वैदिकवाङ्गमये पाश्चात्यानां योगदानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

वैदिकवाङ्गमये पाश्चात्यानां योगदानम् अभ्यासक्रमेषु अपि अन्तर्भवति। वैदिकसाहित्यस्य अर्थात् वेदः, वेदभाष्याणि, उपनिषदः, ब्राह्मणग्रन्थाः इत्यादीनां कृते ग्रन्थनिर्माणं, अनुवादकार्यं, प्रकाशनकार्यं, सङ्कलनकाञ्च अनेके पाश्चात्यविद्वांसः कृतवन्तः।

वेदसम्बद्धं योगदानम्[सम्पादयतु]

अष्टादशशतकस्यान्तिमे चरणे पाश्चात्यवेदज्ञानां कार्याणि अपि वेदानाम् अनुशीलनत्वात् सर्वेषां ध्यानाकृष्टम् अकुर्वन् । १७८४ ख्रीष्टाब्दे सर-विलियम-जोन्स-नाम्ना () अाङ्ग्लविदुषा स्वप्रयासेन कोलकातानगर्याम् 'बंगाल-एशियाटिक-सोसाइटी'-नामक (http://asiaticsocietycal.com/) शोधसंस्थायाः स्थापनाऽभवत् । अयं हि 'कोलकाता'-उच्चन्यायालयस्य प्रधान न्यायाधीशः आसीत् । अस्मादेव कालात् आांग्लविदुषां संस्कृभाषां प्रति ध्यानाकृष्टः अभवत् ।

१८०५ ख्रीष्टाब्दे 'कोलब्रुक' नामकः कोऽपि पाश्चात्यविद्वान् 'एशियाटिक रिसचेंज'-नामिकायां पत्रिकायां भारतीयवेदानामुपरि विस्तृतं, विवेचनात्मकञ्च निबन्धं लिखितवान् ।[१] अस्मिन् निबन्धे वेदविषयकनानाग्रन्थानां विवरणेन सह तेषां महत्त्वमपि दर्शितवान् । आङ्ग्लानां शासनसमये वेदाध्ययनस्य प्रबन्धः प्रारब्धः किन्तु अांग्लभाषामाध्यमेनैव । आग्लाः भारतीयानां प्राचीनग्रन्थवेदानां चान्वेषणं परिशीलनम् अनुवादञ्च अकार्षुः । वेदानुशीलनविषये पाश्चात्यपण्डितानां प्रथमोऽयं प्रयासोऽस्ति । पूर्वमस्मात् फ्रेंचलेखकेन वाल्टेयरमहोदयेन हिन्दू-बुद्धीनां विद्यानाञ्च अनेकशः प्रशंसा कृता । तस्य प्रशंसायाः आधारस्तु 'राबर्ट डी नोविलिस'-नामक ख्रीष्टधर्मप्रचारकमण्डलेन भारतात् समानीतमेकं यजुर्वेदनामकं कल्पितपुस्तकमासीत् । ऊनविंशतिख्रीष्टाब्दस्य अन्तिमे चरणे कोलब्रुक-नामकेन आङ्ग्लविदुषा संस्कृतभाषायाः गाढानुशीलनं कृत्वा संस्कृतग्रन्थरत्नानाम् अांग्लविदुषां मध्ये प्रचारं कृतम् । अस्यैव प्रयत्नेन अांग्लविदुषां ध्यानं वैदिकवाङ्मयं प्रति समाकृष्टमभवत् ।[२] अस्मात् कालात् प्रायः पञ्चविशतिवर्षानन्तरं जर्मनीयविदुषां ‘रोजेन' अतीवोत्साहपूर्वकं ऋग्वेदस्य सम्पादनकार्य समारब्धम् । किञ्च दैवदुविपाकात् १८३७ ख्रीष्टाब्दे एव तस्य मृत्युरभवत् । तेन हि ऋग्वेदस्य प्रथममष्टकमेव सम्पादितं तदेव प्रकाशितमभवत्। अस्मिन्नेव काले 'पेरिस'-नगरस्य संस्कृताध्यापकेन 'बरनूफ-महोदयेन' वेदस्यानुशीलने महत्वपूर्णं कार्यं कृतम् ।

यूरोपे वैदिकानुशीलनस्येतिहासे १८४६ ख्रीष्टाब्दः चिरस्मरणीयी भविष्यति । यतो ह्यस्मिन्नेव वर्षे ‘रूडाल्फ राथ-नामकः' () कश्चन जर्मनविद्वान् ‘वेदस्य साहित्यञ्चेतिहासश्च' इत्यभिधानकमेकं लघ्वाकारं किञ्चातीव महत्त्वपूर्णं पुस्तकं प्रकाशितवान् । येन पुस्तकेन युरोपदेशे वेदानुशीलनं प्रति अतीव गम्भीरा प्रवृत्तिः समुत्पन्नाऽभवत् । वेदस्यैतिहासिकपद्धत्याः समुद्भावकरूपेण राथ-महोदयः प्रसिद्धः । यतो हि अनेन वेदस्य अर्थावबोधने सायणप्रभूतीनां भारतीयभाष्यकाराणां व्याख्यानानि सर्वथा अग्राह्यानि इति कृत्वा पाश्चात्यभाषाविज्ञानं तथा तस्य तुलनात्मकधर्मम् एवाधारं कृत्वा वेदार्थबोधनस्य प्रयत्नो विहितः । दोषपूर्णा अपीयं पद्धतिः वेदानाम् अर्थज्ञानाय महत्त्वपूर्णाऽभवत् । अस्य दृष्टया वेदानां विभिन्नस्थलेषु समागतानां शब्दानां सूक्ष्मपर्यालोचनेन एव वैदिकसन्दिग्धशब्दानाम् अर्थाः स्वयमेव आभासिताः भवन्ति । अस्याः पद्धत्याः अनुसरणं कृत्वैव राथ-महोदयः 'सेन्टपीटर्सवर्गसंस्कृत-जर्मन'-महाकोशस्याऽपि निर्माणं कृतवान्।[३] शब्दकोशोऽयमस्य विद्वत्ता-प्रतिभा-अध्यवसायप्रभृतीनां पर्याससूचकोऽस्ति । अस्मिन् ग्रन्थे प्रत्येकशब्दस्यार्थः विकासक्रमेण निर्वर्णितोऽस्ति। शब्दानाम् अर्थः निर्णतुमस्मिन् ग्रन्थे आवेदात् लौकिकग्रन्थानाम् अपि सन्दर्भः समुद्धृतोऽस्ति । अस्मिन् ग्रन्थे राथ-महोदयेन स्वयमेव वैदिकशब्दानाम् अर्थसङ्कलनं कृतम् । लौकिकसंस्कृतशब्दानाम् अर्थनिर्णयः बोठलिंग-नामकः () कोऽप्यन्यः जर्मनविद्वान् कृतवान् । शब्दकोशोऽयमद्यापि अतुलनीयोऽस्ति ।[४] संस्कृतशब्दानामैतिहासिकार्थावबोधने उपयोगी ग्रन्थोऽयम् ।

राथ-महोदयस्य सहपाठिनां शिष्याणाञ्चैक अतिविस्तीर्णा परम्परा वर्त्तते । विद्वद्भिरेभिः वेदस्यार्थानुशीलने विशेषरूपेण कार्य कृतम् । प्रथमतः एभिः विद्वद्भिः वैदिकग्रन्थानां शुद्धसंस्करणं प्रकाशितं, तदनु वैदिकग्रन्थानाम् अनुवादमपि कृतम् । तत्पश्चात् वेदार्थानुशीलनविषये तु एषां कार्याणि सन्ति एव।

पाश्चात्यैः कृताः ग्रन्थाः[सम्पादयतु]

मैक्स मूलर इत्याख्येन () ऋग्वेदसायणभाष्यस्य विवेचनापूर्णप्रकाशनं कृतम् । ग्रन्थोऽयं नितान्तप्रौढः प्रसिद्धश्चाऽभवत् । अस्य ग्रन्थस्य प्रकाशनेन पाश्चात्यदेशेषु वेदविषयकाध्ययनाध्यापनेषु मूलाधारः सुदृढोऽभवत् । अस्य विशिष्टग्रन्थस्य लेखनारम्भः १८४९ ख्रीष्टाब्देऽभवत् तथा समाप्तिश्च १८७५ खीष्टाब्देऽभवत्।[५] १८९०-९२ ख्रीष्टाब्देऽस्य ग्रन्थस्य परिष्कृतं द्वितीयं संस्करणं प्रकाशितमभवत् । पाश्चात्यपण्डितेषु डाक्टर वेश्वर इत्येषः अपि अस्मिन् कार्येऽतीव प्रसिद्धिमगमत्। अनेन हि न केवलं यजुर्वेदसंहितायास्तथा तैत्तिरीयसंहितायाः सम्पादनं कृतं प्रत्युत, ‘इन्दिशेस्तूदियन’-नामक-जर्मनश्शोधपत्रिकायां वैदिकानुसन्धानम् अप्यग्रसरं कृतम् । रोमनलिप्याम् अतीवयोग्यतापूर्वकेन सम्पादितमेकं संस्करणम् आंग्लविदुषः आउफेक्ट-महोदयस्य उपलब्धो भवति । अस्य संस्करणस्य प्रकाशनं १८६२-६३ ई. समये जातमिति विदुषां निश्चयः । जर्मनविद्वान् श्रोदर इत्यपि मैत्रायणीसंहितायाः योग्यतया सह सुष्ठु संस्करणं १८८६-८७ ई. समये प्रकाशितवान्, तथाऽनेनैव विदुषा काठकसंहितायाः समीचीनं संस्करणम् अप्येकं ख्रीष्टाब्दस्य १९००-११ समये प्रकाशितम् । एताः संहिताः इदानीन्तने काले एव स्वाध्यायमण्डलात् (औंथ) सातबलेकरजीमहोदयस्य सम्पादकत्वे प्रकाशिता अभवन् । एतदतिरिक्ताः वेदविषयकाः विविधाः ग्रन्थाः पाश्चात्यपण्डितानां प्रयासस्य परिश्रमस्य च उज्ज्वलान्युदाहरणानि सन्ति । एषां पाश्चात्यविदुषां कृतिषु १८४२ ख्रीष्टाब्दे स्टेवेन्सन-महोदयस्य राणायनीयशाखान्तर्गत-सामसंहितायाः आंग्लभाषानुवाद:, १८४८ ईशवीये वेन्फीमहोदयस्य कौथुम-शाखीय-सामसंहितायाः जर्मनभाषायामनुवादः तथा १८५६ ख्रीष्टाब्दे राथ एवं ह्निटनी नाम्नोः विदुषोः अथर्ववेदस्य अभिनवसंस्करणश्चेति त्रयो ग्रन्थाः नितान्तप्रौढाः प्रसिद्धाश्चाभवन् । पिप्पलादशाखीयाथर्वसंहितायाः एकैव जीर्णा प्रतिः काश्मीरे समुपलब्धा बभूव । तां जीर्णां प्रतिम् एवाधारं कृत्व अस्याः आलोकालेख्यम् ( फोटो ) विधाय १९०१ ख्रीष्टाब्दे प्रो. ब्लमफील्ड तथा डा. नार्वे नामभ्यां विद्वद्भ्यां तमेव छायाचित्रं खण्डत्रयेषु प्रकाशितम् । ब्राह्मण-श्रौतसूत्र-प्रातिशाख्यप्रभृतीनां ग्रन्थानां शुद्धवैज्ञानिकसंस्करणस्य प्रकाशनम एभिरेवाङ्ग्लपण्डितैः कृतमस्ति ।

प्रो. एम.हाग महोदयकृत-ऐत्तरेयब्राह्मणस्य विशुद्धसंस्करणं तथा तस्यैवांग्लानुवादः अद्यापि स्वभूमिकार्ये अतीवोपादेयमस्ति । डा. आउफेक्ट-महोदयस्य रोमनाक्षरेषु प्रकाशितस्यास्य ब्राह्मणग्रन्थस्य संस्कंरणं विशुद्धं कथ्यते । अनेनैव प्रकारेण प्रो. बी.लिण्डनर-महोदयस्य कौषीतकिब्राह्मणस्य संस्करणं सुष्ठु अस्ति । १८५५ ख्रीष्टाब्दे माध्यन्दिनशतपथब्राह्मणस्य प्रथमं संस्करणं डा. वेवर-महोदयस्य सम्पादकत्वे प्रकाशितमभवत् । डा. वेवर-महोदयस्तु बर्लिन-नगरे १८५८ ईशवीये अद्भुतब्राह्मणस्य शुद्धसंस्करणं प्रकाशितवान्, तथा तेनैव महोदयेन वंशब्राह्मणस्यापि सम्पादनं कृतम्। डा. ए.सी.बर्नेल-महोदयस्तु लन्दन-नगरे १८७३ ख्रीष्टाब्दे विविधसामवेदीयब्राह्मणग्रन्थानां सम्पादनं कृतवान्। वंशब्राह्मणस्य तथा देवताध्यायब्राह्मणस्य प्रकाशनं १८७३ ईशवीयेऽभवत् । आर्षेयब्राह्मणस्य प्रकाशनं १८७६ ईशवीयेऽभवत् तथा १८७७ ख्रीष्टाब्दे संहितोपनिषद्ब्राह्मणस्य प्रकाशनं मङ्गलोर-नगरे अभवत्। डा. एच.ओर्टल-महोदयस्तु जैमिनीब्राह्मणस्य विशेषांशस्यांग्लभाषायामनुवादं कृतवान् तथा जर्मनभाषायामस्यैव ग्रन्थस्यानुवादः डा. कैलेण्डमहोदयेन प्रकाशितः । अस्य प्रथमः ग्रन्थः ‘अमेरिकन ओरियण्टल, जर्नल' नाम्नि पत्रे प्रकाशितः अभवत्। १९१९ ख्रीष्टाब्दे लण्डननगरस्य हालैण्ड-नगरे प्रो. गास्ट्रा-महोदयः गोपथब्राह्मणस्यातीव सुष्ठु संस्करणं प्रकाशितवान् । संस्करणमिदं नागर-अक्षरेषु प्रकाशितमस्ति ।

अस्मिन् विषये आश्वलायनगृह्यसूत्रस्य तथा पारस्करगृह्यसूत्रस्य सम्पादकः स्टैन्जलर-महोदयस्य, शाखायनश्रोतसूत्रस्य सम्पादकः हिलेब्राण्ट-महोदयस्य, बौधायनश्रौतसूत्रस्य सम्पादकः डब्ल्यू.केलेण्ड-महोदयस्य, अापस्तम्बश्रौतसूत्रस्य सम्पादकः आर.गार्वे-महोदयस्य, मानवश्रोतसूत्रस्य सम्पादकः कनाउएर-महोदयस्य, कात्यायनश्रौतसूत्रस्य सम्पादकः वेवर-महोदयस्य तथा कौशिकश्रौतसूत्रस्य सम्पादकः ब्लूमफील्ड-महोदयस्य च नाम प्रसिद्धम् अभवत्। राथ-महाशयस्य शिष्याणाञ्चास्ति विशाला संख्या । सा वेदानुशीलनकर्मणि उल्लेखनीयं कार्यं जग्राह। एतेषु केचन वैदिकग्रन्थानां वैज्ञानिकानि संस्करणानि, इतरे वैदिकग्रन्थानामनुवादम्, अपरे वेदार्थावगाहनपरकग्रन्थान्, अन्ये च वैदिक संस्कृतिस्वरूपोद्भवनकारीणि व्याख्यात्मकानि पुस्तकानि प्राणैषुः ।

वैदिकपुराणविज्ञानस्य ग्रन्थाः[सम्पादयतु]

वैदेशिकाः वैदिकधर्मस्य धर्मान्तरेण सह तुलनां कृत्वा अनेकान् ग्रन्थान् (Comparative Mythology) अरचयन्। हिलेब्राण्ट इत्यस्य 'वैदिक-मीथोलोजी', मैक्डोलन इत्यस्य च 'वैदिकमीथोलोजी' व्यापकत्वात् प्रामाणिकत्वाच्चोपादेये स्तः । फेखविदुषां च श्रौतसम्बन्धिनोऽनेके ग्रन्थाः दृष्टा भवन्ति । एतदतिरिक्तः जर्मनभाषायां हिलेब्राण्टस्य यज्ञविषयान् अधिकृत्य अतीव उपादेयः प्रामाणिकश्च ग्रन्थः (वैदिक रिचुअाल लितरातुर, जर्मनी १९२५ ई० ) उपलब्धो भवति । फ्रेंचविद्वांसोऽपि श्रौतविषयकानेकग्रन्थानां रचनां फ्रेंचभाषायां कृतवन्तः । डा० कीथ-महोदयस्य अस्मिन् विषये ग्रन्थोऽस्ति । अस्य ग्रन्थस्य द्वौ खण्डौ स्तः । ग्रन्थेऽस्मिन् वैदिकधर्मस्य तथा अौपनिषदिकतत्त्वज्ञानस्य प्रामाणिकमीमांसा वर्त्तते । अस्य प्रसिद्धग्रन्थस्य नाम "Religion and Philosophy of Vedas and Upnisadas" [६][७] ग्रन्थस्य प्रकाशनं हार्वर्ड-नगरादभवत् । ग्रन्थस्यास्य प्रथमभागस्य संख्या ३१-३२ एवं द्वितीयखण्डस्य संख्या ९३४-३५ वर्तते । 

वैदिकसाहित्यस्येतिहासाय ग्रन्थाः[सम्पादयतु]

वैदिकसाहित्यस्येतिहासेऽपि सुविदितास्त्रिचतुराः ग्रन्थाः प्राप्यन्ते । डा० बेवर एतस्मिन्विषयेऽपि स्वां लेखनीं प्रयुयोज । एतद्विषयकं यं ग्रन्थं स अजग्रन्थद् विद्वज्जगति स मान्योऽभवत् । ग्रन्थोऽयं स्वविषयस्य प्रथमप्रतिपादकस्य गौरवं लभते । मूलतः ग्रन्थोऽयं जर्मनभाषायां लिखितः अस्ति । अस्यांग्लानुवादः द्रुवनर-संस्कृत-सीरीज-लण्डननगर्याम् अपलब्धोऽस्ति । लण्डननगरीत एव १८५९ ख्रीष्टाब्दे मैक्स मूलर इत्यस्य ʻHistory of Ancient Sanskrit Literature' [८] [९] ग्रन्थः श्रौतग्रन्थानां गम्भीरमनुशीलनं प्रकटीकरोति।। लण्डननगरीत एव विन्टरनित्स(Winternitz)महोदयस्य ग्रन्थः 'History of Indian Literature' [१०] भाषायाः प्रकाशनं १९०४ ख्रीष्टाब्दे समभावत्। अयं हि व्यापकदृष्टया सर्वविदितः अस्त्येव ।

वैदिकसाहित्यस्यानुक्रमणीग्रन्थाः[सम्पादयतु]

प्राचीनकाले भारते तु 'अनुक्रमणी' इत्येतत्संज्ञकाः ग्रन्थाः प्रणीताः अजायन्त एव। परमस्मिन् वर्त्तमानानेहस्यापि प्रतीच्याः विचक्षणाः एतस्मिन् क्षेत्रेऽपि कार्यं कृतवन्तः । तत्र डा० ब्लूम फिल्ड इत्यस्य ‘वैदिककान्कार्डेन्सः' प्रसिद्धः ग्रन्थो विराजते। वेदे वैदिके च विषये लिखितानां ग्रन्थानां लेखानाञ्च पूर्णतया परिचयकारी ग्रन्थो फ्रेञ्चभाषायां ‘बिब्लियोग्राफी वैदिक' [११] नामधेयो हि विदुषा लईरेनो-महाभागेन अलेखि । ग्रन्थश्चायमुपादेयः । इत्थं पाश्चात्यानां पण्डितानां वेदे, वेदाङ्गे अनेकेषु च वैदिकेषु विषयेषु प्रशंसनीयानि कार्याणि वीक्ष्यन्ते ।

पाश्चात्यानाम् अनुवादकार्यम्[सम्पादयतु]

प्रो. हॉग-महोदयस्य ऐतरेयब्राह्मणस्य संस्करणमथ च तदीय आंग्लानुवादोऽद्यापि स्वभूमिकाहेतोः उपादेयो वर्तते । पञ्चाशदधिकाष्टादशशततमेऽब्दे ईशवीये डा. एच.एच.विल्सनो बुधेन्द्रः सायणभाष्यानुसारेण ऋग्वेदं पूर्णमेवांग्लभाषायामनूदितवान् । ऋग्वेदस्यानुवादो जर्मनभाषायां श्रीमद्ग्रासमानलुङ्गाविगाभ्याश्च, एच.ग्रासमान इत्यस्य पद्यानुवादः (१८७६-७७ ई. पर्यन्तं तथा ए.लुड्विगमहोदयस्य गद्यानुवादः विस्तृतव्याख्यया सह १८७६-१८८६ ईशवीये) अक्रियत । बर्लिननगरात् १९०९-१९१२ ईशवीये जर्मनविदुषः डा. एच.ओल्डनबर्गस्य ऋग्वेदेकार्य नितान्तमेव स्पृहणीयं दृश्यते । स द्वाभ्यां बन्धाभ्यां हि ऋग्वेदस्य मार्मिकव्याख्यां विहितवान् । ग्रन्थोऽयं ऋग्वेदस्यानुशीलनाय महत्त्वशाली, प्रामाणिकः तथा उपादेयश्चास्ति ।

काशीतः १८८९ ईशवीये ग्रिफिथो यजुर्वेदस्य माध्यन्दिनसंहितायाः अांग्लभाषायां प्राञ्जल पद्यानुवादं कृतवान्। डा. ए.बी.कीथ-महोदयः तैतिरीयसंहितायाः प्राञ्जलमनुवादमकरोत्।[१२] अस्य ग्रन्थस्य आरम्भे विविधोपयोगिन्या-वार्त्तायाः मीमांसाऽनुवादकस्य विलक्षणप्रतिभायाः परिचायिका वर्तते । ग्रिफिथमहोदयेनैव सामवेदस्याऽपि आंग्लभाषायां पद्यानुवादः कृतः । अथर्ववेदस्य अप्यांग्लभाषायां द्वावनुवादौ स्तः । १८९१-९८ ईशवीये काशीतः ग्रिफिथमहोदयस्यानुवादः मूलार्थावबोधने सहायको वर्त्तते । सी.अार° लेनमेन इत्यनेन पूर्णतां नीतो डब्लू. एच. हिटनी-कृतोऽथर्ववेदानुवादो विद्वत्तापूर्ण-भूमिकावत्वात् उपादेयो वर्त्तते । प्रतीच्यपण्डितस्य साध्यवसायं सश्रमश्च कृतः शतपथब्राह्मणस्य अनुवादो नितान्तमेव श्लाघनीयः । ऋग्वेदीययोः उभयोरपि ब्राह्मणयोः अनुवादं डा. कीथ-महोदयः कृतवान् ।[१३] एषः चानुवादो भूमिकावत्वान्महत्त्वपूर्णोऽस्ति । सामवेदीयसंहिताविषयभूमिकाभूषितत्वात् ताण्ड्यब्राह्मणस्य च डा. कैलेण्डकृतोऽनुवादः (बिब्लि., कलकत्ता १९३२ ईशवीये ) ग्काःरको विद्यते ( उपनिषत्सु प्रातिशाख्येषु निरुक्तादिवेदाङ्गेषु कृतम् अनुवादकार्यं प्रतीच्यकोविदानां निःसंशयमुपादेयं महनीयश्च वर्त्तते ।)

पाश्चात्यानां व्याख्याग्रन्थाः[सम्पादयतु]

प्रतीच्यानां मनीषिणां वैदिकसाहित्ये व्याख्याविषयकं स्वतन्त्रमपि कार्यं स्तुत्यमास्ते। डा. मैकडोनल()-कीथयोः 'वैदिक-इण्डेक्स' इत्येतन्नामधेयो विश्वकोषः प्रसिद्धः। ये विद्वांसो वेदमधिकृत्य ग्रन्थान् अकार्षुः तेषु मैक्समूलर इत्येषः प्रतीच्यपण्डितः । सः वेदविषयकान् बहून् ग्रन्थान् विरचय्य वैदिकं सिद्धान्तं धर्मञ्च लोकप्रियतां निनाय । तदीयम् अतिमहत्त्वपूर्णकार्यमस्ति सायणकृतस्य ऋग्वेदभाष्यस्य विवेचनपूर्णं सम्पादनम् । ततश्च सः 'प्राचीनवैदिकसंस्कृतसाहित्ये' वैदिकसाहित्यस्य वैदूष्यपूर्णां मीमांसाञ्चकार, 'पवित्रप्राच्यग्रन्थमालायां’ स्वयं वैदिकग्रन्थान् अनूदितवान्, किञ्चान्येषां विदुषामपि स्वतन्त्रानुबन्धांस्तत्र प्रकाशयामास ।

डा. वेवर इत्येषोऽपि प्रख्यातः प्रतीच्येषु प्रधीषु । स निजपाण्डित्येन आलोचकान् विस्मापयामास । 'संस्कृतजर्मनमहाकोशस्य चर्चा तु प्रसिद्ध एव। ऋग्वेदीयग्रासमानस्य ‘वैदिककोशः' ( १८७३-७५ ) इत्याख्ये ग्रन्थेऽस्मिन् ऋग्वेदीयप्रत्येक-स्थलस्य उल्लेखं कृत्वा शब्दानाम् अर्थनिर्णयोऽपि ग्रन्थकारेण कृतः । येन पूर्वकृतऋग्वेदस्य अनुवादस्य त्रुटेः परिमार्जनञ्च अभवत् । डा. मैकडोनल-कीथ इत्येतयोः 'वैदिक-इण्डेक्स' वैदिकसंस्कृत्या सम्बद्धविषयाणां कश्चन लघ्वाकारो विश्वकोष एवाऽस्ति । ग्रन्थेऽस्मिन् भौगोलिकैतिहासिकविषयाणाम् अतिरिक्तः सामाजिक-आर्थिकप्रभृतिविषयाणां पूर्णमीमांसा वर्तते ।

१. वैदिकव्याकरणेऽपि सुविदिताः त्रिचतुराः ग्रन्थाः प्राप्यन्ते ।[१४] [१५] [१६] [१७] [१८] [१९] ह्विटनी-महोदयस्य व्याकरणग्रन्थः मुख्यतया लौकिकसंस्कृतस्यैव ग्रन्थोऽस्ति, तथापि वैदिकभाषया सह तुलनां विधाय वैदिकभाषायाः व्याकरणस्यापि इयं रचनाऽस्ति।

२. डा. मैकडोनल इत्यनेन () कृतस्य वैदिकव्याकरणस्य ग्रन्थः (वैदिकग्रामर १९१० जर्मनभाषायाम्) सर्वतो मान्यः प्रामाणिकश्चाऽस्ति । अस्य ग्रन्थस्य सङ्क्षिप्तरूपोऽपि छात्राणां कृते महत्त्वपूर्णोऽस्ति (वैदिक ग्रामर फार स्टुडेण्ट्स, ऑक्सफोर्ड १९२० ई. )। अत्र वैशिष्ट्यमेकं दर्शनीयमस्ति यत्, वैदिकप्रयोगाणां पाणिनीयव्याकरणे यत्र ‘बहुलं छन्दसि' मध्ये निवेशोऽस्ति तत्राप्ययं नियमेन साधितुं प्रयत्नं कृतवान् ।

३. डा. जे. वाकरनागल इत्यस्य व्याकरणग्रन्थः जर्मनभाषायां निबद्धोऽस्ति। कतिपयेषु खण्डेषु प्रकाशितोऽयं ग्रन्थः भाषाशास्त्रीयानुसन्धानस्य मार्गं प्रशस्तं करोति । विदुषां सम्मतौ ग्रन्थोऽयं स्वविषये सर्वोत्कृष्टः प्रौढश्चास्ति ।

वैदिकव्याकरणविषयेऽपि पश्चिमीयाः संख्यावन्तः कार्यं कृतवन्तः । ह्विटनी-मैक्डोनल-वाकरनागल-महाशयानां वैदिकानि व्याकरणानि शिक्षासंसारे प्रियतां गतानि सन्ति ।

वैदिकच्छन्दःस्वपि कार्यं कुर्वाणाः प्रतीच्याः सुधयो दरीदृश्यन्ते । प्रो. वेबर इत्यनेन निज-‘इब्देशेस्तूदियन'-नामकस्य शोधपत्रस्याष्टमे खण्डेऽस्मिन् विषये विस्तृतचर्चा कृताऽस्ति । प्रो. ई. वी. अर्नाल्ड इत्येषः ऋग्वेदीयानि छन्दांसि अधीत्य ‘वैदिकमीटरम्' नाम ग्रन्थं गुम्फतवान् । स मन्त्राणां कालनिर्णयस्य च प्रशंसनीये कार्ये आत्मानं नियोजयामास । अस्य महोदयस्य सिद्धान्तः परिश्रमसाध्ये सत्यपि विदुषां मध्ये मान्यो नाभवत् ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]