ब्रह्मा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
ब्रह्मा
शक्तिविशेषः त्रिमूर्तिः
निवासः ब्रह्मलोकः
मन्त्रः ॐ ब्रं ब्रह्मणेय नमः
सहधर्मी सरस्वती
वाहनम् राजहंसः
ब्रह्मा
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

ब्रह्मा जगतः प्रवर्तकः । जगतः पालनकर्ता विष्णुः,संहारकर्ता शिवः तथैव ब्रह्मा सृष्टिकर्तारूपेण स्थितः। वैदिकदेवता प्रजापतेः साकं अस्य अभेदः कल्पितुं शक्यते। किन्तु वेदान्तदर्शनस्य सर्वोच्चदिव्यसत्त्वा ब्रह्मोऽपलब्धिः योऽस्ति स तु भिन्नविषयः। ब्रह्मा अर्थात् प्रजापतिः ऋग्वेदे प्रधानदेवतात्वेन महिमामण्डितः। परन्तु संहिताकालस्य मुख्यदेवता अस्मिन् युगे गौणोऽभवत् । तथा गौणदेवता मुख्योऽभवत् । क्वचित् नवीनदेवतायाः परिकल्पनाऽप्यस्ति । ऋग्वेदस्य गौणदेवतासु प्रजापतिः अग्रगण्योऽस्ति । ऐतरेयब्राह्मणस्यारम्भे एव विष्णोः परमदेवत्वस्य सूचना प्राप्यते - 'अग्निर्वे देवानामवमो विष्णुः परमः'[१] रुद्राय महादेवशब्दस्य प्रयोगः ब्राह्मणग्रन्थेषु स्पष्टतया उल्लिखितोऽअस्ति। प्रजापतेः पदं तु देवानाम् अग्रस्थानीयमस्ति । प्रजापतिरेव जगतः स्रष्टा अस्ति । प्रजापतिः देवानामपि स्रष्टाऽस्ति । प्रजापतिरेवास्य भूतलस्य सकलपदार्थानां सृष्टिकर्ताऽस्ति। स एव देवताः उत्पन्नं कृत्वा तासु बलस्य विभाजनं करोति । अनेन एव उर्जाविभागेन उदुम्बरवृक्षस्य जन्म बभूव । अतः प्रजापतेः महिमा ब्राह्मणग्रन्थेषु सर्वतो महीयानस्ति । 

अविधा[सम्पादयतु]

संस्कृतव्याकरणदृष्ट्या 'ब्रह्मन्' इति प्रातिपदिकस्य पृथक् द्वे शब्दरूपे प्रचलतः। एकं रूपं 'ब्रह्मन्' इति नपुंसकलिङ्गे प्रचलति। यस्य कर्तरि प्रथमाया एकवचनर रूपं भवति ' ब्रह्म'। अस्य विशेष्यस्य साधारण-विमूर्तश्च द्वौ अर्थौ स्तः।
अपरपक्षे पुं-लिङ्गे ' ब्रह्मन् ' इति शब्दरूपस्य प्रथमाएकवचनरूपं ' ब्रह्मा ' भवति। अस्य प्रयोगः जगतः प्रवर्तकरूपेण एव प्रसिद्ध:। अस्य विषयैव अस्माकं निबन्धः।

उपाख्यानम्[सम्पादयतु]

सृष्टेः प्रारम्भकाले ब्रह्मणा प्रजपतयः रचिता। एते प्रजापतय एव मानवानाम् आदिपितरः भवन्ति। मनुस्मृतौ एतेषां नामानि वर्तन्ते।(मारीचि, अत्रिः, अङ्गिरसः, पुलस्तः, पुलहः, क्रतुजः, वशिष्टः, प्रचेतसः वा दक्षः, भृगुः, नारदश्च ) एते ' सप्तर्षिः' नाम्ना ख्यातः। एते ब्रह्मणः मानसपुत्राः भवन्ति। यथा अस्य (ब्रह्मणः) देवतानां विषये हस्ताक्षेपः न तथा नश्वरानां (मानवानां) विषये भवति। ब्रह्मा अत्रि-धर्मयोः पितारूपेऽपि स्थितः।

Thumb

स्वरूपम्[सम्पादयतु]

ब्रह्मा अरुणवस्त्रं परिधरति। ब्रह्मा चतुर्भुजः चतुर्मुखश्च। इतरदेवतावत् ब्रह्मा अस्त्रं वा शस्त्रं वा न धरति। सः एकहस्ते दण्डम् अन्यहस्ते पुस्तकञ्च धरति। जपमाला तथा वेदाः इतरहस्तौ भवन्ति।

साङ्केतिकलक्षणानि[सम्पादयतु]

  • (ऐत० १।१, ता० ब्रा० ६।।९।। ७९ )
"https://sa.wikipedia.org/w/index.php?title=ब्रह्मा&oldid=424931" इत्यस्माद् पुनः प्राप्तिः