रावणः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
रावणः
Ravana
लङ्केशः
जन्मस्थलम् विषरख
उत्तरप्रदेशः
भारतम्[१]
निखातस्थानम् लङ्का
पूर्वराजः कुबेरः
उत्तराधिकारी विभिषणः
सङ्गी मन्दोदरी
सन्ततिः मेघनादः
अतिकाया
अक्षयकुमारः
देवान्तका
नरान्तका
त्रिशिरा
प्रहस्ता
राजवंशः राक्षसः
पिता विश्वावसुः
माता कैकसा
धार्मिकविश्वासः शैवमतम् - हिन्दुः - जैनमतम्[२]
लङ्केशः रावणः

रावणः ( ( शृणु) (/ˈrɑːvənəhə/)) (हिन्दी: रावन, आङ्ग्ल: Ravan) रामायणस्य मुख्यपात्रेष्वन्यतमः । लङ्काधिपः एषः प्राचीनभारतेतिहासगतः विशिष्टपुरुषः । प्राचीनकालस्य वर्णसङ्करः सः । रावणस्य पिता ब्राह्मणः विश्वावसुः माता राक्षसकुलसम्भूता कैकसा च । रावणः ब्रह्माणमधिकृत्य दशसहस्रवर्षाणि यावत् तपस्याम् आचरत्। विशिष्टं वरमेकं प्राप्नोति च यद् देवताभ्यः अथवा अन्यशक्तिभ्यः मरणं न प्राप्नुयामिति । रावणस्य दशशिरांसि, विंशतिहस्ताः, ब्रह्मणः वरकारणात् चिरंजीवित्वम्, एवं सर्वस्मात् कारणात् रावणः लोककण्टकः अभवत् । एषः स्वस्य दशशिरोभिः नाम सामान्यानाम् अपेक्षया दशगुणिताधिकसामर्थ्येन चिन्तयति स्म ।

रावणोदयः[सम्पादयतु]

पद्मपुराणं, भागवतपुराणं, कूर्मपुराणम्, रामायणं, महाभारतम्, आनन्दरामायणं, दशावतारचरितम् इत्यादिषु ग्रन्थेषु रावणस्य उल्लेखः कृतः । किन्तु अस्य जन्मनः कथाविषये वैविध्यम् अस्ति ।

  • पद्मपुराणश्रीमद्भागवतानुसारं हिरण्याक्षः हिरण्यकश्यपुः च पूर्वजन्मनि रावणकुम्भकर्णौ अभवताम् ।
  • वाल्मीकिरामायणानुगुणं रावणः पुलस्त्यमुनेः पौत्रः। विश्वावसोः पुत्रः । विश्वावसोः वरवर्णिनी, कैकसा चेति द्वे भार्ये आस्ताम् । वरवर्णिन्याः कुबेरः, कैकसायाः रावणः च पुत्रौ अभवताम् ।
  • तुलसीदासस्य रामचरितमानसानुगुणं रावणस्य जन्म शापस्य कारणेन अभवत् । नारदस्य प्रतापभानोः च कथायाः कारणेन रावणस्य जन्म अभवत् इति ।

रावणजननकथा[सम्पादयतु]

पूर्वं कदाचित् ब्रह्मा अनेकान् जलजन्तून् निर्माय तान् समुद्रजलस्य रक्षणं कर्तुं नियुक्तवान् । तत्र केचन प्राणिनः अवदन् 'वयं रक्षणं कुर्मः' इति । केचन अवदन् ’वयं पूजां कुर्मः’ इति । तदा ब्रह्मा अवदत् ये रक्षणं कुर्वन्ति, ते राक्षसाः, ये पूजां कुर्वन्ति, ते यक्षाः इति कथ्यन्ते । राक्षसेषु हेतिः प्रहेतिः इति दौ सहौदरौ आस्ताम् । प्रहेतिः तपः कर्तुम् अगच्छत् । हेतिः भया इति कन्यां परिणीतवन् । दाम्पत्यफलेन विद्युत्कोशः इति पुत्रं प्राप्तवान् । विद्युत्कोशस्य सुकेशः इति पराक्रमी पुत्रः अभवत् । सुकेशः माल्यवान्, सुमाली, माली इति पुत्रत्रयम् अवाप्नोत् । त्रयः अपि ब्रह्माणम् उद्दिश्य तपः कृत्वा लोकस्य अनुपमं प्रेम लभेमहि अपि च अस्मान् न कोऽपि परास्तान् न कुर्यात् इति वरम् अवाप्नुवन् । वरबलान्विताः एते सुरान् असुरान् च पीडयितुम् समारभन्त । ते विश्वकर्माणम् एकं सुन्दरं नगरं निर्मातुम् अवदन् । तदा विश्वकर्मा लङ्कानगरस्य सङ्केतम् उक्त्वा तत्र प्रेषितवान् । तत्र ते आनन्देन न्यवसन् । कालक्रमेण माल्यवतः वज्रमुष्टिः, विरूपाक्षः, दुर्मुखः, सुप्तघ्नः, यज्ञकोपः, मत्तः, उन्मत्तः, इत्यादयः पुत्राः अभवन् । सः सुमालिः प्रहस्तः, अकम्पनः, विकटः, कालिकामुखः, धूम्राक्षः, दण्डः, सुपार्श्वः, संह्नादिः, प्रधसः, भरकर्णः इति पुत्रान् अलभत । मालिनः अनलः, अनिलः, हरः, सम्पातिः, इति पुत्रा अभवन् । एते सर्वेपि पुत्राः बलवन्तः दुराचारिणः एव अभवन् । प्रतिदिनम् ऋषिमुनीन् पीडयन्ति स्म । कष्टम् असहमानाः ऋषिमुनयः महाविष्णोः निकटम् अगच्छन् । साधूनां रक्षणं करिष्यामि इति सः आश्वासनं दत्तवान् । इमां वार्तां श्रुत्वा ते सर्वेऽपि राक्षसाः मिलित्वा मालिनं सेनापतिं कृत्वा इन्द्रलोकस्य उपरि आक्रमणम् अकुर्वन् । विषयं ज्ञात्वा विष्णुः स्वास्त्रशस्त्राणि अवलम्ब्य राक्षसानां संहारं कर्तुमारब्धवान् । सेनापतिना मालिना सह नैके राक्षसाः हताः । अवशिष्टाः लङ्कापरिमुखं प्रधाविताः । प्रधावतः राक्षसान् यदा नारायणः संहरन् आसीत्, तदा क्रुद्धः माल्यवान् युद्धभूमिमागतः । अन्ते भगवता नारायणेन हतः अपि । शेषाः राक्षसाः लङ्कां त्यक्त्वा सुमालिनः नेतृत्वे पातालम् अगच्छन् । लङ्कायां कुबेरस्य राज्यं स्थापितम् अभवत् । सुमाली भूयः राक्षसकुलं विनष्टं विचिन्त्य पुत्रीं कैकसीम् अवदत् । ’पुत्रि राक्षसानां कल्याणार्थं भवती विश्रवोनामकस्य (पौलस्त्यः) पराक्रमिणः महर्षेः सेवां करोतु । प्रसन्ने तस्मिन् पुत्रभिक्षां याचतु, सः एव पुत्रः अस्मत्कुलं रक्षिष्यन्ति इति । पितुः आज्ञानुसारं कैकसी पुलस्त्यस्य निकटम् अगच्छत् । तस्मिन् समये झञ्झवातः चलति स्म । आकाशे मेघाः गर्जन्ति स्म । तदा कैकस्याः इच्छां ज्ञात्वा विश्रवाः (पुलस्त्यः) अवदत् ’ भद्रे, भवती अवेलायाम् आगतवती । अहं भवत्याः इच्छां पूरयिष्यामि किन्तु पश्चात् भवती दुष्टसन्तानं प्राप्स्यति ’ इति। तस्य वचनं श्रुत्वा कैकसी तस्य चरणयोः निपत्य अवदत् ’भगवन्, भवान् ब्रह्मवादी महात्मा अस्ति । भवतः अपत्यानि दुष्टानि भवितुं न शक्नुवन्ति । अतः भवान् मयि कृपां करोतु । कैकस्याः प्रार्थनाम् अङ्गीकृत्य विश्रवाः अवदत् भवत्याः कनिष्टः पुत्रः सदाचारी धर्मात्मा च भविष्यति इति । कालक्रमेण कैकसी दशमुखं पुत्रम् असूत । अस्य नाम रावणः इति । पश्चात् क्रमेण कुम्भकर्णः, शूर्पणखा, विभीषणः इत्यादीनां जन्म अभवत् । दशकण्ठः कुम्भकर्णः च अतीव दुष्टौ अभवताम् । किन्तु विभीषणः धर्मात्वा दयावान् च अभवत् । रावणः स्वसोदरात् वैश्रवणात् अपि पराक्रमशाली भवितुं ब्रह्माणम् उद्दिश्य तपः समाचरत् । प्रसन्नं ब्रह्माणं रावणः वरं प्रार्थितवान् यत्, गरुडानागयक्षदैत्यदानवराक्षसदेवैः मे मरणं नास्ति इति । मनुष्यः तु दुर्बलः भवति अतः मनुष्येण मरणं न भवतु इति वरं न पृष्टवान् । ब्रह्मा "तथास्तु" इति उक्त्वा तस्य इच्छाम् अपूरयत् । विभीषणः ’धर्मे अविचलितमतेः’ कुम्भकर्णः ’वर्षे अर्धकालं निद्रायाः’ च वरं प्राप्तवन्तौ ।

रावणस्य विवाहः[सम्पादयतु]

कालक्रमेण रावणः लङ्कायाः राजनं कुबेरं कौटिल्येन लङ्कां त्यक्तुं विवशम् अकरोत् । पश्चाद् रावणः राजा भूत्वा सहोदरैः सह लङ्कायां न्यवसत् । लङ्काधिकारप्राप्तेः पश्चात् शूर्पणखायाः विवाहं दानवराजेन विद्युजिह्वा इत्यनेन सह कृतवान् । रावणः स्वयं दितिपुत्रस्य मयस्य कन्यां मन्दोदरीं परिणीतवान् । विरोचनस्य पुत्रस्य बलेः कन्यां वज्रज्वालां कुम्भकर्णः परिणीतवान् । गन्धर्वराजस्य शैलूषस्य कन्यया सरमया सह विभीषणस्य विवाहः अभवत् । कालक्रमेण मन्दोदरी मेघनादः इति पुत्रम् असूत यः अग्रिमे काले इन्द्रं विजित्य इन्द्रजित् इति नाम प्राप्तवान् ।

शङ्करेण दशाननगर्वभङ्गः[सम्पादयतु]

अधिकारमदेन रावणः देवताभ्यः ऋषिभ्यः यक्षेभ्यः गन्धर्वेभ्यः च विविधाः पीडाः दातुम् आरब्धवान् । कदाचित् कुबेरम् आक्रम्य युद्धे पराजितम् अकरोत् । स्वस्य विजयस्य प्रतीकरूपेण कुबेरस्य मनोवेगगमनं पुष्पकविमानं बलात्कारेण स्वीकृतवान् । पुष्पकविमानम् उपविष्टवताम् इच्छानुगुणं लघु अथवा बृहत् भवति स्म । एतादृशे विमाने उपविश्य कदाचिद् रावणः शरवणनामकस्य प्रसिद्धवनस्य उपरि सञ्चरन् आसीत् । तदा भगवतः शिवस्य वाहनं नन्दीश्वरः रावणम् अवरुध्य अवदत् ’ हे दशग्रीव, अस्मिन् वने विद्यमाने पर्वते भगवान् शङ्करः क्रीडति । अत्र सुरासुरयक्षादीनाम् आगमनं निषिद्धम् । नन्दीश्वरस्य वचांसि श्रुत्वा क्रुद्धः रावणः विमानात् अवतीर्य शङ्करस्य निकटम् अगच्छत् । तं निवारयितुं नन्दीश्वरः हस्ते त्रिशूलं गृहीत्वा अपरः शिवः इव पुरतः अतिष्ठत् । तस्य मुखं वानरः इव अस्ति इति दृष्ट्वा रावणः अट्टहासम् अकरोत् । अनेन परिहासेन कुपितः नन्दी 'मम वानरमुखस्य अवहेलनं कृतवतः भवतः नाशम् अपि मादृशः पराक्रमी महाकपिः एव करिष्यति इति ' रावणम् अशपत् । नन्देः वचनम् अवगणयन् रावणः अवदत् । यः पर्वतः मम विमानप्रवासे विघ्नं करोति तं छेदयामि इति वदन् रावणः पर्वतस्य मूले हस्तं स्थापयित्वा उन्नेतुं प्रयत्नम् अकरोत् । यदा पर्वतः कम्पमानः आसीत्, तदा उपरि उपविष्टवान् परमेश्वरः स्वपादाङ्गुष्ठेन पर्वतं निपीडितवान् । अनेन रावणस्य करः अपलपितम् (suppressed) । रावणः उच्चैराक्रोशत् । कथञ्चिदपि सः हस्तं पर्वतछेदात् परित्रातुं न शक्तवान् । तदा क्रन्दन् एव रावणः शिवस्य स्तुतिं कुर्वन् क्षमाप्रार्थनां कृतवान् । शङ्करः तस्मै क्षमां दत्त्वा तस्य प्रार्थनानुगुणं चन्द्रहासः इति खड्गं वररूपेण प्रादात् ।

रावणस्य दुराचारः[सम्पादयतु]

कदाचित् रावणः हिमालयस्य प्रदेशे भ्रमन् अमिततेजस्विनः ब्रह्मर्षिणः कुशध्वजस्य पुत्रीं तपः कुर्वतीं वेदवतीम् अपश्यत् । तां दृष्ट्वा मुग्धः भूत्वा तस्याः समीपं गत्वा तस्याः परिचयं प्राप्य तस्याः अविवाहितजीवनस्य कारणम् अपृच्छत् । तदा वेदवती अवदत् " मम पिता भगवता विष्णुना सह मम विवाहं कर्तुम् ऐच्छत् । माम् इच्छता दैत्यराजेन शम्भुना निद्रितः मे पिता मारितः । पितुः मरणम् असहमाना माता चिताम् आरूढवती । तदारभ्य अहं पितुरिच्छां सम्पूरयितुम् भगवतः महाविष्णोः तपस्यां कुर्वती अस्मि इति । तमेव अहं मम पतिं मन्ये" इति उक्तवती । किन्तु दुराशः रावणः आदौ सरसवचनैः तां वशीकर्तुं बहुप्रयत्नं कृतवान् । यदा सा नाङ्गीकृतवती तदा बलेन नेतुं तां केशेषु गृहीतवान् । वेदवती झटिति गृहीतकेशान् कर्तितवती " रे दुष्ट, त्वं माम् अवमानितवान्, अधुना अहं मम देहत्यागं करोमि । किन्तु तव विनाशार्थं पुनर्जन्म प्राप्स्यामि । अग्रिमे जन्मनि अयोनिजाकन्यारूपेण कस्यचित् धर्मात्मनः पुत्री भविष्यामि इति वदन्ती वेदवती अग्निप्रवेशं कृतवती । कतिपयदिनेषु गच्छस्तु सा सुन्दरकान्तिमत्कमलपुष्परूपेण सरसि अजायत । तेन पुष्पेण आकृष्टः रावणः तत् स्वराजभवनम् आनीतवान् । तदा ज्योतिषि "एतत् कमलपुष्पं भवतः कुलविनाशस्य कारणं भवति" इति उक्तवान् । अतः रावणः तत् कमलपुष्पं समुद्रे प्रक्षिप्य आगतवान् । सा कमलकन्या भूमिङ्गता । कालक्रमेण मिथिलायाः जनकमहाराजस्य यज्ञमण्डपस्य मध्यवर्तिभूभागे आगतवती । राज्ञः हलचलनशास्त्रविधिना पुनः कन्यारूपेण प्राप्ता अभवत् । एवं सा एव वेदवती सीतारूपेण जनकस्य पुत्री अभवत् ।

अनरण्यस्य शापः[सम्पादयतु]

रावणः अनेकान् राज्ञः पराजित्य इक्ष्वाकुवंशस्य नृपस्य अनरण्यस्य निकटम् आगतवान् यः अयोध्यायां शास्ति स्म । रावणः द्वन्द्वयुद्धार्थम् आगच्छतु अथवा पराजयं स्वीकरोतु इति पन्थाह्वानम् अकरोत् । उभयोर्मध्ये घोरं युद्धं प्रावर्तत । किन्तु ब्रह्मणः वरप्रभावात् रावणः पाराजितः नाभवत् । यदा अनरण्यस्य शरीरं तीव्रतया क्षतविक्षतम् अभवत्, तदा रावणः इक्ष्वाकुवंशस्य अपहास्यं कर्तुम् उद्यतः । अनेन कुपितः अनरण्यः ' भवान् अस्माकं वंशस्य उपहासं कृतवान् । अतः महात्मनः इक्ष्वाकोः अस्मिन् वंशे एव दशरथनन्दनः रामः सञ्जाय भवतः हननं करिष्यति इति ' रावणाय शापं दत्तवान् । पश्चात् साक्षात् स्वर्गम् अगच्छत् ।

वालिना सह रावणमैत्री[सम्पादयतु]

कथञ्चिदपि रावणस्य औद्धत्यं क्षीणं नाभवत् । किष्किन्धायाः राजा बलिः बलवान् इति वार्तां श्रुत्वा रावणः युद्धार्थं तत्र गतवान् । तस्मिन् समये वाली सन्ध्योपसानार्थं सागरतीरं गतवान् । सः एव भवता सह योद्धुं शक्नोति । भवान् कञ्चित्कालं प्रतीक्षां करोतु इति वालिनः पत्नी तारा, तारायाः पिता सुषेणः, युवराट् अङ्गदः वालेः सोदरः सुग्रीवः च रावणम् अवदन् । पुनः सुग्रीवः अवदत् "अग्रे शङ्खस्य राशिः इव शैलः दृश्यते सः मानवास्थ्नां राशिः, ये वालिना सह योद्धुम् आगत्य वीरमरणम् अवाप्नुवन् । यद्यपि भवान् अमृतं पीत्वा आगतवान्, तथापि वाली क्षणे एव भवतः जीवनं समापयति । यदि मरणं प्राप्तुं भवतः त्वरा अस्ति, तर्हि दक्षिणसागरस्य तीरं गच्छतु । भवते वालिनः दर्शनं तत्रैव भवति" इति । सुग्रीवस्य वचनं श्रुत्वा रावणः सहसा विमानारूढः दक्षिणसागरतीरम् आगच्छत् । तत्र वाली सन्ध्योपासनं करोति स्म । तूष्णीं वालेः उपरि आक्रमणं करोमि इति विचिन्त्य रावणः निकटं गतः । किन्तु वाली समीपमागच्छन्तं रावणम् अपश्यत् । किन्तु वाली किञ्चिदपि अविचलितः सन् वैदिकमन्त्रान् उच्चारयन् एव अतिष्ठत् । तं ग्रहीतुं रावणः पृष्ठतः हस्तौ प्रासारयत् । वाली सतर्कं तं गृहीत्वा कक्षे निरुद्ध्य आकाशे उड्डीय गतः । रावणः पुनः पुनः वालिनं नखैः दारयति स्म । तदा रावणस्य मन्त्री अनुचराः च रावणं मोचयितुं क्रोशयन्तः प्रधावन्तः आगताः किन्तु वालिनः समीपं प्राप्तुम् अशक्ताः । एवं वाली रावणं गृहीत्वा पश्चिमसागरस्य तीरं गतः । तत्र तस्य सन्ध्योपासनं पूर्णम् अकरोत् । पश्चात् दशाननं स्वीकृत्य किष्किन्धापुरीम् आगच्छत् । स्वस्य राजोद्याने उपविश्य रावणं स्वकक्षात् अवतार्य, "भवान् कः ? किमर्थम् आगतः ?" इति तम् अपृच्छत् । तदा रावणः "अहं रावणः लङ्कायाः राजा भवता समं युद्धं कर्तुमागतः । किन्तु अहं भवतः बलं दृष्टवान् । इदानीमहम् अग्निं साक्षिणं कृत्वा भवतः मित्रताम् इच्छामि " इति अवदत् । पश्चात् अग्निसाक्ष्या परस्परं मित्रता अभवत् ।

रावणस्य गुणाः[सम्पादयतु]

रावणः दुष्टस्वभायुतः राक्षसः । किन्तु तस्मिन् केचन गुणाः अपि आसन् । एषः बुद्धिमान् पूजानुष्ठाननिरतः ब्राह्मणः शङ्करस्य परमभक्तः । तेजस्वी प्रतापी पराक्रमी, रूपवान् विद्वान् च इति वाल्मीकिः निष्पक्षपातेन अस्य गुणान् अपि वर्णितवान् अस्ति। वेदचतुष्टयस्य विख्यातः ज्ञानी, महाविद्वान् इति रामायणे रावणस्य सभायां हनूमतः प्रवेशावसरे उक्तवान् । यथा...

अहो रूपमहो धैर्यमहोत्सवमहो द्युतिः।
अहो राक्षसराजस्य सर्वलक्षणयुक्तता॥

प्रथमवारं रामः रावणं दृष्ट्वा मन्त्रमुग्धः भूत्वा अवदत् रूपेण सौन्दर्येण, कान्त्या, धैर्येण, सर्वलक्षणेन युक्ते रावणे यदि अधर्मः बलवान् न अभविष्यत्, तर्हि एषः स्वर्गाधिपतिः अभविष्यत् इति । यत्र रावणः दुष्टः पापी चासीत्, तत्र एव तस्य शिष्टाचारः आदर्शाः गौरवं चासीत् । रामस्य वियोगेन दुःखितां सीतां रावणः एवम् अवदत् " हे सीते, यदि भवत्यै मयि कामभावः नास्ति तर्हि अहं भवत्याः स्पर्शम् अपि न करोमि । शास्त्रानुसारं वन्ध्या, रजस्वला. अकामा, इत्यादयः स्त्रियः अस्पृश्याः। एवं सीताम् अस्पृश्य रावणः गौरवस्य मर्यादां नातिक्रान्तवान् । वाल्मीकिरामायणे रामचरितमानसे च द्वयोः ग्रन्थयोः रावणस्य महत्वं रक्षितम् । राक्षसी माता, ब्राह्मणः पिता इति कारणेन परस्परविरोधगुणाः तस्मिन् सहजतया आसन् ।

बलासाहेब पन्त-महोदेयन निर्मितं रावणवधस्य चित्रम्

रावणस्य दशशिरः[सम्पादयतु]

रामायणे रावणस्य दशशिरोविषये चर्चा अस्ति । सः कृष्णपक्षस्य आमावास्यायाम् युद्धार्थं गतवान् । प्रतिदिनं तस्य शिरसः एकैकशः छेदः अभवत् । अन्ततः शुक्लपक्षदशम्याम् अस्य वधः अभवत् । रामचरितमानसे एवं वर्णनमस्ति यत् रामेण बाणेन कर्तिते रावणमुण्डे पुनः नूतनं मुण्डम् अङ्कुरति स्म । वास्तवे अस्य दशशिरांसि कृत्रिमाणि आसन् । राक्षसीयमायया एषः शिरांसि सृजति स्म । अपि च तस्य दश शिरांसि आसन्, नाम एकस्मिन् शिरसि एव दशानां बुद्धिः, कार्ययोजनायाः क्षमता, कौशलं , निर्णयसामर्थ्यं च आसन् इति भावः ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रावणः&oldid=316379" इत्यस्माद् पुनः प्राप्तिः