ऋग्वेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ऋग्वेद इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
ऋग्वेदस्य प्रथमं सूक्तम्
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

ऋग्वेदः अर्थात् ऋच्यते स्तूयते यया सा ऋक्, तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्थाः सा ऋगिति मीमांसकाः । तत्र बहुभिर्भिन्नभिन्नैः ऋषिभिः सुललितैः भावभव्यैः शब्दैर्विभिन्ना देवताः सादरं स्तुताः सन्ति । पाश्चात्यदृशि भाषायाः भावस्य च विचारेण अन्यवेदेभ्यः अतीवप्राचीनः अस्त्ययमृग्वेदः।[१] भारतीयदृष्ट्याऽपि ऋग्वेदस्याभ्यहितत्वं पूजनीयता च वर्तते।[२] तैत्तिरीयसंहितानुसारेण यज्ञस्य यद्विधानं क्रियते, तत्तु शिथिलं भवति किञ्च ऋग्वेदेन विहितानुष्ठानं दृढम्भवति। यथा-

यद्वै यज्ञस्य साम्ना यजुषा क्रियते शिथिलं तत्, यदृचा तत् दृढमिति ॥'[३]

पुरुषसूक्तेऽपि यशोरूपी सहस्रशीर्षापरमेश्वरात् सर्वप्रथमः ऋचामेवाविर्भावोऽभवत् । यथा —

‘तस्माद् यज्ञात् सर्वहुतः ऋचः सामानि यज्ञिरे ॥

छन्दांसि यज्ञिरे तस्मात् यजुस्तम्मादजायत ॥'

अन्तर्विषयाः

 ऋग्वेदस्य विभागः[सम्पादयतु]

यद्यपि महाभाष्ये ऋग्वेदस्यैकविंशतिशाखा निर्दिष्टाः परं शाकल-वाष्कल-अश्वलायन-शाङ्ख्यायन-माण्डकायन-नामधेयाः पञ्चशाखा सन्ति मुख्याः ।

स ऋग्वेदः सूक्त-मण्डलभेदेन द्विधा विभक्तः । तत्र सूक्तं चतुर्विधम्- ऋषिसूक्त-देवतासूक्त-च्छन्दःसूत-अर्थसूक्तभेदात् । एकर्षिदृष्टमन्त्राणां समूहो ऋषिसूक्तम् । एकदेवताकमन्त्राणां समूहो देवतासूक्तम् । समानछन्दसां मन्त्राणा समूहो नामच्छन्दःसूक्तम् । यावदर्थसमाप्तानां मन्त्राणां समूहोऽर्थसूक्तम् । सुष्ठूक्तत्वात्सर्वं सूक्तमित्याख्यायते ।

मण्डलानुवाकभेदः[सम्पादयतु]

ऋग्वेदः सोऽयं मण्डलानुवाकवर्गभेदेन अष्टकाध्यायसूक्तभेदेन च द्विधा । बालखिल्यसूतानि विहाय सम्पूर्णायां ऋग्वेदसंहितायां दशमण्डलानि, पञ्चाशीतिश्चानुवाका, अष्टोत्तरशतमिताश्च वर्गाः (इति प्रथमो भेदः), अष्टौ अष्टकानि, चतुःषष्टिरध्यायाः सप्तदशोत्तरसहस्राणि च सूक्तानि (इति द्वतीयो भेदमार्गः) । तद्यथा-

१ अष्टाकक्रमः[सम्पादयतु]

समग्रा ऋक्संहिता अष्टाष्टकेषु विभक्ताऽस्ति । प्रत्यष्टकम् अष्टाऽध्यायाः सन्ति । अनेन रूपेण सम्पूर्णऋग्वेदऋ चतुःषष्ट्याध्यायेषु विभक्तोऽस्ति । प्रत्येकमध्यायस्य अवान्तरविभागानां संज्ञा 'वर्ग' इत्यस्ति। स नवतः अध्ययनसौकर्याय एव विभागोऽयमस्ति । वर्गस्तु ऋचां समुदायस्य संज्ञाऽस्ति । किञ्च वर्गेषु ऋचां संख्याऽनिश्चितैवाऽस्ति । बहुधा पञ्चानां मन्त्राणामेको वर्गो भवति । किञ्चैकमन्त्रादारभ्य नवमन्त्रपर्यन्तस्य वर्गो लभते । सम्पूर्णे ऋग्वेदे वर्गाणां सङ्ख्या षडाधिकसहस्रद्वयमस्ति ।

२ मण्डल-क्रमः[सम्पादयतु]

ऋग्वेदस्य द्वितीयोऽयं मण्डलक्रमविभागः ह्यतीवमहत्त्वपूर्णोऽस्ति । ऐतिहासिकदृष्ट्या किंवा वैज्ञानिकदृष्ट्या चाप्यस्य महत्त्वमस्ति । बालखिल्यसूतानि विहाय सम्पूर्णायामृग्वेदसंहितायां दशमण्डलानि, पञ्चाशीतिश्चानुवाकाः, अष्टोत्तरशतद्वयमिताश्च वर्गाः सन्ति । अत्र चानुवाकेषु सूक्तानि, सूक्तेषु मन्त्राश्च सन्ति । कात्यायनेन स्वकीयायां 'सर्वानुक्रमण्यां' सर्वेषामष्टकानां संख्या निर्धारिता । प्राचीनाः ऋषयस्तु वेदानां विशुद्धये तेषु प्रयुक्तानाम् अक्षराणामपि गणनां कृतवन्तः । मन्त्राश्च सर्वे दशसहस्रचतुःशतसप्तषष्टिमिताः (१०४६७) इति शाकलः, शौनकानुक्रमणी तु दशसहस्रपञ्चाशतशीतिमितान् ( १०५८०) मन्त्रान् आह। अत्र भेदे खिलभेदेन कालभेदेन वा मन्त्रवृद्धिलोपावेव हेतुतयोन्नेयौ भवतः । शब्दसंख्या - १५३८२६, अक्षरसंख्या-- ४३२००० । सर्वेऽपि मन्त्राः चतुर्दशसु छन्दःसु विभक्ता बोध्याः । ऋग्वेदगतमन्त्रद्रष्टारो ऋषयः गृत्समदविश्वामित्रवामदेवात्रिभरद्वाजवशिष्ठादयः सन्ति । मण्डलानुसारेण सूतानां व्यवस्था अस्ति - १९१+४३+६२ +५८+८७+७५+१०४+९२+११४+१९१ । एतेषां सूतानाम् अतिरिक्तानि एकादशसूक्तानि च बालखिल्यनाम्ना ख्यातानि सन्ति । एतेषां 'बालखिल्य’-सूतानां स्थानं तु अष्टममण्डलान्तर्गते एव स्वीक्रियते। अस्मिन्मण्डले प्रमुखसूतानि द्वानवतिस्सन्ति । खिलसूतानां सङ्कलनं कृत्वा तेषां संख्या त्रयोऽधिकशतम्भवति। खिलशब्दस्यार्थों भवति 'परिशिष्टम्' अथवा पश्चात्सङ्कलितमन्त्राः । स्वाध्यायकाले खिलपठनस्य व्यवस्था वर्तते । किञ्चैतेषां खिलमन्त्राणां न कुत्रापि पदपाठः समुपलब्धो भवति, न चाक्षरगणनायामेवैतेषां मन्त्राणां समावेशो भवति । एतेषां यथार्थरूपस्याऽपि बोधो न भवति । एतेषामृग्वेदे स्थानम् अष्टममण्डलस्यान्तराले ऊनपञ्चाशत्सूक्तादारयोनषष्टिः सूक्तपर्यन्तमस्ति । एतेषां मन्त्राणां संख्याऽशीतिरस्ति । अनुवाकानुक्रमण्यानुसारेण एतेषां मन्त्राणां संख्या दशसहस्रपञ्चाशतशीतिरस्ति —

‘ऋचां दशसहस्राणि ऋचां पञ्चशतानि च ॥

ऋचामशीतिः पादश्च पारणं सम्प्रकीतितम् ॥ ४३ ॥ ( अनुवाकानुक्रमणी )

ऋचां शब्दानां सङ्ख्या १५३८२६ वर्तते । यथा-

‘शाकल्यदृष्टेः पदलक्षमेकं सार्धं च वेदे त्रिसहस्रयुक्तम् ॥

शतानि चाष्टौ दशकद्वयं च पदानि षट् चेति हि चर्चितानि ॥' (अनु. ४५)

तथा शब्दगताक्षराणां संख्या ४३२००० वर्तते । तद्यथा -

'स ऋचो व्यौहत् । द्वादशवृहतीसहस्राणि । एतावत्यौ ह्यचौयाः प्रजापतिसृष्टाः' (शत० ब्रा० १०॥४॥२॥२॥२३)॥

'बृहतीच्छन्दः षट्त्रिंशदक्षराणां भवति। अतः १२००० × ३६=४३२००० भवति चत्वारिंशत्सहस्राणि द्वत्रिंशच्चाक्षरसहस्राणि' (अनु० अन्तिमे भागे) ।

ऋग्वेदस्य शब्दाक्षरादीनां गणनाप्रसङ्गे यत्र तत्र पार्थक्योऽपि परिदृश्यते । मालावारीयेण नारायणभट्टेन विरचितः ‘सूक्तश्लोकः’ समुपलब्धो भवति । ग्रन्थेऽस्मिन् ऋग्वेदस्य वर्गाणां सूक्तानाश्च संख्या निर्धारिताऽस्ति। वर्गसूक्तादीनां गणनाप्रतिपादकश्लोकस्तथा तद्विवरणञ्च निम्नरूपेणास्ति -

‘जानन्नपि द्विषमोदं स यज्ञः पातनानरः ॥

रसं भिन्नाय मांसादो नरस्तस्य जलाधिपः ॥’

नारायणभट्टेन दत्तमृग्वेदस्य विवरणम् -

अष्टकानि जानन्
मण्डलानि अपि १०
अध्यायाः द्विषा ६४
अनुवाकाः मोदं ८५
सूक्तानि स यज्ञःपा १०१७
वर्गाः तनानरः २००६
ऋचः रसं भिन्नाय १०४७२
अर्धर्चः मांसादो नरः २०८७५
शब्दाः तस्य जलाधिपः १५३८१६
अक्षराणि ३९४२२१

उपरिनिर्दिष्टायां संख्यायां बालखिल्यसूतानां गणना नास्ति, यदि तान्यपि ११ सूक्तानि, ८० ऋचः, १८ वर्गाः, ३०४४ अक्षराणि अपि सङ्कलितो भवेत्तदा, सूतानां संख्या १०२८, वर्गाः २०२४, ऋचः १०५५२ तथा अक्षराणि ३, ९७, २६५ भवेयुरिति।[४]

 ऋग्वेदस्य विषयाः[सम्पादयतु]

ऋग्वेदो स्तोत्राणामेको महान् विशालो निधिः। तत्र बहुभिर्भिन्नभिन्नैः ऋषिभिः सुललितैः भावभव्यैः शब्दैर्विभिन्नाः देवताः सादरं स्तुताः सन्ति। द्वितीयमण्डलादारभ्य सप्तममण्डलपर्यन्तम् एकैव विशिष्टकुलस्य ऋषीणां प्रार्थना सङ्कलिताऽस्ति। अष्टममण्डलेऽधिकतराः मन्त्राः कण्वऋषिणा सह सम्बद्धाः सन्ति। नवममण्डले पवमानस्य अर्थात्, सोमस्य विषये विभिन्नैः ऋषिकुलैः मन्त्राणां सङ्ग्रहोऽस्ति। ऋग्वेदीयदेवतासु त्रयो देवाः स्ववैशिष्ट्येन नितान्तप्रसिद्धाः सन्ति। यास्को वदति यत्, देवतासु काश्चन पृथिवीस्थानीयाः, काश्चन अन्तरिक्षस्थानीयाः, काश्चन द्युस्थानीयाः सन्ति। पृथिवीस्थानीयदेवतासु अग्निदेवता, अन्तरिक्षस्थानीयासु इन्द्रदेवता, द्युस्थानीयासु सूर्य-वरुण-प्रभृतिदेवताः सन्ति महीयस्यः।

'तिस्र एव देवताः इति नैरुक्ताः। अग्निः पृथिवीस्थानः, वायुर्वेन्द्रो वाऽन्तरिक्षस्थानः, सूर्यो द्युस्थानः'।[५] अग्नये सर्वाधिकाः ऋचः सन्ति। विजयप्रदातृत्वेनेन्द्रः सर्वाधिकैः ओजस्विभिः तथा वीररसमण्डितैर्मन्त्रैः संस्तुतोऽस्ति। वरुणस्तु कर्मफलदातृत्वेन परमेश्वरस्य विशिष्टरूपेण चित्रितोऽस्ति। सर्वोच्चोदात्तभावनामण्डिता ऋचः वरुणविषये एव समुपलब्धाः भवन्ति। देवीषु उषायाः स्थानमग्रगण्यमस्ति। सर्वाधिककवित्वमण्डिताः, प्रतिभाशालिन्यः, सौन्दर्याभिव्यञ्जकाः ऋचः उषादेव्याः विषये एव समुपलब्धाः भवन्ति। यथा —

'अभ्रावेव पुंस एति गर्त्ता रुगिव सनये धनानाम्।

जायेव पत्य उशती सुवासा ह्रस्वेव निरीणीते अप्सः॥'

'कन्येव तन्वा शासदाना एषिदेवि देवभिपक्षमाणम्।

सरमयमाना युवतीपुरस्तादानिर्वशांसि कृणुषे विभाति ॥'[६]

एतदतिरिक्ताः संस्तुताः देवताः - सविता-पूषा-मित्र-विष्णु-रुद्र-मरुत्-पर्जन्यप्रभृतयः सन्ति।

दशममण्डलस्य अर्वाचीनत्वम्[सम्पादयतु]

दशममण्डलं सर्वतोऽर्वाचीनं मण्डलं वर्त्तते। कारणञ्चास्य वंशमण्डलात् भाषागतविभेदं तथा विषयगतविभिन्नता एव।

भाषागतभेदम्[सम्पादयतु]

ऋग्वेदस्य प्राचीनतमांशे शब्देषु प्रकारस्य स्थितिर्वर्तते। संस्कृतभाषा यथैव विकसिता भवति, तथैव तस्यां रेफस्य स्थाने लकारस्य प्रयोगो वद्धते। जल-वाचकस्य 'सलिल'-शब्दस्य प्राचीनरूपम् ‘सरिर' इति पदं गोत्रमण्डलेषु प्रयुक्तोऽस्ति। किञ्च दशममण्डले लकारयुक्तशब्दस्यैव प्रयोगो लभते।

वैयाकरणस्वरूपेऽपि पार्थक्यं परिलक्ष्यते। प्राचीनांशे आकारान्तपुंल्लिङ्गशब्देषु प्रथमाद्विवचनस्य प्रत्ययः 'आ' इत्येवास्ति। यथा — द्वा सुपर्जा सयुजा सखाया' इति।[७] किञ्च दशममण्डले तस्मिन् स्थाने 'औ' इति प्रत्ययस्यापि प्रयोगो लभते। यथा— 'मा वामेतौ मा परेतौ रिषाम्[८], सूर्याचन्द्रमसौ धाता'[९]। प्राचीनांशे क्रियार्थकक्रियायाः सूचनार्थं तवै, से, असे, अध्यै प्रभृति-प्रत्ययाः प्रयुक्ताः सन्ति, किञ्च दशममण्डलेऽधिकतरः तुमिति प्रत्ययस्यैव प्रयोगो लभते। ‘कर्त्तवै, 'जीवसे, अवसे' इत्यादिप्राचीनपदानां स्थाने दशममण्डले 'कर्त्तुम्, जीवितुम्, अवितुम्' इत्यादिप्रयोगानां प्राचुर्यं परिलक्ष्यते। भाषागतविशिष्टता ब्राह्मणग्रन्थानां भाषया सह समानत्वेन दशममण्डलम् एतेषां ग्रन्थानां कालक्रमे प्राचीनः प्रतीतो न भवतीति।

छन्दोगतवैशिष्टयम्[सम्पादयतु]

प्राचीनांशेषुपलब्धानां छन्दसामपेक्षया दशममण्डलस्य छन्दःसु पार्थक्यमस्ति। प्राचीनकाले वर्णानां संख्यायाः उपरि छन्दोविन्यासे एव विशेषमाग्रहमासीत्। किञ्च दशममण्डले लघु-गुरूणामप्युचितविन्यासेऽपि सर्वत्र विशेषबलं परिदृश्यते। येन पद्यानां पठने सुस्वरस्य लयस्य च विभवोऽतीव रुचिरतया सम्पद्यते। फलतः प्राचीनानुष्टुप् दशममण्डले लौकिकसंस्कृतस्य अनुष्टुप् इवाऽभवत्।

देवगतवैशिष्टच्यम्[सम्पादयतु]

ऋग्वेदे हि देवताः प्राणशालित्वात् ‘असुर' इति प्रोक्ताः। अस्मिन् वेदे देवतानां स्थानमतीव महत्त्वपूर्णमस्ति। वैदिककालस्य महर्षयः प्रकृतिदेव्याः नानालीलावधारयितुं विभिन्नाः देवताः अकल्पयन्। किञ्च दशममण्डलेषूल्लिखितेषु देवेषु बहवो नवीनास्तथाऽनिर्दिष्टपूर्वाः देवताः सन्निविष्टाः अभूवन्। दृष्टपूर्वदेवानां स्वरूपेऽपि रूपपरिवर्तनं दृष्टिगतो भवति। वरुणः समस्तजगतां नियन्ता, सर्वज्ञः, सर्वशक्तिमान् देवस्वरूपेण पूर्वे चित्रितोऽस्ति, किञ्चाऽस्मिन् मण्डले तस्य शासनक्षेत्रं सङ्गीर्णं भूत्वा जलमात्रमवशिष्टमस्ति। विश्वनियन्तृपदाद् अपसृत्य जलदेवतास्वरूपेणैव दृग्गोचरो भवति। कतिपयाः मानसिकभावनायाः, मानसिकवृत्याश्च प्रतिनिधिस्वरूपे अभिनवाः देवाः कल्पिताः सन्ति। एतादृक्षु देवेषु ‘श्रद्धा'[१०], ‘मनुयु:'[११] प्रभृतयः परिकल्पिताः सन्ति। तार्क्ष्यस्याऽपि स्तुतिः देवतारूपे एवोपलब्धा भवति।[१२] कामायनीश्रद्धायाः अतीव रोचकवर्णनं सूक्ते लभते -

'श्रद्धयाग्निः समिष्यते श्रद्धया हूयते हविः॥

श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि ॥'

श्रद्धया अग्ने समिन्धनं भवति, अर्थात् ज्ञानाग्नेः प्रज्वलनं श्रद्धया एव भवति। हवेः हवनमपि श्रद्धया एव सम्भवति। ऐश्वरस्य ऊर्ध्वस्थानोपरि निवासाय वयं वचसा श्रद्धायाः स्तुतिं कुर्मः। गोः स्तुतौ प्रयुक्तमेकं समग्रसूक्तं[१३] वैदिकआर्याणां गोविषयिणीभावनां सुष्ठु शब्देनाभिव्यक्तं करोति। अरण्यानी देव्याः स्तुतिः[१४] विषयस्य नवीनता हेतुनाऽतीवाकर्षकाऽस्ति।[१५] सूक्तेऽस्मिन् वयं ज्ञानमेकं महनीयदेवरूपे आर्येषु प्रतिष्ठितः प्राप्नुमः। अस्यैव सूक्तस्य प्रख्यातमन्त्रे[१६] यज्ञसम्पादकानां चतुर्णामृत्विजां-होतृ-अध्वर्यु-उद्गातृ-ब्रह्मादीनां स्पष्टसङ्केतोऽस्ति।

दार्शनिकतथ्यानामाविष्कारः[सम्पादयतु]

अस्मिन् मण्डलेऽनेकविधानि दार्शनिकसूक्तानि समुपलब्धानि सन्ति। सूक्तान्येतानि स्वविचारधारया आर्याणां तात्त्विकचिन्तनविकासस्य सूचकानि सन्ति। एतानि चोत्तरकालिकानि प्रतीतानि भवन्ति। एवंविधेषु सूक्तेषु नासदीयसूक्तम्[१७] तथा पुरुषसूक्तं[१८] विशेषरूपेण समुल्लेखनीयमस्ति। पुरुषसूक्ते सर्वेश्वरवादस्य स्पष्टतः उल्लेखो लभते। सूतमिदं प्रौढविचारधारायाः प्रतिपादकत्वेनोत्तरकालिकं तथा अपेक्षाकृतमर्वाचीनं प्रतीतो भवति। पाश्चात्यविदुषां विचारे धार्मिकविचारस्य क्रमः अनेन प्रकारेणास्ति। सर्वप्रथमः बहुदेववादस्तत्पश्चात् एकदेववादस्तत्पश्चात् सर्वेश्वरवादः। प्राचीनकाले अार्याणां विश्वासः बहुदेवसत्तायामासीत्। अग्रे गत्वा स एव विश्वासः हिरण्यगर्भरूपात् परिणतीभूय सर्वेश्वरवादे स्थिरोऽभवत्। अस्य विकासस्यान्तिमे द्वे कोटी दशममण्डले समुपलब्धे स्तः। फलतस्तस्य गोत्रमण्डलादभिनवत्वं स्वाभाविकमेव।

ऋग्वेदस्य दशममण्डले दर्शनप्रधानानि नासदीयसूक्त-( १०॥१२९ )पुरुषसूक्त-( १०॥९० )हिरण्यगर्भसूक्त-(१०।१२१) वाक्सूक्तप्रभृतीनि सूक्तानि सन्ति । सूक्तान्येतानि दार्शनिकदृष्टया यथा गम्भीराणि सन्ति, तथैव प्रातिभानुभूतिदृष्ट्याऽतीव रमणीया, अभिनवकल्पनादृष्ट्याऽपि च नितान्तानि प्रसिद्धानि सन्ति । नासदीयसूक्त-विषये विज्ञालोचकानां मतमस्ति, यदीदं सूक्तं ऋग्वेदीयऋषीणामलौकिकं चिन्तनधारायाः मौलिक-परिचायकमस्ति । जगतः प्रारम्भिकस्थित्या वर्णनं कुर्वन्नस्य सूक्तस्य ऋषिः कथयति-- सृष्ट्याः अारम्भकाले न तु असदासीन्नै ‘सत्' एव । न दिनमासीत् नैव निशेति, सृष्ट्याः अभिव्यञ्जकं किमपि चिह्नमपि तदा नासीत् । सर्वप्रथमः कामः समुत्पन्नोऽभवत् । कामः अर्थात् सङ्कल्प एवासीत् । अस्यैव कामस्याभिव्यक्तिः सृष्ट्याः विभिन्नस्तरेषु प्रतिफलितोऽभवत् । तदा एक एव तत्त्वमासीत्, यत् विनावातं श्वासग्रहणमकरोत् तथा निजस्वाभाविकशक्त्या जीवितमासीत् ।

‘अनीदवातं स्वधया तदेकम् ॥

तस्माद्धान्यन्न परः किञ्चनास ॥'[१९]

प्रातिभानुभूत्याः उपरि अद्वैततत्त्वस्य प्रतिष्ठा एवास्य गम्भीरमन्त्रस्य गूढरहस्यमस्ति ।

विषयस्य नूतनत्वम्[सम्पादयतु]

मण्डलेऽस्मिन् बहूनि भौतिकविषयसम्बद्धानि अाध्यात्मिकविचारधारया च संवलितानि सूक्तानि सन्ति। भौतिकविषयेषु श्राद्धस्य विवाहस्य च स्थानमग्रगण्यमस्ति। ऋग्वेदस्य १०॥८५ सूक्ते सूर्यायाः पाणिग्रहणप्रसङ्गः अतीवकौतूहलवर्द्धकोऽस्ति। ‘सूर्या' उषायाः अपरपर्यायवाची शब्दोऽस्ति। उषाया विवाहः सोमेन सह भवति। अश्विनो विवाहेऽस्मिन् घटकस्य कार्यं करोति।। सूक्तमिदं साहित्यिकदृष्ट्या अतीव सुन्दरं तथा सामाजिकदृष्टया अत्यन्तरोचकमस्ति। गृह्यसूक्तेऽस्यैव सूक्तस्य मन्त्राणां विनियोगस्तथा प्रयोगो विवाहकाले भवति। अस्मिन् सूक्ते वैवाहिकभौतिकरूपेण सहाध्यात्मिकरूपस्यापि सुष्ठु निरूपणमस्ति। समग्रसूक्तमिदं कोमलभावनया सुसम्पृक्तमस्ति। सुष्ठु दाम्पत्यजीवनाय प्रजासमृद्ध्यर्थञ्चोपेदेशः प्रदत्तः अस्ति। यथा -

‘इह प्रियं प्रजया ते समृध्यतामस्मिन् गृहे गार्हपत्याय जागृहि ॥

एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथमा वदाथः ॥'[२०]

पतिगृहे समागते सति पत्न्यै माङ्गलिकां सौऱ्यदात्रीं तचथा वीरप्रसविनीं भवितुं भव्यप्रार्थना प्रभवोत्पादिकाऽस्ति -

अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः ।

वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥ [२१]

शवसंस्कारेण सम्बद्धान्यनेकान्यपि सूतानि दशमे मण्डलेऽपि सन्ति। तस्मिन् युगे पृथिव्यां शवस्थापनस्यापि प्रथा प्रायः प्रचलिताऽऽसीत् । यद्यपि सामान्यरीत्या शवदाहसंस्कारस्यैव वर्णनमस्ति । एतेषां मन्त्राणां भावः काव्यदृष्ट्या सरलः, रोचकः अावर्जकश्चास्ति । शवहेतवे धरणीविदीर्णाय शवरक्षकृता प्रार्थनाऽतीव मार्मिकाऽस्ति । अस्य प्रसङ्गस्योपमापि मनोहारिणी वर्त्तते -

‘माता पुत्रं यथा सिचाऽभ्येनं भूम ऊर्णुहि ॥' [२२]

यमलोकं गत्वा पितरम्प्रति शवाय कथनमिदमपि हृदयावर्ज्यमस्ति -

‘सङ्गच्छस्व पितृभिः संयमेनेष्टापूर्त्तेन परमेव्योमन् ॥

हित्त्वा यावद्यं पुनरस्तमेहि सङ्गच्छस्व तन्वा सुवर्चाः ॥'[२३]

‘द्यूतकरस्य विषादं'-नाम्ना सूक्तमपि[२४] विलक्षणमस्ति । द्यूतक्रीडायां पराजितस्य द्युतकरस्य दयनीया भावनाऽपि द्रष्टव्याऽस्ति

'पितामाताभ्रातर एनमाहुर्न जानीमो नयता बद्धमेतत्।'

अन्ते त्रयोदशमन्त्रे उपदेशोऽस्ति—

‘अक्षैर्मा दीव्यः कृषिमित् कृषस्व वित्ते रमस्व बहुमन्यमानः ॥'

दानस्तुतिः[सम्पादयतु]

ऋग्वेदस्य सूक्तेषु ‘दानस्तुतिः' नाम्नाः कतिपयाः मन्त्राः लभन्ते। कात्यायनस्य 'ऋक्सर्वानुक्रमण्यां केवलं द्वाविंशतिः सूक्तेषु दानस्तुतीनाम् उल्लेखो वर्त्तते । किञ्चाधुनिकशोधदृष्ट्या अष्टाषष्टिःसूक्तेषु दानस्तुतीनां वर्णनमस्ति । अस्मिन् विषये 'हिन्दी-साहित्य-सम्मेलन'-प्रयागद्वारा प्रकाशिते ओझा-अभिनन्दनग्रन्थे मणिलालस्य निबन्धः प्रमाणरूपेण स्वीक्रियते। ऋग्वेदस्य ८।३।२१-२४ मन्त्राणां देवता सर्वानुक्रमण्यां पाकस्थामाकौरयाणस्य दानस्तुतिः कथिता । किञ्च निघण्टुनिरुक्तादिग्रन्थानुशीलनेन ज्ञातो भवति यत्, कौरयाणपदस्य यास्केन कृतोऽर्थः कृतयानो भवति । दुर्गाचार्यस्य सम्मतौ अस्मिन् मन्त्रे ‘यान'स्य स्तुतिरस्ति दानस्य नास्ति । शीनकमतेन पाकस्थामाशब्दोऽपि व्यक्तिवाचको नास्ति, अपि तु विशेषणपदमिदमस्ति।[२५] स्कन्दमाहेश्वरस्य व्याख्यानुसारेण पाकस्थामाशब्दस्यार्थो भवति - महाप्राणः अथवा महाबलवानिति - ‘पाकल्यामालोके स्थामशब्दः प्राणे प्रसिद्धः । पाकः परिपक्वो महान् स्थामा यस्मै स पाकस्थामा महाप्राणश्चेत्यर्थः।[२६]

जैमिनिसूत्रस्थ-गुणवादस्य[२७] शबरभाष्यं भारतीयसिद्धान्तस्य कुञ्जिकाऽस्ति । तस्य स्पष्टकथनमस्ति यत्, समस्तमाख्यानम् इदम् असत्यमस्ति। आख्यानेषु द्वे वार्त्ते स्तः -वृतान्तज्ञानं तथा प्ररोचना । वृत्तान्तज्ञानं विधौ न तु प्रवर्त्तकोऽस्ति न निवत्तंक एव । फलतस्तत्तु प्रयोजनाभावाद् अनपेक्षितमस्ति । प्रीत्याकार्यो प्रवृत्तिर्भवति द्वेषान्निवृत्तिः । अाख्यानेष्वेतावदेवांशस्य विवक्षा वर्त्तते । यथा—

अस्मद्वृत्तान्तान्वाख्यानं स्तुत्यर्थेन। ...... तत्र वृत्तान्तान्वाख्यानं न प्रवर्तकम्, न निवर्त्तकञ्चेति प्रयोजनाभावात् । अनर्थकमित्यविवक्षितं प्ररोचनया तु प्रवर्त्तते इति द्वेषान्निवर्त्तते इति तयोर्विवक्षा॥'

सामान्यदानस्तुतिप्रतिपादकमेकं भव्यं सूक्तमस्ति । सूक्तेऽस्मिन् दान-महिम्नि ओजस्विवर्णनमेकमस्ति । या व्यक्तिः निजधनं स्वहितायैव नियोजयति, सा हि पापं भक्षयति—

'मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत् स तस्य ।

नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी ॥'[२८]

वस्तुतः नास्त्यसौमित्रमस्ति यः स्वसख्यै जनाय च दानं न ददाति । एवं विधजनाद् दूरगमनमेव श्रेयस्करं भवति । तस्मै जनाय गृहन्न भवति । तं जनं पोषणकर्तुः कस्याप्यपरिचितस्य जनस्यैव शरणं गन्तव्यम् । यथा—

'न स सखा यो न ददाति सख्यै स चाभुवे स च मानायषित्वः ।

अपास्मात् प्रेयान् न तदोको अस्ति पृणन्तमन्यमरणं चिदिच्छेत् ॥'

‘केवलाघो भवति केवलादी' अयं हि त्यागमूलकवैदिकसंस्कृतेः महामन्त्रोऽस्ति । अस्यैव तत्त्वस्य वर्णनं स्मृतिग्रन्थेषु पर्याप्तमात्रायां लभते। अस्मिन् सन्दर्भे अक्षरशः अनुवादरूपेण गीतायाः अयं श्लोकः द्रष्टव्यः -

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ॥

भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥'[२९]

संवादसूक्तानि[सम्पादयतु]

ऋग्वेदे दार्शनिकसूक्तानि यथोपनिषदां तात्विकविवेचनैः सह सम्बद्धानि सन्ति, तथैवैतानि प्रबन्धकाव्येन नाटकेनाऽपि च स सम्बन्धं संयोजयन्ति । एवंविधेषु सूक्तेषु कथोपकथनस्य प्राधान्यमस्ति । ऋग्वेदेऽनेकानि कथोपकथनप्रधानानि यमयमीसूक्त-सरमापणिसंवादसूक्तोर्वशीपुरुरवःसंवादसूक्तप्रभृतीनि सूक्तानि सन्ति, यान्याधारीकृत्यैव भारतीयनाटकानि जातानि । दृष्टान्तरूपेण उर्वशीपुरुरवसः संवादमूलं कालिदासीयं विक्रमोर्वशीयनाम त्रोटकमुपस्थापयितुं शक्यते। अस्मिन् सन्दर्भे भारतीयाः विद्वांसः नाटकानामुदयं वेदस्थितसूक्तमूलकमेवाहुः । किञ्चास्मिन्विषये पाश्चात्यविद्वत्सु गम्भीरमतभेदो दृश्यते ।

जर्मनविद्वान् डाक्टर-श्रोदर-महोदयोऽपि विचारमिममनुमोदयति । स हि संवादसूक्तेष्वेषु गानमामनति । तदिदं गायनं नृत्येनाभिनीयतेस्म, तदिष्यतेऽस्य संवादसूक्तनिवहस्य धार्मिकनाटकरूपता । एतन्मूलैव च भारतीयनाटकप्रवृत्तिः इत्याह ।

डॉ० हर्टल-महोदयोऽपि श्रोदर-महोदयस्य विचारमनुमोदयति। अपरे पुनर्विद्वांसो विण्डिश-ओल्डेनवर्ग-पिशेलमुख्या अभिप्रयन्ति यत्, पुरा गद्यपद्यात्मकान्यासन् । पद्यभागोऽतिरोचकतया सम्प्रत्यवशिष्यते । गद्यभागस्तु केवलं वर्णनपरतया लुप्तप्रायतां गतः । नाटके यदधुना गद्यपद्ययोर्मिश्रणं दृश्यते । तदप्येतादृशसंवादसूक्तमूलकमेवेति । एते विद्वांसः ऐतरेयब्राह्मणगतं शुनःशेपोपाख्यानं शतपथब्राह्मणगतमुर्वशी-पुरुरव-उपाख्यानं चात्र साक्षिभावेनोपस्थापयन्ति । अपरे कतिपया विद्वांसः रामलीला कृष्णलीला चात्र निदर्शनभावं भजन्ति । ऋग्वेदस्येतानि समग्रसंवादसूतानि नाटकीयौजस्वितया सह सम्पृक्तानि सन्ति। कलात्मकदृष्ट्याऽपि चैतानि सूतानि नितान्तरमणीयानि, सरसानि प्रभावोत्पादकानि च सन्ति ।

ऋग्वेदस्थलौकिकसूतानि[सम्पादयतु]

ऋग्वेदीयदशममण्डलस्य अनेकेषु सूक्तेषु लौकिक-व्यावहारिक-विषयाणाञ्च रोचकं वर्णनमस्ति । इत्थं विषयाः तु अथर्ववेदस्यैव विशिष्टसम्पदः मन्यन्ते । किश्च ऋग्वेदस्य दशममण्डलेऽपि एवंविधलोकसंस्कृत्या सह सम्बद्धविषयाणां समुपलब्धिः अस्य मण्डलस्य विशिष्टतां सूचयति । यक्ष्माख्याव्याधिर्विनाशाय १६१, १६३ तथाऽन्यान्यनेकविधानि च सूक्तानि सन्ति। रक्षोहासूक्ते दानवात् गर्भत्राणार्थः मन्त्रोऽस्ति । एकस्मिन् सूक्ते पत्न्याः कष्टमपहाय पत्युः प्राप्त्युपायस्य विवरणं लभते। यथा —

‘इमां खनाम्योषधिं वीरुध बलवत्तमम्।

यया सपत्नीं बाधते यया संविन्दते पतिम्॥'[३०]

अपरस्मिन् सूक्ते शत्रु-संहाराय प्रार्थना वर्त्तते -

‘ऋषभ मां समानानां सपत्नानां विषासहितम्।

हन्तारं शत्रूणां कृधिविराजं गोपतिं गवाम् ॥'[३१]

अनेन प्रकारेण १०।१६४ सूक्ते दुःस्वप्नविनाशाय प्रार्थनाऽस्ति । १०/५८ सूक्तस्य नाम एव ‘मनः-आवर्त्तनम्' सूक्तमस्ति । वैवस्वत-यम-दिव-भूमि-समुद्रादीनां पार्श्वगतानां जनानां मनसा परावर्त्तनार्थाय प्रार्थनाऽस्ति-

‘यत् ते यमं वैवस्वतं मनो जगाम दूरकम् ।

तत्त आवर्तयामसीह क्षयाय जीवसे ॥'[३२]

एकस्मिन् सूक्ते अाथर्वण भिषगृषिः औषधीनां भव्यस्तुतिं समुपस्थापयति -

'याः फलिनीय अफला अपुष्पा याश्च पुष्पिणीः।

बृहस्पति-प्रसूतास्ता नो मुञ्चत्वं हसः॥'[३३]

एकस्मात् सूक्तात् ज्ञातो भवति यत्, प्राचीनकालेऽपि प्रजा एव राज्ञः वरणमकुर्वन् । यथा -

‘अभित्वा देवः सविताभि सोमो अवीवृतत्।

अभित्वा विश्वाभूतान्यभिवर्चो यथाससि।।

श्रद्धासूक्तम्[सम्पादयतु]

ऋग्वेदस्य दशममण्डले श्रद्धासूक्तमस्ति।[३४] सूक्तेऽस्मिन् श्रद्धायाः स्तुतिः देवतारूपेण । अत्र मन्त्रास्तु षड् एव सन्ति, किञ्च विषयस्य अपूर्वत्वेन स्वल्पकायमपीदं सूक्तं विपूलमहत्त्वस्याभवत्। श्रद्धाशब्दस्य अर्थो भवति - कस्मिंश्चित् कार्यविशेषे अथवा वचनविशेषे स्वान्तःकरणेन आदरातिशयस्य भावना। वस्तुतः श्रद्धया सम्पादितं कार्यमेव लाभदायकं भवति । श्रद्धाविहीनं कर्म कदापि फलदायकं न भवति। ९॥११३२ मन्त्रे ऋत-सत्याभ्यामतिरिक्तस्य श्रद्धया सोम-सवनस्य विधानं दर्शितमस्ति । सोमस्याभिषवः यजमानस्य श्रद्धां प्रकटयति (श्रद्धां वदन् सोमराजन् ९॥११३॥४)। ऋषिभिः कृतस्तोत्रं श्रद्धासमन्वितमनसा इन्द्रेण श्रुतम् (श्रद्धामनस्या शृणुतेदभीतये) । वाक्सूक्ते[३५] कथितमस्ति - ‘श्रुधि श्रुत श्रद्धिवं ते वदामि' ॥ अत्र ‘श्रद्धिव' इति पदस्य सायणेन कृतमर्थम्- 'श्रद्धाबलेन लभ्यं ब्रह्मात्मकं वस्तु अर्थात् 'बह्म' श्रद्धया ज्ञातो भवति, उपलब्धोऽपि च भवति । अन्येषु मन्त्रेष्वपि ऋषीणां श्रद्धां प्रति अतीव पूज्या भावना वर्त्तते । श्रद्धासूक्ते तु देवतास्वरूपेणैव श्रद्धा चित्रिताऽस्ति । अस्य मन्त्रस्य ऋषिका श्रद्धाऽस्ति, या कामगोत्रजाऽस्ति, तेनैव कारणेन सा 'कामायनी' इति नाम्ना विख्याताऽस्ति ।

अस्य सूक्तस्य प्रथममन्त्रे एव स्पष्टीकृतमस्ति यत्, श्रद्धया एवाग्नेः समिन्धनं भवति । श्रद्धया आहवनीयाग्नौ अाहुतिः देया भवति इति। अस्य तात्पर्यमिदमस्ति यत्, यज्ञीयकार्येषु श्रद्धायाः महती अावश्यकता वर्त्तते । अग्निमन्त्रः ज्ञानाग्नेः प्रतीकमपि वक्तुं शक्यते । ज्ञानाग्नेः समिन्धनमपि श्रद्धया एव सम्पादितं भवेत् । विशाला हि श्रद्धायाः व्यापकताऽस्ति । अस्याः उपासना न केवलं मानवाः कुर्वन्ति, अपि तु देवता अपि असुरैः सह युद्धकाले श्रद्धायाः अाश्रयं गृहीत्वा स्वकीयमनोरथं साधयितुं कृतकार्या भवन्ति । अपरस्मिन् मन्त्रे मनोवैज्ञानिकतथ्यस्य रोचकं विश्लेषणं वर्त्तते—

'श्रद्धां हृदय्ययाकूत्या श्रद्धया विन्दते वसु ।।' हृदये समुत्पन्नसङ्कल्पेन श्रद्धायाः उपासना भवति । प्रथमस्तु साधकस्य चित्ते सङ्कल्पस्योदयो भवति, तदनन्तरमेवासौ कस्मिंश्चिदपि कार्ये स्वनियोगं करोति । श्रद्धया धनस्य प्राप्तिर्भवति । अत्र ‘वसु' इत्येतत्पदेन भौतिकद्रव्यस्य सङ्केतो न भवति, प्रत्युत अाध्यात्मिककल्याणस्य । अाध्यात्मिकं वसु अस्ति— अज्ञानस्य विनाशं कृत्वा अमरत्वस्य प्राप्तिः । अमरतायाः समुपलब्धेः प्रधानसाधनमियमेव श्रद्धा वर्त्तते । अन्तिमा प्रार्थना- ‘श्रद्धे श्रद्धापये ह नः ॥' उपनिषत्सु श्रद्धातत्त्वस्य यद् विपुलं उपबृंहणमस्ति, तस्य बीजमस्मिन्नेव प्रख्यातसूक्ते एव अस्ति। ऋग्वेदस्य दशममण्डले बहुविधानुशीलनेन ज्ञातो भवति, तदा देवस्य किंवा देवाधिदेवस्य कल्पना दृढमूला भवति। प्रधानदेवोऽयं कुतश्चित् हिरण्यगर्भरूपेण, कुतश्चित् पुरुषरूपेण, क्वाऽपि प्रजापतिनाम्ना ख्यातोऽभवत् । हिरण्यगर्भस्य विषये प्रसिद्धसूक्तमिदमस्ति[३६], यस्य अन्तिमचरणमिदमस्ति- ‘कस्मै देवाय हविषा विधेम ॥' अस्य चरणस्य कल्पनायां वेदज्ञानां विभिन्नाः सम्मतयः सन्ति । पाश्चात्यविदुषां मते अस्य सूक्तस्य द्रष्टा ऋषिः वस्तुतः सन्दिग्धचित्तेन पृच्छति - ‘कस्मै देवाय हविषा विधेम ।' इति। प्रारम्भिकयुगस्य मानवानां कौतुकाक्रान्तचित्तस्य दशायां द्योतकमिदं सूक्तं प्रकटयति यत्, केन प्रकारेणादिमयुगस्य जनस्तस्या देवतायाः स्वरूपं ज्ञातुमिच्छति, यस्मै देवाय सः हव्येन होमं करोति । ब्राह्मणग्रन्थेषु तथा तदनुसारिणः निरुक्तादिग्रन्थेषु कः शब्दोऽत्र प्रजापतेः सूचकोऽस्ति । किं शब्दस्तु अनिर्वचनीयतायाः वाऽत्यन्तसौख्यस्य सूचको वर्तते। फलतः नाम्ना रूपेण वानिर्वचनीयाभावेऽपि सुखरूपत्वेन प्रजापतये किं शब्दस्य व्यवहारः नितान्तं युक्तियुक्तोऽस्ति । उपनिषत्स्वपि अनयाऽनिर्वचनीयतयाऽसौ ‘परमतत्त्वम्' ‘नेति नेति’ इति शब्देनाभिव्यक्तं भवति । हिरण्यगर्भः अग्रे सृष्ट्यादौ विद्यमानः आसीत् । असावेव सर्वेषां समुत्पन्नानां प्राणीनां रक्षकः आसीत् । स एव हि समस्तं विश्वं बिभर्ति । जाग्रत्-स्वप्न-सुषुप्तावस्थायामेकम् एवाऽसौ समग्रभूतानां राजा ( शासकः ) अस्ति । नास्त्येतावदेव अपि तु मृत्योरप्युपरि शासनं करोति । अमृतत्त्वं तस्य छाया वर्त्तते ( यस्य छायाऽमृतं यस्य मृत्युः ) । यथा छाया पुरुषस्य अनुसरणं करोति, तथैवा अमृतत्त्वमपि तस्य हिरण्यगर्भस्य अनुसरणं करोति । तस्यैव अध्यक्षतायां समस्तसृष्टेः व्यापारः सञ्चलति । सकलसृष्ट्याः पालनस्य संरक्षणस्य च कार्यं तस्यैवाधीनमस्ति। देवेष्वसौ अद्वितीयदेवोऽस्ति।

पुरुषसूक्तम्[सम्पादयतु]

दशममण्डले स्वदार्शनिकविचाराय, निजमहत्वाय, गाम्भीर्याय, अन्तःपर्यवेक्षणाय च पुरुषसूक्तं ( १०।।९० ) नितान्तं विख्यातमन्यतमश्चाऽस्ति । अस्मिन् सूक्ते पुरुषस्याध्यात्मिककल्पनायाः भव्यं निदर्शनमस्ति । पुरुषस्यास्य सहस्राणि शिरांसि, सहस्राणि अक्षीणि, तथैव पादाः च सन्ति । अर्थात् तस्मै पुरुषाय एतेषां शरीरावयवानां कापि इयत्ता नास्ति । अस्य विश्वस्य परिमाणादसावधिकोऽस्ति । विश्वमभितः स्थितस्य परिवेष्टनात् दशाङ्गुलिर्यः अग्रतरोऽस्ति । ‘अत्यतिष्ठद् दशाङ्गुलम्' अत्र दशाङ्गुलं केवलं परिमाणाधिक्यस्य उपलक्षणमात्रमेवास्ति । विश्वस्य समस्तमरणशीलप्राणिनः तस्य पुरुषस्यैकचतुर्थाशमात्रमेव सन्ति । तस्यामृतत्रिपादः अाकाशेऽवस्थितोऽस्ति । सः सर्वेषां शासको वर्त्तते । अस्य पुरुषस्य विषये विलक्षणं तथ्यमिदमेवाऽस्ति—

‘पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यम् ॥' ( मन्त्र० २ ) एक एवाऽसौ पुरुषः निखिले विश्वस्मिन् वर्त्तते, यः प्राचीनकाले समुत्पन्नोऽभवत्, यः भविष्येऽपि समुत्पन्नो भविष्यति । सर्वेश्वरवादस्यायं सिद्धान्तः पाश्धात्यपण्डितानां मते आर्याणां प्रौढ-दार्शनिक-विचारधारायाः परिचायकोऽस्ति । सृष्ट्याः समुत्पादने यज्ञस्य कल्पना कीदृशी जागरूका क्रियाशीला चासीद्, तस्याः अपि परिचयः अस्मिन्नेव सूक्ते वर्णितः। देवताः स्वयज्ञे पुरुषबलिं कृतवन्तः । तेन बलिना जगतः प्राणिनां समुत्पत्तिरभवत् । अस्मिन्नेव सूक्ते ब्राह्मण-क्षत्रिय-वैश्य-शूद्रादीनां समुत्पत्तिस्तस्य पुरुषस्य मुखाद्, बाहोः, ऊरोः, पद्भ्यां क्रमशः जाता । ऋग्वेदस्य कस्याप्यन्यस्मिन् मन्त्रे चतुर्णां वर्णानां चर्चा नाऽस्ति, येन प्रतीतो भवति, अस्मिन् समाजे तस्मिन्नेव युगे चतुर्णां वर्णानां कल्पना समुद्भूताः । अनेन प्रकारेण सूक्तमिदं वैदिकार्याणां सामाजिकाध्यात्मिक-धारणायाः परिचायकत्वेन नितान्तं महत्त्वपूर्णमस्ति ।

ऋग्वेदीयानाम् ऋचां सङ्ख्या[सम्पादयतु]

ऋग्वेदे ऋङ्मन्त्राणां गणनाऽप्येका विषमैव समस्या वर्त्तते । अस्याः गनायाः समाधानं प्राचीनैः अर्वाचीनैश्च विद्वद्भिः कृतम् । प्राचीनाचार्याणां गनावैषम्यन्तु शाखाभेदजन्यमेवाऽस्ति, किञ्चार्वाचीनानां गणनावैषम्यं भ्रमगतमेवाऽस्ति । अस्य भ्रमोदयस्य कारणमस्ति - ऋग्वेदे कियत्यः ऋचः एवंविधाः सन्ति या ऋचः अध्ययनकाले चतुष्पदा भवन्ति किञ्च प्रयोगकाले द्विपदा एव मन्यन्ते। ऋक्सर्वानुक्रमण्यामस्योल्लेखो प्राप्यते - 'द्विर्द्विपदास्त्वृचः समामनन्ति' अस्य सूत्रस्य व्याख्यायां षड्गुरुशिष्यस्य स्पष्टकथनमस्ति — 'ऋचोऽध्ययने तु अध्येतारो द्वे द्वे द्विपदे एकैकामृचं कृत्वा समामनन्ति अधीयरन् । समामनन्तीति वचनात् शंसनादौ न भवन्ति । तेन पश्वान वायुम् ( ऋ० १॥६५ ) इति शंसने दशर्चत्वम् ॥ अासामध्ययने तु पञ्चत्वं भवति ॥'

सायणभाष्येऽपि अस्योल्लेखो प्राप्यते। चरणव्यूहस्य टीकाकर्त्रा महिमदासेनाऽपि पूर्वोक्तकथनस्य समर्थनं कृतम् । एतादृशः ऋचः 'नैमितिकद्विपदाः' कथ्यन्ते । ऋग्वेदे नित्यद्विपदाऽपि ऋचः सन्ति । ता गणनायां सप्तदशा एव सन्ति । एताः द्विपदाः कदाचिदपि निजस्वरूपात् वञ्चिता न भवन्ति । अस्या एव द्विपदायाः नित्यनैमित्तिकद्विपदाया वास्तविकस्वरूपस्य परिचयाभावात् मैक्समूलर-मैकडोनलप्रभूतीनां अाङ्ग्लवेदज्ञानां गणना भ्रान्ताऽभवत् । लौगाक्षिस्मृत्यनुसारेण समस्तानां शाखासूपलब्धानाम् ऋचां संख्या १०५८० वर्तते । ऋग्वेदस्य संहितायां त्रयाणां छन्दसां प्रचुरता विद्यते । येषु ‘त्रिष्टुप्'-छन्दसः संख्या सर्वातिशायी वर्त्तते । अस्मिन् छन्दसि चत्वारः पादाः भवन्ति । प्रतिपादे एकादश अक्षराणि भवन्ति । अस्यां संहितायां ४२५१ त्रिष्टुप्छन्दांसि सन्ति । तदनन्तरं गायत्रीच्छन्दसः स्थानम् आयाति । अस्मिन् छन्दसि त्रयः पादाः भवन्ति । प्रतिपादम् अष्टाक्षराणि भवन्ति । अस्य छन्दसः समस्ता संख्या २४४९ वर्त्तते । तदनन्तरं जगतीच्छन्दसः स्थानं भवति । अस्मिन् छन्दसि चत्वारः पादाः भवन्ति । प्रतिपादं द्वादशाक्षराणि सन्ति । अस्य छन्दसः संख्याऽत्र १,३४६ वर्त्तते । शेषभागे अनुष्टुप् ८५८, पंक्तिः ४९८, उष्णिक् ३९८, बृहती ३७१, वर्त्तन्ते ।

वंशमण्डलम्[सम्पादयतु]

पाश्चात्यविदुषां मते ऋग्वेदस्य मण्डलेषु प्राचीनार्वाचीनमन्त्राणां समुदायः सङ्कलितोऽस्ति । द्वितीयमण्डलादारभ्य सप्तममण्डलपर्यन्तस्य भागाः ऋग्वेदस्य केन्द्रीयभागाः कथ्यन्ते, अत एव एते अंशाः अत्यन्तं प्राचीनाः सन्ति । एतेषु प्रत्येकं मण्डलस्य सम्बन्धः केनाऽपि ऋषिणा तद्वंशजेन सह वा निश्चितरूपेण समुपलब्धो भवति । द्वितीयमण्डलस्य ऋषिरस्ति गृत्समदः, तृतीयस्य विश्वामित्रः, चतुर्थस्य वामदेवः, पञ्चमस्य अत्रिः, षष्ठस्य भरद्वाजः, सप्तमस्य वशिष्ठः च। अष्टममण्डलस्य मन्त्राणामृषिः कण्वस्तथाङ्गिरसवंशोद्भवाः सन्ति । नवममण्डलेऽखिलाः मन्त्राः सोमदेवताविषयका एव सन्ति । वंशविशेषेण सम्बन्धत्वेन एतानि मण्डलानि आङ्ग्लभाषायां वंशमण्डलं ( Family book) इति कथ्यते! वैदिकार्यगणाः हिमप्रदेशे समुत्पन्ना सोमलतायाः रसं स्वेष्टदेवतां समर्प्य स्वयमपि प्रसादरूपेण ग्रहणं कुर्वन्ति । सोमरसपानेन समुत्पन्नस्य अनेकविधाऽऽनन्दोल्लासस्य ललितवर्णनमनेकानां वैदिकसूक्तानां विषयः अस्ति । सोम एव पवमानोऽपि कथ्यते । अतः सोमविषयकमन्त्राणां समुच्चयेन नवममण्डलं ‘पवमानमण्डलमि’ति पदेनापि व्यवह्रियते । प्रथममण्डलं तथा दशममण्डलमपि अन्येषां मण्डलानामपेक्षयाऽर्वाचीनौ स्तः । उभयोर्मण्डलयोः सूक्तानां समानसंख्यायाः ( १९१ सू० ) किमपि महत्त्वमस्ति । किञ्च भारतीयाः गृत्समद-विश्वामित्र-वामदेव-अत्रि-भरद्वाज-वसिष्ठादयः ऋग्वेदमन्त्रद्रष्टारो ऋषय एव मन्यन्ते । ऋग्वेदस्य दशसु मण्डलेषु नवमं मण्डलं पवमानमण्डलनाम्ना प्रथितम् । तत्र हि केवलं सोमविषयकमन्त्राणां सङ्कलनं कृतम् ।

पवमानः - सोमः । पूर्वोक्ताः सप्ताऽपि मन्त्रद्रष्टारो ऋषयो द्वितीयमण्डलतः सप्तममण्डलपर्यन्तगताभिर्ऋग्भिः सम्बद्धाः, दशममण्डले मन्त्राः नानाऋषिसम्बद्धाः। दशमे मण्डले न केवल देवता स्तुतय एव, अन्यप्रकारका अपि मन्त्राः दृश्यन्ते ।

द्वितीयमण्डलाद् आरभ्य सप्तममण्डलपर्यन्तस्य ऋग्वेदभागस्य रचना सर्वतः प्राचीना, दशमं मण्डलं सर्वतोऽर्वाचीनम्, शेषाणि मध्यकालिकानीति साम्प्रतिका अाङ्ग्लाऽऽलोचकाः कथयन्ति ।

किञ्च भारतीयपारम्परिकानां विदुषां मतमेतद्भिन्नमस्ति । ऋग्वेदस्य दशसु मण्डलेषु चर्चितानामृषीणां विषये कात्यायनस्य इयमुक्तिः द्रष्टव्या - ‘शतर्चिन अाद्ये मण्डलेऽन्त्ये क्षुद्रसूक्तमहासूक्ता मध्यमेषु माध्यमाः' ॥ तेन हि प्रथममण्डलस्य ऋषिः ‘शतर्चिनः' एव कथ्यते । अस्य मण्डलस्य प्रथमः ऋषिः विश्वामित्रस्य पुत्रः मधुच्छन्दा नाम्ना ऋषिणा दृष्टा ऋचः शताधिकैवासन् । अतः छत्रिन्यायानुसारेण समस्तानां ऋषीणां समानाभिधानं ‘शतर्चिनः' एवाऽभवत् ।

'आद्यस्य ऋचेर्ऋक्शतयोगेन छत्रिन्यायेन शतर्चिनः सर्वे । द्व्यधिकेऽपि शतोतिबाहुल्यात्।'[३७] दशममण्डलस्य ऋषिः ‘क्षुद्रसूक्तम्' महासूक्तञ्च कथ्यते । षड्गुरुशिष्यस्य विवेचनानुसारेण नासदासीयसूक्तात् ( १०।१२९ ) पूर्ववर्तीनि सूक्तानि महासूक्तमिति कथ्यन्ते, परवर्तीनि च क्षुद्रसूक्तं मन्यन्ते। सूक्तदर्शित्वेन ऋषीणां नामकरणमपि तदैवाऽभवत् । द्वितीयमण्डलादारभ्य नवममण्डलपर्यन्तं मध्यस्थितत्वेन तत्रत्याः ऋषिगणा अपि ‘माध्यम' इति नाम्ना व्यपदिश्यन्ते ।

ऋग्वेदकालः[सम्पादयतु]

अधुना लोके सर्वत्र उपलभ्यमानेषु सर्वेषु ग्रन्थेषु प्राचीनतमः अयम् ऋग्वेदः सर्वज्ञानस्याधारभूतः भवति । अस्य रचनाकालस्य निर्णये सर्वपण्डितमण्डलेषु भिन्नाभिप्रायो दृश्यते । तथापि अस्माभिः भारतीयैः वेदस्य अपौरुषेयत्वं मन्यमानैः ऋग्वेदस्यास्यापि अनादित्वं प्रकल्पितम् । अत्र मन्त्रद्रष्टार एव ऋषयः न तु कर्तारः ॥

वेदस्य अपौरुषेयत्वम् अङ्गीकर्तुमसमर्थैः पाश्चात्यकोविदैः ऋषिप्रणीतः वेदः इति निर्धार्य प्राचीनतमस्य अस्य कालः क्रि.पू.२००० वर्षतः ६००० पर्यन्तं मन्यते । परन्तु लोकमान्यबालगङ्गाधरमहाभागेन वेदवर्णितनक्षत्रविषयकसूचनामवलम्ब्य गणितेन ज्योतिषेण च वेदरचनाकालः क्रि.पू.६००० वर्षतः पूर्वमेवेति निश्चयः कृतः । वेदगतभूगर्भशास्त्रसिध्दान्तमनुसृत्य डा. अविनाशचन्द्रमहोदयेन अनेकलक्षवर्षपूर्वमेव अस्य रचना सम्पन्ना इति प्रख्यापितम् । इत्यम्भूते सति अस्मत्प्राचीनैः यद्वेदस्य अपौरुषेयत्वम् अनादित्वं च कल्पितं तत्स्वीकारे का क्षतिः ? एवमेव वेदरचनाकालवादेन अस्माभिः ज्ञातुं शक्यते वेदेषु प्राचीनस्य ऋग्वेदस्य कालः अपि ॥

ऋग्वेदस्य क्रमीकरणम्[सम्पादयतु]

ऋग्वेदस्य एकविंशतिः शाखाः सन्ति कालक्रमेण तद्विलुप्य याः शाखाः सन्ति तासु आश्वलायन –शाकल-बाष्कलशाखाः प्रसिध्दाः । अत्र शाकलस्ंहितायां दशमण्डलानि प्रतिमण्डले नानासूक्तानि प्रत्येकं सूक्ते नानाऋचः च सन्ति । एवं ऋग्वेदे आहत्य १०२८ सूक्तानि १०५८० मन्त्राश्च वर्तन्ते ॥

अत्र मन्त्रद्रष्टारः ऋषयः गृत्समद-विश्वामित्र –अत्रि-भरद्वाजवसिष्ठादयः भवन्ति । शाकलसंहितायाः नवमण्डलं पवमाननाम्ना प्रसिध्दम् । अत्र सोमविषयकमन्त्राणां सङ्कलनमस्ति । प्रथमाष्टमण्डलयोः कण्ववंशीयनामाङ्गिरसगोत्रजानामन्येषां च ऋषीणां मन्त्राः दृश्यन्ते । अनुसन्धानकुशलैस्तु द्वितीयमण्डलमारभ्य अष्टमण्डलपर्यन्तं प्राचीनतमो भागः नवममण्डलं तदनन्तरभूतं प्रथमाष्टाममण्डले अर्वाचीने दशममण्डलं अर्वाचीनतममिति निर्धारितम् ॥

ऋग्वेदस्य ब्राह्मणभागद्वयं ऐतरेयकौषीतकीति, आरण्यकानि ऐतरेय-कौषीतकि-शाङ्खायनादीनि त्रीणि, दश उपनिषदश्च विद्यन्ते ॥

वेदेषु आदिमः ऋग्वेदः हिन्दुधर्मस्य मूलग्रन्थः अस्ति । ऋग्वेदः ४५०० वर्षेभ्यः प्राग् संग्रथित: इति ते मन्यन्ते । अत्र १०२८ सूक्तानि सन्ति । तस्य श्लोकाः विविधादेवानां सम्बद्धा: सन्ति - यथा इन्द्रः, अग्निः, वायुः इत्यादय: । ऋग्वेदस्य १०५८० मन्त्राः विभाजिता: सन्ति । महामुनि व्यासस्य निर्देशे पैलः ऋग्वेदस्य संहितानाम् निर्माणम् अकरोत् । यज्ञेषु देवताह्वानेऽयं वेदभाग उपयुज्यते । यज्ञेषु ऋग्वेदमन्त्रपठनकर्ता "होता" इत्युच्यते । आयुर्वेदः ऋग्वेदस्य उपवेदः

ऋग्वेदस्य शाखाः[सम्पादयतु]

यज्ञस्य आवश्यकताम् अभिलक्ष्य उदात्तदृष्ट्या महामुनिना व्यासेन वेदमध्यापितः। यज्ञे चत्वारो ऋत्विजो भवन्ति - १. होता, २. अध्वर्युः ३. उद्गाता ४. ब्रह्मा। होता - आह्वानकर्ता, स हि यज्ञावसरे प्रक्रान्तदेवतानां प्रशंसायां रचितान् मन्त्रान् उच्चारयन् देवताम् आह्वयति, तत्काययि सङ्कलिताः मन्त्राः स्तुतिरूपतया ऋचः समाख्याताः, तेषां सङ्ग्रह एव ऋग्वेदः । एनम् उद्दिश्यम् अभिलक्ष्य व्यासः पेलमृग्वेदं पाठयामास । अध्वर्युर्विधिवद्यज्ञं सम्पादयति, तत्रावश्यकमन्त्रा यजूंषि, तत्सङ्ग्रहो यजुर्वेदस्तदर्थं वैशम्पायनं यजुः पाठितवान् । उद्गाता-उच्चस्वरेण गानकर्त्ता, स हि स्वरबद्धान् मन्त्रानुच्चैर्गायति, तदपेक्षितमन्त्राणां सङ्ग्रहः सामवेदः । व्यासेन कविजैमिनये सामवेदः अध्यापितः । ब्रह्मा — यज्ञनिरीक्षकः कृताकृतावेक्षणकर्ता, स हि सर्वविधमन्त्रज्ञः, तदपेक्षितो मन्त्रराशिः अथर्ववेद इति कथ्यते । यज्ञनिरीक्षणकार्यसम्पादनाय मुनिना व्यासेन सुमन्तुमुनये अथर्ववेदः पाठितः ।

तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः॥

वैशम्पायन एवैको निष्णातो यजुषामुत ॥

अथर्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः ॥'[३८]

शाखया सह ‘चरण'-शब्दोऽपि सम्बद्धोऽस्ति । सामान्यतः उभयोः शब्दयोः प्रयोगः प्रायः समानार्थे एव भवति । मालतीमाधवस्य टीकाकर्तुः जगद्धरस्य कथनानुसारेण - 'चरणशब्दः शाखाविशेषाध्ययन-परैकतापन्नजटासंघवाची' इति। आसां शाखानां विस्तृतविवरणं पुराणेषु, चरणव्यूहे च लभते। विविधेषु ग्रन्थेषु शाखासंख्यायां विपर्ययो वर्तते। भाष्यकारेण पतञ्जलिनोक्तम्—

'चत्वारो वेदाः साङ्गाः सरहस्या बहुधा भिन्नाः॥ एकशतमध्वर्युशाखाः ॥ सहस्रवर्त्मा सामवेदः ॥ एकविंशतिधा वाह्वृच्यम् ॥ नवधाऽर्थवणो वेदः'।[३९] यद्यपि महाभाष्ये ऋग्वेदस्य एकविंशतिशाखाः निर्दिष्टाः परं शाकल-वाष्कल-आश्वलायन-शाङ्खायन-माण्डकायननामधेयाः पञ्चशाखाः सन्ति मुख्याः।

शाकल-शाखा[सम्पादयतु]

सम्प्रति ऋग्वेदस्य प्रचलिता संहिता शाकलशाखीया एवाऽस्ति । शाकलसंहितान्ते ऋक्परिशिष्टनाम्ना षट्त्रिंशत्सूक्तानि सङ्गृहीतानि सन्ति । एतेषु सूक्तेषु कतिपयानि नितान्तप्रख्यातानि बहुशः चर्चितानि च सूक्तानि सन्ति । यथा— श्रीसूक्तम् ( सू० स० ११ ), रात्रिसूक्तम् ( सू० स० २६ ), मेघासूक्तम् ( सू० स० ३१ ), शिवसङ्कल्पसूक्तम् (सू० स० ३३ ) । अन्तिमस्य शिवसङ्कल्पसूक्तस्य प्रत्येकं मन्त्रस्य चतुर्थचरणः 'तन्मे मनः शिवसङ्कल्पमस्तु इत्येतत्पदेन समाप्तो भवति । वाष्कलशाखानुसारेण संज्ञानसूक्तम् ऋग्वेदस्यान्तिमं सूक्तमस्ति । ऋक्परिशिष्टस्य मन्त्राः पुराणेषु वैदिकमन्त्रदृष्ट्या समुद्धृताः सन्ति । श्रीसूक्तस्य द्वौ मन्त्रौ – 'हिरण्यवर्णां हरिणीम्' तथा 'गन्धद्वारां दुराधर्षाम्' पद्मपुराणे समुद्धृतौ स्तः (६॥१५५॥२८॥३०) 'सितासिते सरिते यत्र सज्ञते' स्कन्दपुराणस्य काशीखण्डे ( ७ ।। ४४ ) तथा पद्मपुराणे (६॥२४६॥३५ ), समुद्धृतोऽस्ति । द्वयोः स्थानयोः मन्त्रोऽयं प्रयागपरकोऽस्ति । प्रयागे सिता=गङ्गा, तथा असिता = यमुना तयोः सङ्गमतीर्थस्य विपुलमहिम्नः प्रतिपादकः मन्त्रोऽयमस्ति । ऋक्परिशिष्टस्य मन्त्राः पुराणेषु प्रमाणाय समुद्धृताः सन्ति, तेन एते मन्त्राः विशेषसम्मान्नार्हाः कथ्यन्ते।

वाष्कल-शाखा[सम्पादयतु]

यद्यपि सम्प्रति वाष्कलशाखायाः संहिता समुपलब्धा न भवति, तथाप्यस्याः विशिष्टतायाः वर्णनं विविधेषु स्थलेषु लभते। शाकलशाखानुसारेण ऋग्वेदस्यान्तिमो मन्त्रः ‘समानी व आकूतिः' ( १० । १९१ । ४ ) इति अस्ति, किञ्च वाष्कलसंहितानुसारेण ‘तच्छ्रेयोरावृणीमहे' इत्येव अन्तिमो मन्त्रोऽस्ति । इयं ऋक्, ऋक्परिशिष्टस्य अन्तिमसूक्तस्य अन्तिमो मन्त्रोऽस्ति । अस्मादेव सूक्तात् वाष्कलशाखासम्मत-संहितायाः समाप्तिर्भवति । मन्त्राणां संख्याऽपि कुतश्चिदधिकाऽस्ति । शाकलशाखायां सप्तदशाधिकसहस्रसंख्यकानि (१०१७) सूक्तानि सन्ति । किञ्च वाष्कलशाखायां पञ्चविंशत्यधिकसहस्रसंख्यकानि (१०२५) सूक्तानि सन्ति । एतेषु अधिकाष्टसूक्तेषु एकन्तु संज्ञानसूक्तमस्ति । मन्त्रोऽयमस्याः संहितायाः अन्ते निवेशितोऽस्ति । अवशिष्टसप्तसूक्तानि बाल्यखिल्यसूक्तेभ्यः सङ्गृहीतानि सन्ति । अतोऽस्य मण्डलस्य समस्तसूक्तानां संख्या (९९) नवनवतिर्भवति ।

'एतत् सहस्रं दश सप्त चैवाष्टवतो बाष्कलकेऽधिकानि।

तान् पारणे शाकले शैशिरीये वदन्ति शिष्टानखिलेषु विप्राः।'[४०]

आश्वलायन-शाखा[सम्पादयतु]

आश्वलायनसंहितायास्तथा तेषां ब्राह्मणानां कस्मिंश्चित्समये अवश्यमेवासीत् । यतो हि कवीन्द्राचार्यस्य (१७ शताब्द्याः) सूच्यामेतेषां ग्रन्थानां नामोल्लेखः स्पष्टरूपेणोपलब्धो भवति । सम्प्रति अस्याः शाखायाः गृह्यसूत्रं श्रौतसूत्रञ्चेति समुपलब्धे स्तः।

शाङ्कायन-शाखा[सम्पादयतु]

अस्याः शाखायाः संहिता तु अनुपलब्धाऽस्ति । किञ्च ब्राह्मणारण्यकौ ग्रन्थौ प्रकाशितौ स्तः। शाङ्कायनस्तथा कौषीतकि-शाखा एकैवाऽस्ति इति मतम् अपि प्रसिद्धम्। किञ्च द्वेऽपि शाखे भिन्ने एव स्तः । शाङ्खायनीयसंहितायाः प्रकाशितशाकलशाखानुयायि ऋक्संहितायाः मन्त्रसंहितायां भेदो नाऽस्ति। केवलं मन्त्राणां एव क्रमे भिन्नता वर्तते।

माण्डूकायन-शाखा[सम्पादयतु]

अस्याः अपि शाखायाः ग्रन्थाः अनुपलब्धाः सन्ति । यत्र तत्र समुद्धरणादेव अस्याः अस्तित्वबोधः भवति।[४१] [४२]

ऋचां पदकाराः[सम्पादयतु]

पदकाराः ऋषयः इत्युक्ते मन्त्राणां पदकाराः ऋषयः, ये वेदार्थावबोद्धुं प्रतिमन्त्रस्य अवान्तर्भूतपदानां पृथक्करणं कृत्वा तत्तत् संहितानां पदपाठं निर्मितवन्तः । अनेन पदपाठेन मन्त्राणाम् अर्थस्य सुलभतया अवबोधो भवति । एतेषां पदपाठानां कर्तारः बहवः ऋषयः अभूवन्।

शाकल्यः[सम्पादयतु]

मुख्यलेखः : शाकल्यः

शाकल्यः हि ऋग्वेदस्य पदपाठं प्रस्तुतवान् । बृहदारण्यकोपनिषदि जनकस्य सभायां याज्ञवल्क्येन सह शाकल्यस्य शास्त्रार्थस्य वर्णनं प्राप्यते (अ० ४) । पौराणिकगाथानुसारेण अयं शाकल्यः ऋग्वेदपदपाठस्य रचयिताऽप्यस्ति । यथा

‘शाकल्यः प्रथमस्तेषां तस्मादन्योरथीतरः ॥

वाष्कलिश्च भारद्वाज इति शाखाप्रवर्तकाः ॥ ३२ ॥

देवमित्रश्च शाकल्यो ज्ञानाऽहङ्कारगर्वितः ॥

जनकस्य स यज्ञे वै विनाशमगमद् द्विजः' ॥ ३३ ॥ - ब्रह्माण्डपुराणः, पूर्वभागस्य द्वितीयपादः, अ० ३४

शाकल्यस्योल्लेखः निरुक्ते, ऋक्प्रातिशाख्येऽपि च अस्ति। अतोऽयम् उपनिषत्कालिकः ऋषिः वर्त्तते । यास्केन क्वचित् क्वचित् निजनिरुक्ते अस्य पदपाठः नाङ्गीकृतः । यथा निरुक्ते ५॥२१ ‘अरुणो मासकृत् वृकः’ ( १०॥५॥१८) यास्कस्त्वत्र ‘मासकृत्' इत्येकपदं मत्वा ‘मासानां कर्त्ता' इत्यर्थं कृतवान्। किञ्च शाकल्येनात्र 'मा + सकृत्' इति पदद्वयं स्वीकृतम्। निरुक्ते ( ५॥२८ ) वने ‘न वायो' ( ऋ० १०।२९।।१ ) इति यास्केनोद्धृतः । अत्र शाकल्येन ‘वा + यः = वायः' इति पदद्वयं मन्यते । किश्चास्य पदस्योल्लेखं कृत्वा यास्कस्तु पदद्वयं न स्वीकृतवान् 'वायः' इत्येकपदस्य यास्कसम्मतार्थोऽस्ति ‘पक्षीविशेष' इति । अनेन प्रकारेण निजनिरुक्ते यास्केन क्वचित्क्वचिच्छाकल्यस्य अनुमोदनं न कृतम् । एतदतिरिक्तः रावणकृतपदपाठस्य अप्यस्तित्वं यत्र कुत्राऽपि लभते। रावणस्तु ऋग्वेदस्य भाष्यमपि रचयामास तथा तस्य पदपाठोऽपि कृतवान् । अयं हि पदपाठः शाकल्यस्य नानुकरणमस्ति, प्रत्युत नानास्थलेषु निजबुद्ध्यानुसारेण असौ नवीनपदपाठस्यापि योजनां कृतवान्।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

Text
Translation

सन्दर्भः[सम्पादयतु]

  1. p. 126, History of British Folklore, Richard Mercer Dorson, 1999, ISBN 9780415204774
  2. वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत् ।। १६.३८ कूर्मपुराणम्-उत्तरभागः/षोडशो‍ऽध्यायः
  3. ( तै० सं० ६ ।। ५ ।। १० । ३ )
  4. जर्नल आफ ओरियन्टल रिसर्च खण्ड ८, संख्या ४, १९३४ मद्रासः, तथा ऋग्वेदसंहिता, सं० श्रीपाद दामोदर शातवलेकर औध १९४० ई० पू० सं० ७६७-७६८
  5. (नि० ७-५)
  6. ( ऋ० १ । २३ । १० । )
  7. ( ऋ० वे० १ ।। १६१ )
  8. ऋ० १० ॥ १७८ ॥ २
  9. १० । १९० । ३
  10. (ऋ० १० ।। १५१)
  11. (१° १३ ।। ८४)
  12. ऋ० १० ।। १७८
  13. ( १० ॥ १६९)
  14. ( १० ।। १४६)
  15. ( १० ।। ७१ )
  16. ( १० ।। ७१ ।। ११ )
  17. ( १० । १२९ )
  18. ( १० । ९० )
  19. ( ऋ० १०॥१२९॥२ )
  20. ऋग्वेद: सूक्तं १०.८५
  21. १०/८५/४४
  22. १० ।। ११ ।।
  23. (१०/१४/८)
  24. १०।३४
  25. (बृहद्देवता ६ । ४५ )
  26. स्कन्दमाहेश्वरस्य व्याख्या
  27. (मी० सू० १ । २ ।। १०)
  28. ( तैत्ति० ब्रा० २॥८॥८॥३ एवं निरु० ७ द्रष्टव्यम् । )
  29. (गीता० ३१३)
  30. (ऋग्वे० १०।१४५।१)
  31. (ऋग्वे० १०१६६)
  32. (ऋग्वे० १०॥५८)
  33. (ऋग्वे० १०॥९७॥१५)
  34. (१०।१५१)
  35. (ऋग्० १०॥१४५)
  36. ( १०।१२१ )
  37. वेदार्थदीपिका पृ०५९
  38. (श्रीमद्भागवतपुराणम्/स्कन्धः १/अध्यायः ४)
  39. ( पस्पशाह्निकः )
  40. (अनुवाकानुक्रमणी, श्लो० ३६)
  41. Dr. Gangasagar Rai—"Shakhas of the Rigveda in the Puranas' Puranam' Vol. vi, No I P. P. 235-253.
  42. वैदिकवाङ्मय का इतिहास-प्र० भा० पृ० ७७-१३२
"https://sa.wikipedia.org/w/index.php?title=ऋग्वेदः&oldid=423521" इत्यस्माद् पुनः प्राप्तिः