाविष्कारः पूर्वमेवाऽभवत्। पदपाठानां कर्तारः बहवः ऋषयः अभूवन्। ब्राह्मणग्रन्थेषूपलब्धानां निरुक्तीनां, व्युत्पत्तीनाञ्च अाधारोपरि निघण्टु-निरुक्त-प्रभृतिग्रन्थानां रचना अवान्तरकाले एवाभवत्।

मध्ययुगे बहवः वैदिकविद्वांसः वैदिकसंहितासु भाष्याख्यां रचनां कृतवन्तः। अनेन प्रयासेन ते वैदिकमत्राणाम् अर्थान् बोधगम्यान् अकुर्वन्। अस्मिन् अर्थानुशीलनकार्ये ते वैदिकविद्वांसः निरुक्त-व्याकरण-पुराण-इतिहासप्रभूतीनां प्रमुखग्रन्थानाम् उपयोगं कृतवन्तः। एतादृशेषु भाष्यकारेषु माधवभट्ट-स्कन्दस्वामी-नारायण-उद्गीथ-वेङ्कटमाधव-अानन्दतीर्थ-प्रभृतयः विद्वांसः ऋग्वेदस्य मान्यभाष्यकर्तारः सन्ति। भवस्वामिग्रहदेव-क्षुर-भट्ट-भास्करमिश्र-प्रभृतयः विद्वांसः तैत्तिरीयसंहितायाः, उल्वट-महीधर-प्रभृतयः माध्यन्दिनसंहितायाः, माधव-भरतस्वामि-गुणविष्णुप्रभृतयः सामवेदस्य भाष्यकाराश्च सन्ति। अस्मिन् विषये सायणाचार्यस्य कार्यं तु महत्त्वपूर्णं मन्यते। अयं हि विद्वान् पञ्च वैदिकसंहितानाम्, एकादश ब्राह्मणानाम्, कतिपयारण्यकाणाम् उपरि भाष्यग्रन्थान् रचयामास। वेदानामर्थावबोधने येषां भाष्याणाम् आधिक्येन उपयोगो भवति, तेषु सायणाचार्यस्य भाष्यम् अपि अन्यतमम्।

मैक्स मूलर-सर-विलियम-जोन्स-कोलब्रुक-रूडाल्फ राथ-ह्विटनी-मैक्डोनल-वाकरनागल इत्यादयः पाश्चात्यपण्डिताः वैदिकवाङ्गमयस्य कृते ग्रन्थनिर्माणं, अनुवादकार्यं, प्रकाशनकार्यं, सङ्कलनकाञ्च अनेके पाश्चात्यविद्वांसः कृतवन्तः। वैदेशिकाः वैदिकधर्मस्य धर्मान्तरेण सह तुलनां कृत्वा अनेकान् ग्रन्थान् (Comparative Mythology) अरचयन्। पाश्चात्यैः लिखिताः वैदिकसाहित्यस्येतिहासेऽपि सुविदितास्त्रिचतुराः ग्रन्थाः प्राप्यन्ते। 'अनुक्रमणी' इत्येतत्संज्ञकाः ग्रन्थाः अपि तैः प्रणीताः।

नव्यभारते वैदिकानुशीलनस्य कार्यम्[सम्पादयतु]

विंशे शतके भारतीयविदुषामपि वैदिकज्ञानेन ध्यानम् आकृष्टम्। कारणञ्चास्य द्वौ नवीनौ धर्मसुधारकसमाजयोः संस्थापना वर्तते। प्राच्यां वंगीयक्षेत्रे राजाराममोहनरायमहोदयेन स्थापितः 'ब्रह्मसमाजः' तथा प्रतीच्यां पञ्चनदप्रदेशे स्वामिदयानन्दसरस्वतीमहोदयेन च प्रतिष्ठापितः 'आर्यसमाजः' मूलतः वैदिकसिद्धान्तमेव हिन्दूधर्मस्य विशुद्धं सिद्धान्तं मत्वा लोकानां ध्यानाकर्षणं कृतवन्तौ। ब्रह्मसमाजस्तु उपनिषदाम् अध्ययनमेव पुनरुज्जीवितमकरोत्। अयं समाजस्तु वैदिकसंहितायाः अध्ययनाध्यापनमेव हिन्दूधर्मस्य मूलमाधारं मत्वा सर्वत्र तस्यैव प्रचारमकरोत्। पाश्चात्यविदुषां वैदिकानुशीलनादपि भारतवर्षेऽपि मनस्विनः प्रोत्साहनम् आप्नुवन्। भारतीयविद्वांसोऽपि वैदिकग्रन्थानां विशुद्धं संस्करणं तथा तेषामैतिहासिकानुशीलनञ्च प्रस्तुतं कृतवन्तः। स्वामिदयानन्दसरस्वत्या ऋग्वेदोपरि तथैव यजुर्वेदोपरि च निजपद्धत्यनुसारेण संस्कृतभाषायां सुष्ठु भाष्याणां रचना कृता।

आधुनिकवेदज्ञेषु शङ्करपाण्डुरङ्गपण्डित-लोकमान्यबालगङ्गाधरतिलक-शङ्करबालकृष्णदीक्षित-सत्यव्रतसामश्रमी-प्रभृतयः सुविदिताः सन्ति भूभुवने। शङ्करपाण्डुरङ्गपण्डितः मुम्बाई-नगरीतः १९९५-९८ ख्रीष्टाब्दे सायणभाष्येण सह अथर्ववेदस्याऽतीव विशुद्धं संस्करणं चतुर्षु खण्डेषु प्रकाशितवान्। अयं हि विद्वान् अभिनवपद्धत्यामेव ऋग्वेदस्य व्याख्याऽपि 'वेदार्थयत्न'-नामकग्रन्थे विवेचनात्मकटिप्पण्या सह आङ्ग्लभाषायां मराठीभाषायाञ्च प्रकाशितुं प्रारभत्।श्लाघनीया इयं व्याख्या मध्ये एव विरराम। यतो हि दैवदुर्विपाकाद् व्याख्यातुरकालमृत्युः अभवत्। लोकमान्यबालगङ्गाधरतिलकस्य उभौ ग्रन्थौ ‘अोरायन' [६] एवं 'आकर्टिक होम इन द वेदाज्' वैदिकालोचनायाः मौलिक-गवेषणापूर्णौ ग्रन्थौ स्तः।[७] अनयोः ग्रन्थयोः ग्रन्थकर्तुः विद्वत्ता, तर्कोपन्यासता तथा बुद्धेर्विलक्षणता अवलोकनीया अस्ति। ओरायन-नामके निजग्रन्थे वैदिकसंहितासु ब्राह्मणेषु च निर्दिष्टाः ज्यौतिषसम्बन्धिनीः सूचनाः अवगाह्य लोकमान्यबालगङ्गाधरतिलको वेदाविर्भूतस्य विक्रमपूर्वचतुःसहस्रवर्षाणि यातानीति मन्येते। सप्ताधिकैकोनविंशतिशततमेशवीये डा० हूगो विन्कलर 'बोधाज कोड्' नामके स्थाने टर्की-देशान्तर्गते खननकार्ये प्राचीनमेकं शिलालेखं अवाप। तेन सिद्धयति यद्, वेदस्य प्रादुर्भूतस्य एकविंशत्यधिकचतुस्त्रिंशद् वर्षाणि जातानि न ततोऽधिकानि इति। डा० अविनाशचन्द्रदासः स्वकीये 'ऋग्वैदिक-इण्डिया' अभिधाने ग्रन्थे लिखति यद्, भौगोलिकीः किञ्च भूगर्भसम्बन्धिनीः घटनाः अवलम्व्य ऋग्वेदीयाः रचनायाः अथ च तत्कालवर्तिन्याः सभ्यतायाः प्रादुर्भूतायाः प्रायेण सप्तविंशतिसहस्राब्दाः अतिक्रान्ताः इति। पण्डितदीनानाथशास्त्री चुलेटस्तु स्वकीये वेदकालनिर्णये ज्योतिस्तत्त्वमीमांसके ग्रन्थे वेदकालम् अतितरां प्राचीनं साधयितुं प्रयत्नं विदधानः समवाप्यते।

सत्यव्रतः सामश्रमी बङ्गप्रदेशस्य कश्चन वैदिकः अासीत्। अयं हि विद्वान् सामवेदेन सम्बद्धानां ग्रन्थानां प्रामाणिकमेवं विशुद्ध संस्करणश्च प्रकाशितवान्। अयं हि सामवेदस्य मार्मिको विद्वान् अासीत्। अस्य सामसंहितायाः गानसंहितायाश्च १८७७ ईशवीये कोलकातानगरात् प्रकाशितं विशुद्धं प्रामाणिकञ्च संस्करणम् उपलभ्यते। आर्यसमाजस्य अनेके विद्वांसः वैदिकग्रन्थानां विशुद्धसंस्करणस्य प्रकाशनं कृत्वा निजवेदप्रेम्णः परिचयं दत्तवन्तः। लब्धप्रतिष्ठार्यसमाजीविद्वान् श्रीपाददामोदरसातबलेकरः चतुर्णां वेदानां संहितायाः विशुद्धं संस्करणं प्रकाशितवान्। अस्यैव महोदयस्य काठकसंहिता-मैत्रायणीयसंहिता-गानसंहिता-दैवतसंहिता-प्रभृतीनां प्रकाशनं तथैवोपादेयमस्ति।

वैदिकसंहितानां भाषानुवादोऽपि उपलब्धो भवति। रमेशचन्द्रदत्तस्य बंगीयभाषायाम् अनुवादः, रामगोविन्दत्रिवेदीमहोदयस्य तथा श्रीरामशर्मा आचार्यपादस्य च हिन्दीभाषायाम् अनुवादः ऋग्वेदस्य उपयोगिनः सन्ति। जयदेवविद्यालङ्कारस्य सामवेदाथर्ववेदयोः हिन्दीभाषायाम् अनुवादस्तथा श्रीधरपाठकस्य मराठीभाषायाम् अनुवादस्तथैवोत्कृष्टौ वर्तेते।

पाश्चात्यानां योगदानम्[सम्पादयतु]

वेदवेदाङ्गस्य अर्थावबोद्धुं व्याख्येयग्रन्थानां प्रणयनम् अपि अभवत्। श्रीअरविन्दमहोदयेन आड्ग्लभाषायां वैदिकमन्त्राणां रहस्यवादी वैज्ञानिकव्याख्या कृताऽस्ति। अस्य व्याख्या-पद्धत्याः अर्थावबोद्धुं संस्कृतभाषायां द्वौ ग्रन्थौ कापालिमहोदयेन लिखितौ। श्रीविश्वबन्धुमहोदयस्य सम्पादकत्वे प्रकाशिते ‘शब्दार्थपारिजात'-नामके ग्रन्थे वैदिकशब्दानाम् अर्थस्यालोचनात्मकसंग्रहः वर्तते। डा० लक्ष्मणस्वरूपकृतः निरुक्तस्य अनुवादः, डा० मङ्गलदेवशास्त्रिरचितः ऋक्प्रातिशाख्यस्य अनुवादः, डा० सूर्यकान्तशास्त्रिमहोदयेन सम्पादितः ‘अथर्वप्रातिशाख्यः' स्वविषयस्योपादेयाः ग्रन्थाः सन्ति। श्रीचिन्तामणिविनायकवैद्येन आङ्ग्लभाषायां लिखितः (History of vaidik literature) तथा श्रीभगवदत्तमहोदयेन रचितः ‘वैदिकवाङ्मय का इतिहास' ग्रन्थौ स्तः। होशियारपुर-वैदिकशोधसंस्थानतः प्रकाशितः वैदिकपदानुक्रमकोषः अपि उपयोगी ग्रन्थोऽस्ति। श्रीयुधिष्ठिरमीमांसकस्य 'वैदिकच्छन्द तथा वैदिकस्वरमीमांसा' नामकग्रन्थोः उल्लेखनीयो वर्तते। 

स्वरूपम्[सम्पादयतु]

वेदशब्देन यथा चतस्रो मन्त्रसंहिताः परिग्राह्याः भवन्ति, तथैव वैदिकशब्देन वेदोत्तरकालिकसमस्तवैदिकवाङ्मयस्यावबोधो भवति। वैदिकशब्दस्तु वेदविषयकबहुविधज्ञानसामग्रीणां सूचकः द्योतको वा भवति । वेदविषयकसामग्रीपदेनाऽत्र षड्वेदाङ्ग-ब्राह्मण-अारण्यक-उपनिषदादीनां बोधो भवति । वेदाद्भिन्ना अप्येते वैदिकग्रन्थाः वेदोद्धृता एवेति । वैदिकवाङ्मयस्यान्तर्गता एवैते षड्वेदाङ्गादिकाः ग्रन्थाः सन्ति।

न केवलं विषयसामग्रीदृष्ट्या अपितु ऐतिहासिकदृष्टयाऽपि चत्वारो वेदाः पूर्ववैदिकयुगे तथा तदुत्तरकालिकवैदिकग्रन्थान्तरवैदिककाले विभाजिताः भवन्ति । आधुनिकाः चेतिहासकाराः तु अनेनैव प्रकारेण वैदिकवाङ्मयस्य विभाजनं कृतवन्तः । वैदिकसाहित्यस्य चत्वारो भागाः वेदानामेवाङ्गभूताः सन्ति ।

यद्यपि साहित्यशब्दः सम्प्रति वाङ्मयमित्यर्थे प्रयुज्यते, यत्राऽर्थे ‘लिटरेचर’- शब्दो वैदेशिकैः प्रयुज्यते । तथाऽप्यत्र वेदशब्दस्य प्रयोगो मन्त्रब्राह्मणयोर्निमित्तेन विधीयते । आपस्तम्बे प्रोक्तञ्च – ‘मन्त्रब्राह्मणयोर्वेदनामधेयम्॥' [८] येन हि यज्ञयागानामनुष्ठानं निष्पन्नतामुपैति देवतानाञ्च स्तुतिविधानं यत्रोल्लिखितमस्ति, स मननात् मन्त्र इत्युच्यते । ब्राह्मणपदं तु ग्रन्थविशेषवाचकमस्ति । यज्ञानां विविधक्रियाकलापप्रतिपादकग्रन्थाः 'ब्राह्मणम्' इत्येतां संज्ञां भजन्ते। 'ब्राह्मणम्' इत्येतस्य पदस्यार्थोऽस्ति - 'वर्धनं विस्तारो वा वितानो वा यज्ञ' इति ॥ ब्राह्मणमपि भागत्रये विभक्तमस्ति । प्रथमो भागः ब्राह्मणमिति, द्वितीयो भागः आरण्यकम् इति, तृतीयो भागस्तु 'उपनिषदि'ति कथ्यते ।

वेदश्च स्वरूपभेदात् त्रिविधः — ऋग्वेदः, यजुर्वेदः सामवेदश्चेति । यत्रार्थवशेन पादव्यवस्थाऽस्ति तेषां छन्दोबद्धानां मन्त्राणां नाम ‘ऋक्’ इति वेद्यम् । ऋचां समूह एव ‘ऋग्वेद' इति पदेन व्यवह्रियते । यजुः इत्येतत्पदं यज् धातोः उसि प्रत्यये कृते निष्पद्यते । यस्मिन् वेदे यज्ञयागादिक्रियाकलापानुरोधेन मन्त्राणां सन्निवेशोऽस्ति स ‘यजुःवेद' इति निगद्यते । यत्र गीतिरूपा मन्त्राः विद्यन्ते स उपासनाकाण्डपरो वेदः ‘सामवेद' इति गीयते । मन्त्राणां त्रिविधत्वात् वेदाः ‘त्रयी' इति नाम्ना प्रसिद्धाः सन्ति । मन्त्राणां समूहः ‘संहिता' इत्येतेन व्यपदेशेन व्यपदिश्यते । यज्ञानुष्ठानं दृष्टौ निधाय विभिन्नर्त्विजां कृते संहितानां सङ्कलनं वेदव्यासश्वकार । मन्त्रसंहितानां सङ्कलनं चतुविधतया कृतं, तस्मात् संहिताः सन्ति चतस्रः - ऋक्संहिता, यजुःसंहिता, सामसंहिता, अथर्वसंहिताश्चेति । अत एव वेदाश्चत्वारः स्मृताः ।

अतिप्राचीनमिदं वैदिकवाड्मयं तथापि आधुनिका इतिहासविदः दैशिका वैदेशिकाश्च तेषां कालनिर्धारणे बद्धादराः । यथा-लोकमान्यतिलकमहोदयो यद्गणिताधारेण वेदानां ६००० ई० पू० निर्मितत्वम्, ततोऽपि वा पूर्वकालिकत्वं निर्धारितवाँस्तत्र नास्ति सन्देहस्यावकाशः। वेदानां रचनायां जातायां तद्व्याख्यानभूताः ब्राह्मणग्रन्थाः अरच्यन्त । ब्राह्मणग्रन्थेभ्यः पश्चात् आरण्यकानि, तदनन्तरमुपनिषदस्ततो रामायणमहाभारतादिकं लौकिकसाहित्यानि चेति। अतिव्यापकं विस्तृतञ्चेति वैदिकवाङ्मयम् । वैदिकवाङ्मयेऽस्मिन् मानवजीवनोपयोगिनः सर्वेऽपि विषयाः साधु विवेचिता इति कथनं समुचितमेव । अत्र प्रेयःशास्त्रं श्रेयःशास्त्रश्चोभयं समभावेन समेधितम् । अत एवात्र भोगमोक्षयोरुभयोः सत्तायाः सकलसाहित्यापेक्षया विशिष्टता विद्यते । 

 वैदिकवाङ्मयस्य महत्त्वम्[सम्पादयतु]

वैदिकवाङ्मयानामध्ययनं तावदैतिहासिकानां परमप्रीतये कल्पते । वाङ्गमयञ्चैतन्न केवलं विशालभारताभिजनानां जनानामतिवर्षसहस्रपञ्चकम् अभिव्याप्नुवत्प्रातिभिकजीवनस्येतिवृत्तमद्यावधि गोपायति, प्रत्युत त्रिविष्टप( तिब्बत )- चीन-जपान-कोरियादीन् जनपदानपाच्येषु लङ्काद्वीपं प्राच्येषु मलयप्रायोद्वीपं प्रशान्तमहासागरस्थितानि दविष्ठानि, द्वीपान्तराणि च प्रतीच्येषु, अफगानिस्तानतुरुष्कस्थान् प्रभृतीन् च देशान् अधिवसतां सङ्खयातीतनानापौरजानपदानां बौद्धिक-प्रवृत्तिष्वपि खल्वेतत् पुरा प्राज्यं प्रभावमपातयत् । प्रत्यग्रयुगप्रवर्त्तकोऽस्य वाङ्मयस्य प्रभावः परिलक्ष्यते ।

वैदिकवाड्मयमेव भारोपीयभाषावर्गे (तमिळ-तेलगु-मलयालम-कन्नडीति भाषाचतुर्वर्गवर्ज प्रायः सकलभारतीयभाषाः प्राच्यां यथा, तथा प्रायः सकलयूरोपीयभाषाः प्रतीच्यां, वैदिकसंस्कृतमन्विता भवन्तीति तासां वर्गी भाषासर्गे 'भारोपीयवर्गः' इति निरूढिमारूढोऽस्ति।) ज्येष्ठा भाषा, ततश्च वाङ्मयेऽस्याः एतस्य वर्गस्य प्राचीनतमसाहित्यस्य स्मृतयः ( Monuments ) सुरक्षिताः इति न कस्यापि विमतम्। धर्मप्रज्ञायाः समुद्भवः सक्रमोपचयश्च यथा ह्येतत्साहित्याश्रयेण परिचीयते, न तथा निखिलायामवन्यां साहित्यान्तराश्रयेण ।

धर्मदर्शनयोभयविकासज्ञानार्थश्च वैदिकवाङ्मयस्याध्ययनं प्रायोऽपरिहार्यं भवति । मैकडोनलमहोदयेनोक्तम् —भारोपीयभाषाभाषिषु जनेषु भारतीयैरेव केवलं वैदिकधर्मो नाम महान् राष्ट्रियधर्मः, अस्य प्रतिपक्षी बौद्धधर्मो नाम महान् सार्वभौमधर्मश्च निरमायि । अप्रदर्शितधर्मविषयोपज्ञैर्जनान्तरैस्तु बहुतिथात्कालात्पूर्वमश्वदेशज एव धर्मः खलूरीकृतः । अथ महती मननशक्तिम् अभिव्यञ्जयन्ति स्वोपज्ञानि विविधदर्शनप्रस्थानानि अपि भारतीयैः सन्ततानि । उपज्ञासमृद्धं खलु वैदिकवाङ्मयमिति तु वाङ्मयान्तरादन्योऽस्य विशेषः । खीष्टात्प्राक् चतुर्थशताब्द्यां भारतवर्षोपरि सञ्जातात् यवनाक्रमणाच् पूर्वमेव नूनम् आमार्यसभ्यताप्रौढिमवाप, न च ततःप्रभृति जातुचिद्देशान्तरिणा केनचिदाक्रमणेन अस्यां संसर्गदोष उदियाय। उपलभ्यमानेव वैदिकवाङ्मयं परिणामतुलया एकीकृतं समग्रमपि रोमयवनोभयवाङ्मयमतिशेतेतराम् । मेकडोल- इत्यनेनोक्तम् — 'सर्वेषामपि सनातनानां साहित्यानां मध्ये वैदिकवाङ्मयं मौलिकतामूल्येन सौन्दर्यगुणप्रकर्षेण च महत्त्वपूर्णपदमवाप । मानवप्रकृतिविकाशानुशीलनस्य प्रधानसाधनता तु वेदेषु अन्यवाङ्मयेभ्यो निःसंशयम् उत्कृष्टा एव।' इति।

भारतीयसाहित्येतिवृत्तं तावत् वैदिककालः लौकिकसंस्कृतकालश्चेति कालद्वयेन द्विधा विभज्यते । पाणिनेः प्राक् प्रथमः कालः, परतश्चापरो कालः गण्यते । अाद्ये हि वेदाः, ब्राह्मणानि, अारण्यकग्रन्थाः, उपनिषदः, कल्पाश्चेति सारस्वतं समावेश्यते । विलक्षणा खलु सातत्यगतिरार्यसभ्यतायाः दरीदृश्यतेऽस्मिन् वैदिकवाङ्मये । प्रार्थनोपासना, मन्त्रजपः, जननीजठरे शरीरग्रहणमारभ्याऽऽशरीरत्यागादार्यजीवनं विशिषन्तः षोडशसंस्काराः, अरणीभ्यां हव्यवाहोः जननं, श्रौतगृह्याणि, बहूनि विध्यन्तराण्यपि च खीष्टाद् बहुसहस्रवर्षपूर्वभवं विधिमनतिक्रम्यैव यावदद्य प्रवर्तन्ते । न खलु तावतैवालम्। यूरोपीयसंस्कृतिदर्शनयोः विकाशं विज्ञातुमपि वैदिकवाङ्मयस्याध्ययनं नितरां व्यपेक्षते । तथा चोक्तं विण्टरनिट्जमहोदयेन यत्, ‘अस्माकं स्वसंस्कृतेरुपक्रमप्रक्रमाः बुभुत्सिताः, यदि चास्माकं पुराणतमभारोपीयसंस्कृतिः विविदिषिता, तदा यत्र भारोपीयजनानां वर्षिष्ठं वाङ्मयं सुरक्षितं, तदा भारतवर्षमेव खलु अस्माकं गतिरिति'।

भारतीयैः खलु विशेषेणाध्येतव्यमिदं वाङ्मयम् । भारतीयानां प्राचीनवाङ्मयस्य संस्कृत्याश्च वैदिकवाङ्मयं श्रेष्ठं दर्पणम् । अपि चाधुनिकीनां हिन्दी-पंजाबी-बंगला-उडिया-गुजराती-मराठी-राजस्थानी-बिहारी-आसामीप्रभृत्युत्तरे भारते भाष्यमाणानां सर्वासां भाषाणां जननीयं भाषा । दक्षिणभारतेऽपि या तामिल-तेलगु-मलयालम-कन्नड़ादि आधुनिक्यो भाषाः सन्ति, ताः अपि वैदिकवाङ्मयेन भृशं प्रभाविताः । तथाहि सूत्रे मणिगणा इव ग्रथिताः वैदिकवाङ्मये भारतीयाः सर्वाः भाषाः सन्ति । न हि वैदिकवाङ्मयज्ञानेन विनाऽऽधुनिकीनां भाषाणां सम्यक् ज्ञानं सम्भवम् । ‘कोऽहम् ? कुतः आयातः ? कथन्नु स्यात्सुखावाप्तिः ? दुःखनिराकरणं वा कथं स्यात् ? इति मानवानाम् अध्यात्मविषयिणी सनातनी जिज्ञासा वैदिकवाङ्मये विशदीकृता । वेदशब्दस्यार्थः ‘विद्यन्ते धर्मादयः पुरुषार्थाः यैस्ते वेदाः' इति बह्वक्प्रातिशाख्यम् । किञ्च वेदानां स्वरूपविषये चेज्जिज्ञासा हृदि विजुम्भते तदा तद्विषयक ज्ञानं वेदेभ्य एव लब्धुं शक्यमस्ति ।

 वेदशब्दस्य अर्थः[सम्पादयतु]

सायणस्तु अपौरुषेयवाक्यं ‘वेद' इत्याह । इष्टप्राप्त्यनिष्टपरिहारयोः अलौकिकमुपायं यो वेदयति स 'वेद' इति भाष्यभूमिकायामुक्तम् । तस्य प्रमाणमपि तत्रैवोक्तम् -

'प्रत्यक्षेणानुमित्या वा यस्तूपायो न विद्यते ॥

एतं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥'

अाम्नायः, अागमः, श्रुतिः, वेदः, इति सर्वे शब्दाः परस्परं पर्यायाः । ज्ञानार्थको वेद इत्येतत्पदं विद्धातोः घञि प्रत्यये कृते निष्पद्यते । वैयाकरणसिद्धान्तकौमुद्यां तु चुरादिप्रकरणे चतुर्ष्वर्थेषु विद्धातोः प्रयोगोऽस्ति । तद्यथा—

'सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे ।

विन्दते विन्दति प्राप्तौ श्यन्लुक्श्नम्शेष्विदं क्रमात् ॥'

उक्तार्थानां वाचकात् विद्धातोः वेद इत्येतत्पदस्य निष्पादनो भवति ।

सत्तार्थक-विद्धातोः घञ्प्रत्ययान्निष्पन्नस्य ‘वेद’ इत्येतत्पदस्याऽर्थो भवति ‘विद्यते सत्तां गृह्णाति वस्तु अनेन इति वेदः।'
ज्ञानार्थकात् विद्धातोः घञ्प्रत्ययान्निष्पन्नस्य वेद इत्येतत्पदस्यार्थोऽस्ति ‘विदन्त्येभिः धर्मब्रह्मणी क्रियाज्ञानमयं ब्रह्म वा इति वेदः ॥'
विचारार्थकात् विद्धातोः 'अच्'-प्रत्ययान्निष्पन्नस्य वेदशब्दस्यार्थस्तु 'विन्ते विचारयति धर्मब्रह्मणी क्रियाज्ञानमयं ब्रह्म वेति वेद इति ।'
लाभार्थकात् विद्धातोः घञ्प्रत्ययान्निष्पन्नस्य वेद इत्येतत्पदस्यार्थस्तु 'विदन्ते स्वरूपं लभन्ते वस्तु अनेनेति वेद:।'
ऋग्वेदभाष्यभूमिकायान्तु 'विदन्ति जानन्ति, विद्यन्ते, भवन्ति, विन्ते, विचारयति, विदन्ते, लभन्ते सर्वे मनुष्याः सत्त्वविद्यां यैर्येषु वा तथा विद्वांसश्च भवन्ति ते वेदाः ॥'

आपस्तम्बानुसारेण—'मन्त्रब्राह्मणयोर्वेदनामधेयम् ।'

अपौरुषेयः वेदः[सम्पादयतु]

वेदस्य स्वरूपविषये प्रतीच्या विपश्चितो वेदान् ऋषिप्रणीतान् मन्यन्ते । तेषां हि आधिभौतिकीदृष्टिस्तान् शब्दराशिमेव सामान्यग्रन्थमेवावगच्छति। फलतः यः ऋषि येन मन्त्रविशेषेण सम्बद्धोऽस्ति स तस्य कर्ता । ऋग्वेदेऽपि कर्तृत्वपदस्य स्पष्टत उल्लेखो प्राप्यते - ‘इदं ब्रह्मक्रियमाणं नवीयः’ (ऋ० ७॥३५॥ १४), ‘ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः' (ऋ० ७॥३७॥४), ‘ब्रह्मेन्द्राय वत्रिणे अकारि’ (ऋ० ७॥९७॥९ ) प्रभृतिमन्त्रेषु ‘ऋषिप्रणीता एव वेदमन्त्राः सन्ति' अस्य कथनस्योल्लेखः स्पष्टतया प्रतिभाति । भारतीयाविपशश्चितां मतमिदं यद्, ऋषयो वैदिकमन्त्राणां द्रष्टारः सन्ति न च कर्तारः इति। असङ्खयेयवैदिकमन्त्राणामनुशीलनेन प्रतीतो भवति यद्, अलौकिकसामर्थ्यशालिनः ऋषयो दिव्यया प्रतिभया मन्त्राणां दर्शनं लब्धवन्तः (द्रष्टव्यः - ऋ० ७॥३३, ७॥१३ मन्त्राः) इति। कतिपयेषु मन्त्रेषु मुनिवसिष्ठम् अलौकिकदृष्ट्या प्रदत्तज्ञानस्य उल्लेखः दृश्यते (ऋ. ७/८७/४ - ७/८८/४)। ऋग्वेदेऽनेकत्र वाचः भव्यास्तुतिः दृग्गोचरी भवति । मन्त्राणां प्रकाशस्तद्धियि अवततार । तद्यथा -

‘यज्ञेन वाचः पदवीयमायन्, तामन्वविन्दन् ऋषिषु प्रवीष्टान्' - ऋ० १०॥७१॥३

ऋषिदृष्टप्रार्थनायाः अलौकिकफलस्य निर्देशोऽपि वेदे एव लभ्यते ( ऋ० ३॥५३॥१२, ॥७॥३३॥३ ) मन्त्रेष्वेव वैदिकवाण्याः नित्यतायाः प्रमाणम् अस्ति। तेषु प्रमाणेषु ‘वाचा विरूपनित्यया' ( ऋ० ८॥७५॥६) मुख्योऽस्ति ‘ऋषि' इत्येतस्य पदस्य व्युत्पत्तिलभ्यः ( ऋषति पश्यति इति ऋषिः ) अर्थ एव मन्त्रद्रष्टा इत्यस्ति।

एष 'ऋषि'-शब्द इगुपधात् कित् इत्यनेनौणादिकेन सूत्रेण इनि कृते निष्पद्यते । निरुक्ते च विद्यमानात् ‘तद्येनास्तपस्यमानान् ब्रह्म स्वयम्भ्वभ्यानर्षत्...॥ इत्यादिकाः पङ्क्तयः ऋषेर्मन्त्रद्रष्टृत्वमुपपादयन्ति । अत ऋषयः मन्त्राणां द्रष्टारः सन्ति न च कत्तारः ।

“ऋषिर्मन्त्रद्रष्टा ॥ गत्यर्थत्वात् ऋषेर्ज्ञानार्थत्वात् मन्त्रं दृष्टवन्तः ऋषयः ॥' ( श्वेतवनवासिरचितवृत्तौ उणादिसूत्रं ४॥१२९ द्रष्टव्यम् ) एवञ्च निरुक्तेऽपि ‘तद्यदेनांस्तपस्यमानां ब्राह्मस्वयम्भ्वभ्यानर्षत् त ऋषयोऽभवंस्तदृषीणामृषित्वमिति विज्ञायते ऋषिदर्शनात् ॥ मन्त्रान् ददर्श इत्यौपमन्यवः ॥'

न्यायवैशेषिकयोर्मतेन वेदाः पौरुषेयाः नित्याश्च सन्ति । परं सांख्य-वेदान्तमीमांसानाश्च मतेन ते अपौरुषेयाः सन्ति । नित्यत्वञ्च तेषां दर्शनानीमानि स्वीकुर्वन्ति स्मृतिपुराणेषु च वेदसम्बन्धिनी भावना तादृश्येव प्रायेण, यादृशी मीमांसायां विभावितास्ति। मनुर्वेदान् नित्यान् अपौरुषेयांश्व मन्यते । [९] उद्धवोऽपि वेदान् नित्यान् अपौरुषेयांश्व मन्यते। [१०]

वेदानां रचनकालः[सम्पादयतु]

सृष्ट्युत्प्रति-प्रकरणे ऋग्वेदस्य पुरुषसूक्तस्य अष्टममन्त्रस्यानुसारेण ऋगादीनां चतुर्णामपि वेदानाम् उत्पत्तिः सृष्ट्युत्पत्तिकाले एव सिद्धयति । ज्योतिषगणनानुसारेण सृष्टयुत्पत्तिकालादारभ्य अध्याविधिपर्यन्तं २०१० सौरवर्षाणि, तदनुसारेण १,९५,५८,०३५ वर्षाणि व्यतीतानि इति निश्चीयते । इत्थं सनाथनमान्यतानुसारेण ऋषिदृष्टानां वेदानाम् अपौरुषेयत्वम् अनादित्वमेव संगीकरणीयः , किन्तु अनुसन्धानकुशलैः पाश्चात्यैः भारतीयश्च वेदानामपौरुषेयतवम्-नादित्वञ्च नैव् स्वीक्रियते । तेषां विदूषां मते ऋषिप्राणीतोऽयं वेदराशिः । एतेषां वैदिकमन्त्राणां रचनाकालस्तुसर्वथा अनुसन्धानवि षयः अस्त्यवे । अत एव पाश्चात्याः भारतीयाश्च स्व-स्व बुद्ध्यनुसारेणवेदकालं निर्णेतुं यतन्ते । तान् अनुसन्धान-कुशलान् अधिकृत्य अत्र कतिचन विचारः प्रस्तूयन्ते-

  • मैक्स्मूलर्-महोदयेन वैदिकसाहित्ये चन्द-मन्त्र-ब्राह्म्णसूत्रात्मकानि चत्वारि-युगानि स्वीकृतानि ।प्रत्येकयुगविकासाय तेन २०० वर्षस्य कालखण्डः स्वीकृतः। अस्य मान्यता अस्ति यत शाक्यमुनेः बुद्धात् ६०० वर्षपूरवमेव, अर्थात् 1200 ई. पूर्वमेव छन्दोयुगस्य अस्तित्वम् आसीत् । इत्थम् ऋग्वेदस्य रचनाकालाः 1200 + 2010 = 3210 व्र्षेभ्यः पूर्वमेव भवितुंशक्नोति । | 
  • वेबर-महोदयस्य्य मतमस्ति यत् वेदाः कियत् प्राचीनाः सन्ति इति निश्चयेन वक्तुं नैव पार्यते, तथापि वक्तुमिदं शक्यते यत् वेदाः 1500 B.C. इति तिथेः प्राचीनाः तु सन्त्येव । अत्र कापि शंका नास्ति
  • जैकोबी-महोदयस्य वैदिकरचनाकालविषयकः सिद्धान्तः ज्योतिषशास्त्रावलम्बी दरिदृश्यते । अनेन महोदयेन ऋग्वेदस्य मण्डुकसूक्तस्य ऋचाम्4 अधिकृत्य ज्योतिषगणनानुसारेण वैदिकरचनाकालः 2500 B.C. स्वीकृतः
  • बाल-गंगाधर-तिलक-महोदयस्य वैदिककालविषयकः सिद्धान्तः अपि ज्योतिषसास्त्रमेव अनुसरति । वसन्तसम्पातम् (Vernal Equinox) अधिकृत्य लिखिते ओरायन (Orion) नामके ग्रन्थे महापुरुषोऽयं अवीकरोति यत् ऋग्वैदिकमन्त्राणां रचनकालः 6000 B.C. इत्यारभ्य 4000 B.C. यावत् प्राचीनः भवितुं शक्नोति । पुनश्च स्वीकीये ’आर्कटिक होम इन द वेदज’ (Arctic Home in the Vedas) इति नामके ग्रन्थे तिलक महोदयः वैदिकरचनकालः (10000 B.C.) इति स्वीकरोति ।
  • पं शंकर-बालकृष्ण-दीक्षित-महोदयः शतपथब्रह्मणस्य “एकं द्वे त्रीणि चत्वारि या अन्यानि नक्षत्राणि , अथौता एव भूयिष्टा, यत् कृतिकास्तद् भूमानमेव एतदुपैति, तस्मात् कृत्तिकास्वास्वादधीत । एता ह वै प्राच्या दिशो न च्यवन्ते, सर्वाणि ह वा अन्यानि नक्षत्राणि प्राच्या दिशः च्यवन्ते “ (शतपथब्राह्मण ॥2-1-2) नक्षत्र-निर्देशमधिकृत्य ज्योतिषगणनया शथपतब्राह्मणस्य रचनाकालः 3000 B.C. इति स्वीकरोति । शतपथब्राह्मणादपि प्राचीनतरः ऋग्वेदः तस्य मते 3500 B.C. इति भवितुं शक्यते ।
  • विन्टरनित्ज-महोदयेन ब्राह्मणग्रन्थानां, पाणिनिव्याकरणस्य, संकृतभाषायाः, अशोककालिकशिलालेखभाषायाः तथ वैदिकभाषायाः प्ररस्परिजतुलानात्मकाध्ययनेन ऋग्वेदस्य रचनाकालाः 6000 B.C. iइत्यारभ्य 4500 B.C. इति कालस्य मध्यवर्ती कालखण्डः स्वीकृता ।
  • अविनाशचन्द्रदास्-महोदयेन वेदस्य रचनकालः स्वकीये 'ऋग्वेदिक इण्डिया’ (Rigvedic India) इति नामके ग्रन्थे अनेकलक्षवर्षपूर्वं सवीक्रियते । अनेन महोदयेन आर्यावर्ततश्चतुर्दिषु चतुःसमुद्राअणां स्थितिमाधारीकृत्य बौगोलिक-गणनपद्धत्या वेदस्य रचनाकालः पंचविंशतिसहस्र्रसम्वत्सारपूर्वं मन्यते ।
Om buttom.svg

वेदानां महत्त्वम्[सम्पादयतु]

वेदस्य प्राधान्यं प्रदर्शयितुम् एषः श्लोकः एवमुक्तम्-

योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः” ॥ (मनुः)॥

(यः द्विजः वेदम् अनधीत्य अन्यत्र श्रमं कुरुते सः जीवन् एव शूद्रत्वम् आशु गच्छति।)

अपिच –

वेदशास्त्रार्थतत्वज्ञो यत्र कुत्राश्रमे वसन् ।
इहैव लोके तिष्ठन् सः ब्रह्मभूयाय कल्पते ॥

चतुराश्रमेषु कस्मिन्नपि विद्यमानो वेदशास्त्रार्थतत्त्वज्ञो इहैव लोके तिष्ठन् सः ब्रह्मपदम् अलङ्करोति । वेदाः भारतीयानां हि आद्याः धर्मग्रन्थाः ।“धर्मजिज्ञासमानानां प्रमाणं परमं श्रुतिः” – इत्यपि पण्डितगोष्ठीषु आद्रियते ॥

अस्मदीयाः पूर्वजाः केन प्रकारेण जीवनं यापितवन्तः ? काभिः क्रीडाभिस्ते स्वकीयं मनः मोदितवन्तः ? काः देवतास्ते पूजितवन्तः ? इत्यादि जिज्ञासायां यथार्थज्ञानं वेदेभ्य एव उपलभ्यते। भारतीयदर्शनानां रहस्यं तेषां विकासं वैविध्यञ्च तत्त्वतो वेदसाहाय्येनैव ज्ञेयं भवितुमर्हति । सर्वशास्त्राणां सर्वभूतस्य च रहस्यं वेदेषु एव स्फुरति । भूयिष्ठप्रयोजनसाधकत्वात् वस्तुतः वेदाः सन्ति परममहत्त्वभाजो ग्रन्थाः ॥ न्यायवैशेषिकयोर्मतेन वेदाः पौरुषेयाः नित्याश्च सन्ति । परं साङ्ख्यवेदान्तमीमांसानाञ्च मतेन ते अपौरुषेयाः सन्ति । मनुः वेदान् नित्यान् अपौरुषेयांश्च मन्यते । देवतास्तुतिरूपेण प्रकृति्शक्तीन् वनौषधिनदीसूर्यचन्द्रादींश्च तत्र तत्र वर्णयन्ति । वेदेषु सामूह्यजीवनस्य मनुष्यस्य परस्पराश्रयत्वस्य च परमोन्नतं स्थानं द्रष्टुं शक्यते।

अत्र सर्वाङ्गपूर्णतया मानवजीवनोद्देश्यभूताः धर्मार्थकाममोक्षाख्याश्चत्वारोऽपि पुरुषार्थाः विवेचिताः, अतः वैदिकवाङ्मये मानवजीवनोपयोगिनः सर्वेऽपि विषयाः साधु विवेचिताः। अत्र प्रेयःशास्त्रं श्रेयःशास्त्रश्चोभयं समभावेन समेधितम् । अतः एवात्र भोगमोक्षयोः उभयोः सत्तायाः सकलवाङ्मयापेक्षया विशिष्टता विद्यते। तस्याऽध्ययनमिहापरिहार्यत्वेन अनिवार्यत्वेन चाभ्युपगतम् । योहि द्विजो वेदमनधीत्यान्यत्र श्रमं विदधाति स इह शूद्रो मतः ।[११] [१२] भारतीयविचारधाराया द्रढीयानयं विश्वासो यद्वेदतत्त्वज्ञ एव जनो ब्रह्म ज्ञातुमर्हति ।[१३] अस्मदीयाः पूर्वजाः केन प्रकारेण जीवनं यापयामासुः ? काभिः क्रीडाभिस्ते स्वकीयं मनो मोदयामासुः ? का देवतास्ते पूजयामासुः ? विवाहसम्बन्धस्योद्देश्यं किन्ते निर्धारयामासुः ? केन च विधिना ते प्रभाते अग्नावाहुतिं समर्पयामासुः ? एव लब्धुं शक्यमस्ति । अध्यात्मदर्शनस्य भारतीयदर्शनानाश्च रहस्यं तेषां विकासस्य वैशिष्टयञ्च मूलतः वेदसाहाय्येनैव ज्ञेयं भवति । वेदानां वैविध्यश्चापि अस्यैव साहाय्येनैव ज्ञेयं भवितुमर्हति । वेदोत्तरकालिकसाहित्ये - ब्राह्मणग्रन्थोऽयमेवं वदति, दर्शनशास्त्रमिदं ब्रवीति, वेदाङ्गभूतमिदं शंसति, अमुकः स्मृतिरिदं कथयति इत्येवंविधायां स्थित्यां किं कार्यं, किं न कार्यम् इत्यस्य कृते वेदं शरणं यान्तु । तत्तच्छास्त्रादीनां तत्तत्कथनस्य रहस्यं वेदे एव उन्मीलयिष्यति । तदेव तद्विधां शङ्कामपनोदयति । भाषादृष्ट्या अपि वेदानां महत्त्वं वर्तते। वैदिकभाषेवेयं वर्तते या साम्प्रतिक-भाषाविज्ञानं द्रढीयसीं भूमिमध्यासयति स्म, इयं वैदिकभाषेवाऽस्ति या भाषाविदां मध्ये प्रसृतं प्राचीनभाषाविषयकमतभेदं निराकृतवती । ज्ञास्यन्तीदंश्च भौतिकेऽर्थेषु प्रयुज्यमानानि पदानि युगान्तरेण कस्मादाध्यात्मिकेऽर्थ प्रयुक्तानि भवितुमारभन्ते। भूयिष्ठप्रयोजनेन साधकत्वात् वस्तुतो वेदाः सन्ति परममहत्त्वभाजो ग्रन्थाः।

प्रतीच्याः (पाश्चात्याः) विपश्चितो वेदान् ऋषिप्रणीतान् मन्यन्ते । परन्तु भारतीयानां मते ऋषयो वैदिकमन्त्राणां द्रष्टारः सन्ति न तु कर्तारः । अलौकिकसामर्थ्यशालिनः ऋषयो दिव्यया प्रतिभया मन्त्राणां दर्शनं लब्धवन्तस्तेषां प्रकाशस्तद्धियि अवततार | 'ऋषि' इत्येतस्य पदस्य व्युपत्तिलभ्यः ‘ऋषति पश्यति इति ऋषिः' इत्यर्थ एव 'मन्त्रद्रष्टा' इत्यस्ति एव ऋषिः शब्दः इगुपधात् किदित्यनेनौणादिकेन सूत्रेण इनि कृते निष्पद्यते । निरुक्ते च विद्युमानाः – ‘तद्येनास्तपस्यमानन् ब्रह्मस्वयम्भ्वभ्यानर्षत्॥' इत्यादिकाः पङ्क्तयः ऋषेर्मन्त्रद्रष्टृत्वमुपपादयन्ति।

प्रधानरूपेण वेदो द्विविधः — मन्त्ररूपो ब्राह्मणरूपश्चेति। मन्त्रसमुदाय एव संहिताशब्देन व्यवहृतः । ब्राह्मणरूपो वेदभागस्तु संहिताभागस्य व्याख्यारूप एव । स चायं ब्राह्मणभागो यागस्वरूप बोधकतया प्रथितः । ब्राह्मणग्रन्थोऽपि त्रिधा विभक्तो भवति - ब्राह्मणम्, आरण्यकम्, उपनिषदश्च । यज्ञस्वरूपप्रतिपादको ब्राह्मणभागश्व। अरण्ये पठिताः यज्ञस्याध्यात्मिकं रूपं विवेचयन्तो वेदभागाः आरण्यकानि । उपनिषदो ब्रह्मबोधिकाः मोक्षसाधनानि, अयमेव भागो वेदस्यान्तरूपतया वेदान्त इत्युच्यते । ब्राह्मणभागो गृहस्थानामुपयोगी, आरण्यकभागो वानप्रस्थमाश्रितानाम् उपनिषद्भागश्च संन्यस्तानामुपयोगीत्यपि कथयितुं शक्यते ।

 वेदरक्षा[सम्पादयतु]

वेदास्त्वाचूलमूलं धर्म्यप्रवृत्तिकम्। अतो वेदानां परमोपादेयत्वाद्, अतिशयतममहत्त्वशालित्वाच्च महर्षयस्तान् रक्षितुमपि पूर्णमुपायञ्चक्रुः । वेदा एतावद्दीर्घकालानन्तरमपि लोके समवाप्ताः सन्तीत्यत्र कारणमेव महषिकृतः प्रयत्नः। महर्षयो हि वेदरक्षार्थम् अष्टविकृतीनां व्यवस्थां विदधुः। ताः विकृतयः अधःस्थितेन शलोकेनाभिव्यक्तीक्रियन्ते -

'जटा माला शिखा रेखा ध्वजो दण्डो रयो घनः ।

अष्टौ विकृतयः प्रोक्ताः क्रमपूर्वा महर्षिभिः ॥'

मन्त्राणां प्रकृतोपलब्धः पाठः 'संहितापाठ’-पदेन व्यवह्रियते । अत्र कतिपया एव विकृतयो हि वर्ण्यन्ते । पदच्छेदपूर्वकपाठः 'पदपाठ' इत्युच्यते । क्रमपाठः स भवति यत्र पदपाठगतं प्रतिपदं पूर्वोत्तरपदाभ्यां सङ्गमय्य द्विरुच्चार्यते। जटापाठः स भवति यत्र क्रमपाठम् आलम्ब्य प्रतिपदयुगलं त्रिरुच्चार्यते। एतावान् भेदो यच्छिखायाम् अन्यच्चैकं पदमग्ने संश्लिष्टतां याति। उक्तञ्च -

'पदोत्तरं जटामेव शिखामार्याः प्रचक्षते।'

घनपाठो नितरां विलक्षणः क्लिष्टश्च । तत्र पदानाम् आवृत्तिः अनुलोमविलोमक्रमेण आसकृज्जायते । घनस्तु चतुर्विधः भवति। तत्र प्रथमप्रकारको वदति -

‘शिखामुक्त्वा विपर्यस्य तत्पदानि पुनः पठेत् । अयं घन इति प्रोक्तः।'

प्रक्षेप-च्युत-व्यवसादादि-विकारेभ्यः परित्रातुं श्रुतिं पद-क्रम-घनजटादिपाठाः अाविष्कृताः । एषां सद्भावेन न श्रुतिषु अद्यपर्यन्तम् अणुमात्रमपि दोषलेशः प्रविष्टो भवितुम् अशकत्। प्रातिशाख्यग्रन्था अपि वेदपाठस्य रक्षणार्थं विरचिता अभूवन्।

संहितापाठः[सम्पादयतु]

ओषधयः संवदन्ते सोमेन सह राज्ञा ॥ ऋ० १०॥९७॥२२ ॥

पदपाठः

ओषधयः सं । वदन्ते । सोमेन । सह राज्ञा

क्रमपाठः

ओषधयः सं । सं वदन्ते । वदन्ते सोमेन । सोमेन सह । सह राज्ञा । राज्ञेति राज्ञा।

जटापाठः

अोषधयः सं, समोषधयः, ओषधयस्, सम् ।

सं वदन्ते, वदन्ते, सं, सं, वदन्ते ।

शिखापाठः

अोषधयः सं, समोषधय, ओषधयेः सं — वदन्ते।

संवदन्ते, वदन्ते सं, संवदन्ते-सोमेन ।

धनपाठः

ओषधयः सं, समोषधय ओषधयः संवदन्ते,

वदन्ते समोषधय अोषधयः संवदन्ते ॥

संवदन्ते वदन्ते सं संवदन्ते सोमेन,

सोमेन वदन्ते सं, संवदन्ते सोमेन ॥

अस्य घनपाठस्य परीक्षणेन ज्ञातो भवति यत्, प्रथमपदन्तु पञ्चवारं, द्वितीयपदन्तु दशवारं, तृतीयपदं त्रयोदशवारं, चतुर्थपदमपि त्रयोदशवारं समायाति इति। इयं हि मेधाशक्तेः पराकाष्ठा वर्त्तते । मेधाविनो मुनेः ज्ञानस्योत्कर्ष एवाऽस्ति ।

सामवेदस्य मन्त्रस्थस्वराणां गणनासङ्केतस्तु अतीव प्रमाणिकतयैव त्रिविष्टो भवति । अस्मिन् स्वरे स्तोकमपि स्खलनस्य सम्भावना न वर्त्तते । इयं स्वरगणना समीचीनाऽस्ति। निम्नलिखितोदाहरणेनेयं वैज्ञानिकपरिगणना स्पष्टतया परिलक्षिता भवति -

रेवतीर्न सं ध मा द इन्द्र सन्तु तु विवाजाः

क्षुमन्तो याभिमदेम

अा द्य त्वावान त्मना युक्तः स्तोतृभ्यो घृष्णवियानः

ऋणोरक्षं नु चक्र्यौः ॥

अा यद् दुर्वेः शतक्रतवा कामं जरि नृणाम्

ऋणो रक्षं न शचीभिः'।। ३।१४ ठी ( धा० १८उ० २। स्व० ४ )

अस्ति सामवेदस्य उत्तराचिकस्येयं ऋच् । एतस्याः ऋचामुपर्युदात्तादि त्रयाणां स्वराणां विशिष्टचिह्नानि भवन्ति। ऋग्वेदे तूदातस्वराः तथा प्रचयस्वराः चिह्नरहिता एव भवन्ति । अनुदात्तस्याधोभागे लम्बरेखा (—) तथा स्वरितस्योपरिभागे ऊर्ध्वगा रेखा (।) भवति। तद्यथा -

अग्नि मी ले पु रो हि तम् अ उ स्व प्र अ उ व प्र

किश्च सामवेदस्य स्वराङ्कनप्रकारः भिन्नरूपेण भवति । अत्रोदात्तस्योपरि —

१, स्वरितोपरि —

२, तथाऽनुदात्तोपरि - ३, अङ्कानां सङ्केतो भवति ।

कदाचिदेतद्भिन्नोऽपि चिह्नो भवति-

१. अन्तिमोदात्तस्योपरि - २ चिह्रो भवति । यथा – गि रा (साम. ८) ।

२. २र, विशिष्टोऽयं चिह्नः ।

(क) यदा एककालावच्छेदेन उदात्तद्वयस्य प्रयोगो भवति, तदा प्रथमोदात्तोपरि - १, तथा द्वितीयोदात्तस्तु चिह्नविरहितो भवति । एवं तत्परे स्वरितोपरि २र चिह्रो भवति । यथा —

‘उत द्विषो मर्त्यस्य' ( साम. ६ ) ।

अस्मिन् मन्त्रे 'षो' एवं ‘म' उदात्तद्वयमस्ति । अत्र प्रथमोदात्ततोपरि - १ चिह्रस्तथा द्वितीयोदात्तः 'म'त्वचिह्नितमेव । तत्परे 'र्य' स्वरितोपरि '२ र' चिह्रो भवति ।

(ख) अनुदात्तात्परे स्वरितोपरि '२ र' चिह्रो भवति तथा पूर्वोऽनुदात्तोपरि '३ क' चिह्नितो भवति । यथा -

त न्वा (साम. ५२) च म्बोः । अर्थात् जात्यस्वरितोपरि “२ र' चिह्नो भवति।

३ - ‘२ उ, यदोदात्तद्वयस्य युगपदेव प्रयोगो भवति तथा तत्पश्वादनुदात्तः समायाति तदा प्रथमोदात्तोपरि ‘२ उ' चिह्नितो भवति, द्वितीयस्त्वर २ऊउ विहित एव भवति । यथा - ऊ त्या व सो (साम. ४१) अत्र 'त्या' एवं 'व' इति उदात्तद्वयस्य पश्चात् ‘सो' इत्यनुदात्तः अस्ति । फलतः प्रथमोदात्तः 'त्या' इत्युपरि '२ ऊ' इति सङ्केतः अस्ति ।

सामवेदे एतस्याः विशेषगणनायाः व्यवस्था विशेषरूपेण भवति । उपरिनिर्दिष्ट ऋचि अष्टादशाक्षराणि अचिह्नितानि सन्ति । प्रथम ऋचि अचिह्नितान्यक्षराणि चत्वारि सन्ति। द्वितीयेऽपि ऋच्यचिह्नितानि चत्वारि एवाक्षराणि सन्ति । तृतीये ऋचि दशाक्षराण्यचिह्नितानि सन्ति । एतेषां सङ्कलनमष्टादशाक्षराणि भवन्ति । यत् धा. '१८' धारी इति पदेन सूचितो भवति। '२ उ' इति संकेतेन चिह्नितमक्षरद्वयमस्ति । (= उ. २ ) । ‘रकारचिह्नितस्वरितः (२ र) संख्यायां चत्वारः सन्ति । (=स्व. ४ ) । एतेषां त्रयाणां सूचना 'ठी' सङ्केतेन प्राप्यते। ठी = ठ् + ई । 'ई' चतुर्थस्वरो भवति । तेनायं चतुर्णां सूचको भवति । ठकारस्तु टवर्गस्य द्वितीयवर्णोऽस्ति । अतोऽयं ( उ २ ) पदस्य संकेतं करोति । इयं व्यवस्था मात्रोत्तरार्चिकमन्त्राणां कृते एवाऽस्ति । पूर्वार्चिके तु स्वरितः, उदात्तस्तथा धारीपदानाञ्च क्रमः पूर्वक्रमात् विपरीतो भवतीति ।

वेददुर्गस्य रक्षार्थमियं दुर्भेद्या पंक्तिरस्ति । तेन हि अद्याऽपि वेदानां विशुद्धता प्रामाणिकता चाक्षुण्णा एवाऽस्ति ।

 वेदेषु स्वराणां महत्त्वम्[सम्पादयतु]

अनेकप्रयोजनसम्पादनहेतोः वेदेषु स्वराणामुपयोगो विधीयते । प्रथमं प्रयोजनं तु तेषां वेदपाठपरिरक्षणमस्ति, द्वितीयं प्रयोजनमिदं यत्, तैः तत्तत्पदगतोऽर्थो निर्धार्यते । यथा चाह गोनर्दीयः — ‘याज्ञिकाः पठन्ति -स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेत' इत्यत्र सन्देहः - स्थूला चाऽसौ पृषती च स्थूलपृषती इत्येष विग्रहोऽत्र ग्राह्यो वा स्थूलानि पृषन्ति यस्याः सा इति । एवंविधायाः शङ्कायाः निवृत्तिः स्वरेणैव भवितुं शक्याऽस्ति । अतः वेदार्थस्य निर्णयने स्वराः सहायकाः भवन्ति । वाक्यनिर्णयनार्थम् अपि स्वराणाम् अपेक्षा भवति । यत्र क्वचिन्मन्त्रेषु मुद्रणादिदोषवशात्, हस्तप्रतस्य विच्छेदनत्वाच्च विरामादिचिह्वानि नाङ्कितानि जायन्ते, तत्र कुतो वाक्यमारब्धं कुत्र च तदवसन्नमिति न परिज्ञातुं शक्यते, तत्र स्वरैरेव तत्समाघानं भवति । यथा - "पत्नीवन्तं ग्रहं गृह्णान्यग्न' इत्यत्र ‘पत्नीव' इह अन्तिमं पदद्वयं किं पूर्ववाक्यसम्बन्धि उत्त उत्तरवाक्यसम्बधि ? इत्येतस्मिन्सन्देहे प्राप्ते स्वरेणावधार्येते, यदि अामन्त्रितत्वादनुदात्तत्वं ततः पूर्वान्वयि, अाद्युदातत्त्वे तु उत्तरान्वयि इति।

वेदभाष्यकाराः[सम्पादयतु]

मुख्यलेखः : वेदभाष्यकाराः

गुप्तकालिकभारतवर्षे वैदिकधर्मस्य महान् अभ्युदयोऽभवत् ।[१४] गुप्तसम्राट् 'परमभागवतः' इत्युपाधिना स्वात्मानमलंचकार ।[१५] [१६] एवं कर्तुम् असौ आत्मानम् गौरवास्पदममन्यत । अयमेव वैदिकधर्मस्य पुनरुद्धारं कृतवान् । सप्तमे शतके आचार्यकुमारिलेन मीमांसाशास्त्रस्य भूयसी प्रतिष्ठा कृता । अस्य व्यापकप्रभावात् वेदाध्ययनं प्रति पण्डितानां प्रवृत्तिः जागरूकाऽभवत् । बौद्धकालिकभारते वेदाध्ययनं प्रति जनानाम् उपेक्षादृष्टिः अजायत । किञ्च कुमारिलेन सयुक्त्या बौद्धमतस्य सप्रमाणं खण्डनं कृत्वा वेदानां प्रामाणिकता पुनः स्थापिता। कुमारिल-शङ्करयोः समये वेदार्थावबोधनं प्रति जनानां प्रवृत्तिः पुनर्जागरूकाऽभवत् । वैदिकभाष्यकारेषु प्राचीनः भाष्यकारः स्कन्दस्वामिनः प्रादुर्भावस्य अयमेव काल इति सम्भाव्यते।

१. ऋग्वेदभाष्यकाराः[सम्पादयतु]

वेदभाष्यकृत्सु स्कन्दस्वामि-नारायण-उद्गीथ-माधवभट्ट-वेङ्कटमाधव-धानुष्कयज्व-अानन्दतीर्थ-अात्मानन्द-सायणप्रभृतयो भाष्यकाराः सुविदिताः सन्ति।

स्कन्दस्वामी ऋग्वेदे विशदं भाष्यञ्चकार। स निरुक्तेऽपि टीकां कृतवान्। ऋग्वेदसंहितायाः सर्वप्रथमभाष्यमस्यैव सम्प्रति समुपलभ्यते। ग्रन्थकारस्य पुरातनत्वेन सह ग्रन्थस्य अप्यन्तरङ्गगुणेन इदं भाष्यं जनेषु श्लाघ्यं समादरणीयञ्च अस्ति। स्कन्दस्वामिनः जन्म गुर्जरप्रदेशस्य विद्यापीठतया राजधानीभावेन च पुरा प्रथिते 'बलभी' इत्याख्यनगरे अभवत्। अस्य पितुर्नाम भर्त्तृध्रुवः अासीत्। ऋग्वेदभाष्यस्य प्रथमाष्टकस्य अन्ते भाष्यकारेण एतस्य चर्चा स्वयं कृताऽस्ति।

'माधव'-नामधेयाश्चत्वारो भाष्यकाराः उल्लिख्यन्ते इतिहासकारैः। तेष्वेकः सामवेदसंहितायां किञ्चेतरे त्रय ऋग्वेदे भाष्यं लिलिखुः। केषाञ्चनमतेन माधवो नाम न कोऽपि भाष्यकारः सायणः किंवा वेङ्कट एव ‘माधव' इत्येतेन नाम्नः ख्यात आसीत्। अन्ये चाहुः माघवः सायणात् वेङ्कटाच्च भिन्न अासीदतः माधवस्य व्यक्तित्वं स्वतन्त्रमेव। माधव ऋग्वेदे विलक्षणं पाण्डित्यं निदधौ। सायणो वेङ्कटश्चोभौ माधवस्य भाष्यमनुसस्रतुः। अन्योऽप्येकः माधवोऽस्ति। यस्य ऋग्वेदप्रथमाष्टकस्य टीका मद्रासविश्वविद्यालयतः प्रकाशिताऽभवत्। सारगर्भिता इयं टीकाऽस्ति। अल्पाक्षरे सत्यपि मन्त्राणामर्थावबोधने नितान्तमहत्त्वपूर्णाऽस्तीयं टीकेति। द्वादशशततमेशवीयाब्दे वेङ्कटमाधवः अभूदिति पण्डितसाम्बशिवशास्त्री मन्यते। वेङ्कटस्य भाष्यमतिसंक्षिप्तमस्ति। पर्यायवाचिपदान्युपस्थाप्य समन्त्रार्थम् आकलयितुं श्लाघ्यं यत्नं कृतवान्। धानुष्कयज्वा त्रिषु वेदेषु भाष्यं प्रणिनायेत्येष उल्लेखो वेदाचार्यस्य सुदर्शनमीमांसायां दृश्यते। अानन्दतीर्थ एव ‘मध्व' इत्येतेन नाम्ना ख्यातिं ययौ। अयं मध्वः स एव यो द्वैतवादं प्रवर्तयामास। एष बहून् ग्रन्थान् अजग्रन्थत्। आत्मानन्दः ऋग्वेदस्य ‘अस्यवामीयं' सूक्तं व्याख्यातवान्। आचार्यसायणो वैदिकसम्प्रदायस्य वेत्ताऽऽसीत्। निजज्येष्ठभ्रात्रा माधवाचार्येण प्रेरितो भूत्वा व्याख्याकार्येऽस्मिन् असौ प्रवृत्तोऽभूत् तेन भाष्यमिदं माधवीय-नाम्ना विश्वविश्रुतम् अभवत्।

२. सामभाष्यकाराः[सम्पादयतु]

सामसंहितायाः सायणभाष्यात्प्राक् द्वित्रा एव भाष्यकाराः अासन्। माधवः सामसंहितायाः प्रथमभाष्यकारः प्रतीतो भवति। ततः भरतस्वामी सामसंहितोपरि भाष्यमलिखत्। गुणविष्णुः साममन्त्रेषु व्याख्याम् अलखित्। तस्य साममन्त्रव्याख्यानस्य नाम मिथिलायां बङ्गप्रदेशे च प्रसिद्धमस्ति। तत्र सामवेदिनां नित्यनैमित्तिकविधीनाम् उपयोगिनः साममन्त्राणां व्याख्याकृता।

३. शुक्लयजुर्वेदभाष्यकाराः[सम्पादयतु]

( क ) माध्यन्दिनसंहिताभाष्यम्[सम्पादयतु]

उव्वटेन  यजुर्वेदसंहितायाम् स्वनाम्ना भाष्यं रचितम्। उव्वटस्य अनुसरणं कुर्वन् आचार्यमहीधरः अपि स्वभाष्यम् अरचयत्। एतयोः भाष्यम् माध्यन्दिनसंहितायै प्रसिद्धम्।

(ख) काण्वसंहिताभाष्यम्[सम्पादयतु]

हलायुधः ब्राह्मणसर्वस्वम् इति भाष्यम् अलिखत्। सायणाचार्येण सम्पूर्णकाण्वसंहितायामुपरि स्वभाष्यमलेखि। अनन्ताचार्येण काण्वसंहितायारुत्तरार्द्धोपरि (एकविंशत्यध्यायादारभ्य चत्वारिंशदध्यायपर्यन्तम् ) स्वभाष्यं रचितम्।  आनन्दबोधभट्टोपाध्यायेन काण्वसंहितायाः चतुर्थदशकस्य उपरि (एकत्रिंशदध्यायादारभ्य चत्वारिंशदध्यायपर्यन्तम् ) स्वभाष्यं रचितम्।

४. कृष्णयजुर्वेदीय-तैत्तिरीयभाष्यकाराः[सम्पादयतु]

कुण्डिनः तैत्तिरीयसंहितायाः वृत्तिमरचयत्। [१७] पदपाठकारेण आत्रेयेण सह अयं वृत्तिकारोऽस्ति सम्बद्धः। तेनायमपि कोऽपि प्राचीनः अाचार्य एवेति प्रमाणितो भवति। एतदतिरिक्तं किमप्यन्यद् ज्ञातमेव अस्ति कुण्डिनस्य विषये। सम्भाव्यते यदयं वृत्तिकारः गुप्तकाले एव स्ववृत्तिं प्रणीतवान् इति। भवस्वामी नाम कोऽप्याचार्यः ‘तैत्तिरीयसंहितायाः भाष्यग्रन्थं प्रणीतवान्' इत्यपि सम्भाव्यते। यतो ह्यस्य भवस्वामिनः परिचयादिबोधमतस्योल्लेखः स्वकृतबौधायन-प्रयोगसार-नामकग्रन्थस्य आरम्भिकभागे केशवस्वामिना कृतः। तद्यथा - ‘भवस्वामिमतानुसारिणा मया तु उभयमप्यङ्गीकृत्य प्रयोगसारः क्रियते।।' अनेनास्य भाष्यकारत्वं समर्थ्यते। गुहदेवो नाम कोऽपि विद्वान् तैत्तिरीयसंहितायाः भाष्यं प्रणीतवान्। आचार्यक्षुरोऽपि तैत्तिरीयसंहितायामुपरि किमपि भाष्यं प्रणीतवान्। अस्याचार्यस्य विषये सायणाचार्यस्य माधवीयधातुवृत्तौ प्रदत्तेन निर्देशेन ज्ञातो भवति। अस्मिन् निर्देशे क्षुरस्य नाम भट्टभास्करस्य नाम्ना पूर्वमेवोल्लिखितोऽस्ति- ‘यथा त्रय एनां महिमानः सचन्ते (तै० सं० ४-३-११ ) इत्यत्र क्षुरभट्टभास्करीययोः सचन्ते समन्ते इति ॥' अतोऽयं क्षुरः भास्करभट्टस्य पूर्ववत्तीं इति सम्भाव्यते। भट्टभास्करस्य समयनिर्धारणं वैदिकभाष्यकाराणाम् इतिहासार्थं नितान्तम् आवश्यकम अस्ति। सायणाचार्यः स्वभाष्ये भट्टभास्करमिश्रं स्मरति।

५. अथर्वसंहिताभाष्यम्[सम्पादयतु]

सायणात् पूर्ववत्तीं अथर्वसंहितायाः न कोऽपि भाष्यकारोऽभवत्। सायणस्तु सम्पूर्णायाम् अथर्वसंहितायामुपरि भाष्यं लिलेख, किश्च प्रकाशितग्रन्थेषु द्वादश काण्डानाम् ( १-४, ६-८, ११, १७-२० ) एव भाष्यमुपलब्धं भवति। अनेन प्रकारेणास्य वेदस्य सायणभाष्यमप्यपूर्णमेवाऽस्ति।

दैवतवादः[सम्पादयतु]

वेदेषु देवतानां स्थानं महत्त्वावहं भवति । यास्कः वदति यत् देवतासु काश्चन पृथ्वीस्थानीयाः, काश्चन अन्तरिक्षस्थानीयाः, काश्चन दिग्स्थानीयाः इति । पृथ्वीस्थानीयदेवतासु अग्निदेवता, अन्तरिक्षस्थानीयासु इन्द्रदेवता, दिग्स्थानीयासु सुर्यविष्णुप्रभृतिदेवताः सन्ति महीयांसः । जगतो मूले एकैव महाशालिनी महाशक्तिः शोभते । स एव निरतिशय- ऐश्वर्य शालिनीत्वात् ईश्वरः इति गीयते । स एव शक्तिः बहुभिः प्रकारैः स्तुता इत्युक्तम् । देवता प्रायेण त्रीणि रुपाणि धरति । आधिभौतिकम्, आधिदैविकम्, आध्यात्मिकं चेति । इन्द्रियगम्यं रुपम् आधिभौतिकम् । आधिदैविकम्, आध्यात्मिकञ्च स्तः इन्द्रियागम्ये । वेदवर्णितेषु प्रमुखेषु विषयेषु देवतास्तुतिरपि प्रमुखो विषयः ॥

वेदानां सामान्यविभागः[सम्पादयतु]

वेदाः सामान्येन पठन-पाठन–अर्थविचिन्तनादिविषयमवलम्ब्य चतुर्धा विभज्यन्ते । तत्र तावत् प्रथमं संहिता अनन्तरं ब्राह्मणमारण्यकमुपनिषच्चेति । तत्र मन्त्राणां समूह एव स्ंहिता । चतुर्विधतया संहिताविभागः । ऋक्- यजुस्-साम–अथर्वसंहिताश्चेति ॥ मन्त्राणां तथा यागविधीनां च विशदतया प्रतिपादनं ब्राह्मणग्रन्थेषु वर्तते । ब्राह्मणसाहित्यं नितरामेव विशालं व्यापकञ्च भवति । इदं हि साहित्यं गद्यात्मकं वर्तते । ब्राह्मणग्रन्थेषु ऐतरेयम्, शाङ्खायनम् (ऋक्), शतपथम् (शुक्लयजुर्वेदः), तैत्तिरीयम् (कृष्णयजुर्वेदः), ताण्ड्यम् (पञ्चविशम्), षड् विंशम्, जैमिनीयम् (सामवेदः), गोपथम् (अथर्ववेदः) च प्राधान्यमर्हन्ति ॥

वैदिकवाङ्मये आरण्यकं नाम साहित्यमपि प्रधानम् । तदाध्यात्मिकमार्गस्य मीमांसा भवति । वानप्रस्थाश्रमेषु पठिताः आध्यात्मिकचिन्तनधाराः भवन्ति आरण्यकानि । ऐतरेय –शाङ्खायनबृहत् तैत्तरीयारण्यकानि प्रधानानि भवन्ति ॥ उपनिषिदति इति उपनिषद् । तस्यावयवार्थेन सिद्धं भवति परमपुरुषार्थदायकः इति । तासु वेदानां सारभूताः सिद्धान्ताः प्रतिपादिताः सन्ति । चतुराश्रमेषु अन्तिमे आश्रमे संन्यासे उपनिषद्ग्रन्थाः पठिताः भवन्ति । एते ग्रन्थाः मोक्षदायकाः दुःखत्रयविनाशकाश्च भवन्ति । केचनोपनिषद्ग्रन्थाः गद्यात्मकाः, केचन पद्यात्मकाः केचन उभयात्मकाश्च भवन्ति ॥ ऋग्यजुस्सामाथर्वादीनां चतुर्णां वेदानां संहिताब्राह्मणारण्यकोपनिषद्विभागान् विहाय शिक्षाकल्पव्याकरणनिरुक्तछन्दोज्योतिषादीनि षड्शास्त्राणि वेदार्थव्याख्यानपराः स्मृतयः धर्मशास्त्रग्रन्थाः अष्टादशपुराणानि उपपुराणानि इतिहासग्रन्थौ इत्यादिभिः महान् भवति वेदराशिः । अत एव जन्मजन्मान्तराध्ययनविषयाः अत्र सन्ति इति शम् ॥

उद्धरणम्[सम्पादयतु]

  1. ‘देवाधीनं जगत्सर्वं मन्त्राधीनाश्च देवताः'
  2. https://sa.wikisource.org/wiki/साधकपञ्चकम्
  3. p. 126, History of British Folklore, Richard Mercer Dorson, 1999, ISBN 9780415204774
  4. https://sa.wikisource.org/wiki/महाभाष्यम्/पस्पशाह्निकम्
  5. ‘धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥' महाभारतम्-14-आश्वमेधिकपर्व-110/14-110-42
  6. https://books.google.co.in/books?id=KKigGJv0yJ4C&pg=PT29&dq=%E0%A4%93%E0%A4%B0%E0%A4%BE%E0%A4%AF%E0%A4%A8+%E0%A4%B2%E0%A5%8B%E0%A4%95%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%AF+%E0%A4%A4%E0%A4%BF%E0%A4%B2%E0%A4%95&hl=en&sa=X&ved=0ahUKEwjP4YXKlNjRAhUHRY8KHVzyDWYQ6AEIJTAC#v=onepage&q=%E0%A4%93%E0%A4%B0%E0%A4%BE%E0%A4%AF%E0%A4%A8%20%E0%A4%B2%E0%A5%8B%E0%A4%95%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%AF%20%E0%A4%A4%E0%A4%BF%E0%A4%B2%E0%A4%95&f=false
  7. http://hindi.webdunia.com/religious-article/%E0%A4%B2%E0%A5%8B%E0%A4%95%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%AF-%E0%A4%A4%E0%A4%BF%E0%A4%B2%E0%A4%95-%E0%A4%95%E0%A4%BE-%E0%A4%93%E0%A4%B0%E0%A4%BE%E0%A4%AF%E0%A4%A8-%E0%A4%97%E0%A5%8D%E0%A4%B0%E0%A4%82%E0%A4%A5-109072300034_1.htm
  8. https://sa.wikisource.org/wiki/आपस्तम्बीयं_श्रौतसूत्रम्/प्रश्नः_२४
  9. ‘पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् ॥ अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः ॥'
  10. उद्धवगीता_४/विंशः अध्यायः/श्लो. ४
  11. योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥' -मनु०
  12. https://sa.wikisource.org/wiki/महाभाष्यम्/पस्पशाह्निकम्
  13. 'वेदशास्त्रार्थतत्त्वजो यत्र कुत्राश्रमे वसन् । इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते ॥'
  14. https://books.google.co.in/books?id=G_dtAAAAMAAJ&q=%E0%A4%97%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4+%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%9F+%E0%A4%B8%E0%A4%82%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A5%83%E0%A4%A4&dq=%E0%A4%97%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4+%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%9F+%E0%A4%B8%E0%A4%82%E0%A4%B8%E0%A5%8D%E0%A4%95%E0%A5%83%E0%A4%A4&hl=en&sa=X&ved=0ahUKEwiF6afs6drRAhVLLY8KHXEDBYQQ6AEIITAB
  15. https://books.google.co.in/books?id=IkenDAAAQBAJ&pg=PT103&dq=%E0%A4%97%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4+%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%9F+%E0%A4%AA%E0%A4%B0%E0%A4%AE+%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4&hl=en&sa=X&ved=0ahUKEwjQw9Gq6trRAhUKNY8KHbzJAuYQ6AEIHzAB#v=onepage&q=%E0%A4%97%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4%20%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%9F%20%E0%A4%AA%E0%A4%B0%E0%A4%AE%20%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4&f=false
  16. https://books.google.co.in/books?id=R7GBpSmLCO8C&q=%E0%A4%97%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4+%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%9F+%E0%A4%AA%E0%A4%B0%E0%A4%AE+%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4&dq=%E0%A4%97%E0%A5%81%E0%A4%AA%E0%A5%8D%E0%A4%A4+%E0%A4%B8%E0%A4%AE%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%9F+%E0%A4%AA%E0%A4%B0%E0%A4%AE+%E0%A4%AD%E0%A4%BE%E0%A4%97%E0%A4%B5%E0%A4%A4&hl=en&sa=X&ved=0ahUKEwjQw9Gq6trRAhUKNY8KHbzJAuYQ6AEIJjAC
  17. ‘यस्याः पदकृदात्रेयो वृत्तिकारस्तु कुण्डिनः ॥'

सन्दर्भग्रन्थाः[सम्पादयतु]

  1. चरणव्य़ूहानुसारेण ऋग्वेदस्य आयुर्वेदः उपवेदः, यजुर्वेदस्य धनुर्वेद उपवेदः, सामवेदस्य गान्धर्ववेद उपवेदः तथा अथर्ववेदस्य अर्थशास्त्रमुपवेदमस्ति ।
  2. ‘A History of Ancient Sanskrit Literature’ written by Prof. Max Mueller.
  3. ‘ History of Indian Literature‘ written A. Weber
  4. देवहितिं जुगुपुर्द्वादशस्य, ऋतुं नरो न प्र मिनन्त्येते । संवत्सरे प्रावृयागतायां, तप्ता धर्मा अश्नुवते विसर्गम् ॥ ऋक् 7-103-9 ॥

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वैदिकसाहित्यम्&oldid=422739" इत्यस्माद् पुनः प्राप्तिः